II.644

छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्य
च्छलं पार्श्वे कृत्वा वागुपचारच्छलयोरभेदमभिहितवानसि । यथा चायं
तदविशेषादिति त्रित्वप्रतिषेधः, तथा द्वित्वस्यापि, किंचित्साधर्म्यस्य
सामान्यच्छलेऽपि भावात् ॥


तथा हि—यदि तावद्वाचि निमित्तभूतायां इदं प्रवृत्तं छलम्, इदं चेति
तदभेदं मन्यसे, तर्हि सामान्यच्छलमपि मा पृथग्वोचः । तदपि हि न
शरीरे मनसि बुद्धौ वा प्रवृत्तम्, अपि तु वाच्येवेतिः वाक्छलमेवैक
स्यात् ॥


अथैवं सत्यपि तद्विशेषो दृश्यमानः न पराणुद्यते, सामान्यच्छलेपि न
शब्दार्थोऽन्यथाकृतः, किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथ
गिष्यते; तर्हि वागुपचारच्छले अपि भिद्येते एवेति दर्शितम् । अतो युक्तं
छलत्रित्वम् ॥


न चानन्त्यम्, इयत्तानियमकारिणः निमित्तत्रयस्य दर्शितत्वात् ।
अवान्तरभेदकृतं तु तदानन्त्यमिष्यते एव जातिवदित्यलं प्रसङ्गेन ॥


तस्मात् परस्परविविक्तनिजस्वरूपं

ईदृक् छलत्रितयमेतदिहोपदिष्टम् ।

तस्य क्वचित्स्वयमपि क्रियते प्रयोगः

वाच्यः परैरभिहितस्य तथा समाधिः1655

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या एकादशमाह्निकम् ॥


  1. वादिनोः परस्परं स्फूर्तिप्रतिभादिपरीक्षणाय, सदस्यानां स्वचातुर्यप्रदर्शनेना, वर्जनाय वा छलस्य प्रयोगः ॥