500 अन्यादृशस्त्वन्तःकरणस्य व्यासङ्गो न निषिध्यत इत्यर्थः ॥ ८ ॥


स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः ॥ ३ । २ । ९ ॥


चोद्यभाष्यम्—एकमन्तःकरणं नाना वृत्तय इति । तद् व्याचष्टे—एक
मन्तःकरणं नानावृत्तय इति नैतदिति ।
सम्यगाचष्टे जानीते संचक्षाणकः
सांख्यः ।
संख्या हि समीचीना बुद्धिः, तया वर्तते इति सांख्यः । एतदुक्तं
भवति—यद्यपि वृत्तयो नाना प्रतिभान्ति, तथापि भ्रान्तिरियमन्तः
करणादेकस्मादभिन्नानां नानात्वानुपपत्तेः । तस्मात् स्फटिकस्य यथैकस्यापि
तापिच्छजपाकर्णिकारादिकुसुमोपधानभेदाद् भेद औपाधिकः, एवमन्तःकरणमणेरपि
स्वच्छस्येन्द्रियप्रणाडिकया तत्तदर्थोपरक्तस्यौपाधिकं नानात्वम्, वृत्तिरिति च
प्रत्यय इति ज्ञानमिति चाख्यायते इत्यर्थः ।


तदेतद् दूषयति—स्फटि…नः ॥ नानेकान्तादिति । योऽपि वृत्तीनामौपाधिकं
भेदमाह, तेनाप्युपाधयोऽर्था आजानतो भिन्ना वक्तव्याः । तथा च भेदस्य द्विधा
दर्शनादनेकान्तो दृष्टान्तो नैकार्थस्य साधकः ।


न हेत्वभावादिति भाष्यं व्याचष्टे—यथाश्रुति सूत्र इति । न केवलं साधनाभावः,
बाधकं चात्रास्तीत्याह—विकल्पानुपपत्तेश्चेति । न परपक्षस्य प्रतिषेधमात्रेण
स्वपक्षसिद्धिरस्तीत्याशयवान् पृच्छति—अथ भवताम् इति । उत्तरम्—ज्ञानानां
क्रमेणेति ।
स्यादेतत् । प्रत्ययनानात्वाभिमानो भविष्यति हेतुरेकत्वे वृत्तीनाम् ।
एकत्वं वृत्तीनां प्रत्ययनानात्वाभिमानविषयत्वात् स्फटिकवदिति । तस्मान्न हेत्वभाव
इत्यत आह—एकानेकविषयत्वाच्च प्रत्ययनानात्वाभिमानस्य एकानेक
विषयाधिगतिः कथमिति ।
नानात्वाभिमानोऽपि दृष्टान्तवदसाधकोऽनैकान्तिकत्वात् ।
तदेवमन्तरा परकीयामाशङ्कां निराकृत्य पुनरपि वृत्तिभेदं साधयति—यश्चायमभिन्न
इति । यद्यर्थोपधानभेदात् प्रत्ययेषु भेदो नाजानतः, तत एकस्मिन्नर्थे न प्रत्ययभेदः