न युगपदर्थानुपलब्धेः ॥ ३ । १ । ५३ ॥
एवं भाष्यकारीय सिद्धान्तमुकत्वा सौत्रं सिद्धान्तमाह—सूत्रेण चाभिसंबन्धः
सिद्धान्तस्य । न यु…ब्धेः ॥
सूत्रं व्याचष्टे, नैतदस्ति एकमिन्द्रियमिति । कस्मात् ? युगपदर्थानुपलब्धेरिति ।
तदेतत् सूत्रं भाष्यदृष्ट्या व्याचष्टे वार्त्तिककारः—यस्यैकमिन्द्रियमिति । तदेतद्
व्याख्यानं दूषयति—नैकेन्द्रियग्राह्याणामिति । भाष्यव्याख्यानं दूषयित्वा सूत्रम्
अन्यथा व्याख्यातुं भूमिरचनां करोति—एवं ब्रुवाण एकेन्द्रियवादीति । सामि
अर्धम् । एकमपि इन्द्रियमर्धं प्राप्य गृह्णाति । अप्राप्य चार्धमेकदेशमिति यावत् ।
करणधर्ममतिक्रामन्तं प्रति युगपदुपलब्धिप्रसङ्गो दूषणमित्यर्थः ॥ ५३ ॥
विप्रतिषेधाच्च न त्वगेका ॥ ३ । १ । ५४ ॥
एकत्वप्रतिषेधादेव पारिशेष्यान्नानात्वं सेत्स्यतीत्यत आह—नासाधना क्रियेति ।
एकत्वं च कथमिति । न शक्यः पक्षो दूषयितुमित्युक्तम् । न च साधननिराकरणमात्रात्
साध्यं निवर्तते । मा भूद् धूमनिवृत्तौ वह्निनिवृत्तिरित्यर्थः । पृच्छति—कथं तर्हीति ।
उत्तरम्—प्रतिषेधाच्चानन्तरमिति । यद्यप्यनन्तरशब्दप्रयोगे पञ्चमी न स्मर्यते
तथाप्यन्यशब्दस्याध्याहारेण पञ्चमी व्याख्येया । अनन्तरं प्रतिषेधादन्यः स्थापनाहेतुरिति
योजना । अथवेति । व्यतिरेकी हि हेतुर्द्वयोर्विरुद्धयोरेकतरनिषेधेन एकतरं
व्यवस्थापयति—यथा नैरात्म्यनिषेधेन जीवच्छरीरस्य सात्मकत्वमिति ॥ ५४ ॥
इन्द्रियार्थपञ्चत्वात् ॥ ३ । १ । ५५ ॥
सूत्रम् आक्षिपति—इदं तु सूत्रामिति । एष न्यायोऽनया वचोभङ्ग्या सूत्रित
इत्यर्थः ॥ ५५ ॥