II.428 दुःखे इति व्याख्यातम् । ततश्च सुखे प्रत्याख्याते दुःखमेवावशिष्यते ।
तच्चानेन दुःखशब्देनैव निर्दिष्टमिति किं फलग्रहणेन ?


उक्ताक्षेपपरिहारः


उच्यते—न सुखलेशस्य संसारे जन्तुभिरन्तराऽन्तराऽनुभूयमानस्य
प्रत्याख्यानाय दुःखग्रहणम् । किन्तु सर्वत्र तथात्वभावनोपदेशार्थम्1331
सोऽपि हि सुखलवः दुःखमेवेति भावयितव्यः, तत्साधन
दुःखमेवेति मन्तव्यम् ॥


न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः ।

न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥

दुःखे तारतम्यम्


तदित्थं दुःखं उत्कृष्टं तिरश्चाम्, मध्यमं मनुष्याणाम् । हीनं
देवानाम् । हीनतरं वीतरागाणामित्यागमविदः । वीतरागाणां दुःख
तानवं युक्तितोऽप्यवगम्यते, दुःखस्य रागनिबन्धनत्वात् ॥


तत्त्वतश्चिन्त्यमानं हि ? सर्वं दुःखं विवेकिनः ।

विषसंपृक्तमधुवत् सुखं दुःखीभवत्यदः ॥

सुखाधिगमलोभेन यतमानो हि पुरुषः ।

सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥

एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् ।

सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥

  1. संसारे सुखमेव नास्ति, सर्वं दुःखमेवेति बौद्धा; । सिद्धान्तिनां पु अस्ति संसारे सुखलेशः । अन्यथा गुणगणनायां सुखस्य पाठो न स्यात् ॥