493

व्याख्यानान्तरमाह—अथ वेति । कार्यस्य व्यवस्थितगुणस्य दर्शनात् कारणमपि
व्यवस्थितगुणमनुमीयते । न च सर्वत्र संसर्गो येनान्यस्य गुणोऽन्यत्रोपलभ्यते विवे
कस्यासंसर्गस्य दर्शनादिति । व्याख्यानान्तरमाह—दृष्टश्चेति । चो विकल्पार्थः ।
नियोगस्तु निरनुमान इत्याह—निरनुमानं तु विष्टं ह्यपरं परेणेत्येतदिति ।


यच्चोक्तं भूतसृष्टौ वेदितव्यं नैतर्हीति, तद् दूषयति—नियमकारणा
भावादिति ।
नियमो गन्ध एव पृथिव्यामित्येवमादिः । तस्य कारणं प्रमाणं नास्ति
तद्वाधकस्यैव प्रमाणस्योक्तत्वात् । तस्माद् भूतसृष्टिः कथञ्चिदुपचारतो व्याख्येयेति ।
विष्टत्वं संयोगः । स च द्वयोः समान इति । अन्यगुणो यदन्यत्रोपलभ्यते तत् किं
संयोगादाहो व्याप्तेः ? यदि व्याप्तेः, नायोगोलके वह्निसंपृक्ते वह्निगुणा गृह्येरन्
तयोर्व्याप्यव्यापकभावाभावात् । धूमे च गगनतलावलम्बिनि भूमिष्ठेन वह्निना
व्याप्तेर्वह्निगुणा गृह्येरन्, तयोर्व्याप्यव्यापकभावात् । तस्मादत्यन्तसंयोगो1897 हेतुः । स
चोभयोरविशिष्ट इति तेजसा संपृक्तत्वाद्1898 वायोरपि रूपवत्त्वेन चाक्षुषत्वप्रसङ्ग
इति ॥ ६६ ॥


पूर्वपूर्वगुणोत्कर्षात् तत्तत्प्रधानम् ॥ ३ । १ । ६७ ॥


प्रधानपदार्थं व्याचष्टे भाष्यकारः—विषयग्राहकत्वम् गन्धादिर्विषयः । तदेव
विषयग्राहकत्वं कुतस्तत्राह—गुणोत्कर्षात् तदभिव्यक्तिसामर्थ्यात् । विषयग्राहकत्वं
चेत् प्राधान्यम्, 1899तत् सर्वेषामविशिष्टम् । सर्वेषामेवेन्द्रियाणां विषयग्राहकत्वा
दित्याशयवान् वार्त्तिककारो भाष्यकारीयं व्याख्यानममृष्यमाणः पृच्छति—का
प्रधानता ।
स्वमतेनोत्तरमाह—चतुर्गुणत्वादिरिति । एतदुक्तं भवति—यस्माच्चतुर्गुण
त्वेन पार्थिवं घ्राणं रसनादिभ्यः1900 प्रधानं तस्मादस्यागन्धवत्त्वं नास्ति येन गन्धं न
गृह्णीयात् । नन्वेवं रसवत्त्वादिकमप्यस्ति घ्राणस्येति रसादिकमपि गृह्णीयादित्यत

  1. °दन्यसं°C

  2. संयुक्तस्यC

  3. तत् सर्वेषामेव°C

  4. °दिभ्य आप्यादिभ्यःC