II.585 ज्ञानार्थं ऊहस्तर्क इति । यथा वाहकेलिप्रदेशादौ ऊर्ध्वत्वविशिष्टधर्मि
दर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः ॥


तत्त्वज्ञानार्थदलप्रयोजनम्


ननु ! तत्त्वज्ञानार्थम् इत्युक्ते सति सामार्थ्यादविज्ञाततत्त्वता—
लभ्यत एवेति किमर्थं कण्ठेन पुनरनूद्यते—बाढम्—किन्तु क्वचिद्विषये
ज्ञाततत्त्वेऽपि पूर्वतर्केणावसृष्टे सति, उत्तरकालं तर्कितो मयाऽयमर्थ इति
स्मर्यमाणतर्कविशेषणतया गृह्यमाणः विशेषणीभूतस्तर्कः तत्त्वज्ञानार्थो1584
भवतीति तद्युदासाय पुनरविज्ञाततत्त्वग्रहणम् । मार्गशोधनद्वारेण तर्कस्य
तत्त्वज्ञानार्थत्वमिह विवक्षितम् । तच्च अविज्ञाततत्त्वेऽर्थे संभवतीति ॥


तर्कस्यातिरिक्तत्वाक्षेपः


ननु ! नैव संशयनिर्णयान्तरालवर्ती1585तर्कप्रत्ययः कश्चिदस्ति ।
तथा हि—यदि तावादनवगतविशेषस्य । संभवत्यसौ प्रत्ययः, तर्हि संशय
एव भवेत् । अवगतविशेषस्य भवन् निर्णयतामेव स्पृशेत् । पुरुष एव
इति एवकारार्थासमुन्मेषरहितोऽपि प्रत्ययः नानिर्णयो भवितुमर्हति ।
तुरगपरिसरणसमुचितदेशदर्शनमपि यदि स्थाणुपक्षं स्थगयितुमलमिति
मन्यते, तत् करचरणादिनरविशेषदर्शनवत् तन्निर्णयकारणमेव स्यात् ।
अथ तस्यामपि तुरगविहरणभुवि निशि निखनति कश्चन स्थाणुमिति
शङ्कसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एव स्यात्—इति न तृतीयः
पक्षः समस्तीति—लक्ष्याभावात् कस्येदं लक्षणमिति ॥


  1. तत्त्वज्ञानदाढ्यार्थतर्कचिन्तनरूपः खलु सः, न तर्कः ॥

  2. तर्कप्रत्ययः—तर्करूपं ज्ञानम् ॥