II.360

अष्टममाह्निकम्—प्रमेयपरीक्षा


शरीरपरीक्षा


आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात् तदनुक्रमेण तत्स्वरूप
निरूपणार्थमाह—


चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ २-२-३२ ॥


शरीरस्य यल्लक्षणं, येन रूपेण विभाव्यमानस्यापवर्गोपयोगिता तदु
भयमपि प्रतिपाद्यते ॥


शरीरलक्षणम्


तत्र शरीरत्वमेव तावत् प्रथमं शरीरस्य लक्षणम् । तेन हि समाना
समानजातीयकेभ्यः तद्व्यवच्छिद्यते । तस्मिन् सत्यपि चेष्टेन्द्रियार्था
श्रयत्वं यदस्य लक्षणमुच्यते, तत् तेन रूपेणात्मनो भोगायतनं शरीरमिति
ज्ञापयितुम् । चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मनो भोगसाधनं भवति ।
मुमुक्षुणा1218सुखदुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगम
विनिहितमनसा तथा भोगाधिष्ठानत्वेन शरीरं भावयता तत्परिहरणे
यत्नः कार्य इति आचार्यः चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान् ॥


चेष्टास्वरूपम्


ननु ! चेष्टा क्रिया । क्रियाश्रयत्वे सत्यपि न वृक्षादीनां शरीर
त्वमिति अतिव्यापकं लक्षणम्—न—विशिष्टचेष्टाश्रयत्वस्य विशिष्ट
II.361 प्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात् । हिताहितप्राप्तिपरिहारयोग्यव्यापा
राधिकरणं हि शरीरमुच्यते, न चेष्टामात्रस्याधिष्ठानम्1219 । रथादिना
ऽपि नातिव्याप्तिः, यथोक्तप्रक्रमवशादेव अन्येन प्रेरणायामसत्याम् इति
विशेषलाभात् । आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षहिताहितोपादानपरि
त्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः ॥


शरीरलक्षणे दोषपरिहारः


ननु ! पाषाणान्तर्गतमण्डूकशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिः—
न—योग्यताया—स्तत्रापि भावात् । सत्यामपि क्रियायोग्यतायां सर्वतो
निर्विवरनिबिडदृषत्कर्परोपरुद्धावकाशतया चलितुमसौ न प्रभवति भेको
वराकः । तथा च स्फुटिते तस्मिन्नश्मनि तत्क्षणमेवासौ चलत् दृश्यते
इति निबिडपाशसंयतशरीरवत् तदानीं चेष्टाया अदर्शनेऽपि नाव्याप्तिः ॥


मुमुक्षुशरीरनियमाभावः


मुमुक्षुशरीरमेव लक्ष्यमित्येके । तेन न मण्डूकशरीरादिभिरव्याप्तिः,
अलक्षणीयत्वात्तेषामिति—तदयुक्तम्—नियतस्य मुमुक्षुशरीरस्याभावात्
तादृशिं च भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति । मुमुक्षुरपि
कर्मविपाकमनेकप्रकारमाकलयन् मण्डूकीभावमात्मनोऽपि न न
शङ्कते ॥


प्रत्यासन्नापवर्गपुरप्रवेशविपश्चित्तममपश्चित्तममपश्चिमजन्मानं मुमुक्षुं
प्रति लक्षणाद्युपदेशः क्वोपयुज्यते ? इत्यतः पूर्वोक्त एवाव्याप्तिपरि
हारः श्रेयान् ॥


II.362

इन्द्रियाश्रयत्वपरीक्षा


भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम् । इन्द्रियाश्रयत्वं तु कथम् ?
भौतिकानि हीन्द्रियाणि स्यावयवसमाश्रितानि घ्राणरसननयनस्पर्शनानि ।
श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रिते एवेति कथमिन्द्रियाश्रयता शरीर
स्येति—


उच्यते—नात्र आधाराधेयभाव आश्रयार्थः; किन्तु तदनुग्राह्य
त्वात्तदाश्रितानि इन्द्रियाप्युच्यन्ते । देशकालदशानुकूलपथ्यभोजना
भ्यङ्गव्यायाममर्दनाद्युपचारोपचितशरीरस्य हि पुंसः पदुतराणि स्ववि
ग्रहणे भवन्तीन्द्रियाणि । दीर्घाध्व1220लङ्घनकदशनशुष्कजरत्पुरन्ध्री
सेवनादिक्लिष्टशरीरस्य तु पुंसः मन्दशक्तीनि भवन्ति तदनुग्राहकत्वादि
न्द्रियाणामाश्रयः शरीरम् ॥


अर्थाश्रयत्वलक्षणपरीक्षा


अर्थानां तु रूपरसगन्धादीनां केषां चिदाश्रयः शरीरं भवत्येव तत्स
मवायिनाम् । न तु तावता किंचिद्भोगायतनत्वोपयोगि रूपमभिहितं
भवति ॥


लक्षणमपि तदतिव्यापकं रूपरसादिसमवायस्य वृक्षादावपि भावात् ।
तस्मात्—तदर्थाश्रयत्वमीदृशमत्र विवक्षितम् । य एते परवनितादि
शरीरवर्तिनः प्रविकचमुचुकुन्दकुन्दकन्दलकुमुदकुड्मलादिबाह्यविषय
समवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृद्धिहेतवो भवन्ति
भोक्तुरात्मनः शरीरे सति, न शरीररहितस्येति अर्थानां भोगसाधनभावा
दाश्रयः1221 शरीरम् । अतः सुष्ठूक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति ॥


II.363

तदित्थं भोगायतनत्वेन बन्धहेतुत्वाद्धेयमित्यर्थः । तदिदानीमस्म
दादिशरीरं किं पर्थिवम्, किं वा नानाभूतनिर्मितमिति परीक्ष्यते ॥


शरीरस्य पार्थिवत्वविचारफलम्


ननु ! किमनया परीक्षया प्रयोजनम् ?


निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः ।

सोऽनेकप्रकृतित्वेऽपिस तस्य विशिष्यते ॥

मैवं वोचः—


प्रतिपन्नस्वरूपस्य चिन्त्या कार्योपयोगिता ।

कार्या कार्यार्थिनोऽप्यादौ यत्नस्तद्रूपनिर्णये1222

तथा चेन्द्रियाणि भौतिकत्वाहङ्कारिकत्वादिवेकेन परीक्षिष्यन्ते ॥


अर्था अपि कति, किंगुणा इति ॥


बुद्धिरपि किं प्रधानस्य प्रथमो विकारः महच्छब्दवाच्यः, उत
आत्मन एव धर्मो ज्ञानाख्यः क्षणिकः ? इत्येवं सर्वत्र द्रष्टव्यम् ॥


मानवशरीरस्य पार्थिवत्वादिविकल्पाः


तत्र पाथिवमेवास्मदादिशरीरमिति केचित् । असाधारणो हि
धरणिधर्मः गन्धस्तस्मिन्नुपलभ्यत इति ॥


II.364

पृथिव्युदककारणमित्यन्ये । क्लेदस्यापि तस्मिन् दर्शनात् । असति
हि सलिलसंसर्गे न पार्थिवावयवाः क्लेदमनुभवन्तीति ॥


क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलंभा
दिति ॥


वसुमतीसलिल1223सितेतररणिसमीरणरचितमिति चान्ये, रचना
विशेषस्य पवनकार्यस्य तत्रावधारणादिति ॥


अवनिवनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाश
स्याप्याकाशकार्यस्य तत्र दर्शनात् । सुषिरं हि शरीरमुपलभ्यते । अवकाशे
चाकाशैकदेशेऽप्यवच्छेदाभिप्रायेण श्रोत्रवत् भक्त्या तत्कार्यत्वव्यपदेश
इति ॥


मानवशरीरस्य पार्थिवत्वम्


तदत्र किं तत्त्वम् ? पार्थिवमेवास्मदादिशरीरमिति, विजातीय
कार्यस्यावयविनोऽनुपपत्तेः । पार्थिवावयवसमवेतशरीरावयविग्राहिण
स्त्वभेदप्रत्ययस्य तृणपर्णपाषाणमूलकाद्यभेदप्रत्ययवत् अपवादासंभवात् ।
न वयमिह भूतान्तराणां कारणभावनिषेधं शिक्ष्मः । केवलपार्थिवतया
निर्विवादेऽपि कुम्भादावम्भःप्रभृतीनां कारणत्वानपायात् । तद्व्य
तिरेकेण घटादेर्घटयितुमशक्यत्वात् ॥


किन्तु घटादाविव शरीरेऽपि समवायिकारणं पृथिव्यवयवानेवा
चक्ष्महे1224, तदाश्चितत्वस्यास्य प्रत्यक्षेण ग्रहणात् । सहकारिकारणानु
II.365 प्रविष्टभूतान्तरसंबन्धनबन्धनस्तु तिस्मन् क्लेदोष्मव्यूहावकाशसं
प्रत्ययः । तद्यथाऽऽगमपठितेषु वरुणलोकादौ केवलजलादिजन्येषु शरी
रेषु सहकारित्वानुप्रविष्टपार्थिवावयवोपष्टम्भवशेन स्थैर्याद्युपलंभ
इति । तस्मादस्मदादिशरीरं पार्थिवम् ॥


शरीरस्य पार्थिवत्वं वेदसंमतम्


वेदे च तथैव व्यवहारो दृश्यते । अग्नीषोमीयादिपशोः प्रलयकाले,
यजमानस्य वा प्रेतस्य पात्रचयनकर्मणि सूर्यं चक्षूर्गमयतात् इत्यु
पक्रम्य, पृथिवीं ते शरीरम् इति पठ्यते । तच्च प्रकृतिगामित्व
वचनम् । यद्यतः प्रकृतेरुत्थितं तत्तस्यामेव लीयतामित्यर्थः । तत्र यथा
तैजसं चक्षुरिति सूर्याख्ये तेजसि तद्गमनमुपदिष्टम्, एवं पृथिव्यां शरीर
स्येति ॥


तस्मात्पृथिव्यवयवैरयमस्मदादि-

देहो निबद्ध इति नात्र सतां विवादः ।

सोऽयं च दुःखवसतेर्भवमन्दिरस्य

स्तम्भः कठोर इति यत्नत एव हेयः1225

इन्द्रियपरीक्षा


घाणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः ॥ १-१-१२ ॥


अत्र इन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यसक्षणं प्रसिद्धमेव ।
विभागोऽपि पंचबाह्येन्द्रियाणीत्येष सूत्रित एव । स चानन्तरमेव तीर्थान्त
रकथितकर्मेन्द्रियानिषेधात् साधयिष्यते ॥


II.366

चक्षुरादिलक्षणम्


विशेषलक्षणानि तु पंचानां पंच समाख्यानिर्वचनसामार्थ्यात् प्रमाण
वदवगन्तव्यानि ॥


जिघ्रत्यनेनेति घ्राणं गन्धं गृह्णातीति, गन्धोपलब्धावसाधारण
कारणं घ्राणम् ॥


रसयत्यनेनेति रसनं, रसं गृह्णातीति रसोपलब्धावसाधारणं
कारणं रसनम् ॥


चष्टेऽनेनेति चक्षुः, रूपं पश्यतीति रूपोपलब्धावसाधारणं कारणं
क्षुः ईक्षणं लोचनं तदुच्यते ॥


स्पृश्यत्यनेनेति स्पर्शनम्, स्पर्शं गृह्णातीति स्पर्शोपलब्धावसाधारणं
कारणं स्पर्शनम् ॥


स्पर्शनमिति वक्तव्ये त्वग्ग्रहणं 1226उपचारात् मंचाः क्रोशन्ति
इतिवत् तदधिष्ठानत्वं दर्शयितुम् । यथा त्रिपुटिकाधिष्ठानं घ्राणं,
जिह्वाधिष्ठानं रसनम्, गोलकाधिष्ठानं चक्षुः, तथा त्वगधिष्ठानं स्पर्शनम्,
शिरःप्रभृत्यापादाङ्गुष्ठं स्पर्शोपलम्भात् । त्वगिति च न बाह्यमेव चर्म
केवलमुच्यते, अपि तु सकलशरीरव्यापि; तुहिनकणशिशिरसलिलपान
समये अन्तर्हृदयेऽपि शीतस्पर्शोपलम्भादिति ॥


इन्द्रियाणामाश्रयाः


स्वावयवसमवायित्वेऽपि चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्वं आश्रय
त्वमात्रापेक्षयोच्यते, न समवायित्वादिति ॥


II.367

शृणोत्यनेनेति श्रोत्रं, शब्दं गृह्णातीति शब्दोपलब्धावसाधारणं
कारणं श्रोत्रम् । तच्चाकाशैकदेशत्वादनाश्रितमपि कर्णशष्कुल्यधिष्ठान
मुच्यते । तदेवं विशेषलक्षणानि पंच पंचनामुक्तानि भवन्ति ॥


इन्द्रियाणां बन्धहेतुत्वम्


तानीमानीन्द्रियाणि स्वविषयग्रहणलक्षणानि आत्मनो भोगसाधन
त्वात् संसारकारणानीति हेयतया भावयितव्यानि । तथा भाव्यमानानि
निर्वेदोत्पादनादिद्वारेण अपवर्गाय कल्पयिष्यन्त इति ॥


इन्द्रियाणां भौतिकत्वम्


भूतेभ्यः इति किमर्थम् ? उक्तं हि इन्द्रियाणां स्वविषयग्रहण
लक्षणत्वम् । तत्र न भूतग्रहणं लक्षणार्थम्, अपि तु तद्विनिश्चयार्थम् ।
यथा आप्तोपदेशः शब्दः इत्यत्राप्तग्रहणं लक्षणविनिश्चयार्थम् । स्वस्व
विषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति
नान्यथेति ॥


इन्द्रियाणां भौतिकत्वं कीदृशम् ?


तानि पुनरिन्द्रियाणां कारणानि पृथिव्यप्तेजोवायुराकाशमिति
भूतानि । एभ्यः पंचभ्यः—यथासङ्ख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि
पंश्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावत्वं व्याख्यायमानं
पंचस्वपि संभवति । भूतकारणकत्वं तु अन्येषु1227 चतुर्ष्वपि तथैव । श्रोत्रे
तु कथंचित् कर्णशष्कुल्यवाच्छिन्ननभोभागाभिप्रयेण व्यवहारतः समर्थ
नीयम् । एवं सति भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्स
हन्त इति तल्लक्षणत्वमेषां—सिद्ध्यतीति । अतो भूतेभ्यः इत्युक्तम् ॥


II.368

इन्द्रियाणां प्राप्यकारित्वे सांख्यपक्षः


ननु ? एतत्परीक्षणीयं वर्तते । किं भौतिकानामिन्द्रियाणां स्ववि
षयग्रहणकरणत्वं, उतान्यथेति ॥


एवं हि साङ्ख्याः संप्रवदन्ते—आहङ्कारिकाणीन्द्रियाणि अर्थं
साधयितुमर्हन्ति, नान्यथा । तथा हि—कारकं कारकत्वादेव प्राप्यकारि
भवति । भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये
भवेयुः । आहङ्कारिकाणां तु तेषां व्यापकत्वात्1228 विषयाकारपरिणामा
त्मिका वृत्तिर्वृत्तिमतोऽनन्या सती संभवत्येवेति सुवचं प्राप्यकारित्वम् ॥


इन्द्रियाणामाहंकारिकत्वे युक्तिः


अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते, न भौतिकत्वे ।
भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं गृह्णीयात्; अस्ति
च गोलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं, हीनपरिमाणस्य च वट
धानादेः । अतोऽपि न भौतिकानीन्द्रियाणि ॥


भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि
दृष्टम् । एवमिन्द्रियाण्यपि पटादिस्वरूपं प्रकाशयन्ति स्वरूपमपि
प्रकाशयेयुः । न च प्रकाशयन्तीत्यतोऽपि न भौतिकानि ॥


इन्द्रियाणां प्राप्यकारित्वे सिद्धान्तः


अत्राभिधीयते—यत्तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत
इति जल्पितवानसि, तन्मन्ये—नूनं त्वया गोलकमेव चक्षुरिति चेतसि
II.369 गृहीतम्; अन्यथा कथमित्थमकथायव्यः । स चायमायुष्मतो महान्
भ्रमः । न खलु कृष्णसारं चक्षुः; तदधिकरणं तु तेजः चक्षुः ।
तच्च वेगवद्द्रव्यत्वात् दूरमपि प्रसरतीति कोऽस्य प्राप्यकारितायां
मादः ॥


चक्षुषः गोलकरूपत्वाक्षेपः


ननु ! गोलकेऽपि चिकिप्सादिप्रयोगात्, गोलकगुणदोषानुवर्तित्वाच्च
विषयोपलब्धेः गोलकमेव चक्षुः स्यात् । अनुपलभ्यमानं च तेजः
कथमिन्द्रियमुच्यते । कथं च तेजसा वेगवतापि विस्फारिते चक्षुषि
सहसैव योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत ?
कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथित
प्रभावेन महीयसाऽपि मिहिरमहसा प्रतिहतगति भवेदिति भास्कर
दर्शनं इत्थं न सम्पद्येत । तेजःपक्षे च काचाभ्रकपटस्पटिकान्त
रितपदार्थोपलब्धिः कथं समर्थ्येत । तस्माद्वरं शक्तिविशेषयुक्तं गोलक
मेव, साधो ! चक्षुरभ्युपगच्छेति ॥


चक्षुषः गोलकातिरिक्तत्वम्


उच्यते—न खलु भवदनुशासनेन युक्तिविरुद्धमर्थमभ्युपगच्छामः ।
प्राप्यकारि हि कारकं दृष्टम् । कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ?
शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां
न गोलकमात्रमाश्रयो भवितुमर्हति, अप्राप्यकारित्वप्रसंगादिति
तदधिकरणं1229 तेज एव शक्तेराश्रयो भवेत् ॥


II.370

इन्द्रियाणामप्राप्यकारित्वपक्षः


ननु च ! 1230प्राप्यकारित्वमेव चिन्त्यं वर्तते । तद्धि रसनस्पर्शनयोः
केवलमवलोक्यते लोके । चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी
कथं प्राप्यकारिणी स्याताम् ॥


घ्राणं तु त्रिपुटिकानिकटनिहितपदार्थगन्धमपि गृह्णाति, दूरतोऽपि च
प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते । त्रिपुटितकोप
कण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष1231 इति तदप्यप्राप्यकार्येव तस्मा
च्छक्तिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् । उत्सृज्यतां
प्राप्यकारित्वपक्षः


चक्षुषि चन्द्रार्कग्रहादिग्राहिणि नितरां प्राप्यकारित्वमित्युक्तमेव ॥


इन्द्रियाणां प्राप्यकारित्वपक्षः


अत्रोच्यते—न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः । कारकत्वमेव तथा
सत्येषामुत्सृजेम । कारकं च, अप्राप्यकारि चेति चित्रम् ॥


अदृष्टमपि कारणमात्मनो व्यापकत्वात् तद्वत्तिधर्माधिकं नाप्राप्य
कारि भवेत्; किमुत दृष्टं चक्षुरादि कारकमिति ॥


अप्राप्यकारित्वे च शक्तेरविशेषणात् कुड्यादिव्यवहितमपि वस्तु
चक्षुषा दृश्येत । तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यत इति चेत्—किं
शक्तः कल्प्यताम्, किं तेज इति संप्रधारणायां तेजसो द्रव्यत्वात्
व्यवधानादि अनुगुणम्, अमूर्तायास्तु शक्तेः व्यवधानमबाधकं भवेदिति
तेज एवेन्द्रियं कल्पनीयं, न शक्तिः, शक्तिमदधिष्ठानं वा ॥


II.371

प्राप्यकारित्वोपपादनम्


प्राप्यकारिता च श्रोत्रस्य तावत् वीचीसन्तानसदृशशब्दपरम्प
रारम्भणद्वारेण दर्शिता शब्दाधिकरणे ॥


घ्राणस्यापि समीरणान्दोलितकुन्दलतादिप्रसृततत्परिमाणनिकराधि
करणगन्धग्रहणात् प्राप्यकारिता । न च परमाणूनामपसर्पणे द्रव्यपरि
क्षयाद्याशंकनीयम्; भूयस्त्वात्परिमाणूनाम् । अत एव गन्धद्वारकतद्द्रव्य
सम्पर्कदोषनिर्हरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति ॥


चक्षुषस्तेजः प्रसरणात् प्राप्यकारिता । अनुपलभ्यमानं तेज इति
चेत् किं चन्द्रमसः परभाग उपलभ्यते, पृथिव्याश्चाधोभागः ? न खलु
प्रत्यक्षैकशरणाः पदार्थाः । अनुमानादिभिरप्येषामुपलम्भः सम्भवत्येव ।
उक्तं चानुमानम् । रूपोपलब्धिकार्येण तैजसमेव चक्षुरनुमीयते ।
तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति ॥


चाक्षुषतेजसः अप्रत्यक्षत्वम्


प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत1232 इति चेत्—उच्यते
—विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति । तद्यथा
—सर्वतः प्रसरता बहलबहलेन शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्त
शिशिरौ ऋतू भवतः । निराधारस्य शीतस्पर्शगुणस्यानुपलब्धेः । अथः
सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलब्धिः, न शुक्ल
रूपस्येति ॥


तेजोद्रव्येण च निरर्गलं विजृम्भमाणेन भूयसा ग्रीष्मो भवति ।
तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणम्, न भास्वर
रूपस्येति ॥


II.372

भास्वरं च कार्तस्वरादौ तैजसद्रव्ये रूपमुपलभ्यते, नोष्णस्पर्शः ॥


उदकान्तर्गते च तेजसि ज्वलनतप्ते जले ज्वलनगुणः उष्णस्पर्शोऽनु
भूयते, न भास्वरं रूपमिति ॥


एवमिह नयनरश् तेजसि द्रव्ये द्वावपि रूपस्पर्शौ नोपलभ्येते
इति कमुपालभेमहि ॥


उक्तं च 1233दृष्टानुमितानां च नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य
तत्त्वविषयत्वात्
न्या. सू-3-150 इति ॥


चक्षुस्तेजसः क्वचिदुपलंभः


न च सर्वत्र नयनरश्मेरनुपलम्भः । क्वचिद्धि 1234पृषदंशप्रभृतीनां
नक्तंचरणां निशि निबिडतमतमःपकपटलावलिप्ते वेश्मनि संचरतां
चाक्षुषं तेजः भास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव । अन्यत्र
मध्यन्दिनोल्काप्रकाशवदग्रहणमस्मदादिनयनरश्मेः ॥


अयं तु विशेषः—उल्कारूपस्य दिवाकरकरविभवाभिभूतत्वाद
ग्रहणम्, नयनरश्मिरूपस्य त्वनुद्भतत्वादेवेति ॥


काचाद्यान्तरितानां ग्रहणोपपत्तिः


यत्तु काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्बनं; तत्र काचादीनां
केषांचित् अतिस्वच्छत्वात्, केषां चिच्च सुषिरत्वात् चाक्षुषतेजःप्रसर
निरोधकौशलं नास्तीति नाप्राप्यकारित्वं चक्षुषस्वावता भवति ॥


II.373

चाक्षुषतेजसः वेगातिशयः


यत्तु—कुतो नयनरश्मेरीदृशी गतिः, गगनमाक्रम्य यद्गभस्तिमालिनं
स्पृशति, न प्रतिहन्यते च सावित्रेण वेगवता तेजसेति—उक्तमत्र दृष्टानु
मितानां नियोगप्रतिषेधानुपपत्तिरिति । कार्यत्तया हि तथाविधं
कारणं कल्प्यते, यद्दूरमपि प्रसरति, प्रसरदपि परेण न निरुध्यते । दृष्ट
श्चानिरोधो भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धेः । कलशे
च निषिक्तानां अपां बहिःशीतस्पर्शग्रहणात् अनिरोधः । एवं नयनरश्मे
रपि भविष्यति । न तु गोलकस्यैव शक्तिकल्पना लघ्वीति वक्तव्यम्,
प्राप्यकारिकारकस्वरूपपरित्यागप्रसङ्गात् । प्राप्यकारीणि चक्षुःश्रोत्रे,
त्वगादिवत् इति ॥


इन्द्रियाणां आश्रयातिरिक्तत्वम्


अत एव सर्वेन्द्रियाणां प्राप्यकारित्वम् पश्यद्भिः शास्त्रज्ञैः इन्द्रि
यार्थसन्निकर्षः षट्प्रकारो व्याख्यातः । प्राप्यकारिता च न गोलकस्योप
पद्यते, तदप्राप्तस्य पर्वतादेग्रहणात्, प्राप्तस्य च प्रत्युतांजनशलाकादेर
ग्रहणात् । अतो न गोलकं चक्षुः ॥


गोलकसंस्कारेण चक्षुषः अतिशयलाभः


1235चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते ।

सोऽयमाधारसंस्कारः आधेयस्योपकारकः ॥

अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानम्, आधार
द्वारकै हि तदाधेयस्यैव तौ गुणदोषाविति । तस्मात् अप्राप्तविषय
II.374 ग्रहणानुपपत्तेः गोलकचक्षुःपक्षः भिक्षूत्प्रेक्षितः प्रेक्षावतां हृदयेषु न विश्राम्य
तीति प्राप्यकारि तेज एव चक्षुरिति स्थितम् ॥


इन्द्रियाणां आहंकारिकत्वानुपपत्तिः


इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धेः न कापिलकथित
माहङ्कारिकत्वमिन्द्रियाणामुपपद्यते ॥


ननु ! पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भोतिकत्वं प्रत्य
भिनिवेशातिशयो भवतामिति—उच्यते—1236एकप्रकृतिकत्वे हीन्द्रियाणां
एकमेव सर्वविषयप्रकाशनकुशलमिन्द्रियं भवेत्, सर्वाणि वा सर्वविषय
ग्राहीणि भवेयुः, कारस्याविशेषात् । कारणनियमाधीनो हि कार्य
नियमः । अहङ्काराख्यं च कारणं सकलविषयप्रकाशनशक्तियुक्तम् ।
इन्द्रियाण्यपि तथा भवेयुः । एकविषयप्रकाशनशक्तियुक्ते तस्मिन् कथ
मिन्द्रियान्तराणि विषयान्तरग्राहीणि भवेयुः ? भोतिकत्वे तु भूतानां
भेदात् नियतगुणोत्कर्षयोगित्वात् नियतविषयग्राहीन्द्रियप्रकृतित्वम् ॥


तथा च प्रदीपादितेज रूपरसाद्यनेकविषयसन्निधानेऽपि रूपस्यैव
प्रकाशकमुपलब्धम् । अतस्तेजःप्रकृति चक्षुरिन्द्रियमपि रूपस्यैव
प्रकाशकं भवितुमर्हति । एवमिन्द्रियान्तरेष्वपि वक्तव्यम् । तदेष
विषयनियमः प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि ॥


चक्षुरादिभिः रूपादिग्रहणोपपत्तिः


यद्येवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणम् ? पृथिव्या
एव वा ? आप्येन च रसनेन पार्थिवस्य रसस्य; वायवीयेन स्पर्शनेन्द्रियेण
II.375 च पृथिव्यादिस्पर्शस्य ? तदिदं प्रकृतिनियमेऽपि कथं विषयसांकर्यमिति
—नैषदोषः—रूपादिविषयविषयोऽपि ह्येषां नियमः न तदाश्रयविषयः ।
तैजसं हि प्रदीपादि द्रव्यं रूपमेव प्रकाशयद्दृश्यते, न तेजोवृत्त्येव रूपम् ।
प्यमपि द्रव्यं रसमेव व्यनक्ति, न तु सलिलस्थमेवेति । घ्राणे तु न
कश्चिद्दोषः, तद्ग्राह्यस्य गन्धस्य पृथिव्येकवृत्तित्वादिति ॥


द्रव्यस्यापि दर्शनस्पर्शनग्राह्यत्वमविरुद्धमित्थं भौतिकत्वेऽपीति ॥


इन्द्रियैः महद्वस्तुग्रहणोपपत्तिः


यत्तूक्तं महदणुग्रहणान्न भौतिकानीन्द्रियाणीति—परिहृतं तत्
गोलकाद्यधिष्ठानातिरिक्तस्येन्द्रियस्य दर्शितत्वात् । तच्च विततत्व
द्विततग्राहि भवत्येव । विततेनापि च तेजसाऽणुद्रव्यं प्रकाश्यमानं दृश्यते
दीपादिना तण्डुलादीति । अतोऽपि नाहङ्कारिकत्वम् ॥


इन्द्रियैः स्वगुणाग्रहणम्


यत्पुनरभ्यधायि—भौतिकत्वे परगुणवत् स्वगुणस्यापि प्रकाशक
मिन्द्रियं स्यादिति—तदयुक्तम्—सगुणस्येन्द्रियस्येन्द्रियभावात् । इन्द्रियेण
हि सता तेन विषयः परिच्छिद्यते । सगुणस्य चास्येन्द्रियत्वं, स्वगुण
रहितं तत् इन्द्रियमेव न स्यात् । अनिन्द्रियं च कथं ग्राहकम् ? अतः
इन्द्रियगुणानां प्रमाणकोट्यन्तःपातित्वात् न तत्प्रमेयत्वम् । तस्मा
द्भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् ॥


इन्द्रियाणां भौतिकत्वसाधकानुमानम्


प्रयोगस्तु—पार्थिवं घ्राणं, द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव
व्यंचकत्वात्, 1237गन्धयुक्तिद्रव्यवत् । तत्र व्यंजकत्वमात्रमनैकान्तिक
II.376 मिति गन्धस्यैव विशेष्यते । सोऽयमसिद्धो हेतुर्भवेत्, गन्धत्वस्यापि
घ्राणव्यङ्ग्यत्वादिति रूपादिमध्य इत्युक्तम् । तथापि सन्निकर्षेण
व्यभिचार इति तद्व्युदासाय दृश्यत्वे सतीति विशेषणम् ॥


एवं रसनादिष्वपि प्रयोगा रचनीयाः । श्रोत्रं त्वाकाशैकदेश इति शब्दा
धिकरणे निर्णीतम् । गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतुभूत
धर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तद्वशात् यथा यथा नियत
विषयग्रहणरणता घटते, तथा तथा कल्प्यत इति सर्वमनवद्यम् ॥


त्वगिन्द्रियैकान्तवादः


आह—भवन्तु भौतिकानीन्द्रियाणि; पंचेति तु न युक्तमुक्तम् ।
त्वगेव ह्येकमिन्द्रियं भवितुमर्हति, सर्वत्रानपायात् ॥


करतलकपोलकण्ठादिवर्तिनाऽपि त्वगिन्द्रियेण रूपोपलम्भप्रसङ्ग
इति चेत्—न—1238अवयवविशेषे शक्तिविशेषनियमात् । न हि पाणिना
पादेन वा उपस्थकार्यं कर्तुं शक्यते । अस्ति च अवयवविशेषे स्वभाव
विशेषवैचित्र्यम् ॥


तुषारकर्पूरापूर्णवारिण्युत्तरमानसे1239

यथा च वृषणौ स्नातुः स्फुटतो न तथा स्फिचौ ॥

क्लिन्नार्द्रतृणकाष्ठादिधूमेन कटुना यथा ।

मूर्धाक्षिवेदनोदेति न तथाऽवयवान्तरे ॥

तस्मात् अवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमि
न्द्रियमिति ॥


II.377

त्वगिन्द्रियैकान्तवादनिरासः


उच्यते—कुतोऽयमपूर्व एष महाप्राज्ञो वादी 1240सरलमतीनस्मान
वंचयितुमागतः, योऽवयवविशेषे शक्तिविशेषमाश्रयन्नपि एकमिन्द्रिय
मन्यते । शक्तिभेदादाश्रयभेदाच्च नानात्वमेवैतदिन्द्रियाणां युक्तमित्यल
महात्मभिस्सह कलहेन ॥


मनुष्यैस्सह संवादो मादृशानां हि शोभते ।

देवास्तु नररूपेण त इमे भान्ति वादिनः ॥

चक्षुःश्रोत्रयोरेकैकेन्द्रियत्वम्


ननु ! 1241नानात्वपक्षेऽपि पंचत्वनियमः कथम् ।

द्वे श्रोत्रे चक्षूषी द्वे च कथं ते एकमिन्द्रियम् ॥

आह च—सव्यष्टस्येतरेण प्रत्यभिज्ञानात्—गौ. सू. 3-1-7 इति ।
चक्षुष्टवजातेरेकत्वादिति चेत्—तर्हीन्द्रियत्वजातेरेकत्वात् एकमेवेन्द्रियं
स्यात्—उच्यते—चक्षुस्तावत्तेज इति निर्णीतम् । तच्चैकमेव, तदधिष्ठा
नमप्येकमेव घोणावंशव्यवहितमनेकमिवोपलभ्यते ॥


भिन्नं वा तद्भवतु । तेजस्तत्ककार्यैक्यात् आश्रयभेदेऽप्येकमेव श्रोत्र
मपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यम्, कार्यैक्यस्य
तत्रापि भावात् ॥


II.378
तेनाधिष्ठानभेदेऽपि कार्यैकत्वस्य दर्शनात् ।

तत्सामान्यस्य चैकत्वात् एकत्वं श्रोत्रचक्षुषोः ॥

न चेन्द्रियजातेरैक्यात् एकमिन्द्रियम्; कार्यस्योपलब्धिलक्षणस्य
कारणस्य गन्धादेः अधिष्ठानस्य त्रिपुटिकादेः गतेश्च बहिःप्रसरणात्मि
कायाः, आकृतेश्च परिमाणस्वभावाया जातेश्च घ्राणत्वादेः, जातिशब्द
वाच्यस्य योनेर्वा पृथिव्यादेः पंचविधत्वात् पंचैवेन्द्रियाणि कल्प्यन्ते । यथा
परमाणुत्वसामान्याविशेषोऽपि पृथिव्यादिचतुर्विधकार्यदर्शनात् चतुर्विधाः
परमाणवः कल्प्यन्त इति ॥


कर्मेन्द्रियाणामावश्यकता


ननु ! तथापि न पंचेन्द्रियाणि । कथम् ? 1242बुद्धीन्द्रियवत् कर्मे
न्द्रियाणामपि पंचानामुपसंख्येयत्वात् । तदुक्तम्—


वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः ॥

तेषां च वचनादानविहरणोत्सर्गानन्दात्मकपंचविधकार्यसाधनादि
न्द्रियत्वं, तत्कार्यस्यानितरेतरसाध्यत्वादिति ॥


अतिरिक्तकर्मेन्द्रियनिरासः


अत्राह—अत्यल्पमिदमुच्यते—पंच कर्मेन्द्रियाणीति । अन्यान्यपि खलु
न सन्ति कर्मेन्द्रियाणि ? तथा हि—कण्ठोऽन्ननिगरणेन, स्तनकलशा
लिङ्गनादिना वक्षः, भारवहनेन चांसद्वयं इन्द्रियमुच्यते न कथम् ?
तत्कार्यस्य शरीरावयवान्तरेऽपि दर्शनादिति चेत्—किन्नु भवानन्नपानं
II.379 पाणिपादेन निगिरति ? पायुना वा ? आदानमपि किमास्यादिना वा
न कुर्वते तिर्यंचः मनुष्या अपि हि क्वचित् । असत्स्वपि च भवत्कल्पि
तेषु—कर्मेन्द्रियेषु तत्कार्यं यावत् तावदन्यथापि दृश्यते । न त्वेवं बुद्धी
न्द्रियेषु ॥


भवत्युत्पाटिक्षस्य न मनागपि रूपधीः ।

ईषद्विहारादानादि दृष्टं लूनाङ्घ्रिपाणिषु ॥

कर्मेद्रियाणामतिप्रसक्तत्वम्


अपि च विहरणमपि न केवलं चरणयुगलकार्यम्, अपि तु जानूरु
जङ्घादिसहितपादसम्पाद्यमानमपि । आदानमपि बाहुसहिताभ्यां,
पाणिभ्यामभिनिर्वर्त्यते, न केवलाभ्याम् ॥


वागिन्द्रियं तु नाभेरूर्ध्वं सर्वमेव स्यात् । एवं ह्याहुः—'वायुर्नाभेरु
त्थितः उरसि विस्तीर्णः कण्ठे विवर्तितः मूर्धानमभिहत्य परावृत्तः वक्त्रे
चरन् विविधान् शब्दानभिव्यनक्ति इति । अस्ति चेदृगनुभवः जल्पतां,
विशेषतस्त्वखण्डगेयं गायतामिति । एवंच कर्मेन्द्रियमयमेव विश्वमिति
न शरीरमिन्द्रियव्यतिरिक्तं किंचिद्भवेत् ।


अथ शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियवहारः, तर्हि
कण्ठादिभिरतिप्रसङ्ग इत्युक्तम् ॥


उपस्थेन्द्रियं च कथमेकं गण्यते, तेनानन्दवत् मूत्रोत्सर्गस्यापि
साधनात् ॥


1243 1244 II.380

वाचः इन्द्रियत्वानुपपत्तिः


वागिन्द्रियं तु सुतरामहृदयङ्गमम् । संयोगविभागनिर्वर्त्यो बाह्यः
शब्द उपलभ्यते । तद्भेदाच्च भिद्यते । यादृशो हि भेरीदण्डसंयोगजः
शब्दः, न तादृशः 1245कूर्मीकोणसंयोगजः । एवं विचित्रस्थानकरणसंयो
गात् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किंचित् ॥


लोकश्च वाक्च्छब्देन वर्णात्मकमेव शब्दे व्यपदिशति । शब्दश्चे
न्द्रियविषयः, नेन्द्रियम् । तस्मादनेकविधदुःखोपभोगक्षेपक्षमकर्मपरि
णामनिर्मितमेतच्छरीरं तैस्तैरवयवैः तं तं कर्भफलोपभोगमात्मनः संपादय
तीत्यलं एवंविधेन्द्रियल्पनार्जवेन ॥


मन एकमेवान्तरिन्द्रियम्


अन्तःकरणस्यापि त्रैविध्य1246मनुपपन्नम्, एकेन मनसैव पर्याप्तेः ।
बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्यं, न तु करणम् । अहङ्का
रोऽपि ज्ञानविषय एव, न करणम् । एतच्च सविस्तरं बुद्धिलक्षणे
वृक्ष्यामः । तस्मात् न त्रयोदशविधं1247 करणमिति सिद्धम् ॥


न्यूनाधिकत्वशमनादत इन्द्रियाणि

पंचैव बाह्यविषयाधिगमक्षमाणि ।

अन्तस्सुखादिविषयग्रहणोपयोगि

षष्ठं मनस्तु कथयिष्यति सूत्रकारः ॥

II.381
तस्मादिमानि विषयप्रसभोपभोग-

लुब्धानि चोरचटुलानि यथेन्द्रियाणि

पुंसो भवाब्धिपतितस्य विवेकरत्नं

आनन्ददायि न हरन्ति तथा विधेयम् ॥

इन्द्रियार्थपरीक्षा


गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥
॥ १-१-१४ ॥


तदर्थाः इत्यत एवापकृष्य वा, प्रक्रमाद्वा अर्थाः इति लक्ष्यपदं
दर्शयितव्यम् । तदर्थाः इति लक्षणम् । तदिति प्रक्रान्तेन्द्रियपरामर्शः ।
तेषां अर्थाः विषयाः इन्द्रियविषया अर्था इत्यर्थः । एतच्च तेषां सामान्य
लक्षणम् । गन्धरसरूपस्पर्शशब्दा इति विभागः ॥


इन्द्रियलक्षणानि


विशेषलक्षणं तु पुनः तदर्थाः इत्येवं योजनीयम् । तदिति घ्राणा
दीनां विशेषसंज्ञानिर्दिष्टानामवमर्शः । एवंच घ्राणस्य विषयो गन्धः,
रसनस्य विषयो रसः—इत्यादिविशेषलक्षणमुक्तं भवति । गन्धत्वादीनां
तु घ्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणोपा
दानम् । ते चामी गन्धादयः इन्द्रियार्था भोग्यास्सन्तः सक्तिहेतवः संसार
माणमावहन्तीति हेयतया भावयितव्याः1248


II.382

गन्धादीनां रागहेतुत्वम्


ननु एवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्य1249 रागहेतोर
संग्रहः स्यात् । वक्ष्यति च तन्निमितं त्ववयव्यभिमानः इति । संख्या
परिमाणादिगुणान्तराणामपि रागहेतुत्वमस्त्येव । यथा हि बर्हिकलापानु
कारिपरिमृदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति
हृदयं यूनां, तथा तद्गता बहुत्वसंख्याऽपि । उत्तप्तकनकशिलानिभ
नितम्बबिम्बरूपवत् तत्परिमाणमपि । हरति च सरभसमवयवसंयोग
विभागाद्यपि ॥


तथा कन्दुकादिक्रीडासु किसलयितविलासरसमधुरपरिभ्रमणादि
कर्मजातम् ॥


तथा अन्त्यजात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सर्व
द्रव्यगुणकर्मादि 1250क्तिकारणमनुक्तं स्यात् ॥


सूत्रयोजनायां पक्षभेदः


तत्र केचित्—पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते—पृथि
व्यादीनि च गुणाश्चेति । पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्य
मुक्तम् । आश्रितत्वविशेषणाभ्यां सर्वे गुणा इति । गुणग्रहणेन संख्या
परिमाणादिवत् कर्मसामान्याद्यपि सर्वमुक्तम् । अतो नासंग्रह इति ॥


तदिदमनुपपन्नम्—गन्धादिग्रहणस्य हि तदानीमानर्थक्यम्, गुणाश्च
इत्यनेनैव गतार्थत्वात् । 1251विशेषख्यापनार्थं तदुपादानमिति चेत्; तर्हि
किं द्वन्द्वसमासवर्णनेन ? अयमेवास्तु समाधिः ॥


II.383

रूपरसादीनामिन्द्रियार्थत्वे विशेषः


यद्यपि द्रव्यकर्मसामान्यानां अन्येषां च संख्यापरिमाणादिगुणानां
अस्त्येव सक्तिहेतुता—तथापि प्राधान्येन गन्धादीनामेव सा दृश्यते । न
हि रूपादिनिरपेक्षस्य द्रव्यस्य संख्यादेः सामान्यस्य वा सक्तिहेतुत्वं सम
स्तीति रूपादय एव मुख्यं रागकारणम्1252 । तत्र झटिति बुद्धेः प्रसरणात् ।
उक्तं च—


तथापि नितरां रागवृद्ध्यै रूपादयो नृणाम् ।

त एव कविभिर्गीताः पंचेषोः पंच सायकाः ॥

तस्मात् पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान् । गुण
व्यतिरिक्तश्च गुणी पूर्वमेव साधितः यमहमद्राक्षं, तं स्पृशामि इति
प्रत्ययप्रामाण्यात् ॥


पृथिव्यादीनां गुणविभागः


पृथिव्यादीनां गुणा इति यदुक्तं, दिदानीं विभज्य वर्ण्यते, कस्य
कति गुणा इति । तत्र—


गन्धादयो नियोक्तव्याः चत्वारः पृथिवीगुणाः ।

अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु ॥

गन्धवर्जं रसरूपस्पर्शाः अपाम्, रसवर्जं रूपस्पर्शौ तेजसः, रूपवर्जं
स्पर्श एव वायोः इति । आकाशस्य तु गुणः शब्दः ॥


II.384

भूतानामेकैकगुणवत्त्वनिराकरणम्


ननु ! नायं गुणविनियोगः साधीयान् । पृथिव्याश्चतुर्गुणत्वे पार्थि
वेन घ्राणेन्द्रियेण चतुर्णामपि तद्गुणानां ग्रहणं स्यात् । एवमुत्तरेष्वपि
वक्तव्यम् । तस्मादेकैकगुणत्वमेव भूतानामुच्यताम्1253—नैतदेवम्—न हि
गुणाः स्वेच्छया लभ्यन्ते । किन्तु यथोपलभ्यन्ते, तथा व्यवस्थाप्यन्ते ।
प्रतीतिप्रमाणका हि वयम् । तत्र—पार्थिवे द्रव्ये चतुर्णामपि गुणानां
उपलंभात् कथमेकगुणां पृथिवीं ब्रूमः । रूपैकगुणे च तेजसि, पृथिव्युद
कयोः वायुवदरूपत्वादप्रत्यक्षत्वं स्यात्1254 । तस्मात् त्रीणि रूपवन्ति
तव्याणि ॥


सर्वस्य सर्वगुणवत्त्वनिराकरणम्


यद्येवं सर्वेषां सर्वत्रोपलंभात् सर्वाणि सर्वगुणानि भवन्तु भूतानि ।
पटपटायते पृथिवी, चलचलायन्ते आपः, धगधगायते तेजः । कथकथा
यते वायुः इति सर्वेषां गुणः शब्दः स्यात् । उच्यते—न सर्वे गुणाः सर्व
त्रोपलभ्यन्ते । निर्गन्धानामपां सर्वत्र दर्शनात् । क्लिन्नरूपादौ तु पार्थि
वावयवसंक्रान्त्या गन्धः पयस्युपलभ्यते ॥


शब्दस्याकाशमात्रगुणत्वम्


एवं सुवर्णे तैजसे द्रव्ये, संयुक्तसमवायात् रसाद्युपलब्धिः । शब्दस्तु
सर्वकालमाकाशवृत्तिरेव प्रतीयते । पृथिव्याद्यवयवसंयोगविभागप्रभव
स्त्वसाविति तदाश्रितत्वभ्रममावहति, न त्वकाशाद्विना तस्य ग्रहणमिति ।
II.385 आकाशगुण एव शब्द इत्येतच्च प्राङ्निर्णीतम् । तस्मात् न सर्वेषां सर्व
गुणत्वम् ॥


इन्द्रियाणां विषयनैयत्यम्


यच्च पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवघ्राणेन्द्रिय
ग्राह्यत्वं स्यादिति—तन्न—1255गुणोत्कर्षस्य नियामकत्वात् । सातिशयगन्ध
गुणाधिकरणैर्विजातीयद्रव्यावयवसंस्पर्शलेशरहितैः केवलपृथिव्यवयवैरदृष्ट
सहकारिभिः घटितं घ्राणेन्द्रियमिति गन्धस्यैव ग्राहकम् ॥


तत्तदिन्द्रियेषु तत्तद्गुणस्य प्राधान्यम्


एतदेव च भूयस्त्वमाचक्षते । यथाऽऽह कणव्रतः—भूयस्त्वाद्गन्धव
त्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः
। इहाप्युक्तं—तद्व्यवस्थानं तु भूय
स्त्वात्
इति । दृश्यन्ते च केवलपृथिव्यवयवोपादानेष्वपि पदार्थेषु व्यव
स्थितकार्यनियमाः शक्तयः । यथा—


पार्थिवत्वाविशेषेऽपि विषं मरणकारणम् ।

1256अगदद्रव्यमन्यत्तु जीविताय प्रकल्पते ॥

तस्मादपर्यनुयोज्योऽयं पार्थिवेन घ्राणेन गन्धवत् तद्रसादयोऽपि कथं
न गृह्यन्त इति ॥


इन्द्रियैः स्वगतगुणग्रहणाग्रहणे


सातिशयप्रकृतिगुणयोगेऽपि न च स्वगुणग्रहणनैपुण्यमिन्द्रियाणामिती
न्द्रियचिन्तायां निर्णीतम् । श्रोत्रेण तु स्वगुणस्य शब्दस्य ग्रहणमिति परि
II.386 शेषानुमानप्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमति
प्रसङ्गेन ॥


इति निपुणधियामसम्मतैषा

सकलगुणैकगुणत्वकल्पना ।

तदयमकलुषोऽभ्युपेयतां

गुणविनियोगविधिर्यथोदितः ॥

इन्द्रियाणां विमर्शनस्य फलम्


तेऽमी ज्ञेयाः कृतकमधुरं रूपमादर्शयन्तः

तिक्तोद्गाराः परिणतिविपत्कारिणो हीन्द्रियार्थाः ।

त्यक्ताश्चैते व्यपगतमहामोहपङ्केन पुंसा

तीर्णश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः ॥

—इतीन्द्रियपरीक्षा—


बुद्धिपरीक्षा


बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ॥ १-१-१५ ॥


ननु ! पर्यायोच्चारणमेतत्, न बुद्धेर्लक्षणाभिधानम्—न—पर्यायप्रयोग
स्यैव लक्षणक्षमत्वात् । लक्षणं हि तदुच्यते—येन समानेतरजातीयेभ्यः
लक्ष्यं व्यवच्छिद्यते । व्यवच्छिद्यते च बुद्धिः बुद्ध्यादिपर्यायवाच्यतयैव
तेभ्य1257 इति नाभिधानमालामात्रमिदम् ॥


1258 II.387

सूत्रस्य लक्षणपरत्वम्


ननु ! सामयिकत्वाच्छब्दार्थप्रत्ययस्य, समयस्य च पुरुषेच्छानुवर्ति
त्वात् कथमिदं व्यवस्थितं लक्षणं स्यात् ?—मैवम्—सार्वजनीनस्य
समयस्य विप्लावयितुमशक्यत्वात् । तद्विशिष्टस्य तद्वाच्यस्य लक्षण
त्वात् ॥


प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत्, शिंशपाचोद्य
मिदम् । तस्मिन्नप्युक्तेऽनुयुंजीत भवात् इत्थं किमिति नीक्तम् इति ॥


बुद्धिलक्षणविचारः


अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य, यत् सांख्यानां
व्यामोहनिरसनम् । एवं हि साङ्ख्याः संगिरन्ते—बुद्धिरन्या, ज्ञानमन्यत्,
उपलब्धिरन्येति । तद्भ्रयापनयनायेदमुच्यते—बुद्धिरुपलब्धिर्ज्ञानर्मित्य
नर्थान्तरम्—एक एवार्थ इत्यर्थः । इत्थं च स्वरूपतो निर्ज्ञाता बुद्धिः भोग
स्वभावत्वात् तत्साधनत्वाच्च संसारहेतुरिति हेयत्वेन भाव्यते, सुखादि
बुद्धिः भोगः, तत्साधनबुद्धिस्तु भोगसाधनमिति । कथं पुनः पारमर्षाः
प्रवदन्ति, बुद्धिरन्या, ज्ञानमन्यत्, उपलब्धिरन्येति ? नित्यां हि बुद्धिं ते
मन्यन्ते ॥


सांख्यसंमतबुद्धिपरीक्षा


तत् किमात्मैव तैः बुद्धिरिति गृहीतः ?—न—अचेतनायाः भोग्यायाः प्रकृतेः
थमा विकृतिः महच्छब्दवाच्या बुद्धिः1259 । पुरुषस्तु चेतनः भोक्ता अन्य
II.388 एव । ताविमौ प्रकृतिपुरुषौ विवेकेनापश्यतां संसारः । प्रकृति
पुरुषविवेकज्ञानान्मोक्षः इति ॥


प्रकृतिस्वरूपम्


का पुनः प्रकृतिर्नाम ? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्या
वस्था प्रकृतिः । प्रधानमव्यक्तं च तदुच्यते, यत्साम्यावस्थागतं गुण
त्रयमिति ॥


ननु ! तत्सत्त्वे किं प्रमाणम् ? अनुमानमित्याह । तथा हि चरा
चरमिदं विश्वं सुखदुःखमोहाविनाभूतमुपलभ्यते । न हि ब्रह्मादौ स्तम्ब
पर्यन्ते जगति तथाभूतं किमपि भूतमुपलभ्यते, यत् सुखदुःखमोहैर्विना
कृतम् ॥


तत्र सुखस्वभावं सत्त्वम्, दुःखस्वभावं रजः, मोहस्वभावं तमः ।
सर्वत्र च प्रीत्यप्रीतिविषादर्शनात् प्रकाशप्रवृत्तिनियमावगमाच्च सर्वं
त्रिगुणात्मकं जगत् । कार्यं च यत् परस्परान्वितरूपं तदेकरूपात्कारणादु
त्पद्यमानं दृश्यते । मृदन्वितानि हि घटशरावोदंचनप्रभृतीनि कार्यस्यै
कस्मान्मृदात्मनः कारणादुद्भवन्ति । तदिदं विश्वं सुखदुःखमोहान्वित
मिति 1260तदात्मककारणकार्यं भवितुमर्हति । यत् सुखदुःखमोहात्मकं कारणं
सा सत्त्वरजस्तमोरूपा प्रकृतिः ॥


प्रकृतिसाधकानुमानान्तराणि


एवमन्वयपुरस्सराः परिमाणादिहेतवोऽपि वक्यव्याः । इयत्तया वा
चतुरश्रतादिना वा परिमाणेन तद्वतां कार्याणामेकप्रकृतित्वदर्शनात् ।
II.389 विषमवृत्तयश्चैते गुणाः कार्येषु दृश्यन्ते । क्वचित्सत्त्वमाधिकम्, ऊने
रजस्तमसी । क्वचिद्रजः प्रकृष्टम्, अल्पे सत्त्वतमसी । क्वचित्तमः प्रवृद्धम्,
तुच्छे सत्त्वरजसी इति । तदेषां वैषम्यभेदोपदर्शितविश्वरूपकार्याणां
क्वचित् साम्यावस्थया भाव्यम् । सा प्रकृतिरुच्यते । सेयमचेतना
भोग्या प्रकृतिः । अस्यास्तु भोक्ता चेतनः पुरुषः ॥


सांख्योक्तपुरुषानुमानप्रकारः


पुरुष इदानीं किनुमाकः ? उक्तमेव भोग्येन भोक्तुरनुमानम् ।
न ह्यचेतनस्य—भोग्यस्य भोक्तारमन्तरेण भोग्यतैवोपपद्यते । दृष्टा च
1261सेति भोक्ता कल्प्यते ॥


स च चितिशक्तिस्वभावक एव सर्वप्रकारकर्तृत्वादिव्यहार
निर्वहबहिष्कृतस्वरूपः1262 । द्रष्टृत्वमेव पुरुषस्य स्वरूपमाहुः । यथा
भवन्त एनमात्मानमध्यवसायादिधर्मयोगिनं मन्यन्ते, न तथाऽसौ भवितु
मर्हति; अध्यवसायादेर्बुद्धिधर्मत्वात् ॥


कर्तुं शक्नोति पुरुषः तृणस्यापि न कुब्जताम् ।

अन्योपनीतमर्थं तु स पश्यत्येव केवलम् ॥

प्रकृतेरेव सर्वकर्तृत्वम्


प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति । न च निर्विकारा सती
भोगसंपादनसमर्थाऽसौ भवतीति महदादिविकृतीः प्रतिपद्यते । पङ्गबन्ध
न्यायेन प्रकृतिपुरुषौ संयुज्येते । प्रकृतिरचेतना दृश्या भोग्या द्रष्टारं
II.390 भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते ।
इत्येवं तयोः पङ्ग्वन्धवत् संयोगो भवति । दर्शनशक्त्या पङ्गोः, गमन
शक्त्या चान्धस्य एकत्र मेलनात् कार्यसिद्धिः । एवं प्रकृतिपुरुषसंयोगात्
सर्गः प्रवर्तते तदुक्तम्—


पुरुषस्य दर्शनार्थः कैवल्यार्थः तथा प्रधानस्य ।

पङ्ग्वन्धवदुभयोरपि संयोगः, तत्कृतः सर्गः ॥ सां-का-11

बुद्धेः परिणामभेदाः


यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते, सा बुद्धिरध्यवसायात्मिकां
धर्मज्ञानवैराग्यैश्यर्य1263तद्विपर्ययरूपवृत्तियोगिनी महत्तत्त्वमुच्यते ॥


बुद्धेरहङ्कार उदेति । स चाभिमानस्वभावः ॥


1264अहंकारात्तु घ्राणादीनि पंच बुद्धीन्द्रियाणि, वागादीनि पंच कर्मे
न्द्रियाणि, सङ्कल्पकमेकादशं मनः गन्धादितन्मात्राणि च पंचेति षोडशको
गुणः प्रभवति ॥


ततो गन्धादितन्मात्रपंचकात् पंच पृथिव्यादीनि महाभूतानि जायन्त
इति । आह च—


'प्रकृतेर्महास्ततोऽहङ्कारः तस्माद्गणश्च षोडशकः ।

तस्मादपि षोडशकात् पंचभ्यः पंच भूताति ॥ सां. का. 22

तानीमानि पंचविंशतितत्त्वानि संचक्षते । प्रधानं प्रकृतिरेव, न
विकृतिः । महदहङ्कारतन्मात्राणि सप्त पूर्वपूर्वापेक्षया विकृतयः, उत्तरो
II.391 वोत्तरकार्यापेक्षया प्रकृतयः । एकादशेन्द्रियाणि, पंचभूतानि विकृतय
एव । अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति । तदाह—


'मूलप्रकृत्विरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।

षोडशकस्तु विकारः न प्रकृतिर्न विकृतिः पुरुषः ॥ सां. का. 3

प्रकृतेर्बाधकत्वप्रकारः


एवं महादिविकारवती प्रकृतिरात्मनो भोगं साधयति । कश्चास्य
भोगः ? बुद्धिवृत्त्यनुपातित्वम् । विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां
बुद्धिवृतिं ज्ञानात्मिकां पुरुषः पश्यति । दर्शनेऽपि न 1265तस्य किंचिदन्यत्वम् ।
तदेव दर्शनं—यत् तत्र प्रतिबिम्बनमिति । इत्थं तयोः बुद्धिपुंसोः संयोगे
सति पुरुषधर्मश्चेतयितृत्वलक्षणः बुद्धावसन्नपि सन्निव लक्ष्यते । बुद्धि
धर्मश्च कर्तृत्वादिः आत्मनि साक्षिस्थानीयेऽसन्नपि सन्निव विभाव्यते ।
दाह—


'तत्स्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।

गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ सां. का. 20

प्रकृतेर्मोचकत्वप्रकारः


अथ अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते ? स्वरूपं प्रकाशयती
त्याचक्षते । अनवधृतप्रकृतिस्वरूपः पुमान् स्वरूपनिष्ठ एव प्रकृतिकृत
मखिलं आत्मकृतमिति मन्यमानः तदुपार्जितं भुङ्क्ते । यदा तु पृथग्थूता
मेनां मन्यते, तदा भवत्वियमायासहेतुरेव मम, इति बुद्ध्यमानः तत्कृ
तमनुपभुंजानः स्वरूपनिष्ठ एवावतिष्ठते । प्रकृतिरपि भवतु ! दृष्टा
ऽहमनेन, पृथङ्मामेष मन्यते
इति न तदभिमुखीभवितुमुत्सहते ।
तदाह—


II.392
प्रकृतेस्सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति ।

या दृष्टाऽस्मीति पुनर्नदर्शनमुपैति पुरुषस्य ॥ सां-का-16

प्रकृतिपुरुषविवेकः


परस्परं च भग्नरसयोः प्रकृतिपुरुषयोः व्यापकत्वात्1266 सत्यपि
संयोगे सर्गो न प्रवर्तत एवेत्याह—


दृष्टा मयेत्युपेक्षक एकः दृष्टाऽहमस्मीत्युपर त्यन्या

सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥

अपरिम्लानकुतूहलो हि पुमान् वंचयितुं शक्यते, न दृष्टतत्त्व इति
मत्वा सत्यामपि योग्यतायां निवर्तते प्रकृतिः नटीव रङ्गभूमौ प्रदर्शित
निखिलनिजनृत्तवृत्तान्तनैपुणा तत इत्याह—


रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।

पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ सां-का-61

प्रकृतेरेव बन्धमोक्षौ


तदेवं प्रकृतिरेव संसारे प्रवर्तते, प्रकृतिरेव मोक्षमनुभवतीत्याह—


तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।

संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ सां-का-62

किमर्थं पुनरसा1267वेवं चेष्टते प्रकृतिरिति चेत्—किं क्रियते ?
1268स्वभाव एवैष दैवहतिकायास्तस्याः—


II.393
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।

गुणवत्यगुणस्य सतः तस्यार्थमपार्थकं चरति ॥

अचेतनाया अपि प्रकृतेः कर्तृत्वादि


अचेतनत्वादस्याः कथमेवंकारित्वमिति चेत्—उक्तमत्र—


वत्सविवृद्धिनिमित्तं 1269क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।

पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ सां-का-57

ननु ! उत्पन्नतत्त्वज्ञाने पुंसि प्रकृतेर्भोगानुकूलमहदादिकार्यारम्भ
पराङ्मुखत्वात् एकस्मिंस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः—नैषं
दोषः—तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात् । 1270अन्यसाधारण
त्वेन तत्कार्यानपायात् । तथा च पातजलिः—कृतार्थं प्रति नष्टमप्यनष्ट
तदत्यसाधारणत्वात्
यो-सू-2-22


सदेहमुक्तिः, विदेहमुक्तिश्च


ननु एवं यदैव तत्त्वज्ञानमुत्पन्नम्, तदैव प्रकृत्युपाजितकर्मफलो
पभोगपरिहारिणः पुंसः शरीरपातः स्यात्—नेत्याह—


तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः ॥

ततः संस्कारविरतौ सत्यां—


प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।

ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति—इति ॥

1271 II.394

बुद्धि-ज्ञान-उपलब्धिपदानामपर्यायत्वम्


अहो नु खलु कापिलकविकथारसाक्षिप्तहृदयैः अतिबहु प्रसक्ता
नुप्रसक्त्या लिखितमस्माभिः । तदियं प्रधानविकृतिः प्रथमा महच्छब्द
वाच्या सा बुद्धिः तत्त्वविदं प्रति नष्टाऽपि अन्यसाधारणत्वादनष्टैवेति
नित्या । नित्यत्वाच्च प्रत्यभिज्ञासनुसन्धानादिव्यवहारप्रबन्धनिर्वहण
क्षमा बुद्धिः । 1272ज्ञानं तु तस्याः वृत्तिः । उपलब्धिस्तु पुंसो वृत्तिमद्
बुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमिति ॥


सांक्यप्रक्रियानिरासः


अत्र प्रतिविधीयते—आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यध्य
वसातरि धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिः
असंज्ञा सांख्यैः कल्पिता । चेतनत्वं तु ज्ञानादियोगिन्या अपि यत्त्वस्या
नाभ्युपगतं, सोऽयमतीव तमस्विनां भ्रमः । य एव बुध्यते, जानाति,
अध्यवस्यति—स एव पश्यति, चेतयते च । न खल्वत्र वस्तुस्वरूपभेदं
पश्यामः । तत्र बुद्धिर्बुध्यते, जानाति, अध्यवस्यति—पुरुषस्तु पश्यति,
चेतयते चेति वंचनायैवमुच्यते, मुग्धतया वा ॥


आत्मनः द्रष्टृत्वादिकं स्वाभाविकम्


यच्चेदमुच्यते—बुध्याध्यवसितमर्थं पुरुषः पश्यतीति—तद्व्याख्ये
यम्—किमिदं तस्य द्रष्टृत्वमिति । प्रतिबिम्बनमिति चेत्; किं स्वच्छे
पुंसि वृत्तिमती बुद्धिः संक्रामति, उत वृत्तिमत्यां बुद्धौ पुमानिति । तत्र
चतिशक्तिरपरिणामिनी अप्रतिसंक्रमेति न बुद्धौ पुरुषस्य संक्रमणम् ।
बुद्धौ तु पुंसि संक्रान्तायामपि पुंसः किं वृत्तम्1273, येन द्रष्टा संपन्नः


II.395

द्रष्टृत्वं स्वभाव एवास्येति चेत्; किं बुद्धौ प्रतिबिम्बनेन ।
विशिष्टविषयावच्छेद इति चेत्; ततः पूर्वमनालम्बनं द्रष्टृत्वमघटमान
मिति न नैसर्गिकं द्रष्ट्टरूपत्वं पुंसः स्यात् ॥


बुद्धि-पुरुषधर्मविभागानुपपत्तिः


दर्शनशक्तिः 1274स्वाभाविकीति चेत्—न—तस्या भेदाभेदाभ्यां निरूपयिः
तुमशक्यत्वात् । प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वात् अवियोगाच्च
कथमिदं निर्धार्यताम्—अमी बुद्धिधर्माः, अमी पुंधर्मा इति । न हि तयो
पार्थगर्थ्येन कदाचित् स्वरूपावधारणं वृत्तम् ॥


बुद्धि पुरुषयोरवैलक्षण्यप्रसङ्गः


अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुर्वचम् । चेतना
चेतनत्वात् भोक्तृभोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेत्—न—ज्ञाना
दियोगित्वं बुद्धेः अचेतनत्वं चेति चित्रम् ॥


अपि च कल्पयित्वाऽपि बुद्धिपुंसोर्नानात्वं बुद्धिधर्माः पुंसि, पुंधर्माश्च
बुद्धावारोपणीयाः इति किं भेदेन ! भेदे च बुद्धेर्ज्ञानादियोगित्वेन चेतन
त्वापत्तेः एकत्र कार्यकारणसंघाते चेतनद्वयमनिष्टं प्रसज्येत ॥


बुद्धेरावश्यकत्वाभावः


नित्यमन्तःकरणमन्तरेण पुंसः उपलब्धिर्न भवेदिति बुद्धेः कल्पना
चेत्—अस्त्येव नित्यमन्तःकरणं मनः । तेन करणेन कर्तुरात्मनः विषयो
1275 II.396 पलब्धिक्रिया निर्वर्त्यते । सैव च बुद्धिरित्याख्यायते, न त्वन्या नित्या
बुद्धिरस्तीति ॥


बुद्धेः कर्तृत्वाद्यनुपपत्तिः


किंच कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिकर्तृत्वं उत्सृज्य बुद्धेर
दृश्यमानं तदुपेयते । कोऽत्रातिशयः ?


ननु ! पुरुषस्य स्वातन्त्र्यात्मककर्तृत्वे1276 सति स्वकृतकर्मफलोपभोगा
नन्त्यादनिर्मोक्षः स्यात् । न हि कर्मणां परिक्षयः जन्मकोटिशतैरपि शक्य
क्रियः । यदा त्वकर्तारं उदासीनमेवं प्रकृतिर्बध्नाति, तदा सैव ज्ञाता
सती मोक्ष्यतीति न दूरं मोक्षवर्त्म भविष्यतीति ॥


पुरुषस्यानिर्मोक्षप्रसङ्गः


अहो बत ! निखिलमेव मौर्ख्यं सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथ
मन्यो जन इदानीं मूर्खो भविष्यति ! अचेतने हि निरङ्कुशे प्रधाने बन्ध
यितरि सुतरामनिर्वोक्षः स्यात् । तत्त्वविदमपि पुमांसं न बध्नाति प्रकृति
रिति कोऽस्या नियन्ता ? पङ्ग्वन्धन्यायेन संयोगस्य तदाऽपि तुल्यत्वात् ।
निवृत्तकुतूहलः पुमानिति चेत्—प्रकृतिरनिर्मुक्तकौतुका1277ऽभिनववधूरिव
स्थितैव ॥


अपि च, रे मूढ ! पूर्वमपि तपस्विना पुंसा किं कृतम्, यदाऽसौ
बद्धोऽभूत् ? द्रष्टृत्वं तु तस्य रूपं तदविनाभूतमिति कैवल्यदशायामपि
तन्न नश्यत्येवेति तदाऽपि तस्य बन्धनाय कथं न प्रवर्तेत निर्मर्यादा
प्रकृतिः ?


II.397

दृष्टाऽस्मीति विरमतीति चेत्—मैवम्—न ह्यसौ एकपत्नीव्रतदुर्ग्रह
गृहिता । निस्सङ्ख्यपुरुषोपभोगसौभाग्या 1278पण्यवनितेव, न वाऽसौ
नियमेन व्यवहर्तुमर्हतीत्यास्तामेतत् ॥


महदादिसृष्टिक्रमनिराकरणम्


यच्च सत्त्वरजस्तमोभिः त्रिभिर्गुणैः समावस्थायाः प्रधानशब्द
व्यपदेशभाजः प्रकृतेः महान्नाम बुद्धिरुत्पद्यते इत्यादि प्रक्रियाजालमाल
पितम्—तत्सर्वं महान्धपरम्परान्यायप्रवृत्तगुरुपाठक्रमोपनतमेव, न प्रमा
णमूलम् । कार्याद्धि कारणमल्पपरिमाणमुपलभ्यते; न तु विपर्ययः ।
स्वावयवाश्रितस्य घटपटादेर्दर्शनात् । तदवयवानां तदपेक्षयाऽल्पत्वात् ।
अन्यस्या मृदः महापरिमाणत्वमप्रयोजकम् ॥


अहंकारादिसृष्टयनुपपत्तिः


अपि च—बुद्धिर्नाम विषयोपलंभः । अहङ्कारोऽप्यहंप्रत्ययरूपोऽ
भिमानः बुद्धिविशेष एव । तेन बाह्यानीन्द्रियाणि जन्यन्ते, गन्धादयश्च
गुणाः, गुणैश्च पृथिव्यादीनि भूतानीति महाव्यामोहः । इदं च चित्रम्—
विषयजन्या हि सुखादयः प्रसिद्धाः । तेऽद्य 1279सुखादिजन्या विषयाःसंवृत्ता
इति नवेयं विश्वामित्रस्येव सांख्यमुनेः सृष्टिः ॥


प्रकृतिसद्भावे प्रमाणाभावः


न च प्रधानास्तित्वमपि प्रमाणवत्, अन्वयादिहेतूनामसाधनत्वात्1280
चेतनानामपि हि कामं भवेदपि सुखदुःखमोहान्वितत्वम् । अचेतनानि
II.398 भूतानि सुखदुःखमोहवन्तीति सुभाषितम् । घटे पटे शकटे च सुखदुःख
मोहाः सन्तीति कः प्रतिपद्येत ? प्रकाशप्रवृत्तिनियमा अपि चेतनेष्वेव
दृश्यन्ते, नाचेतनेष्वित्यसिद्धत्वाद्धेतोर्न प्रधानसिद्धिः ॥


सत्कार्यवादपरिक्षा


अपि च सत्कार्यवादमूल एष तपस्विनां विभ्रमः सर्वं सर्वत्रास्तीति ।
ततोऽन्वयसिद्धं बुध्यमानास्ते प्रधानसिद्धावध्यवसिताः । सत्कार्यवादश्च
विचार्यमाणः न समस्त्येवेति कुतस्त्या हेतुसिद्धिः ?


कार्यकारणभावविषये विप्रतिपत्तिः


ननु ! सत्कार्यवादे कार्यकारणभावो भवति भावानां, नान्यथा ।
तथा हि—चतुष्टयी गतिरिह स्यात् । घटादिकार्यं मृत्पिण्डादिना कार
येन क्रियमाणं असद्वा क्रियते ? सद्वा ? सदसद्वा ? अनुभयस्वभावं वा ?
इति ॥


सांख्यैः असत्कार्यवादनिरासः


तत्रासतः करणे खरविषाणादेपि करणं स्यात् । असत्त्वे हि घटस्य
खरविषाणस्य को विशेषः ? घटस्यापि प्रागभावप्रध्वंसाभावदशयोः
असत्त्वाविशेषात् प्रागभावदशायामिव प्रध्वंसदशायामपि करणं भवेत् ॥


असत्करणे च नियतोपादानग्रहणं न प्राप्नोति । तैलार्थी तिल
सर्षपानुपादत्ते, न सिकताः । असत्त्वे1281 च तैलस्य को विशेषः सर्षपाणां
सिकताभ्यः ॥


II.399

असति च कार्ये, निरालम्बनः कारकव्यापारो भवेत्, न ह्यसौ
मृत्पिण्डादिविषयो भवितुमर्हति1282 । कार्यं चासत् ॥


उपादानोपादेययोर्भेदानुपपत्तिः


अपि चाविद्यमाने कारणव्यतिरिक्ते च कार्ये जन्ये तत्कारणस्य मृत्पि
ण्डादेः घटादिकार्यं जनितवतः किमिति न स्वरूपमुपलभ्यते1283


अथ स्वविनाशेन कारणं कार्यस्य जनकमिष्यते, तदियमभावा
द्भावोत्पत्तिर्भवेत् । तस्यां च कुतोऽयं नियमः, यदनन्तरवृत्त एव मृत्पिण्डा
भावः कुम्भमभिनिर्वर्तयति, न चिरातिक्रान्त इति । अतश्च1284 परुत्
मृत्पिण्डे नष्टे एषमः कुम्भोत्पादः स्यात् ॥


अथ स्वाव्यतिरिक्तमेव कारणेन कार्यं जन्यते, तर्हि कारणस्य
सत्त्वात् तदव्यतिरिक्तं कार्यं सदेवेति नासतः करणम् ॥


कार्यस्य सदसद्रूपत्वनिरासः


सदसदपि न कार्य वक्तुं युक्तम्—सदसतोर्विप्रतिषेधेन एकत्र समा
वेशायोगात् । रूपभेदादविरोध इति चेत्—न—कार्यस्य विचार्यमाण
स्यैकत्वात् । तच्च तेनैव स्वेन कार्येण रूपेण सच्चेत्, नासद्भवेत् ।
असच्चेत्, न सत् इति पररूपेण त्वसत्त्वं सर्वभावानामस्त्येव ॥


अनुभयात्मकं तु वस्तु नास्त्येवेति तत्पारिशेष्यात् सदेव कार्यम् ॥


1285 II.400

किमिति च तदा नोपलभ्यत इति चेत्—अनुमानेनापि यदुपलब्धं
तत् किमनुपलब्धं भवति ? प्रत्यक्षेण तु तदनीमनुपलम्भोऽनभिव्यक्त
त्वात् । अभिव्यतिसम्पादन एव च कारकप्रयत्नसाफल्यम् । कार्यं तु
सदेवेति ॥


कार्यस्वरूपसिद्धान्तः सत्कार्यवादनिरासश्च


अत्राभिधीयते—केन तु रूपेण तदानीं कार्यं सदिति मन्यसे ? यदि
कारकव्यापाराभिनिर्वर्त्येन सलिलाहरणाद्यर्थक्रियासमर्थेन पृथुबुध्नोदरा
कारवता रूपेण चक्रमूर्धनि घटोऽस्तीति—तदाऽभिव्यक्तेनापि रूपेण सत्त्वात्
अत्यन्ताय कारकव्यापारवैफल्यम् । इत्यमपि च कारकप्रवृत्तौ तद्व्यापा
रानुपरमप्रसङ्गः1286 । किं हि तदोपलभ्य कारकाणि निवर्तेरन्, कार्यस्य
प्रागुपलब्धत्वात् ॥


घटस्य पूर्वं सत्त्वासंभवः


अथ मृत्पिण्डरूपेण तदानीं घटोऽस्तीति कथ्यते, न तर्ह्यसौ तदानीं
घटोऽस्ति, मृपिण्ड एवावस्ति । न ह्यन्यरूपेणान्योऽस्तीति शक्यते
वक्तुम् । उष्ट्रोऽप्यसन् मृत्पिण्डरूपेणास्तीति स्यात् ॥


अथोष्ट्ररूपमुत्तरकालमपि न निर्वर्त्यते, घटस्तु ततो निर्वर्त्यते—
यद्येवं यदैवासौ निर्वर्त्यते, तदैवास्ति, न ततः पूर्वमिति ॥


अथ पूर्वं शक्तयात्मना तस्यास्तित्वं, इदीनीं अभिव्यक्त्यात्मना
क्रियते इति—तदप्यनुपपन्नम्—अभिव्यक्तिरपि तत्स्वरूपाद्भिन्ना, अभिन्ना
वा ? सती, असती वा ? इति विकल्प्यमाना न पूर्वोक्तं दोषमतिवर्तते ॥


II.401

अभिव्यक्तिस्वरूपविमर्शः


का चेयमभिव्यक्तिः ? किं कार्यात्मनाऽवस्थानम्, अथ संस्थान
विशेषः, उत प्रतीतिः ? इति ॥


यदि कार्यात्मनाऽवस्थानं, तत्पूर्वं नाभूत्, तदधुना भूतमित्यस
त्कार्यम् । पूर्वमपि वा यदि तदासीत्, तदा पुनः कारकवैफल्यम् ॥


संस्थानमपि अवयवसन्निवेशविशेषः । स चासन्नेव क्रियते । अव
यवास्तु सन्तीति कस्यात्र विवादः ?1287 न हि परमाणवोऽस्माभिर्नाङ्गी
कृताः ॥


प्रतीतिस्तु घटस्य चक्षुरादिकारकसामग्र्यधीना, न मृत्पिण्डदण्ड
चक्रादिकारकचक्रसाध्येति, सा चक्रमूर्धनि घटस्य नास्त्येवेति असन्
घटः ॥


दर्शनादर्शनाधीने सदसत्त्वे हि वस्तुनः ।

1288दृश्यम्यादर्शनात्तेन चक्रे कुम्भस्य नास्तिता ॥

चक्रमूर्धवत् प्रध्वंसदशायामप्यनुपलम्भात् घटस्य नास्तित्वमेवेति ।
अतश्च—


नासतो विद्यते भावः नाभावो विद्यते सतः गी. 2-16

इत्यप्रमाणकम्1289, पूर्वापरान्तयोर्भावस्वरूपादर्शनात् ॥


II.402

शक्त्यात्मनापि कार्यस्य न सत्त्वम्


शक्त्यात्मनाऽपि यदस्तित्वमस्योच्यते—अत्रापि चिन्त्यम्—केयं
शक्तिर्नामेति । यदि घटस्वरूपाद्भिन्नाऽसौ, तर्हि पररूपेण घटोऽस्ति,
स्वरूपेण च नास्तीत्यसत् कार्यमुक्तं स्यात् । घटादभिन्नत्वे तु शक्तेः
शक्तिरूपेण घटोऽस्तीति स्वरूपेणैव घटास्तित्वमुक्तं भवेत् । तच्च
प्रत्यक्षविरोधान्निरस्तम् ॥


असत्कार्यवादे दूषणोद्धारः


असत्करणपक्षे च यच्चोदितं—शशविषाणाद्यपि क्रियेतेति—तत्तु
वचनव्यक्त्यपरिज्ञानात् । यदसत्, तत् क्रियते इति नेयं वचन
व्यक्तिः, अपि तु यत् क्रियते, तदसत् इति ॥


असतः कार्यस्य शशशृङ्गादिवैलक्षण्यम्


स्वरूपसहकार्यादिहेतवो यद्विधायिनः ।

दृश्यन्ते, जन्यते तद्धि न व्योमकुसुमादिकम् ॥

1290प्रागभावदशायां च हेतुव्यापारदर्शनम् ।

न तु प्रध्वंसवेलायां अतः कमनुयुंज्महे ॥

उपादानं तु सर्वस्य यन्न सर्वत्र दृश्यते ।

तन्न कार्यस्य सद्भावात्, अपि त्वेवं निरीक्षणात् ॥

अद्यत्वे व्यवहारोऽपि नैवापूर्वः प्रवर्तते ।

यथोपलब्धो वृद्धेभ्यः स तथैवानुगम्यते ॥

II.403
तैलार्थी सिकताः कश्चिदाददानो न दृश्यते ।

अदृष्टवा चाद्य नान्योऽपि तदर्थी तासु धावति ॥

अन्वयव्यतिरेकौ च गृह्येते व्यवहारतः ।

अनादिश्चैष संसारः इति कस्यानुयोज्यता ॥

कारणस्य कार्यानुकूलशक्तिमत्त्वम्


अथवा शक्तिनियमादेवोपादाननियम उपपत्स्यते ॥


शक्तिस्तु नित्या सूक्ष्मा च नेह काचिदुपेयते ।

तदभ्युपगमे नित्यं कार्योत्पत्तिप्रसक्तितः1291

किन्तु योग्यतावच्छिन्नस्वरूपसहकारिसन्निधानमेव शक्तिः । सैवेयं
द्विविधा शक्तिरुच्यते—1292अवस्थिता, आगन्तुकी च । मृत्त्वाद्यवच्छिन्नं
स्वरूपं अवस्थिता शक्तिः । आगन्तुकी च, दण्डचक्रादिसंगरूपा । शक्ति
द्वयकृता च कार्यनिष्पत्तिरसकृद्दृष्टेति तदर्थिभिस्तु तदुपादानम् ॥


योग्यताऽपि नार्थान्तरं किंचित्, किन्तु वस्तुविशेष एवेत्येवं वस्तु
विशेषनियमात् उपादाननियमसिद्धेः न सत् कार्यम् ॥


योग्यता न कार्यस्वरूपा


न च शक्तिरेव कार्यमिति वक्तव्यम् । कार्यस्वरूपस्य ततः पृथ
ग्भूतस्य प्रतीत्या व्यवस्थापनात् । शक्तेश्च कार्यत्वे कार्यादेव कार्योत्पादोऽ
II.404 ङ्गीकृतः स्यात् । न च घटात् ट उत्पत्तुमर्हति । शक्तेश्च कार्यमुत्पद्यत
इत्यभ्युपगतम् । अतोऽन्यत् कार्यम्, अन्या च शक्तिः ॥


योग्यताया अद्विष्ठत्वम्


ननु ! वाच्यवाचकयोश्शब्दार्थयोः, व्यङ्ग्यव्यंजकयोश्च दीप
घटयोः उभयाश्रिता शक्तिर्दृष्टेति कार्यकारणयोरप्यसावुभयाधिष्ठाना1293
भवितुमर्हति । असति द्वितीये कार्याख्ये तदाश्रये कथमियमुभयाश्रिता
स्यादिति ॥


नैतदेवम्—यथादर्शनं शक्तेरभ्युपगमात । न चैकत्र दृष्टं रूपमन्य
त्रापि मृग्यते । वाच्यवाचकयोः व्यङ्ग्यव्यजकयोश्च द्वयोः पृथक्त्वेन
दर्शनादुभयाश्रिता शक्तिरङ्गीकृतेति हेतुद्वयस्यानुपलम्भात् केवलकारण
वत्तिरेव शक्तिः । तत्कृतश्चोपादाननियम इति सिद्धम् ॥


असत्कार्यवादे स्वारस्यम्


1294असत्कार्यपक्ष एवोपादाननियमविचारो युक्तः ॥


उत्पत्तौ खलु सिद्धायां उपादानं विचार्यते ।

सतस्तु नैव नास्तीति किमुपादानचिन्तया ॥

सत्कार्यवादे च सुतरामुपादाननियमो दुर्घटः; सर्वस्य सर्वत्र
भावात्1295 । सिकतातिलसरित्तीरकेदारव्यप्तबीजनियताङ्कुरादिक्रमो
त्पद्यमानतिलस्वरूपपर्यालोचनया तिलेष्विव सिकतास्वपि1296 तैलसंभवात् ।
II.405 —सर्वस्य सर्वत्र चास्तित्वे नियतपदार्थप्रतिष्ठितहानोपादानादिव्यवहार
सकल एव विप्लवेत ॥


सत्कार्यवादे असामञ्जस्यम्


अपि च प्रायश्चित्तमेष तपस्वी तप्तकृच्छ्रमतिकष्टं कथं चरिष्यतीति
महन्मम मनसि कारुण्यम् । अन्नं च तावदयमश्नाति, अन्ने1297वर्चोऽ
स्तीति विड्भक्षणात् प्रायश्चित्तीयत एवायमिति अलं सत्कार्यवाद
प्रमादेन ॥


असत्कार्यवादे दोषोद्धारः


यत्पुनरभाणि—कारणानुपमर्देन कार्यानुत्पादात् अभावाद्भावोत्पत्ति
र्भवेत् । तत्र चानन्तरवृत्त्युत्पत्तिनियमो न स्यात् इति—तदप्ययुक्तम्—
मूर्तानां समानदेशर्त्वावरोधात् कार्यकारणयोरेकदेशत्वं नेष्यते । नैता
वता 1298भावोत्पत्तिरभावाद्भवितुमर्हति, कारणाधीनतदुत्पाददर्शनात् । अत
एवानन्तर्यनियमोऽप्युपपन्नः । न च कार्यकारणयोरभेदात् सत् कार्यमिति
वक्तव्यम् । तयोः प्रत्यक्षसिद्धभिन्नस्वरूपत्वात् ॥


असंबद्धात्कार्योत्पत्तिनिरासः


यत्तु निरलम्बना कारकप्रवृत्तिरिति चोदितम्—परिहृतं तत् भाष्य
कारेण बुद्धिसिद्धं तु तदसत् इति । वृद्धव्यवहारतः कार्यकारणभावा
II.406 मवगम्य अमुष्मात् कारणात् इदमीदृशं कार्यमुत्पद्यत इति बुद्धौ निर्धार्य
1299कारकाणि कर्ता नियुङ्क्त इति न निर्विषयः कारकव्यापारः ॥


तदेवं सत्कार्यवादस्य निष्प्रमाणकत्वात् तन्मूलान्वयादिहेतुसिध्य
भावात् न प्रधानास्तित्वसिद्धिः । तदभावाच्च न तद्विकृतिः नित्या
बुद्धिः । अपि तु ज्ञानोपलब्धिरूपैवेति सम्यक् सूत्रितं बुद्धिरुपलब्धि
र्ज्ञानमित्यनर्थान्तरम्
इति ॥


बुद्धेरनित्यत्वम्


इतश्चानित्या बुद्धिः—जानामि, ज्ञास्यामि, अज्ञासिषमिति उपजन
नापायधर्मतया पाकादिवत् कालत्रयेऽपि प्रकाशमानत्वात् । ज्ञा
व्यतिरिक्तायाश्च बुद्धेरप्रतिभासात् ॥


अयं तु विशेषः । पाकादिक्रियाणां ओदनादिफलावच्छेदद्वारकं
कालवैतत्यमपि भवति । उपलब्धेस्तु वस्तुस्वरूपप्रकाशनमात्रपरिसमाप्त
प्रयोजनायाः कालवेतत्यं नास्त्येव । अत एवानित्यत्वेऽपि उत्पन्नापव
र्गिणीमेव बुद्धिमाचक्षते, शब्दवत्; न घटादिवत् कालान्तरस्था
यिनीमिति ॥


बुद्धेरात्मगुणत्वम्


सा चेयं बुद्धिः आत्मान्तःकरणशब्ददीपेन्द्रियार्थाद्यनेककारककलाप
कार्याऽपि सती न बाह्येन बाह्यकर्मणि समवैति । न बाह्यकरणे चक्षु
रादौ । नान्तःकरणे मनसि । किन्तु कर्तर्येव । कर्ताऽपि च नित्यः
II.407 विभुरात्मा, न भूतसङ्घातस्वभावः कार्यस्तस्या आश्रय इत्यात्मपरीक्षायां
निर्णीतम् । गुणत्वमपि चास्यास्तत्रैव दर्शितम् ॥


बुद्धेराशुतरविनाशित्वे हेतुः


ननु एवं तर्हि न बुद्धेरनित्यत्वम्, विनाशकारणाभावात् । द्विविधो
हि गुणानां विनाशहेतुः—आश्रयविनाशः, विरोधिगुणप्रादुर्भावो वा ।
नेहाश्रयविनाश, नित्यत्वादात्मनः । न च विरोधिनमस्याः कं चिद्रुण
मुपलभामहे—न—शब्दवदाशुविनाशित्वात् । नित्याकाशगुणोऽपि शब्दः
शब्दान्तरमारभ्य यथा विनश्यति, तथा बुद्धिः बुद्ध्यन्तरमारभ्य विनश्य
तीति तथा दर्शनात् कल्प्यते । यावांश्च कश्चन विनाशदर्शनभेदोपलम्भादिः
शब्दस्यानित्यतायां न्याय उक्तः, स सर्वोऽपि बुद्धावपि योजनीयः ॥


ज्ञानानामगपद्यकारणम्


अत एव न बुद्धीनामेकप्रमातृवृत्तीनां यौगपद्य विद्यते, वर्णानामि
वैकवक्तृप्रयुक्तानाम् । विनश्यदविनश्यद्दशयोस्तु बुद्ध्योराशु विनाशित्वे
ऽपि यौगपद्यमनुभवादभ्युपेयत1300इत्यलमतिविस्तरेण ॥


बुद्धेरनित्यतायां च प्रायेण सर्ववादिनामविवादः । तथा चा
जैमिनिः सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् इति ॥


बुद्धेरपि हेयत्वम्


अचिररुचिवत्तस्मात् बुद्धिर्निसर्गविनश्वरी—


भवति जनकः स्वात्मा तस्याः स एव समाश्रयः ।

II.408
भवमरुभवैस्तापैः या जातमेव युनक्ति सा—

व्यसनजननीं जह्यादेनां परमार्थवित् ॥

—इति बुद्धिपरीक्षा—


मनःपरीक्षा


युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ १-१-१२ ॥


मनसो यदेव सत्त्वे प्रमाणं, तद्गम्यत्वमेवास्य लक्षणम्, समानेतर
जातीयव्यवच्छेदकारित्वात् ॥


मनसः प्रत्येकगणनायां हेतुः


ननु ! मनस इन्द्रियत्वात् तद्वर्ग एव पठनं युक्तम् । किमर्थोऽयं
पृथङ्निर्देशः ?—न—धर्मभेदात् । भौतिकानीन्द्रियाणि नियतविषयाणि ।
सगुणानां चैषामिन्द्रियभावः । मनस्तु न भौतिकम्, न नियतविषयम् ।
न चास्य 1301सगुणस्येन्द्रियभावः इति ॥


मनसः अभौतिकत्वम्


तच्च न भौतिकम्, अकार्यत्वात् । अत एव न तद्गुणयोगि । न
च नियतविषयम् । सर्वविषयत्वं त्वस्य सकलबाह्येन्द्रियाणामधिष्ठातृ
त्वत् । तदनधिगम्यसुखादिविषयग्राहित्वाच्च । बाह्येन्द्रियाणि हि मनोऽ
धिष्ठितानि स्वविषयेषु प्रवर्तितुमुत्सहन्ते चक्षुरादीनि, नान्यथा ॥


II.409

कस्मादेवमिति चेत्—युगपत् ज्ञानानुत्पत्तेः । उत्तरकालं च बाह्ये
न्द्रियव्यापारविरहेऽपि तदर्थावमर्शात्—


अस्त्येकेन्द्रियगम्येषु क्वचिज्जातिगुणादिषु ।

विज्ञानायौगपद्यं यत् मनसस्तन्न साधनम्1302

तत्र विषयादिदोषेण दूरत्वादिना जात्यादेः युगपत् गृहीतुमशक्य
त्वात् ॥


ज्ञानायैगपद्यस्य मनस्साधकत्वम्


यत्तु—नानेन्द्रियग्राह्येषु युगपत्सन्निहितेष्वपि गन्धरसरूपादिषु विषयेषु
तद्ग्रहणेषु च स्वकार्यानुमितसन्निधानेषु, सत्स्वप्यविकलेषु कारणेषु युग
पदुपलब्धयो न भवन्ति, ततोऽवसीयते—नूनं कारणान्दरमेभिरपेक्ष्यते ।
तच्च मन इत्याख्यायते ॥


ज्ञानायौगपद्ये कारणम्


ननु च !


सुगन्धि शीतलां दीर्घां अश्नन्तः शुष्कशष्कुलीम् ।

कपिलब्राह्मणास्सन्ति युगपत् पंचबुद्धयः ॥

अपि च अयं खल्वध्यापकः अधीते, व्रजति, कमण्डलुं धारयति,
पन्थानं पश्यति, शृणोत्यरण्यजान् शब्दान्, बिभ्यत् व्याललिङ्गानि
बुभुत्सत इति क्रमाग्रहणात् युगपदेता बुद्धयोऽस्य भवन्तीति—न—आशूत्पत्तेः
II.410 सूच्यग्रभिद्यमानकोकनददळकदम्बकालवदतिसूक्ष्मत्वात् कालस्य क्रमस्तत्र
न विभाव्यते । भवितव्यं1303 तु तेनेति ॥


स्मृतिकारणतयाऽपि मनस्सिद्धिः


यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोप
लब्धयः, तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः ?
अतो नूनं नयनादिवत् करणान्तरमविकलं तद्ग्राहि विद्यते ॥


मनसः अणुत्वादिः


अव्यापकं च तत् । व्यापित्वे न हि बुद्धीनां यौगपद्यं निवर्तते ।
अस्ति चायं व्यवहारः उक्तेऽपि क्यचिद्वचसि कश्चिदाह, नाहमेतदश्रौषम,
अन्यत्र मे मनोऽभूत्
इति । तस्मान्न व्यापकं मनः ॥


प्रतिशरीरमेकं च, तदनेकत्वे पुनरपि ज्ञानयौगपद्यानपायात् ॥


क्रियावच्च तत्, निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ॥


मूर्त च तत्, अमूर्तस्य क्रियानुपपत्तेः ॥


मूर्तत्वे सति नित्यं च तत् निरवयवत्त्वात्, अनाश्रितत्वाच्च
मुर्तत्वं त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ॥


निरवयवं च, तदवयवकल्पनायां प्रमाणाभावात् ॥


वेगवच्च, तदाशुसंचारात् । आशुसंचारमन्तरेणोपलब्धिशैघ्र्यस्य
दृष्टस्यानुपपत्तेः ॥


इन्द्रियसंयोगि च तत्, द्रव्यत्वात् ॥


II.411

द्रव्यं च तत्, वेगादिगुणयोगात्; क्रियावत्त्वादनाश्रितत्वाच्च ॥


अचेतनं च तत्, कारणत्वात्, इतरथा ह्येकत्र शरीरे चेतनद्वय
समावेशात् अव्यवहारः स्यादिति । तस्मादेवंरूपं मनः ॥


साङ्ख्योक्तं सु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव
व्याख्यातम् ॥


मनस्साधकहेत्वन्तराणि


अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि, न्तर
सुखदुःखेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङ्गानि सन्त्येव ।
तेषां बाह्येन्द्रियव्यापारसाध्यत्वासंभवात् करणरहितायाश्च क्रियाभिनि
वृत्तेरदर्शनादिति ॥


मानसानि ज्ञानानि


स्मृतिस्तावन्मनोजन्यैव । अनुमानागमज्ञानं तु परोक्षार्थविषय
त्त्वात् मानसम्1304 । संशयस्तु मानसोऽपि कश्चिद्वक्ष्यते । प्रतिभा मनासी
दर्शितैव—श्वो मे भ्राताऽऽगन्ता इति । स्वप्नज्ञानमुपरतेन्द्रियग्रामस्य
भवत् कथं नाम न मानसम् ॥


तर्कोऽपि संशयवत् क्वचिद्विषये मानसो भवत्येव । सुखादीनां तु
ज्ञप्तिवत् उत्पत्तिरपि मनोनिबन्धनैव । कार्यणामात्मगुणानामुत्पत्तौ
प्रत्यासन्नकारणान्तरसंभवेऽपि आत्ममनस्संयोगस्यावधृतसामर्थ्यस्यासम
II.412 वायिकारणत्वात् । अतश्च विषयानुभवजन्येऽपि सुखादौ मनस्संयोगः
कारणम् ॥


सुखादीनां च 1305बोधस्वरूपत्वं स्वसंवेद्यत्वं च निरस्तम् । अतस्तदुप
लब्धौ मनस एव कारणता ॥


मनसः संस्कारविशेषवत्वम्, हेयत्वं च


तदिदं मनः पूर्वकृतशुभाशुभकर्म1306संकारवताऽऽत्मना तद्वशादेव
शरीरदेशे संयोगं प्रतिपद्यते । तत्रैव च जीवनव्यवहारः । विपच्यमान
कर्माशयसहितः आत्ममनस्संयोगो जीवनमिति हि वदन्ति । संयुक्तं
चात्मना मनः तेषु तेषूपपत्तिस्थानेषु नानाविधभोगसाधनतया संसार
कारणं भवति । नित्यत्वादात्ममनसोः अनादित्वाच्च संसारस्य नेदं
चोदनीयं—1307प्रथममेव कथं आत्ममनसोस्संयोग इति । न हि प्रथमो
नाम कश्चित् कालः समस्ति; आदिसर्गस्यापि पूर्वसर्गसापेक्षत्वात् ।
ईश्वरोऽपि हि कर्मापेक्ष एव विचित्रस्य जगतः स्रष्टेति निर्णीतमेतदिति
कृतं विस्तरेण ॥


विदधत्सुखादिभोगं वहच्च तरलेन्द्रियाश्व1308सारथिताम् ।

बन्धनिमित्तं मन इति मनस्विना यत्नतो हेयम् ॥

—इति बुद्धिपरीक्षा—


II.413

प्रवृत्तिपरीक्षा


प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः ॥ १-२-२७ ॥


वागिति वर्णात्मकशब्दकारणसंयोगाद्युच्यते, नेन्द्रियमिति1309 व्याख्या
तम् । बुद्धिरिति मन इहोच्यते, नोपलब्धिः । शरीरं प्रसिद्धम् । तेषां
आरम्भः व्यापारः, तैर्वा आरम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरि
त्युच्यते ॥


पापरूपा प्रवृत्तिः


सा च द्विविधा पुण्या पापिका च । तत्र पापिका वाचा चतुर्विधा,
मनसा त्रिविधा, शरीरेण त्रिविधैवेति दशविधा ॥


वाचा प्रवृत्तिस्तत्र अनृतपरुषसूचनासम्बद्धवचनरूपा चतुर्विधा ॥


परद्रोहपरद्रव्याभिलाषनास्तिक्यानुव्यानरूपा त्रिविधा मनसा
प्रवृत्तिः ॥


हिंसास्तेयप्रतिषिद्धमैथुनाचरणरूपा त्रिविधा शरीरेण प्रवृत्तिः ।
मैथुनग्रहणं एवंप्रकारसुरापानाद्युपलक्षणार्थम् । सेयं दशविधा प्रवृत्तिः
अनवरतमभिज्वलतो निरतिशयदुःखवेदनादायिनो नरकानलस्येन्धनम् ॥


पुण्यरूपा प्रवृत्तिः


पुण्याऽपि सत्यप्रियहितवचनस्वाध्यायाध्ययनरूपा चतुर्विधा वाचा
प्रवृत्तिः । जपयज्ञे हि स्वाध्यायपाठ एवोपांशुना, अन्तस्संजल्पेन वा ॥


अस्पृहाऽनुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः ॥


II.414

दानपरित्राणपरिचरणरूपा त्रिविधा शरीरेण प्रवृत्तिरितीयमपि
दर्शविधैव । एषा च स्वर्गसदनद्वारसोपानकल्पा ॥


प्रवृत्तेः द्विविधत्वम्


सेयमुभयतो विंशतिभेदा प्रवृत्तिः संक्षेपतो द्विविधैव, विधिनिषे
धात्मकतदवगमोपायभेदात् । विधिनिषेधावगमशरण एव हि सदस
त्कर्मावगमः । तत्र विहितानुष्ठानं स्वर्गाय, निषिद्धाचरणं नरकायेत्येवं
सुखदुःखोपभोगस्थानशरीरेन्द्रियाद्यभिसम्बधनिबन्धनमेषा प्रवृत्तिर्भ
वन्ती संसारस्य परमं कारणं भवति ॥


प्रवृत्तेर्धर्माधर्महेतुत्वम्


यो ह्ययं देवमनुष्यतिर्यग्योनिषु शरीरसंसर्गः, यश्च प्रतिविषयं बुद्धि
संसर्गः, यश्चात्मना सह मनसस्संसर्गः स सर्वः प्रवृत्तेरेव परिणामविभवः ।
वृत्तेश्च सर्वस्याः क्रियात्वात् क्षणिकत्वेऽपि तदुपतो धर्माधर्मशब्द
वाच्यः आत्मसंस्कारः कर्मफलोपभोगपर्यन्तस्थितिरस्त्येव । न च फल
मदत्त्वा धर्माधर्मौ क्षीयेते । अन्त्यसुखदुःखसंविद्विरोधिनौ हि धर्माधर्मा
वुदाहरन्ति1310 । न च जगति तथाविधं किमपि कार्यमस्ति वस्तु, यन्न
धर्माधर्माभ्यामनाक्षिप्तसंभवमिति तदुच्छेदे मुमुक्षुणा यत्न आस्थेयः ॥


इति वितनुतः पुण्यापुण्यप्रवृत्तिसमुद्भवौ

निगवदिमौ धर्माधमौ रुजं भवबन्धने ।

यदि निरवधेर्दुःखस्यान्तं चिकीर्षसि सर्वथा

परिहर मनोवाक्कायानां प्रवृत्तिमनर्गलाम् ॥

II.415

दोषपरीक्षा


प्रवर्तनालक्षणा दोषाः ॥ २-२-२७ ॥


प्रवर्तना प्रवृत्तिं प्रति प्रयोजकता । सा लक्षणं येषामिति प्रवर्तना
लक्षणा दोषाः । दोषप्रयुक्तो हि पुरुषः पुण्ये कर्मणि, पापे वा प्रवर्तते ॥


दोषस्यानुपदेश्यत्वशङ्कापरिहारौ


ननु ! प्रत्यात्मवेदनीयतया दोषाणां स्वरूपमपरोक्षमेव । तत्
किमर्थमेषां लक्षणतो रूपं निरूप्यते—सत्यम्—प्रत्यात्मवेहनीयत्वेऽपि
यदेषां प्रवर्तनालक्षणत्वमुपदिश्यते, तदनेन रूपेण संसारकारणत्वज्ञापनार्थम् ।
धर्माधर्मनिर्मितो हि शरीरादिदुःखाधिष्ठानसंबन्धः । तद्बीजस्य च
कर्मणः कारणं दोषाः कर्मणि पुमांसं प्रवर्तयन्तो भवन्तीति प्रवर्तनालक्षणा
इत्युक्ताः ॥


परसन्तान1311वर्तिनां दोषाणां अप्रत्यक्षत्वात् तत्प्रतीतये प्रवर्तनालक्षण
त्त्वकथनमिति त्वपव्याख्यानम्—अल्पप्रयोजनकत्वादिति ॥


दोषाणां विभागः


तेषां दोषाणां त्रयो राशयो भवन्ति, रागः द्वेषः मोहः इति । तत्रा
नुकूलेष्वर्थेषु अभिलाषलक्षणो रागः । प्रतिकूलेष्वसहनलक्षणः द्वेषः । वस्तु
पारमार्थ्यापरिच्छेदलक्षणो मिथ्याध्यवसायो मोहः ॥


II.416

ईर्ष्यादीनां कॢप्तेष्वेवान्तर्भावः


ननु च ! ईर्ष्यासूयालोभमानमदमत्सरादिदोषान्तरसंभवात् कथं त्रय
एव दोषाः ?—न—ईर्ष्यादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् ॥


रागप्रभेदाः


कामः, मत्सरः, स्पृहा, तृष्णा, लोभ इति पंचप्रकारो रागपक्षः ।
स्त्रीसंयोगेच्छा कामः1312 । यदन्यस्मै निवेद्यमानमपि वस्तु धनवन्न क्षीयते,
तदपरित्यागेच्छा मत्सरः । अनात्मीयवस्त्वादित्सा स्पृहा । पुनर्भवप्रति
सन्धानहेतुभूतेच्छा तृष्णा । निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाष
प्रकारभेदात् रागपक्ष एवायम् ॥


दोषप्रभेदाः


द्वेषपक्षोऽपि पंचविधः, क्रोधेर्ष्यासूया द्रोहोऽमर्ष इति । अक्षिभ्व्रादि
विकारहेतुः प्रज्वलनात्मकः क्रोधः । साधारणेऽपि वस्तुनि परस्य दर्श
नाद्यसहनं ईर्ष्या । परगुणेष्वक्षमा असूया । परापकारः द्रोहः । अदर्शित
मुखादिविकारः परं प्रति मन्युः अमर्षः इति असहनप्रकारभेदादेष
द्वेषपक्षः ॥


मोहप्रभेदाः


मोहपक्षस्तु चतुर्विधः—मिथ्याज्ञानं, विचिकित्सा, मानः, प्रमाद
इति । अतस्मिंस्तदिति ज्ञानं मिथ्याज्ञानम् । किं स्विदिति विमर्शो
II.417 विचिकित्सा । असद्गुणाध्यारोपेण 1313स्वोत्कर्षबुद्धिर्मानः । कियदेतदित्य
वज्ञया कर्तव्याकरणं प्रमादः । स एव मद इत्याख्यायते । सोऽयं तत्त्वा
परिज्ञानप्रकारभेदान्मोहपक्षः ॥


मोहस्य पापतमत्वम्


एवं त्रय एवैते दोषाः । शोकहषौ तु सुखदुःखे उच्येते, न दोषान्तरम् ।
तेषां तु मोहः पापतमः, इतरयोस्तु तदधीनात्मलाभत्वात् । 1314मूढस्य
हि रागद्वेषौ भवतः, मिथ्यासंकल्पादुत्पद्यमानयोरनुभवात् । कुसंकल्पश्च
मिथ्याज्ञानप्रकृतिः । एवं मिथ्याज्ञानस्यैव भगवतः सर्वमिदं विलसितं,
योऽयमनेकप्रकारः संसारदुःखभारः ॥


मोहस्य स्वतो दोषत्वम्, दोषहेतुत्वं च


यद्येवं न तर्हि मोहस्य दोषत्वम्, दोषकारणत्वादिति—न—तल्लक्षणा
नपायात् । सत्यपि दोषान्तरहेतुत्वे स्वयमपि पुरुषप्रवृत्तिप्रयोजकत्व
लक्षणयोगात् रागवत् दोषत्वं न मोहोऽपि जहाति । त इमे दोषाः
संसारहेतव इति यत्नतः शमनीयाः ॥


दोषशमनोपायः


कथं पुनरमी शमयितुं शक्याः ? उक्तमत्र—नाकस्मिकाः, न नित्याः,
नाज्ञातशमनोपायाः, न चाशक्यप्रतिक्रिया इति । विस्तरतश्चैतदप
II.418 वर्गाह्निके परोक्ष्यते । मिथ्याज्ञाननिमित्ताः खल्वेते दोषाः । तस्मिन्
सम्यग्ज्ञानप्रभावनिहते हेतोरभावान्न भवन्त्येवेति ॥


दोषस्य एकत्वशङ्कापरिहारौ


ननु ! एवं प्रसवविनाशकारणयोरेकत्वात्1315 एक एव दोषो भवेदिति
त्रित्वं हीयेत—न—अनुभवसिद्धभेदत्वात् । अनुभूयते हि रागद्वेषमोहाना
मितरेतरविभक्तं स्वरूपम् । कारणैकत्वं तु न प्रयोजकम्, एकस्मादेव
ज्वलनसंयोगात् उत्पद्यमानानां विनश्यतां च पार्थिवपदार्थवृत्तीनां गन्धरस
रूपस्पर्शानां नानात्वदर्शनात् । अतः सूक्तं दोषणां त्रैराश्यमिति ॥


संसारकाराभवनप्रवेश-

मार्गास्त एते त्रय एव दोषाः ।

एषां प्रहाणोद्यममादधानः

न जन्ममृत्यू पुनरभ्युपैति ॥

प्रेत्यभावपरीक्षा


पुनरुत्पत्तिः प्रेत्यभावः ॥ १-१-१९ ॥


कस्येयं पुनरुत्पत्तिरुच्यते, आत्मनः शरीरस्य वा ? तत्रात्मनो नित्य
त्वादुत्पत्तिरेव नास्ति, का कथा पुनश्शब्दार्थस्य ? शरीरस्य तु उत्पत्ति
रस्ति, न तु पौनःपुन्येन । न हि मृतं शरीरं तदेव पुनरुत्पद्यते ।
तस्मात् पुनरुत्पत्तिः प्रेत्यभाव इत्यवाचकं सूत्रम्—उच्यते—पुनश्शब्दार्थस्य
यत्नत उपदिष्टस्य परिहर्तुमशक्यत्वात् । तस्यैव निर्वेदोत्पादद्वारका
पवर्गोपयोगयोग्योपदेशत्वात् । आत्मनश्च स्थायित्वेन क्रियाभ्या
II.419 वृत्तिसंभवात्, तस्यैव पुनः पुनरुत्पत्ति ब्रूमः । उत्पत्तिवन्मरणमपि ।
सोऽयमात्मन एव मृत्वा पुनर्जन्म प्रेत्यभाव इति ॥


नित्यस्याप्यात्मनः जन्ममरणोपपादनम्


ननु ! जन्ममरणे उभे अपि नित्यत्वादात्मनः न संस्तः इत्युक्तम्—
सत्यम्—शरीरादिसंयोगवियोगयोस्तु तथाभिधानान्न दोषः । मरणं—
आत्मनः भोगायतनदेहेन्द्रियादिवियोग उच्यते । जन्म तु तत्संबन्धः । ते
एते विपच्यमानकर्माशयानुरूपेण देहेन्द्रियादित्यागोपादाने एव मरण
जन्मनी क्रियाभ्यावृत्त्या भवन्ती प्रेत्यभाव इत्युच्यते । स एव च
संसारः । तदित्थमनुध्यायतः कस्य सचेतसो निर्वेदो नोदियात् ।
तदुक्तम्—


जरावियोगमरणव्याधयस्तावदासताम् ।

जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥

देहेन्द्रियादिरचनाप्रकारः


अथ यैरुत्पद्यमानैर्देहेन्द्रियादिभिरात्मनः संबन्धः, तेषां कथमुत्पत्ति
रित्युक्तं सूत्रकृता—व्यक्तात् व्यक्तानामुत्पत्तिः प्रत्यक्षप्रामाण्यात्
न्या-सू-4-1-11 इति । व्यक्तादिति कापिलाभ्युपगतत्रिगुणात्मका
व्यक्तरूपकारणनिषेधेन1316 परमाणूनां शरीरादौ कार्ये कारणत्वमाह ॥


तथा हि—पार्थिवं, आप्यं, तैजसं, वायवीयमिति चतुर्विधमिदं कार्यं
स्वावयवाश्रितमुपलभ्यते । तत्र यथा घटः सावयवः कपालेष्वाश्रितः,
एवं कपालान्यपि सावयवत्वात्तदवयवेषु, तदवयवा अपि तदवयवान्तरेषु
II.420 इत्येवं तावत्, यावत् परमाणवो निरवयवा इति । यत्र यावतः कार्य
जातस्य स्वावयवाश्रितस्य प्रत्यक्षेण ग्रहणं तत्र तदेव प्रमाणम् । तत
ऊर्ध्वमनुमानम् ॥


परमाणुसाधकानुमानम्


दपि हि कार्यं स्वावयवाश्रितम्, सावयवत्वात्, परिदृश्यमान
कार्यवत् । निरवयत्वे तु तस्य परमाणुत्वमेव । परमाणुषु च सावयव
त्वस्य च हेतोरसिद्धत्वान्नावयवान्तरकल्पना । तेषां हि सावयवत्वे तदव
यवाः परमाणवो भवेयुः । न ते उत्पत्तिक्रमवत् विनाशक्रमेणापि पर
माणवोऽनुमीयन्ते । लोष्टस्य प्रविभज्यमानस्य भागाः, तद्भागानां च
भागान्तराणीत्येवं तावत् यावदशक्यभङ्गत्वमदर्शनविषयत्वं च भवति ।
तद्यतः परमवयवविभागो न संभवति, ते परमाणव उच्यन्ते । तेष्वपि हि
विभज्यमानेषु तदवयवाः परमाणवो भवेयुर्न ते । तदेतदेवं उत्पत्तिक्रमवत्
विनाशक्रमस्येदृशो दर्शनात् सन्ति परमाणवः ॥


परमाणूनामावश्यकता


अत्र हि त्रयी गतिः । अस्य घटादेः कार्यस्य निरवयवत्वमेव वा, अव
यवानन्त्यं वा, परमाण्वन्तता वा ? तत्र निरवयवत्वमनुपपन्नम्, अव
यवानां पटे तन्तूनां, घटे च कपालानां प्रत्यक्षमुपलम्भात् । अनन्तावयव
योगित्वमपि न युक्तम्, मेरुसर्षपयोरनन्तावयवयोगित्वाविशेषेण 1317तुल्य
परिमाणत्वप्रसङ्गात् । तस्मात्परमाण्वन्ततैव युक्तिमती ॥


II.421

त इमे परमाणवः चेतनेच्छाप्रेरणमन्तरेण विशिष्टक्रमकमितरेतर
सङ्घटनमलभमानाः कार्यसिद्धये न पर्याप्नुयुः, अचेतनत्वादिति चेतन
एषामधिष्ठाना सकलभुवननिर्माणनिपुणमतिरीश्वरोऽभ्युपगतः । तत्सि
द्धये च सकलकुतर्कतिमिरतिरस्कारपूर्वकं पूर्वमेव निरवद्यमनुमानमुप
पादितम् ॥


ईश्वरोऽपि नानेकात्मवृत्तिविपाकोन्मुखधर्माधर्मसंस्कारवैचित्र्यमन
नुरुध्यमानः विचित्रस्य जगतो जन्म निर्मातुमर्हती1318त्येतदपि दर्शितम् ॥


परमाणुभिः जगदारम्भक्रमः


न च सकृदेव सर्वे निर्वर्त्यमानकार्यपरिमाणानुगुणसङ्ख्याः
परमाणवः एकत्र संयोज्य कार्यमारभन्ते, किन्तु द्व्यणुकादिप्रक्रमेण ।
सकृदारम्भे हि कुम्भे भज्यमाने कपालशर्कराकणचूर्णादिक्रममपहाय प्रथम
मेव परमाण्वन्तता भवेत्; सर्वसंयोगस्य सर्वविभागेन सहसैव विनाशात् ।
अतश्च कर्परादिक्रमदर्शनं विरुध्येत । अविनष्टेऽपि पटादौ तन्त्वाद्यवय
वाश्रितत्वमुपलभ्यमानं कथं वा समर्थ्येत ? परमाणूनामप्रत्यक्षत्वेन
तदाश्रितत्वस्य ग्रहीतुमशक्यत्वात् । परमाणूनां घटस्य च मध्ये कार्या
न्तरानारम्भादिति । तस्मात् द्व्यणुकादिप्रक्रमेण परमाणवः कार्यमा
रभन्ते ॥


द्व्यणुकोत्पत्तिः


ननु ! द्वाद्वेव परमाणू प्रथमं संघटेते इत्यत्र का युक्तिरुच्यते ?
बहुत्वसंख्यायाः महत्परिमाणकारणत्वदर्शनात्, त्रिषु परमाणुषु प्रथमं
II.422 मिलत्सु तत्कार्ये बहुत्वसंख्यायाः महत्त्वारम्भकत्वात् तत्प्रत्यक्षत्वं प्रसज्येत ।
न च तत्प्रत्यक्षत्वम्, अतिसूक्ष्मत्वात् । अतो द्वाभ्यां परमाणुभ्यां द्व्यणुक
मादावुत्पद्यते ॥


द्व्यणुकस्याप्रत्यक्षत्त्वम्, त्र्यणुकोत्पत्तिश्च


तच्च परमाणुवदप्रत्यक्षमेव, महत्त्वानुत्पादात् । द्व्यणुकद्वयेन तु
कार्यारम्भ इष्यमाणे तदविशेषप्रसङ्गः द्व्यणुक इव तत्रापि महत्त्वो
त्पत्तौ कारणाभावात् । अतः त्रिभिर्द्व्यणुकैः त्र्यणुकमारभ्यते । तत्र
च बहुत्वसंख्यया महत्त्वमप्यारप्स्यते, प्रत्यक्षत्वं च भविष्यति । ततः परं
तु क्रमसामान्ये1319 प्रमाणमस्ति, लोष्टादिभङ्गे स्वावयवखण्डावयवदर्श
नम् । क्रमविशेषे तु प्रमाणं नास्ति इत्थमारम्भ इति । यत्र वा दर्शन
मस्ति तत्र तदस्तु क्रमविशेषे प्रमाणमिति ॥


अन्त्यावयविनिरूपणम्


1320रभ्यारम्भकत्वं नेष्यते, मूर्तानां समानदेशत्वविरोधात् । न हि
परमाणवः प्रथमं कार्यमारभ्य, तदनु त एवोत्तरोत्तरकालं कार्याण्यार
भन्ते । किन्तु यत्परमाणुनिर्वृत्तं कार्य द्व्यणुकं, तत् कार्यान्तरस्यारम्भकम्
तदप्यन्यस्य कार्यण्येत्येवं तावत्, यावत् परिपूर्णावयविनिष्पत्तिः ॥


II.423

इत्थं च तन्तुभिः पटः क्रियते, न तन्त्ववयवैरंशुभिः1321; इतरथा
ह्युत्तरोत्तरकार्यारम्भेऽपि पूर्वपूर्वकारणानपायात् मूर्तानामेकदेशत्वं स्यात् ।
न च तद्दृश्यत इति यथोक्त एव क्रमः श्रेयान् ॥


तदेवमनेकात्मसमवेतधर्माधर्मसंस्कारपरिपाकानुरूपप्रसरदीश्वरेच्छा
प्रेर्यमाणपरमाणुक्रियानुपूर्वीनिर्वर्त्यमानद्व्यणुकादिकार्यप्रक्रमेण शरीराद्य
वयविनिवृत्तिरिति स्थितम् ॥


शरीरविषये पक्षान्तराणि


एतद्विपरीतानि तु मतान्तराणि प्रमाणविरुद्धानि । तथाहि—नित्य
मेव शरीरादि अनुत्पत्तिधर्मकमिति प्रत्यक्षविरुद्धम् । पृथिव्यादेरप्यव
यवसन्निवेशविशिष्टत्वात् कार्यत्वम् ईश्वरसिद्धौ निर्णीतम् ॥


आकस्मिकत्वमपि शरीरादेः कार्यस्य न युक्तम्; कारणनियमो
पलम्भात्, अनिमित्तायाश्च भावोत्पत्तेरनुपपत्तेः ॥


अभावात् भावोत्पत्तिरपि तादृगेव ॥


त्रिगुणात्मकप्रधानविकारमहदहङ्कारादिकारणकत्वमपि कार्यस्य
पृथिव्यादेः प्रागेव प्रतिषिद्धम् ॥


अनारब्धावयविरूपकार्याः परमाणव एवैते 1322संचयविशिष्टास्सन्तः
लोकयात्रां वहन्तीत्येतदपि न समीचीनम्; संचयस्य भेदाभेदविकल्पाभ्यां
नुपपद्यमानत्वात्, परमाणूनां चातिसौक्ष्म्यादप्रत्यक्षत्वात् ॥


1323पौद्गलिककार्यपक्षेऽपि पर्यायान्तरेण परमाणूनां कथनम्, अप्रमाण
कत्वं वा ॥


II.424

शब्दविवर्तत्वं 1324तदनुगमाग्रहणादनुपपन्नम् ॥


1325परमात्मोपादानत्वमपि न संभवति, तस्यैव निष्प्रमाणकत्वात् ॥


न च न कदाचिदनीदृशं 1326जगत् पू. सं. 491 इति पादप्रसारिका
मात्रं कर्तुमुचितम्; सर्गप्रलयप्रबन्धस्य समर्थितत्वादिति ॥


अतश्च पक्षान्तरदुर्बलत्वात्

यथोदितः सिद्ध्यति भूतर्गः ।

तं यस्तु पश्यन्नपि निह्नुवीत्

तस्मै नमः पण्डितशेखराय ॥

अनादौ संसारे स्थितमिदमहो मूढमनसां

जनित्वा जन्तूनां मरणमथ मृत्वापि जननम् ।

इयं सा दुःखानां सरणिरिति संचिन्त्य कृतिना

निधातव्यं चेतो जननमरणोच्छेदिनि पदे ॥

फलपरीक्षा


प्रवृत्तिदोषजनितोऽर्थः फलम् ॥ १-१-२० ॥


प्रवृत्तिदोषास्तु व्याख्याताः । तज्जनितोऽर्थः फलमित्युच्यते ।
अर्थपदग्रहणं गौणमुख्यभेदप्रदर्शनार्थम् । सुखदुःखे मुख्यं फलम् ।
तत्साधनं तु शरीरेन्द्रियविषयादि गौणम् । सर्वं हीदं प्रवृत्तिदोषाक्षिप्तं
II.425 फलमित्युक्तम् । तदिदमनादिना प्रबन्धेन प्रवर्तमानं फलं पुनः पुनरु
भुज्यत इति महतः खेदस्य हेतुरिति भाव्यमानं निर्वेदवैराग्यादिमार्गेणा
पवर्गोपयोगितां प्रतिपद्यते ॥


आत्तमात्तं विजहतः त्यक्तं त्यक्तं च गृह्णतः ।

पुंसः फलटीयन्त्रं अहो कष्टः परिश्रमः ॥

फलद्वैविध्यम्


तत्पुनः फलं कर्मणा किं सद्य एव संपद्यते, कालान्तरेण वा ?
उच्यते—द्विविधं कर्म—विहितं निषिद्धं च । तत्र विधिफलानां काल
नियमो नास्ति । क्रियाफलं हि दोग्धि पचति इति समनन्तरमुत्प
द्यमानं दृश्यते1327 । विधिफलानां तु नैव नियम इति शब्दपरीक्षायां चित्रा
क्षेपपरिहारावसरे पू-सं-657 निरूपितमेतत् ॥


विधिफले विशेषः


विधिफलमपिः च किंचन चोदनावचनपर्यालोचनया सद्य इति निश्ची
यते, वृष्टिरिव कारीर्याः । किंचित् ऐहिकफलमपि कर्म वस्तुबलात्
कालान्तरापेक्षं भवति, पुत्रेष्ट्यादि । न हि सहसैव निधिलाभवत् पुत्र
लाभः संभवति, गर्भसंभवहेतुभूतभार्यापरिरम्भणादिक्रमापेक्षत्वात् ॥


ज्योतिष्टोमादि तु स्वर्गफलं कर्मफलस्वरूपमहिम्नैव पारलौकिक
फलमवर्तिष्ठते । स्वर्गो हि निरतिशया प्रीतिः, तदन्यथानुपपत्तिपरि
कल्पितः, कनकगिरिशिखरादिर्वा भोगदे1328शः । उभयथाऽपि नैतद्देहो
II.426 पभोगयोग्यतां प्रतिपद्यते । अनियतफलं तु चित्रादि कैश्चिदुक्तम् ।
तच्च युक्तमयुक्तमिति वा तत्रैव परीक्षितम् ॥


निषिद्धफलविचारः


निषिद्धस्य तु कर्मणः सर्वस्यैव प्रायेण परलोक एव फलम् । पर
दाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम् । निषेधविधि
फलं तु नरकपतनं पारलौकिकम् । स्वर्गवन्नरकस्यापि निरतिशयदुःखा
त्मनः, तदन्यथाऽनुपपतिपरिकल्पितदेशस्वभावस्य वा एतच्छरीरानुप
भोगयोग्यत्वात् ॥


तीव्रसंवेगनिर्वृत्तं तु कर्म विहितं इतरद्वा प्रत्यासन्नविपाकं इहैव
भवति, 1329नन्दीश्वरनहुषयोरिवेत्यागमविदः ॥


चोरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवे
त्येवमेषां विचित्रः कर्मणां विपाकः ॥


कर्मणां फलप्रदत्वप्रकारः


यदपि चोच्यते—कर्मकाले फलं नास्ति, फलकाले कर्म नास्ति ।
कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति—तदपि
पूर्वं परिहृतम् । कर्मणां विनाशेऽपि तज्जनितस्य आत्मसंस्कारस्य धर्मा
धर्मशब्दवाच्यस्य भावात् । दृष्टस्य च सेवादेः कारणस्य व्यभिचारात्
अदृष्टकल्पनाया अवश्यंभावित्वात् ॥


II.427

धर्मादेरात्मनिमवायात्, फलस्य च पुत्रपश्वादेः अन्यत्र समवेत
त्वात् भिन्नाधिकरणत्वं कर्मफलयोरित्यपि न चोद्यम्; मुख्यस्य सुखदुःखा
त्मनः फलस्य भिन्नाश्रयत्वानुपपत्तेः । सुखदुःखे ह्यात्मनि वर्तेते, धर्मा
धर्मौ च तत्स्थावेवेति ॥


1330दृष्टं नैव सुखस्य कारणमतस्तद्धेतुरागेण किं ?

दुःखस्यापि न तन्निबन्धनमिति द्वेषस्तदर्थेषु कः ?

तस्मात्कर्मनिमित्तकं फलमिति ध्यायन्न कुर्यात् कृती

सङ्गं कर्मणि येन दुस्तरमसौ संसारमापद्यते ॥

दुःखपरीक्षा


बाधनालक्षणं दुःखम् ॥ १-१-२१ ॥


बाधना पीडनं—सन्तापनम् । सा लक्षणमस्येति बाधनालक्षणं
दुःखम् । तत्र मुख्ये दुःखे लक्ष्ये, लक्षणशब्दो यथाश्रुत एव । बाधनयैव
हि दुःखस्वरूपं लक्ष्यते—बाधयति दुःखयतीति । गौणे तु दुःखे
शरीरादौ लक्ष्ये, बाधनालक्षणं—बाधनानुषक्तमिति व्याख्येयम् ॥


प्रत्येकं दुःखलक्षणकथनाक्षेपः


ननु ! पूर्वसूत्रव्याख्यातेन फलग्रहणेनैव दुःखस्योपदिष्टत्वात् किमर्थ
पुनरुपदेशः ? सुखप्रत्याख्यनार्थ इति चेत्—न—पूर्वापरविरोधात् । सकल
प्राणभृदनुभवसाक्षिकत्वेन च सुखस्य प्रत्याख्यातुमशक्यत्वात् । तत्प्रत्या
ख्याने च विवक्षिते किमर्थं प्रमेयसूत्रे फलपदोपादानम् ? फले खलु सुख
II.428 दुःखे इति व्याख्यातम् । ततश्च सुखे प्रत्याख्याते दुःखमेवावशिष्यते ।
तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन ?


उक्ताक्षेपपरिहारः


उच्यते—न सुखलेशस्य संसारे जन्तुभिरन्तराऽन्तराऽनुभूयमानस्य
प्रत्याख्यानाय दुःखग्रहणम् । किन्तु सर्वत्र तथात्वभावनोपदेशार्थम्1331
सोऽपि हि सुखलवः दुःखमेवेति भावयितव्यः, तत्साधन
दुःखमेवेति मन्तव्यम् ॥


न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः ।

न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥

दुःखे तारतम्यम्


तदित्थं दुःखं उत्कृष्टं तिरश्चाम्, मध्यमं मनुष्याणाम् । हीनं
देवानाम् । हीनतरं वीतरागाणामित्यागमविदः । वीतरागाणां दुःख
तानवं युक्तितोऽप्यवगम्यते, दुःखस्य रागनिबन्धनत्वात् ॥


तत्त्वतश्चिन्त्यमानं हि ? सर्वं दुःखं विवेकिनः ।

विषसंपृक्तमधुवत् सुखं दुःखीभवत्यदः ॥

सुखाधिगमलोभेन यतमानो हि पुरुषः ।

सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥

एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् ।

सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥

II.429
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।

क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥

दुःखस्य फलरूपत्ववर्णनफलम्


ननु ! एवं तर्हि फलग्रहणं न कर्तव्यम्, दुःखपदेनैव गतार्थत्वादि
त्युक्तम्—मैवम्—तस्यान्यप्रयोजनत्वात् । प्रवृत्तिदोषजनितत्वेन सुखदुःखे
भावयितव्ये अभ्यासेन च वर्तमाने इति । कर्मदोषजनितत्वेन हि फलमनु
चिन्तयतः तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम् । अभ्या
वृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानः तत्रात्यन्ताय
निर्विद्यतामिति फलग्रहणम् । तदेवं अन्यथा फलस्य निःश्रेयसोपयोगि
त्वम्, अन्यथा तु फलत्वे सत्यपि दुःखस्येति ॥


दुःखस्वरूपनिगमनम्


दीर्घस्य दुःखस्य निमित्तभूतं

सुखं च दुःखात्मकमेव सर्वम् ।

मुमुक्षुणा हेयतया विचिन्त्यं

1332देहादि दुःखान्तमिदं प्रमेयम् ॥

इति निपुणमतिर्यो दुखमेवेति सर्वं

परिहरति शरीरे क्लेशकर्मादिजाम् ।

अजमजरमनन्तं चिन्तयन्नात्मतत्त्वं

गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां अष्टममाह्निकम् ॥

  1. अशेषविशेषगुणोच्छेदो हि मोक्षः ॥

  2. चेष्टते इति व्यवहारः खलु यत्नाधीनव्यापार एव स्वरसः ॥

  3. लङ्घनं—निरशनम् ॥

  4. अर्थः—भोगः । तदाश्रय तदवच्छेदकं शरीरम् ॥

  5. देहेन्द्रियादिविलक्षणत्वज्ञानमात्मन आवश्यकम् । तच्च देहेन्द्रियादीनां स्वरूपनिष्कर्षमन्तरा न संभवति ॥
  6. सितेतरसरणिः—कृष्णवर्त्मा—अग्निः ॥

  7. इतराणि तु सहकारीणि ॥

  8. अनेन चैतद्ज्ञानस्य प्रयोजनमुक्तम् ॥

  9. त्वक् पदं इन्द्रियवाचकमपीति केचन ॥

  10. पृथिव्यप्तेजोवायुषु ॥

  11. भूतापेक्षया व्यापकत्वम् ॥

  12. तदाधिकरणं—तदाधिकरणकम् ॥

  13. इन्द्रियं स्वसम्बद्धं वस्तु गृह्णातीति पक्षः प्राप्यकारित्वपक्षः । असंबद्धं गृह्णातीति पक्षः विपरीतः बौद्धानाम् । संबन्धः—सन्निकर्षः ॥

  14. घ्राणेन्द्रियं न द्रव्यग्राहकम् ॥

  15. तस्य बहिः प्रसराङ्गीकारत् ॥

  16. प्रत्यक्षतः, अनुमानतो वा यत् यथा प्रतिपन्नम्, तत्तथैव । तत्र एवमेव भवतु, तथा मा भवतु इति विधिनिषेधौ न संभवतः । प्रमाणं खलु तद्विषयं व्यवस्थापक मित्यर्थः ॥

  17. पृषदंशः—मार्जालः ॥

  18. वैद्यकचिकित्सादीनां गोलक एव खलु प्रयोगः, न तु इन्द्रिये; तस्या तीन्द्रियत्वादित्याक्षेपयेयेदं समाधानम् ॥

  19. एकप्रकृतिकत्वम्—एकोपादानकत्वम् । अहंकारतत्त्वात् सर्वेन्द्रियाणां युगपत उत्पत्तिरिति सांख्याः ॥

  20. सुगन्धद्रव्यसज्जींकरणसंस्काराद्युपयोगिद्रव्यम् ॥

  21. अवयवाः—जिह्वानासिकादयः ॥

  22. उत्तरमानसम्—मानससरोवरोत्तरक्षेत्रम् ॥

  23. एवं सति सर्वप्राणिनां इन्द्रियमेकमेव, शरीरभेदात् कार्यवैलक्षण्यमिति स्यात् । इष्टापत्तौ च सर्वात्मनार्मेक्यं स्यादिति नर्मोक्त्या समाधत्ते—सरलेत्यादिना ॥

  24. नानात्वम्—इन्द्रियनानात्वम् ॥

  25. बुद्धीन्द्रियं—ज्ञानेन्द्रियम् ॥

  26. किं बहुना । वृश्चिकासनाद्यभ्यासवन्तो हि पाणिभ्यामपीषद्विहरन्ति ॥

  27. अखण्डगेय—गानविशेषः, आनाभेरुत्थप्यमानस्वरैर्गेयः ॥

  28. कूर्मी—वाद्यविशेषः ॥

  29. मनोबुद्ध्यहङ्कारभेदेन त्रिविधमन्तःकरणमिति सांख्याः ॥

  30. पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, त्रीण्यन्तःकरणानि ॥

  31. प्रकर्षेण मेयम्—प्रमेयमिति व्युत्पत्त्या हेयतया मुमुक्षुज्ञेयत्वमुक्तम् ॥

  32. प्रथमस्य—प्रधानस्य ॥

  33. सक्तिः—आसक्तिः, राग इति यावत् ॥

  34. विशेषः—गुणेष्ववान्तरविभागः ॥

  35. शब्दस्पर्शरूपरसगन्धाः पञ्चविषयाः साक्षाद्बन्धहेतवः । एतद्द्वारेव संख्यापरिमाणादीनां बन्धकत्वम् ॥

  36. इतरत् जले गन्धवदौपाधिकमस्तु ॥

  37. यस्य कस्यचित् क्वचिदौपाधिकत्वे हि विनिगमकाभावः ॥

  38. गुणः—गन्धः ॥

  39. अगदः—व्याधिः । अन्यत्—हरीतक्यादि ॥

  40. तेभ्यः—समानेतरजातीयेभ्यः ॥

  41. बुध्युपलब्धिज्ञानानां भिन्नत्वं सांख्या मन्यन्ते । तन्निराकरणार्थं एषामर्थान्तरत्वं निरस्यते सूत्रे । इतरदार्थिकम् ॥
  42. बुद्धिस्तु प्रकृतेः परिणामः । ज्ञानं तु पुरुषस्य स्वरुपं मुख्यम् । गोणं तु ज्ञानं बुद्धेः वृत्तिरेव । तदा तु पुरुषस्य स्वरूपं चैतन्यम् ॥

  43. सत्कार्यवादिनः सांख्याः उपादानोपादेययोः अभेदमङ्गीकुर्वन्ति । अतः तदात्मक इत्युक्तम् ॥

  44. सा—भोग्यता ॥

  45. यतः स्वतः निर्गुणः निर्विकारश्च ॥

  46. तद्विर्ययः—अधर्माज्ञानावैराग्यानैश्वर्यरूपः ॥

  47. सात्त्विकाहंकारादेकादशेन्द्रियाणि, तामसाहंकारात्पञ्चतन्मात्राणि जायन्ते ॥

  48. तस्य—पुरुषस्य । अन्यत्वम्—रूपान्तरापत्तिः ॥

  49. व्यापकत्वात्—विभुत्वात् ॥

  50. असौ—जडा ॥
  51. In the print edition there is a footnote reference, but no corresponding note.

  52. क्षीरं किल शिशुं स्वयं पोषयति ॥

  53. अन्ये—अतत्त्वविदः ॥

  54. स्वभावो दुरतिक्रमः
    इति हि न्यायः ॥
  55. ज्ञानम—गौणम् बुद्धिः, तस्याः वृत्तिः । तस्याः फलं उपलब्धिः ॥
  56. ज्ञानम—गौणम् बुद्धिः, तस्याः वृत्तिः । तस्याः फलं उपलब्धिः ॥
  57. न तु दर्शनम् ॥

  58. यतः पुरुषः अपरिणामी अप्रतिसंक्रमश्च ॥

  59. स्वाभाविके इति शेषः ॥

  60. स्वतः परिणामस्वभावा हि प्रकृतिः ॥

  61. प्रकृतिः किल सर्व कारणी एका ॥
  62. सुखदुःखमोहात्मिका हि प्रकृतिरुच्यते ॥

  63. प्रकृतिः किल सर्व कारणी एका ॥
  64. अन्वयदृष्टान्ताभावादिति हेतुः ॥

  65. तदा हि मृदं करोति इति व्यवहारःस्यात् । न तु घटं करोति इति ॥

  66. मृत्पिण्डघटयोरत्यन्तं भेदात् द्वयोरप्युपलब्धिः स्यात् ॥

  67. परुत्—यस्मिन् कस्मिंश्चित् ॥

  68. तिलेष्विति शेषः ॥
  69. कार्यनिष्पत्तिर्हि कारकव्यापारावधिः ॥

  70. तावत्यर्थे सत्कार्यवादश्चेत्, इष्टापत्तिः ॥

  71. दृश्यस्यादर्शनम्—योग्यानुपलब्धिः ॥

  72. भवदभिमतार्थे इति शेषः । शशशृङ्गदितौल्यनिराकरणमात्रे तापर्यादिति हेतुः । पूर्वापरान्तौ—पूर्वोत्तरावधी ॥

  73. प्रागसत्त्वमात्रं कार्यत्वप्रयोजकम्, न त्वसत्त्वमात्रमित्यर्थः ॥

  74. अकरणवेलायामपि तत्र शक्तिरस्तीति कथं वक्तुं शक्यम् ॥

  75. वस्तुस्वरूपसिद्धार्हतारूपा । न हि दण्डचक्रादिभिरपि पाषाणात् घटः कर्तुं शक्यः ॥

  76. आधाराधेयामावादिवदिति शेषः ॥

  77. असत् इस्यस्य कारणे इत्यादिः । तेन शशशृङ्गादिव्यावृत्तिः ॥

  78. प्रकृतेरेकस्या एव सर्वोपादानत्वात् ॥

  79. सरित्तीरसिकताभ्यः तिलसस्यस्योत्पत्त्या सिकतानां तिलोपादानत्वात् ॥

  80. तेजःपुरीषयोर्वर्चः इत्यमरः ॥

  81. ननु तत्तत्प्रागभावस्य तत्तत्कार्यं प्रति कारणत्वाङ्गीकारात् अभावात् भावोत्पत्तिर्दुर्वारेति चेत्, हेतौ पञ्चम्या अपि साधुत्वात् । अन्यथा तन्मते घटः मृत्पिण्ड एव वर्तते; न तु दण्डादिषु इति निरूपणासंभवप्रसङ्गः ॥

  82. मृदं घटं करोति इत्येव व्यवहारात्, उपादानकारणेनेतरकारकसंबन्धात् न दोष इति भावः ॥

  83. अन्यथा कार्यकारणयोरसमानकालिकत्वापत्त्या क्षणिकवादतौल्यप्रसङ्गः ॥

  84. गुणाः—गन्धरसरूपस्पर्शशब्दाः ॥

  85. अत्र हेतुः अनन्तरवाक्येनोच्यते ॥

  86. प्रथमदलभेदनस्य द्वितीयदलभेदनस्य च हि कालभेदः अवर्जनीयः ॥

  87. मनसः तत्रात्यन्तं अपेक्षितत्वात् मानसभित्युच्यते । कारणं तु व्याप्तिज्ञानम् शब्दश्च यथासंख्यम् ॥

  88. बौद्धादिसंमतमिदम् ॥

  89. संस्कारः—भावनातिरिक्तः संस्कारविशेषः ॥

  90. प्रथममेव—प्राथमिक एवेत्यर्थः ॥

  91. इन्द्रियाणि हयानाहुः इति श्रुतिः ॥

  92. वागिन्द्रियं पूर्वमेव निरस्तम् ॥

  93. सुखदुःखयोरुभयोरपि हेयत्वात्, तद्धेतुभूतौ धर्माधर्मावपि हेयावेव ॥

  94. सन्तानः—आत्मा । बौद्धप्रभावात्प्रयुक्तः शब्दः ॥

  95. यद्यपि इन्द्रियसुखसामान्यं कामः, तथापि तीव्रत्वादस्य प्रयोगप्राचुर्याच्च एवं व्याख्यानम् ॥

  96. स्वस्मिन्नित्यादिः ॥

  97. मूढः—मोहाक्रान्तः ॥

  98. मिथ्याज्ञानस्यैव हेतुत्वं, तदभावस्य च विनाशकत्वम् ॥

  99. व्यक्तादेव व्यक्तानामुत्पत्तिः, न तु अव्यक्तादिति सूचनेनेत्यर्थः ॥

  100. अवयवपरंपरायाः कुत्रचिद्विश्रान्तौ सत्यां अधिकावयवत्वान्महत्वम्, न्यूनावयवत्वात् अल्पत्वं च वक्तुं शक्यम् ॥

  101. तदा हीश्वरस्य पक्षपातप्रसङ्गः ॥

  102. समान्यतः अल्पपरिमाणात् महत्परिमाणः अवयवी भवतीति नियमः । न त्ववयवसंख्यादिनियमः ॥

  103. आरभ्यस्य—कार्यस्य आरंभकत्वं—उत्तरोपादानत्वम् । कापालिकापेक्षया कपलः अवयवी । अयं च घटस्य उपादानम् । एवं च घटः कपालश्च द्वाववयवी समकालौ स्याताम् । अतः घटावस्थितिवेलायां पूर्वावयविनो नाशः, अवयवानाभेवावस्थानं वक्तव्यमिति भावः ॥

  104. न हि तन्तुर्नामावयवी पटकाले तिष्ठति ॥

  105. संचयविशिष्टाः—सङ्घातरूपा इत्यर्थः । इदं बौद्धानां मतम् ॥

  106. इदं जैनानाम् ॥

  107. अनुगमः—कारणस्य कार्येऽनुवृत्तिः ॥

  108. भर्तृप्रपञ्चादीनां ब्रह्मपरिणामवादिनां मतमिदम् ॥

  109. कदाप्यनीदृशं न, किन्तु अनादिकालादेवमेवेति स्वभाववादिनः ॥

  110. यद्यपि कृष्यादीनां क्रियाणामपि सद्यः फलं न दृश्यत इति शङ्का स्यात्; परन्तु फलपर्यन्ततावत्क्रियाया एव पाकादिवदेकक्रियारूपत्वात् कृषेः सद्यःफलत्वम् ॥

  111. In the print edition there is a footnote reference, but no corresponding note.

  112. नन्दीनामकः तीव्रतपःफलतया तदैव गाणापस्यस्थानमवाप । एवं नहुषः तीव्रपापफलतया क्षणादेव स्वर्गाद्भ्रष्टः । तथा हि श्रूयते—अत्युत्कटैः पुण्यपापरिहैव फलमश्नुते इति ॥

  113. फलपरीक्षायाः प्रयोजनमाह—दृष्टमित्यादिना ॥

  114. संसारे सुखमेव नास्ति, सर्वं दुःखमेवेति बौद्धा; । सिद्धान्तिनां पु अस्ति संसारे सुखलेशः । अन्यथा गुणगणनायां सुखस्य पाठो न स्यात् ॥

  115. द्वादशविधप्रभेयेषु आद्यन्तवर्जम् ॥