II.360

अष्टममाह्निकम्—प्रमेयपरीक्षा


शरीरपरीक्षा


आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात् तदनुक्रमेण तत्स्वरूप
निरूपणार्थमाह—


चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥ २-२-३२ ॥


शरीरस्य यल्लक्षणं, येन रूपेण विभाव्यमानस्यापवर्गोपयोगिता तदु
भयमपि प्रतिपाद्यते ॥


शरीरलक्षणम्


तत्र शरीरत्वमेव तावत् प्रथमं शरीरस्य लक्षणम् । तेन हि समाना
समानजातीयकेभ्यः तद्व्यवच्छिद्यते । तस्मिन् सत्यपि चेष्टेन्द्रियार्था
श्रयत्वं यदस्य लक्षणमुच्यते, तत् तेन रूपेणात्मनो भोगायतनं शरीरमिति
ज्ञापयितुम् । चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मनो भोगसाधनं भवति ।
मुमुक्षुणा1218सुखदुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगम
विनिहितमनसा तथा भोगाधिष्ठानत्वेन शरीरं भावयता तत्परिहरणे
यत्नः कार्य इति आचार्यः चेष्टेन्द्रियार्थाश्रयत्वमस्य लक्षणमुक्तवान् ॥


चेष्टास्वरूपम्


ननु ! चेष्टा क्रिया । क्रियाश्रयत्वे सत्यपि न वृक्षादीनां शरीर
त्वमिति अतिव्यापकं लक्षणम्—न—विशिष्टचेष्टाश्रयत्वस्य विशिष्ट

  1. अशेषविशेषगुणोच्छेदो हि मोक्षः ॥