483

तमिमं विशेषं मध्यन्दिनोल्काप्रकाशादावविद्वान् पृच्छति—कस्मात्पुनर्नायन
स्येति ।
अस्योत्तरम्—अभि…वात् ॥ अभिभवनीयस्वरूपमाह1881यदुद्भूतरूपमिति ।
तद्वैधर्म्यमनुद्भूतरूपस्याह—अनुद्भूतरूपश्चेति । अनुद्भूतरूपस्याभिभवाभावे
निदर्शनमाह—यदनुद्भूतरूपमिति । बाह्यप्रकाशानुग्रहापेक्षस्य चाभिभवाभावे
निदर्शनमाह—यच्च बाह्यप्रकाशानुग्रहापेक्षमिति । कृष्णसारं रश्मिमदित्युच्यमाने
प्रसन्नान्धस्यापि कृष्णसारं रश्मिमत् साध्येत । तथा चापसिद्धान्त इत्यत
आह—विप्रतिपत्तिविषय इति । तेन विप्रतिपत्तिविषयः कृष्णसारं 1882रश्मिमदिति
साध्यनिर्देशः । उपलब्धौ निमित्तत्त्वादित्युच्यमाने गन्धादिभिरनैकान्तिकं स्यादत
उक्तम्—रूपोपलब्धाविति रूपसाक्षात्कार इत्यर्थः । तथापि सन्निकर्षादिभिरने
कान्तोऽत उक्तम्—द्रव्यत्वे सतीति । तथापि मनसानेकान्तोऽत उक्तम्—नियतस्य
साधनाङ्गस्येति ।
असाधारणस्य साधनाङ्गत्वे सतीति मनसस्तु साधारणस्य
साधनाङ्गस्य रूपोपलब्धौ निमित्तत्वम् । साधनं समुदायस्तदङ्गमवयवः । अथ वेति ।
द्रव्यत्वे सति नियतत्वे चार्थप्रकाशकत्वादित्युच्यमाने घ्राणादिभिरनेकान्तः स्यादत
उक्तम्—स्फटिकादिव्यवहितेति ॥ ४२ ॥


नक्तञ्चरनयनरश्मिदर्शनाच्च ॥ ३ । १ । ४३ ॥


मानुषं चक्षू रश्मिमदिति । रूपाद्युमलब्धिनिमित्तत्वादिति सावधारणं
रूपादीनामेवेति । तेन न मनसानेकान्तः । तथापि सन्निकर्षेणानेकान्त इत्यत उक्तम्—
अप्राप्तिस्वभावत्व इति । इतश्च भौतिकानीन्द्रियाणीति । चक्षूरसनत्वग्घ्राणानी
त्यर्थः । तथापि श्रोत्रस्य रूपं न ज्ञायते कीदृशं तदित्यत आह—भूतं श्रोत्रम् ।
अर्थप्रकाशकत्वादित्युच्यमाने मनसानेकान्तोऽत आह—प्राप्तेति । न हि रूपादिभिः
सहास्ति मनसः प्राप्तिः । तथापि मनस्येवानेकान्तः । आन्तरं हि सुखादि मनः प्राप्य

  1. °भवनीयस्य रूप°J

  2. °सारं रूपं चC