499

न गत्यभावात् ॥ ३ । २ । ८ ॥


आक्षेप्तुर्वचनम्—ममाप्येवं कस्मान्नेति । समाधातुर्वचनम्—न, करणभेदे
दृष्टत्वादिति ।
करणभेदे हि सत्येकस्य कर्तुर्युगपदनेकं कार्य दृष्टम् । सांख्यानां
चान्तःकरणं कर्तृ व्यापकं चेति सर्वेन्द्रियव्यापकेनान्तःकरणेनाधिष्ठितानी
न्द्रियाणि युगपदेव कार्याणि कुर्युः । अस्माकं त्वन्तःकरणस्य करणत्वादेकेन्द्रिय
ग्राह्येऽपि न युगपत् कार्योत्पाद इति विशेषः ।


गत्यभावाच्च प्रतिषिद्धं विभुनोऽन्तःकरणस्यायुगपद्ग्रहणं न
लिङ्गान्तरेणानुमीयते
इति भाष्यस्य गत्यभावाच्च विभुनोऽन्तःकरणस्येति
प्रतीकमनूद्य तस्यार्थमाह—प्राप्त्यर्थस्य गमनस्याभावादिति । नायुगपत्प्रत्ययो
त्पत्तौ प्रमाणमस्ति येन प्रमाणेन प्रतिषिद्धमपि 1911प्रत्यययौगपद्यं प्रतिपद्येत ।

तस्माद् विभुन्यन्तःकरणेऽवश्यंभावि प्रत्यययौगपद्यम् । न चैतद् दृष्टम् । तस्मा
दन्तःकरणमण्वित्यर्थः । ननु दीर्घां शष्कुलीं भक्षयतः पञ्चानामपि ज्ञानानां युगपदुत्पादो
दृष्ट इति 1912कोऽयं प्रसङ्गः ? अन्तःकरणस्य विभुत्वे युगपदुत्पादः प्रसज्येतेत्यत
आह—न च युगपत्प्रत्ययोत्पत्ताविति । अतिशीघ्रतया युगपदुत्पादाभिमानो न तु
तत्र यौगपद्यं भाविकमित्यर्थः ।


पुरुषो जानीते नान्तःकरणमिति स्वमतसमाधानपरं भाष्यं व्याचष्टे—यस्य
पुनर्वृत्तिवृत्तिमतोरिति ।
यदपि सांख्या आचख्युर्विषयान्तरव्यासक्तेऽन्तःकरणे
चक्षुरादिसंबन्धस्याप्यज्ञानादन्तकरणवृत्तिर्ज्ञानमिति तन्निराकरणपरं भाष्यम्—एतेन
विषयान्तरव्यासङ्ग
इति । तदनुभाष्य वार्त्तिककारो व्याचष्टे—एतेनेति । तत्रैतेने
त्यस्योपजीव्यार्थमाह—पुरुषो जानीते नान्तःकरणमिति हेतुना विषया
न्तरव्यासङ्गः
अन्तःकरणस्य प्रत्युक्तः । व्यासक्तो हि स भवति यो जानीते । न
चान्तःकरणं जानीते किन्तु पुरुष इति तस्येदृशो व्यासङ्गो नान्तःकरणस्य,

  1. प्रत्ययायौ°J

  2. क्वायंJ