487
निमित्तसप्तमी । नानास्थानत्वनिमित्त इन्द्रियेस्येकत्वानेकत्वसंशयो युक्तः । नानास्थानं
खत्वेकमवयविद्रव्यं दृष्टमनेकं च भिन्नभाजनगतं 1885तालफलमिति । इन्द्रियविषयं
नानास्थाननिमित्तकं संशयमाह—किं नानास्थानानि इन्द्रियाणि उत नानास्थानमेक
मिन्द्रियमिति । तदिदमुक्तं भाष्यकारेण, बहूनि च द्रव्याणि नानास्थानानि
दृश्यन्ते, नानास्थानश्च सन्नेकोऽवयवीति । तेनेन्द्रियेषु भिन्नस्थानेषु संशय
इति । सूत्रेऽपि स्थानान्यत्वे इत्यनेन नानास्थानत्वमेवोपलक्षणीयमित्यविरोधः ।
यथाश्रुतस्तु न सूत्रार्थ इत्याह—इन्द्रियेषु तु न स्थाननानात्वात् संभवति नापि
नानास्थानत्वादिति । किं त्विन्द्रियविषयो नानास्थानत्वादेव संशयो भाष्यकारीयः
साधीयानित्यर्थः । तदेवं परोक्तं संशयबीजं दूषयित्वा भाष्यकारीयं संशयबीजं
दर्शयित्वा वार्त्तिककारः स्वातन्त्र्येण संशयबीजमाह—शरीरव्यतिरेकात् सत्त्वाच्च
संशय इति ॥ ५१ ॥
त्वगव्यतिरेकात् ॥ ३ । १ । ५२ ॥
पूर्वपक्षं गृह्णाति—त्वग…कात् ॥ कः पुनरयमव्यतिरेक इति । घटादिप्राप्तं
चक्षुस्त्वचो व्यतिरिच्यत एवेति भावः । उत्तरम्—सर्वाधिष्ठानसंबन्ध इति ।
सौत्रस्याव्यतिरेकशब्दस्य व्याख्यानान्तरमाह—सति भावो वेति । तदनेन यस्यां च
सत्याम् इति भाष्यं व्याख्यातम् । चो विकल्पार्थः । सिद्धान्तभाष्यम्—नेन्द्रियेति ।
लोकविरोध इति । लोक्यते ज्ञायतेऽनेनेति लोकः प्रमाणम्, तद्विरोध इत्यर्थः ?
अनेकेन चानिन्द्रियेणेति । शरीरं पार्थिवं भूतान्तरसंपृक्तं च तद् इन्द्रियाधिष्ठानानि
शरीरावयवभूतानि पृथिव्यादिना प्राप्तानीत्यनेकान्तः । न व्याघातादिति
परदोषोद्भावनपरम् । न पुनः सिद्धान्तिनस्त्वगवयवत्वमिन्द्रियान्तराणामभि
मतमिति ॥ ५२ ॥