II.141 स्पन्दो नामेति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा हि नव
आत्मनो गुणा विशेषगुणा भवन्ति, नान्ये । तत्रायमात्मस्पन्दः बुद्धिर्वा
स्यात्, प्रयत्नो वा, इच्छाद्वेषयोरन्यतरो वा ? अन्ये तु विकल्प
यितुमपि न युक्ताः । तत्र यदि बुद्धिरात्मस्पन्द उच्यते—तर्हि प्रतिभा
वाक्यार्थ इत्युक्तं भवति; न नूतनं किंचिदुत्प्रेक्षितमेतत् ॥


अथ प्रयत्न आत्मस्पन्दः, तर्हि भावनाया नामान्तरकरणमुद्योगैति ॥


अथ इच्छाद्वेषयोरन्यतरोऽसौ—तर्हि सुखेच्छा, दुःखजिहासा वा
वाक्यार्थ इति अक्षपादपक्ष एवायं, नापूर्वं किचित् ॥


अथापि भाट्टपरिकल्पितो व्यापार आत्मास्पन्दः,—सोऽपि भावनैव,
नार्थान्तरम् ॥


अथानुष्ठेयः प्रेरकः कश्चिदर्थ उद्योगः—स तर्हि नियोग एव;
793उपसर्गान्यत्वमिदं, न वस्त्वन्यत् ॥


तस्मादश्रुतपूर्वेण कृतमुद्योगपर्वणा ।

794भारतमनुष्याणां गोचरो न तु मादृशाम् ॥

वाक्यपदीयोक्तः प्रतिभाया वाक्यार्थत्वपक्षः


अन्यैस्तु प्रतिभा वाक्यार्थ इष्यते । तत्पक्षस्तु संसर्गनिर्भासज्ञाननि
राकरणेन प्रागेव प्रतिक्षिप्पः ॥


प्रतिभा खलु विज्ञानं तच्च शब्देन जन्यते ।

न तु शब्दस्य विषयः रूपधीरिव चक्षुषः ॥

बाह्यस्य विषयस्याभावात् सैव विषय इति चेत्, न तस्य
समर्थितत्वात् ॥


  1. उत्, नि इति उपसर्गभेदमात्रम् ॥

  2. भारतमनुष्याणां, उद्योगर्वेत्यादिः नर्मोक्तिः ॥