एकैकश्येनोत्तरोत्तरगुणसद्भावादुत्तरोत्तराणां तदनुपलब्धिः ॥
३ । १ । ६४ ॥
विष्टं ह्यपरं परेण ॥ ३ । १ । ६५ ॥
संसर्गस्य द्व्याश्रयत्वेऽपि न 1893द्वयोः समानत्वम्, यथाग्निधूमयोः संबन्धोऽन्य
थाग्नेः1894 । स हि व्यापकः । धूमे धूमध्वजस्य भाव एव नाभावः । धूमस्तु व्याप्यः । तस्य
वह्नावेव भावो नान्यत्रेति । एवमपरं पृथिव्यादि परेणावादिना विष्टं व्याप्तम् ।
नाबादिमन्तरेणास्ति पृथिवी । तेन पृथिव्यामबादिगुणानां रसादीनां नियमेनोपलम्भो
न त्वबादिषु पृथिवीगुणानाम् । एवमप्स्वनलादिगुणा व्याख्येयाः1895 । विष्टत्वं संयोगविशेषो
व्याप्तिरित्यर्थः । भाष्यम्—तच्चैतद् भूतसृष्टाविति । भूतसृष्टिप्रतिपादकेषु पुराणेषु ।
नैतर्हीति । नेदानीमननुभवादित्यर्थः ॥ ६५ ॥
न पार्थिवाप्ययोः प्रत्यक्षत्वात् ॥ ३ । १ । ६६ ॥
सिद्धान्ती विकल्पवाद्येतद् दूषयति—न पा…त्वात् ॥ त्रिविधं हि द्रव्यं
चाक्षुषमिष्यते पार्थिवमाप्यं तैजसं च । तत्र रूपवत्त्वेन तैजसमेव चाक्षुषं स्यात्,
नेतरदरूपत्वात् । न च रूपिद्रव्यसंसर्गाच्चाक्षुषत्वमरूपयोरपि पार्थिवाप्ययोरिति
1896युक्तम्, नभोनभस्वतोरपि चाक्षुषत्वप्रसङ्गात् । अस्ति हि रूपवता तेजसा तयोः
संयोग इति । अथवा पार्थिवाप्यसंबन्धिनो रसभेदस्य रूपभेदस्य चैकानेकविधत्वेन
प्रत्यक्षत्वादित्याह भाष्यकारः रसयोर्वेत्यादिना उपपद्यत इत्यन्तेन । पुनस्तस्यैव
व्याख्यानान्तरमाह—स्पर्शयोरिति । पार्थिवाप्ययोरित्यस्योदाहरणमात्रार्थत्वात्
पार्थिवतैजसोरित्यपि व्याख्यानमुक्तम् ।