II.586

तर्कस्यातिरिक्तत्वनिरूपणम्


उच्यते—न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेद
नीयाः प्रतीतयोऽपनेतुं शक्याः । तथा हि—स्थाणुर्वा, पुरुषो वा इति
प्रतीतिरेका, पुरुष एवायं इत्यन्या ? अन्या च पुरुषेणानेन भवितव्यं इति
मध्यवर्तिनी तृतीया संभावनाप्रतीतिः, स्वहृदयसाक्षिकैव ॥


साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः ।

निर्णये त्वितरः पक्षः स्पृश्यते न मनागपि ॥

तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव ।

नरसंभावनाबीजवाजिवाहनदर्शनात् ॥

वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि संभावनामात्रमुपजनयितुमलं, न
तु शिरःपाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसारणेन पुरुषस्य
निर्णयाय प्रभवति । अतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययः, न तु
संशयः; एकतरपक्षानुकूलकारणोपपत्त्यत् जायमानत्वात् ॥


तर्कस्यानिर्णयरूपत्वम्


कथं पुनः पाणिपादादिपुरुषविशेषवत् अश्ववाहनदेशविशेषः
विशेषकार्यं न कुर्यात् । करणे वा स्थाणुपक्षोत्सारणात् निर्णय एवायमिति
—कस्यैष पर्यनुयोगः—यथा हि शिरःपाण्यादिदर्शने सति पुरुषनिर्णयो
भवति, न तथा तुरगवहनदर्शने सति । अननुयोज्याश्च पदार्थाः एवं
भवत
एवं मा भूत इति । यथा च 1586देशान्तरे स्पर्धमान एव स्थाणु
पक्ष आस्ते, न तथा वाहकेळिभूमौ, अपि तु शिथिलीभवति । संभव
त्प्रमादत्वाच्च न सर्वात्मना निवर्तते ॥


  1. देशान्तरे—अरण्यादौ । निवर्तते—स्थाणुपक्षः ॥