II.582

प्रतिज्ञायास्तावदागमोऽनुग्राहकः उपेयते, उपदेशस्वभावत्वात् ।
अनित्यः शब्दः इति वक्ता तु एवंविधे विषये ऋषिवदस्वतन्त्रत्वात् ।
अनुमानमुपदिशति । प्रतिज्ञावचनं तु तच्छायानुपातित्वात् । शब्दप्रामा
ण्यसिद्ध्यर्थे वा शास्त्रे तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतत्वमुच्यते ॥


हेतुवचनमनुमानेनानुगृह्यते ॥


उदाहरणं तु प्रत्यक्षेण, तन्मूलत्वाद्व्याप्तिपारिच्छेदस्य ॥


यथा गौः, तथा गवयः इतिवत् यथा घटस्तथा शब्दः इत्यनया
च्छायया उपमानकारणभूत वनेचरादिवचनसदृशत्वात् उपमानं उपनयस्या
नुग्राहकमभिधीयते ॥


निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानु
ग्राह्यतैव ॥


प्रतिज्ञादीनां प्रयोगक्रमः


इतरेतरानुषक्तत्वात् प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं
प्रयोक्तव्या अनित्यः शब्दः इति । ततो हेतुं परोजिज्ञासत इति हेतुवचन
मुच्चार्यते कृतकत्वात् इति । हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयि
तुमुदाहरणमुच्यते यत् कृतकं, तदनित्यं दृष्टं—यथा घटः इति । एव
मुक्ते दृशो निर्ज्ञातशक्तिरेष हेतुः साध्ये धर्मिणि भवेत्, न वेत्यसिद्धता
शङामपाकर्तुमुपनयः प्रसज्यते । ततः अमुना क्रमेण तवापि साध्यप्रतीति
र्भवतु
इति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते ।
अन्यतममवयवमन्तरेण सकलमिदमनुषक्तार्थवाक्यं स्यादिति पंचावयवमेव
यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् ॥