वाक्च्छलमेवोपचारच्छलं तदविशेषात् ॥ १-२-१५ ॥
न खलु वागुपचारच्छलयोः कश्चिद्विशेषः । अनेकधा शब्दार्थे संभवति
वक्त्रभिमतादर्थादन्यस्य कल्पनं, तत्प्रतिषेधनं चोभयत्रापि समानम् ।
अवान्तरविशेषकृतनानात्वाभ्युपगमे च तदानन्त्यप्रसङ्गः ॥
अत्र समाधिमाह—
न तदर्थान्तरभावात् ॥ १-२-१६ ॥
नैतदेवम्—वाक्छलमेवोपचारच्छलमिति, ततोऽर्थान्तरत्वात् । वाक्छले
हि नवकम्बलः इति नवसु कम्बलेषु, नवे च कम्बले मुख्यार्थ एव शब्दः
1654सरामः इत्यादिवत् । ततस्त्वेकतरं वक्तुरनभिप्रेतं छलवादिनाऽऽरोप्य
निषिध्यते । उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मंचशब्दः पुरुष
भक्त्या प्रवृत्तः । मुख्यमभिधाय च गौणः प्रत्याय्यो भवति । न त्वेष
क्रमः साधारणशब्देष्विति महान् भेदः ॥
वाक्च्छले चार्थसत्तैव निषिध्यते कुतोऽस्य नव कम्बलाः इति ।
इह तु सतो मंचस्य क्रोशनशक्तिर्निषिध्यते ॥
समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले
वाच्यः । उपचारच्छले तु गौणशब्दवृत्त्यनभिज्ञतामिति महान् विशेषः ॥
छलत्रैविध्यसमर्थनम्
अविशेषे वा किञ्चित्साधर्म्यादेकच्छलप्रसङ्गः ॥ १-२-१७ ॥
-
सः समः इति, समेण, रामया सह वा वर्तत इत्यर्थभेदास्संभवन्ति । परन्तु सर्वेऽपि मुख्याः ॥
↩