484
प्रकाशयति । अत आह—बाह्येति । तथापि सन्निकर्षादृष्टादिभिरनेकान्तोऽत
आह—द्रव्यत्वे सतीति ।
शङ्काभाष्यम्—जातिभेदवदिन्द्रियभेद इति चेत् ? निराकरोति—धर्म
भेदमात्रं चानुपपन्नम् । वृषदंशनयनस्य रश्मिमत्त्वं धर्मो मानुषनयनस्य त्वतद्वत्त्वमिति
योऽयं धर्मभेदः स एव मात्रम् । तच्चानुपपन्नम् । चोऽवधारणे भिन्नक्रमः । अनुपपन्नमेवेति
योजना । कुतोऽनुपपन्नमित्यत्र हेतुमाह—आवरणस्येति । यथा हि धूमवत्त्वं पर्वते
रसवत्यां चान्यत् तथाप्येष विशेषोऽस्याग्निमत्त्वानग्नित्वे प्रत्यप्रयोजकः । एवं
विडालत्वमनुष्यत्वे अप्रयोजके इत्यर्थः ॥ ४३ ॥
अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ॥ ३ । १ । ४४ ॥
कुड्यान्तरितानुपलब्धेरप्रतिषेधः ॥ ३ । १ । ४५ ॥
अप्रतीघातात् सन्निकर्षोपपत्तिः ॥ ३ । १ । ४६ ॥
सोऽप्रति हन्यमान इति । स रश्मिः अप्रतिहन्यमानः काचेन काचं व्यतिभिद्यार्थेन
संबध्यते काचान्तर्गतेन ॥ ४६ ॥
आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् ॥ ३ । १ । ४७ ॥
वार्त्तिकम्—अव्यूह्यमानावयवद्रव्यानुप्रवेश इति । यस्य द्रव्यस्य
भर्जनकपालादेः अवयवा न व्यूह्यन्ते पूर्वोत्पन्नद्रव्यारम्भकसंयोगनाशेन द्रव्या
न्तरजनकसंयोगोत्पादनं व्यूहनं तन्न क्रियन्ते । तस्य द्रव्यस्य भर्जनकपालादेः
अव्यूह्यमानस्य अवयवव्यूहनमवयविनोऽपीति अव्यूह्यमानस्येत्युक्तम् । तस्य
भर्जनकपालादेः अन्तरावयवैर्योऽभिसंबन्धो वह्नेः सोऽप्रविघातः1883 ।