II.587

तर्कः न संशयरूपः


ननु ! यदि न निवर्तते, तर्हि स्पर्धताम् । मा वा स्पर्धिष्ट । स्थित
स्तावत् स्थाणुपक्ष इति संशय एवायमिति—मैवम्—न स्थाणुपक्षः सर्वा
त्मना निवर्तते, नाप्यास्ते । एवमेवायं त्रिशङ्कुरिव लम्बमानः 1587प्रत्या
यान्तरनिर्वृत्तये प्रभवतीति तथा विधप्रत्ययानुभवादेव परिकल्प्यते ।
वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति, न तथा
स्थाणुविशेषाः । उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलि
प्रदेशविशेषः शिथिलयति स्थाणुपक्षं, न सर्वात्मनोच्छिनत्तीति । तत्
दर्शनात् भवति प्रत्ययान्तरमूहरूपं पुरुषेणानेन भवितव्यम्, इतीत्यल
मतिविस्तरेण ॥


भाष्योक्तोदाहरणविमर्शः


यत्तु भाष्यकारेण तर्कोदाहरणमभ्यधायि—जन्मोच्छेददर्शनात्
1588कृतकतत्कारणप्रत्यय इति—न तद्धृदयङ्गमम्—तेन क्रमेण निर्णय
एवासौ तत्कारणतथात्वं न तर्क इति ॥


अथवा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्क
प्रत्ययो द्रष्टव्यः । स उदाहरणं भविष्यति ॥


ऊहादिपदप्रयोजनम्


ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव—
तर्कस्य लक्षणम्, यत् ऊहरूपत्वम् । इतरस्तु सूत्रे कारणविशेषा

  1. प्रत्ययान्तरं—विलक्षणप्रत्ययम् ॥

  2. तत्करणं—जन्मकारणं कृतकमिति प्रत्ययः । तर्क इतिशेषः । अत्मनः जन्मनः-शरीरसंबन्धस्य कारणं यदि नित्यं, तर्हि शरीरसंबन्धोऽपि नित्यः । यद्यनित्यः तर्ह्यनित्यः कदाचिन्निवर्तेत । अयं विचारः प्रथमसूत्रस्थः ॥