494
उक्तम्—गुणोत्कर्षादिति । सर्वेषां समवायाविशेषेऽपि गन्धस्यैव घ्राण उत्कर्ष
इति गन्धमेव गृह्णाति, तेनागन्धवत्त्वनिषेधपरं प्राधान्याभिधानं न पुनर्गन्धग्रहणे
गन्धवत्त्वं प्रयोजकमपि तु गन्धस्योत्कर्ष इति सिद्धम् । तत्रोत्कर्षपदार्थं पृच्छति
वार्त्तिककारः—को गुणोत्कर्षः ? उत्तरम्—स्वगुणाभिव्यक्तिसामर्थ्यम्, स्वो
गुणो घ्राणस्य गन्धः 1901तज्जातीयतया चन्दनादिसमवेतोऽपि गन्धः स्व इत्युच्यते । न
पुनः स्वगुणमेवाभिव्यनक्ति घ्राणम् । घ्राणसमवेतस्य हि गन्धस्यादृष्टवशात् तादृशो
निर्माणभेदो येन सजातीयं चन्दनादिसमवेतं गन्धमभिव्यनक्ति, यथा मृगमदादिगन्धं
पार्थिवद्रव्यान्तरसमवेतो गन्ध इति । अत एवाह—येन गुणेन यद् द्रव्यमुत्कृष्यते
स तज्जातीयाभिव्यञ्जकत्वादुत्कृष्टो भवति । तस्मिन् द्रव्य इति शेषः । यः
पुनर्गन्धगुणत्वाद् इति गन्धमात्रगुणत्वादेव घ्राणं गन्धस्य व्यञ्जकं न तु
गन्धस्योत्कर्षादित्यर्थः । तस्य वादिनः सर्वेषामेव पार्थिवानां गुणानामुपलब्धिप्रसङ्गः
घ्राणग्राह्यत्वप्रसङ्ग इत्यर्थः ॥ ६७ ॥
तद्व्यवस्थानं तु भूयस्त्वात् ॥ ३ । १ । ६८ ॥
ननु भवतोऽपि कुतो 1902व्यवस्थेति सूत्रम् अवतारयितुं पृच्छति—कस्मात्
पुनरिति । तद्व्य…स्त्वात् ॥ अर्थनिर्वृत्तीति । अर्थः पुरुषार्थः । प्रविभक्तस्येति
इतरेभ्यो विशिष्टस्य । संस्कारकारित इति । अदृष्टकारितः ॥ ६८ ॥
सगुणानामिन्द्रियभावात् ॥ ३ । १ । ६९ ॥
शङ्कते—यदि पुनरिन्द्रियस्य गन्ध इति । निराकरोति—तेनैव तस्येति ॥ ६९ ॥