482

मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः ॥ ३ । १ । ३९ ॥


न रात्रावप्यनुपलब्धेः ॥ ३ । १ । ४० ॥


न हि यद् यस्याभिभावकं तत् तस्य व्यञ्जकमिति । रात्रौ यद् लोष्टतेजसोऽभि
भावकं दिवा कथं तदेवास्य व्यञ्जकं येन तदभावाद् रात्रौ लोष्टतेजो नोपलभ्येत
इत्यर्थः । अपिशब्दाद् गम्यत इति । न रात्रावपीति सूत्रगतादित्यर्थः ॥ ४० ॥


बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः
॥ ३ । १ । ४१ ॥


सोऽयं चाक्षुषो रश्मिः किमभिभवात्1879 नोपलभ्यते, किं वानुद्भूतेरित्यत आह
भाष्यकारः । उपपन्नरूपा चेयम् । अनभिव्यक्तितोऽनुपलब्धिरिति योजना ।
अनभिव्यक्तितः अनुद्भूतेरित्यर्थः । अत्र हेतुः बाह्यप्रकाशानुग्रहाद् विषयोप
लब्धेः ।
विषयश्च स्वरूपमात्मनोऽन्यच्च । एतदुक्तं भवति । यदुपलब्धौ बाह्यप्रकाश
मनुग्राहकमपेक्षते, तस्यानुद्भूतेरेवानुपलब्धिर्न त्वभिभूतेः । यथा हेमन्ते
विषक्तावयवस्याप्यस्य द्रव्यस्य । आप्यं हि द्रव्यं 1880विषक्तावयवं स्वविषयोपलब्धौ
बाह्यप्रकाशानुग्रहमपेक्षमाणं दृष्टम् । चक्षुरपि च विषयोपलब्धौ बाह्यप्रकाशमपेक्षते
निरालोके तस्याप्रवृत्तेः । तस्माद् विषयोपलब्धौ बाह्यप्रकाशानुग्रहापेक्षत्वात् तदनुद्भूत्या
न प्रतीयते न पुनरभिभूत्येति सिद्धं प्रकृतम् । तदेतद् वार्त्तिककारो व्याचष्टे—तस्य
विद्यमानस्येति
॥ ४१ ॥


अभिव्यक्तौ चाभिभवात् ॥ ३ । १ । ४२ ॥


  1. अभावात् C

  2. अविषक्ता° J