स्थानान्यत्वे नानात्वादवयविनानास्थानत्वाच्च संशयः ॥
३ । १ । ५१ ॥
संप्रति तेषामेवेन्द्रियाणामेकानेकत्वे परीचिक्षिषुः संदिग्धे—अथापि
खल्वेकमिति । प्रश्नपूर्वकं सूत्रमवतारयति—कुतः संशयः ?
स्थाना…यः । तत्र केचिदिदं सूत्रं भाष्यमतानपेक्षं यथाश्रुति व्याचक्षते ।
तद्दूषणपुरासरं भाष्यव्याख्यानं ग्रहीतु यथाश्रुति व्याख्यानं परेषां सूत्रपाठपूर्वक
मुपन्यस्यति—एके त्विति । दूषयति—अनुपपन्नरूपश्चायमिति । अत्र हि यथाश्रुति
स्थानान्यत्व इति निमित्तसप्तम्या नानात्वस्य बीजं स्थानान्यत्वमुक्तं न त्वेकत्वस्येति ।
एकत्वस्य तु बीजं नानास्थानत्वं यथोक्तम् । अवयविनानास्थानत्वादिति अवयवी
त्येकत्वमुपलक्षयति । स्थानान्यत्वं च 1884स्थानानामन्यत्वमुच्यते । नानास्थानत्वं च
नानास्थानानि यस्येत्यन्यपदार्थः स्थानान्यत्वादन्यः । न च धर्मद्वयं साक्षात् संशय
कारणमित्येकतरस्यैकानेकसाधारण्यं वाच्यम् । तत्र यदि तावदेवं क्रियते—संशयः
स्थानान्यत्वे नानात्वैकत्वदर्शनादिति तदा सूत्रार्थालोचनेन एकत्वे
स्थानान्यत्वस्यादर्शनान्न समानधर्मः, सूत्रं खल्वेकत्वे नानास्थानत्वमाह न
स्थानान्यत्वम् । अनेकत्वमात्रे हि तदुक्तं सूत्रकारेण स्थानान्यत्वे नानात्वादिति ।
अथ नानास्थानत्वे सत्येकानेकत्वदर्शनात् संशय इति ? एतद् दूषयति—तदा
द्रव्यं नानास्थानमनेकं न किञ्चिद् दृष्टं सूत्रे । अवयविनानास्थानत्वादिति हि
सूत्रं नानास्थानत्वेनैकत्वमाह, न तु नानात्वमपि । यत् पुनर्घटाद्यनेकं न तन्नानास्थानमुक्तं
सूत्रकृता । अपि तु स्थानान्यत्वं तस्य सूत्रकृता उक्तं स्थानान्यत्वे नानात्वादित्यनेन ।
दूषणमुपसंहरति—सोऽयं संशय उभयथानुपपन्न इन्द्रियेषु यथाश्रुतसूत्रपरिग्रहेण ।
उभयथा इति स्थानान्यत्वेन नानास्थानत्वेन चेत्यर्थः । तदेवं परव्याख्यानं दूषयित्वा
भाष्यकारीयस्य व्याख्यानस्य युक्तत्वमाह—स्थानेषु तु युक्तः । स्थानेष्विति