II.429
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।

क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥

दुःखस्य फलरूपत्ववर्णनफलम्


ननु ! एवं तर्हि फलग्रहणं न कर्तव्यम्, दुःखपदेनैव गतार्थत्वादि
त्युक्तम्—मैवम्—तस्यान्यप्रयोजनत्वात् । प्रवृत्तिदोषजनितत्वेन सुखदुःखे
भावयितव्ये अभ्यासेन च वर्तमाने इति । कर्मदोषजनितत्वेन हि फलमनु
चिन्तयतः तत्कारणयोरनुकूलप्रतिकूलयोरस्य रागद्वेषौ मा भूताम् । अभ्या
वृत्त्या च ससाधनस्य फलस्य हानोपादानस्रोतसोह्यमानः तत्रात्यन्ताय
निर्विद्यतामिति फलग्रहणम् । तदेवं अन्यथा फलस्य निःश्रेयसोपयोगि
त्वम्, अन्यथा तु फलत्वे सत्यपि दुःखस्येति ॥


दुःखस्वरूपनिगमनम्


दीर्घस्य दुःखस्य निमित्तभूतं

सुखं च दुःखात्मकमेव सर्वम् ।

मुमुक्षुणा हेयतया विचिन्त्यं

1332देहादि दुःखान्तमिदं प्रमेयम् ॥

इति निपुणमतिर्यो दुखमेवेति सर्वं

परिहरति शरीरे क्लेशकर्मादिजाम् ।

अजमजरमनन्तं चिन्तयन्नात्मतत्त्वं

गतभयमपवर्गं शाश्वतं सोऽभ्युपैति ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां अष्टममाह्निकम् ॥


  1. द्वादशविधप्रभेयेषु आद्यन्तवर्जम् ॥