550

चतुर्थाध्यायः

चतुर्थाध्याये प्रथमाह्निकम्


प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्


प्रवृत्तिर्यथोक्ता ॥ ४ । १ । १ ॥


अथ मनःपरीक्षानन्तरमुद्देशलक्षणक्रमानुरोधेन प्रवृत्तिः परीक्षितुं युक्ता, सा
कस्मान्न परीक्ष्यत इति शङ्कानिराकरणाय सूत्रमित्याह—मनसोऽनन्तरमिति—


प्रवृ…क्ता ॥ अस्य शेषः—तथा परीक्षिता । यथा लक्षिता तथा परीक्षि
तेत्यर्थः । पृच्छति—किं पुनरिति । प्रमेयमात्मादि मनोऽन्तं परीक्षितम्, न पुनः
प्रवृत्तेः 2038स्वरूपं वा कार्यं वा परीक्षितमिति भावः । उत्तरम्—यावद्धर्माधर्माश्रयम्
इति । एकद्रव्येति । एकस्मिन्नेवात्मनि वर्तत इत्यर्थः । अवस्थिता न तु
बुद्ध्यादिवदाशुतरविनाशिनीत्यर्थः । आत्मसमवायादिति । कार्यत्वे सतीति द्रष्टव्यं
विशेषणम् । तेन न सामान्यविशेषाभ्यां व्यभिचारः । प्रायणादिति । आदिशब्देन
सुखादिक्षयोऽपवर्गश्च गृह्यते । संसारापवर्गहेतुभूतात्मसद्भावासद्भावाभ्यामिति
शेषः । एवमाद्युक्तमिति । आदिग्रहणेनात्मसमवेता प्रवृत्तिर्न तु पृथिव्याद्याश्रयेति
2039दर्शितमिति ॥ १ ॥


तथा दोषाः ॥ ४ । १ । २ ॥


प्रवृत्त्यनन्तरास्तर्हि दोषाः परीक्ष्यन्तामित्यत आह—तथा दोषाः ॥ उक्ता इति
शेषः । प्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाणां 2040सत्त्वं परीक्षितमित्यर्थः ।
कार्यरूपप्रवृत्तितुल्यतामाह—बुद्धिसमानाश्रयत्वादिति । अभीष्टविषयचिन्तनादि
551 प्रभवाः खल्वमी2041 दोषा 2042नार्थचिन्तनबुद्धिव्यधिकरणा भवितुमर्हन्ति । तथा सति
चैत्रस्याभीष्टविषयानुचिन्तने मैत्रस्य रागः प्रवर्तेत । तस्माद् बुद्धिसमानाश्रय
त्वादात्मगुणाः ।
आत्मगुणत्वाच्च कार्यप्रवृत्तितुल्यतया प्रवृत्तिपरीक्षयैव तावद्दोषाः
परीक्षिता इत्यर्थः2043 । इदं च प्रवृत्तितुल्यत्वमपरं दोषाणामित्याह—संसार
स्यानादित्वादिति ।
एतच्चोक्तं वीतरागजन्मादर्शनात् इत्यनेन, तथोद्देशपरीक्षा
परेण द्वितीयसूत्रेण । यत्तेषां दोषाणां परीक्षितं तदाह—सम्यग्ज्ञानाच्चेति । स्यादेतत्,
गुणत्वेन ह्यात्मगुणा2044 इति सिध्यति । तदेव तु कुत इत्यत आह—कार्यत्वे सतीति ।
इन्द्रियान्तरं
मन इति । मानसप्रत्यक्षैश्चात्मत्वसुखत्वादिभिरनैकान्तिकत्वं मा भूदित्यत
उक्तं कार्यत्वे सतीति 2045विशेषणम् । अचाक्षुषप्रत्यक्षत्वादित्यत्रापि कार्यत्वे सतीति
विशेषणमनुषञ्जनीयम् ॥ २ ॥


॥ इति प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् ॥

दोषत्रैराश्यप्रकरणम्


तत् त्रैराश्यं रागद्वेषमोहार्थान्तरभावात् ॥ ४ । १ । ३ ॥


तदेवं बहु परीक्षितं दोषाणाम् । यत्तु किञ्चिदेषामपरीक्षितमस्ति तत्
परीक्षितुमुपक्रमते—प्रवर्तनालक्षणा दोषा इत्युक्तम्, तथा च मानादय इति ।
रागद्वेषमोहा एव दोषाः । न च मानादयस्तेष्वन्तर्भवन्ति बुद्धिव्यपदेशभेदात् ।
प्रवर्तनालक्षणत्वं तु तेषामप्यस्ति । तस्मादतिव्यापकत्वात् लक्षणमेतदयुक्तम्2046
युक्तत्वे वा लक्षणसूत्रेमानादयोऽपि दोषवत् पठनीया इति पूर्वपक्षः । सिद्धान्तवाद्याह—
नोपसंख्यायन्ते संगृहीतत्वादिति । रागद्वेषमोहानां सामान्यत्रयाणां कामादयो
552 विशेषाः । तथा चोपपन्नो बुद्धिव्यपदेशभेदः संग्रहश्चेति भावः ।


तत्त्रै…भावात् ॥ अस्ववस्त्वादानेच्छा अस्वामिदानपूर्विका स्पृहा ।
पुनर्भवप्रार्थना तृष्णा । हेतुभूता प्रवृत्त्यादिद्वारेण पुनर्भवप्रतिसन्धानस्येति ।
प्रमाणविरुद्धेति अन्यायेनेत्यर्थः । परस्य ज्ञातेर्ममाप्येतदिति बुद्धिरभिनिवेशः ।
तत्प्रतिषेधाभिप्रायो 2047ज्ञातिविशेषस्येर्ष्येत्युच्यते । अमर्षलक्षणो द्वेष इति । नन्वयं2048
कृतापकारस्य या असहिष्णुता सोऽमर्ष इति द्वेषस्यैष विशेष इत्युक्तम्, कथं स एव
द्वेषसामान्यमुच्यते इत्यत आह—असहिष्णुता दुःखस्य दुःखसाधनानां चेति ।
मिथ्याप्रतिपत्तिलक्षणो मोह
इति । संशयोऽपि2049 हि वा2050 यथावस्थिते पदार्थे
अयथाभावप्रतिपत्तिर्भवति । व्यवस्थितं हि वस्तु अव्यवस्थिततया गृह्णाति संशयः ।
एवं पण्डितमानिनो मीमांसकदुर्दरूढस्याभिमान इति ॥ ३ ॥


नैकप्रत्यनीकत्वात् ॥ ४ । १ । ४ ॥


आर्यप्रज्ञेति भाष्यम् । आरात् तत्त्वाद् याता आर्या । आर्या चासौ प्रज्ञा चेति
आर्यप्रज्ञा । सम्यग् बोधः संबोधः ॥ ४ ॥


व्यभिचारादहेतुः ॥ ४ । १ । ५ ॥


एकयोनयो हि रूपादयो न चैषामेकत्वम् । यदि पुनस्तत्र रूपादीनां
परस्परभेदसिद्धये कश्चित् कारणभेद आस्थीयते, स रागादिष्वपि समान इति
भावः2051 ॥ ५ ॥


553

तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः ॥ ४ । १ । ६ ॥


नासति निदोनोच्छेदे निदानिनामुच्छेद इति रागद्वेषयोर्निदानिनोरुच्छेदाय
तन्निदानत्वं मोहस्य दर्शयति—सति चार्थान्तरभाव इति । तेषां…त्तेः ॥ तेषां
मोहः पापीयान् ।
कुतः ? नामूढस्येतरोत्पत्तेः । अमूढस्येतरोत्पत्तिर्न भवति यत
इत्यत्रार्थे नामूढस्येतरोत्पत्तेरित्युक्तम् । मोहाद् विषयस्य सुखसाधनत्वानुस्मृतिः
दुःखसाधत्वानुस्मृतिश्च । संकल्पाः रञ्जनीयाः कोपनीया इति कर्तरि कृत्यो
भव्यगेयादिपाठात्2052


वार्त्तिकम्—मूढो मुह्यतीति । मूढ इति मोहवासनावान् । भवतु
तन्निदानोच्छेदादुच्छेदो निदानिनः, निदानस्यैव तु कुत उच्छेद इत्यत आह—
तत्त्वज्ञानाच्चेति । प्रतिपक्षाभ्यासान्निदाननिवृत्तिरित्यर्थः2053 ॥ ६ ॥


निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ॥ ४ । १ । ७ ॥


न दोषलक्षणावरोधान् मोहस्य ॥ ४ । १ । ८ ॥


दोषनिमित्तत्वादिति हेतोरप्रयोजकत्वमाह—न दोषलक्षणावरोधादिति । न
दो…स्य ॥ तथाभावः
तज्जातीयत्वम् । अतथाभावः अतज्जातीयत्वम् ॥ ८ ॥


निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ॥ ४ । १ । ९ ॥


अनैकान्तिकत्वमाह—निमित्तनैमित्तिकोपपत्तेश्चेति । निमि…धः ॥ ९ ॥


॥ इति दोषत्रैराश्यप्रकरणम् ॥

554

प्रेत्यभावपरीक्षाप्रकरणम्


आत्मनित्यत्वे प्रेत्यभावसिद्धिः ॥ ४ । १ । १० ॥


उत्पादोच्छेदौ प्रेत्यभावः । न चात्मनो नित्यस्य तौ स्तः । तस्मादस्मिन् दर्शने न
युक्तः प्रेत्यभावः । वैनाशिकानां तु सत्त्वोत्पादनिरोधाभ्यां युक्तः प्रेत्यभावः ।
प्रेत्येति ल्यब् मुखं व्यादाय स्वपितीतिवद् द्रष्टव्यः । तथा च भूत्वा प्रायणमिति भवन
प्रायणयोः समानकर्तृकत्वमप्युपपन्नमिति पूर्वपक्षः । पूर्वाभ्यस्त सूत्रे आत्मनित्य
त्वव्यवस्थापनात् । सत्त्वोत्पादोच्छदे च 2054कृतहानाकृताभ्यागमदोषेणाभ्युदयनिः
श्रेयसार्थाप्रवृत्तेः2055 ऋष्युपदेशानर्थक्यप्रसङ्गाच्च2056 । देहेन्द्रियबुद्धिवेदनासंबन्धोत्पाद
विनाशौ नित्यस्यात्मनो जन्मप्रायणे । तथा चोपपन्नः प्रेत्यभाव इति सिद्धान्तः ॥ १० ॥


व्यक्ताद्व्यक्तानां प्रत्यक्षप्रामाण्यात् ॥ ४ । १ । ११ ॥


प्रेत्यभावविचारप्रस्तावेनेदमपरं विचारयति—येयं 2057मृत्वोत्पत्तिर्नाम सा कथमिति
चेत् ? अत्र हि प्रावादुकानां नानाविधा विप्रतिपत्तयः सन्ति । तत्राभिमतं पक्षं तावत्2058
सूत्रकृद् गृह्णाति व्यक्तादिति । व्यक्ताद्…ण्यात् ॥ अग्रे विप्रतिपत्तीर्निवारयि
ष्यति । शरीरेन्द्रियविषयोपकरणाधारमित्येकवद्भावेन नपुंसकत्वम् ।
प्रत्यक्षगृहीतसंबन्धप्रभवमनुमानं प्रत्यक्षेऽप्युपदिशति प्रत्यक्षमूलकत्वादिति । ननु
भवतु शरीरं पृथिव्यादि व्यक्तं महत्त्वानेकद्रव्यवत्त्वरूपविशेषेभ्यः । तन्मूकारणं
परमाणवः कथं व्यक्ता इत्यत आह—तत्सामान्यादिति । रूपादिमत्सामग्रीपूर्वकं
शरीरम्2059 इत्यर्थः ॥ ११ ॥


555

न घटाद्घटानिष्पत्तेः ॥ ४ । १ । १२ ॥


व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः ॥ ४ । १ । १३ ॥


॥ इति प्रेत्यभावपरीक्षाप्रकरणम् ॥

शून्यतोपादानप्रकरणम्


अभावाद्भावोत्पत्तिर्नानुपमृद्य प्रादुर्भावात् ॥ ४ । १ । १४ ॥


अतः परं प्रावादुकानां तीर्थिकानां2060 दर्शनान्युपन्यस्य2061 कानिचिद्
प्रतिषिध्यन्ते2062 कानिचिदभ्यनुज्ञायन्त
इति । तत्र तावद् एके प्राहुः—अभा…
वात् ॥ अभावाद् भावोत्पत्तिः ।
कुतः ? नानुपमृद्य प्रादुर्भावो यतस्तस्मादित्यर्थः ।
विश्वं हि शून्यताया एव जायते । एवं किल श्रूयते—असदेवेदमग्र आसीदिति2063 । अत
एवाद्याप्यसत एव जन्म दृश्यते न सतः । तत् कस्य हेतोः ? अमावस्तत्र कारणमिति ।
उपलक्षणं चेदं नानुपमृद्य प्रादुर्भावादिति, असत उत्पादादित्यपि द्रष्टव्यम् ।
तस्मादसदुपादानं विश्वमिति सिद्धम् ॥ १४ ॥


व्याघातादप्रयोगः ॥ ४ । १ । १५ ॥


अत्र सिद्धान्ती गुढाभिसन्धिराह—व्याघा…गः ॥ उपमृद्य प्रादुर्भवतीति
व्याघात
इति ॥ १५ ॥


556

नातीतानागतयोः कारकशब्दप्रयोगात् ॥ ४ । १ । १६ ॥


तदभिसन्धिमविद्वान् पूर्वपक्षी दूषयति—न, अ…गात् ॥ इति । उपमृद्य
प्रादुर्भवतीति भाक्त एष प्रयोगो न मुख्य इत्यर्थः । भिन्नस्य कुम्भस्य कपालानीति
तु यद्यपि न साक्षात् कारकशब्दस्तथापि षष्ठ्या संबन्धाभिधानात् तस्य च
क्रियागर्भत्वात् क्रियायाश्च कारकनान्तरीयकत्वात् पारम्पर्येण कारकशब्दता द्रष्टव्या ।
का पुनर्भक्तिः ? यया योगादुपसंगृह्णाति बीजमङ्कुर इति भवति प्रयोग इत्यर्थः ।
पृच्छति—कः पुनरङ्कुरेण बीजोपमर्दार्थः2064 ? उत्तरम्—अनन्तरोत्पत्त्यर्थः ।
उपमर्द्योपमर्दकयोरप्यानन्तर्यम्, अनयोरपीति एतत्सामान्यमित्यर्थः । पुनरपि
गूढाभिसन्धिरेव सिद्धान्ती उक्तमर्थं2065 स्मारयति—अत्रोक्तमिति । अभिप्राय
मुद्धाटयति—यदपीदमुच्यते इति । नौपचारिकं प्रयोगं व्यसेधामः कारकशब्दानाम्,
2066अपि तु यथा भविष्यन्नङ्कुरः सम्प्रति असन्न बीजमुपमृद्नाति, एवं बीजाभावोऽसन्नाङ्कुरं
करोतीति ब्रूमः । तदिदमाह—अपि त्वसतः कारणादुत्पत्तिर्न युक्तेति । ननूक्तम्—
उपमृद्य प्रादुर्भावात् ४॑१॑१४ इत्यनेनानन्तर्यं बीजविनाशाङ्कुरोत्पादयोः सूचितं
बीजविनाशानन्तर्याच्चाङ्कुरोत्पादस्य बीजविनाशकार्यत्वमित्यत आह—यत्पुनरेतदा
नन्तर्यसामर्थ्यादिति ।
अनन्यप्रयुक्तमानन्तर्यं कार्यकारणभावसाधनम् । इदं तु
व्यूहानन्तर्यप्रयुक्तमिति नाभावस्य कारणत्वं गमयितुमर्हतीत्यर्थः । यदि
व्यूहान्तरकार्योऽङ्कुरः, अथ कस्माद् अविनष्टे पूर्वव्यूहे न भवतीत्यत आह—
चाविनष्टे पूर्वव्यूहे
इति । ननु यदि बीजावयवव्यूहान्तरमङ्कुरोत्पादहेतुर्न बीजम्,
कस्मादङ्कुरार्थिनः कृषीबला बीजमुपाददत इत्यत आह—एवं चेति ।
बीजावयवोपादाने अवर्जनीयतया बीजमागच्छदशक्यप्रत्याख्यानमित्यर्थः ॥ १६ ॥


557

न विनष्टेभ्योऽनिष्पत्तेः ॥ ४ । १ । १७ ॥


तदेवमर्थं परिशोध्यात्रैवार्थे सूत्रं योजयति—अस्य चार्थस्येति । न वि…त्तेः ॥
न विनष्टेभ्यो
बीजेभ्योऽङ्कुरस्य अनिष्पत्तेः । बीजविनाशश्चेदङ्कुरोत्पत्तिहेतुः,
अथ विनष्टे बीजे तदवयवेषु परस्परविच्छिन्नेष्वसति तेषां व्यूहान्तरे न
कस्मदङ्कुरो भवति, भवति तु सति तेषां व्यूहे ? तस्माद् विनष्टेभ्योऽङ्कुरानुत्पत्तेरसति
व्यूहे न बीजविनाशः कारणमिति सूत्रार्थः ॥ १७ ॥


क्रमनिर्देशादप्रतिषेधः ॥ ४ । १ । १८ ॥


क्रमनिषेधाद् इत्यस्य हेतोरस्मत्पक्षेऽप्यप्रतिषेधः, तत्राप्यानन्तर्यस्य तुल्यत्वात् ।
तथापि विनिगमनायां को हेतुरित्यत आह—अभावश्चेदङ्कुरोत्पत्तिकारणं स्यात्,
अनुपाख्येय इति शेषः । न हि अनन्वयविनष्टयोः शालियवबीजयोः कश्चिद्
विशेषोऽस्ति येनैकस्माच्छाल्यङ्कुरो नान्यस्मादिति । नो खल्वभावानामस्त्याजानतो
भेदः2067 । अपि च कारणानां शक्तिभेदात् कार्याणि भिन्नशक्तीनि2068 । यदा तु कारणाना
मेवाभेदस्तदा कुतस्तच्छक्तीनां भेदः ? तथा च कार्याणि भिन्नशक्तीनि न
स्युरित्याह—अनन्वितं च कार्यं सर्वाभिरिति । यदप्यसत उत्पादादभावस्यो
पादानत्वं तदपि कार्याणां भिन्नत्वेन भिन्नशक्तिकत्वेन च प्रत्युक्तम्, तत्प्रागभावानां
स्वाभाविकभेदविरहात् । अपि च प्रागभावानामनादित्वेन कार्योत्पादस्याप्यनादि
त्वप्रसङ्गः । भावरूपकारणसहकारित्वं त्वभावस्य न निषिध्यते अस्मदभिमतस्यो
पाख्येयस्य । अत एव पाकजानां2069 रूपादीनां पूर्वरूपादिध्वंसनिमित्तत्वमभ्युपेयते ।
श्रुतिस्तु पूर्वपक्षाभिप्राया । तथा च सिद्धान्ते श्रुत्यन्तरम्—2070सदेव सोम्येदमग्र
558 आसीदिति कथमसतः सज्जायेतेति । शून्यताविवर्तश्च विश्वप्रपञ्च इति तु
दर्शनमसत्ख्यात्यनिर्वचनीयख्यातिनिरासेनापाकृतम् । अपि च सर्वशून्यत्वे
ख्यातुरभावात् ख्यातेरभावः । तस्मान्न शून्यतोपादनस्तद्विवर्तो वा विश्वप्रपञ्च इति
सिद्धम् ॥ १८ ॥


॥ इति शून्यतोपादानप्रकरणम् ॥

ईश्वरोपादानताप्रकरणम्


ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ॥ ४ । १ । १९ ॥


अथापर आह—ईश्वरः…दर्शनात् ॥ मा भूदयं नामरूपप्रपञ्चः शून्यतो
पादानः, अपि तु ब्रह्मोपादानो भविष्यति । ब्रह्मैव हि प्रपञ्चरूपेण परिणमते मृत्तिकेव
घटशरावोदञ्चनादिभेदेन2071 । न चैवं नित्यत्वव्याघातः । 2072परिणामेऽपि तत्त्वा
विघातात्, तल्लक्षणत्वाच्च नित्यतायाः । यदाह—2073यस्मिंस्तत्त्वं न विहन्यते तदपि
नित्यमित्येकं दर्शनम् । अपरं च ब्रह्मैवानिर्वचनीयानाद्यविद्योपधान
भेदान्नामरूपप्रपञ्चभेदेन विवर्तते मुखमिवैकमनेकमणिकृपाणदर्पणादिभेदादनेक
विधप्रतिबिम्बभेदेनेति । तदेतद् दर्शनद्वयमनेन सूचितम् । ईश्वरो ब्रह्म ईशनादियोगात् ।
चेतनाशक्तिः क्रियाशक्तिश्चेशना । सा चास्ति ब्रह्मणीति ब्रह्म ईश्वरः कारणं
जगतः । श्रूयते हि 2074तदैक्षत बहु स्यां प्रजायेयेत्यादि । सा खल्वियं श्रुतिश्चेतनस्य
जगत्कारणतामाह । न चाभावो वा 2075प्रधानं वा परमाणवो वा चेतयन्ते । ननु जीवा एव
चेतनाः तत्कर्मनिबन्धनो नामरूपप्रपञ्चो भविष्यति, कृतमत्र भगवतेश्वरेणेत्यत
उक्तं—पुरुषकर्माफल्यदर्शनादिति । पुरुषश्चेत् चेतयेत् नैवं निष्फलं कर्मारभेत ।
559 2076तन्निष्फलत्वं त्वविद्वान् प्रवर्तमान कथं चेतनो नाम ? तस्मात् पुरुषकर्माफल्यदर्शनाद्
ईश्वरः कारणमित्यर्थः ॥ १९ ॥


न पुरुषकर्माभावे फलानिष्पत्तेः ॥ ४ । १ । २० ॥


तदेतद्दर्शनद्वयमपाकरोति—न पु…त्तेः ॥ इदमत्राकूतम् । न तावन्मृत्तिकेव
नामरूपप्रपञ्चरूपेण ब्रह्म परिणमते । तद्धि सर्वात्मना वा परिणमते एकदेशेन वा ? तत्र
सर्वात्मना परिणामे तत्त्वविघातादनित्यत्वम् । एकदेशपरिणामे तु सावयवत्वात्
तदेवानित्यत्वम् । अथ तत्त्वेनानुगतस्य 2077परिणामः, तच्च ब्रह्म । न तर्हि ब्रह्मणः परि
णामः । न च निर्भागस्यैकस्य स्वसंवेदनप्रत्यक्षस्य विपरीतज्ञानगोचरत्वसंभवः ।
सामान्यतो ग्रहे स्वरूपभेदाग्रहे2078 च तदन्यरूपारोपेण विभ्रमो दृष्टः शुक्तिकादौ, न
जातु शुक्तिस्वरूपं विद्वान् रजतमिति विपर्यस्यति । न च निरंशे स्वसंवेदनप्रत्यक्षे
ब्रह्मणि तत्स्वरूपाग्रहः सामान्यग्रहो वा संभवति । तस्माद् ईश्वरो जगद्भेदेन विवर्तते
इत्ययुक्तम् । निमित्तं तु स्यादीश्वरो जगतः । स चेदनपेक्ष एव जगत्कारणमित्युच्यते,
तत्रेदमुपतिष्ठते—न पुरुषकर्माभावे फलानिष्पत्तेरिति । अस्य व्यतिरेकमाह
वात्तिर्ककारः—ईश्वरश्चेत् कारणं भवेदिति । एकरूपं कार्यं स्यादित्याह—
ईश्वरस्येति । कर्मणि ईश्वरोऽनीश्वरः स्यात् । तथा च तत्कारणानि नेश्वरेण
प्रयुज्यन्त इत्यनेकान्तो वक्ष्माणो हेतुरित्यर्थः ॥ २० ॥


तत्कारितत्वादहेतुः ॥ ४ । १ । २१ ॥


तदेवमीश्वरोपादानत्वं च 2079ब्रह्मविवर्तत्वं च निरपेक्षेश्वरनिमित्तत्वं च निराकृत्य
560 अभिमतं पक्षं गृह्णाति—तत्का…तुः ॥ परमाणूपादानस्य जगतः पुरुषकर्मापेक्ष
ईश्वरो निमित्तकारणम् । यच्च तेनापेक्षणीयं पुरुषकर्म तदपीश्वरनिमित्तकमेव । न च
यदपेक्ष्यते तस्यानिमित्तत्वमित्युपरिष्टात् प्रवेदयिष्यते । तस्माद् ईश्वरकारितत्वात्
पुरुषकारस्य तत्सहाय ईश्वरो निमित्तकारणं जगत इत्यस्य पक्षस्य निराकरणे
पुरुषकर्माभावे फलानिष्पत्तेरित्यहेतुः निरपेक्षेश्वरनिमित्तकत्वनिराकरणे तु
हेतुरेवेत्यर्थः ।


भाष्यम्—गुणविशिष्टमात्मान्तरमिति । गुणानीश्वरस्य ज्ञानादीनुपपादयिष्यति
वार्त्तिककारः । आत्मकल्पाद् इति । अत्रात्मप्रकारादात्मजातीयत्वादिति यावत् ।
संसरद्भ्य आत्मभ्यो विशेषमाह—अधर्मेति । नन्वस्य कर्मानुष्ठानाभावात् कुतो
धर्मः, तथा चाणिमादिकमैश्वर्यं कार्यरूपं विनैव कर्मणेत्यकृताभ्यागमप्रसङ्ग इत्यत
आह—संकल्पानुविधायी चास्य धर्म इति । प्रवर्तयतु, किमेतावता इत्यत
आह—एवं च स्वकृताभ्यागमस्यालोपेनेति । मा भूद् बाह्यानुष्ठानं संकल्प
लक्षणानुष्ठानजनितधर्मफलमस्यैश्वर्यं जगन्निर्माणलक्षणमिति2080 नाकृताभ्यागमप्रसङ्ग
इत्यर्थः ।


स्यादेतत् । प्रयोजनं विना न प्रेक्षावतां प्रवृत्तिः । न च प्राप्तसमस्तप्रापणीयस्यास्ति
प्राप्तव्यं किञ्चिदीश्वरस्य । तस्मात् कृतमस्य जगन्निर्माणेनेत्यत आह—आप्त
कल्पश्चेति ।
मा भूदस्य भगवतः स्वार्थः, परानुग्रहार्थं तु जगन्निर्माणे प्रवर्त्स्यती
त्यर्थः । अत्रैव दृष्टान्तमाह—यथा 2081पितापत्यानाम् । अयं पिता स्वापत्यानां यथा
पितेत्यर्थः । दार्ष्टान्तिके योजयति—तथा पितृभूत ईश्वर इति ।


नन्वात्मान्तराण्यनित्यज्ञानयोगीनि दृष्टानि, तद्वैलक्षण्यादीश्वरो नात्मजातीयो
भवितुमर्हतीत्यत आह—न चात्मकल्पादिति । यद्यप्यात्मान्तराण्यनित्य
बुद्ध्यादियोगीनि, अयं च नित्यज्ञानादियुक्तः, तथाप्यात्मजातीय एव, बुद्ध्यादि
गुणयोगित्वात् । अन्यथा तोयादिपरमाणूनामतोयत्वादिप्रसङ्गो नित्यरूपादियोगात् ।
561 हिमकरकादिगतानां रूपादीनामनित्यत्वोपलब्धेरिति । यदि चायं बुद्ध्यादि
गुणैर्नोपाख्यायेत प्रमाणाभावादनुपपन्न एव स्यादित्याह—बुद्ध्यादिभिश्चेति ।


स्यादेतत् । यदि कारुण्यादीश्वरो जगन्निर्माणे प्रवर्तते, हन्त भोः सुखिनमेव
सृजेन्न तु दुःखिनम् । न च क्षेत्रज्ञगतधर्माधर्मसहकारितया निर्माणवैचित्र्यं वाच्यम् ।
धर्मस्य तदनधिष्ठितस्य स्वकार्याकरणेन कारुणिकेन तदधिष्ठानायोगात् । तस्मात्
सुखिदुःख्यादिभेदेन जगद्वैचित्र्यदर्शनात् नानुकम्पाप्रयुक्त ईश्वरः करोतीत्यत
आह—स्वकृताभ्यागमलोपेन प्रवर्तमानस्येति । अयमभिसन्धिः । कारुणिकोऽ
प्ययमात्मान्तरातिशयितमहिमापि न वस्तूनां सामर्थ्यमन्यथा कर्तुं पारयति ।
तेनाधर्मेणोत्पत्तिमता नेश्वरप्रभावादपि नित्येन भवितुं युक्तम् । न च स्वफलविरोधिना
फलमप्रदाय विनंष्टुमपि शक्यम् । अतः क्षेत्रज्ञानां नियतिमलङ्घयता ईश्वरेण नाधर्मः
शक्योऽनधिष्ठातुम् । तस्मात् कारुणिकोऽप्ययं वस्तुस्वभावमनुविधीयमानो
धर्माधर्मसहकारी जगद्वैचित्र्यं विधत्ते । तदिदमुक्तम्—स्वकृताभ्यागमलोपेनेति ।
पुरुषैर्यत् कर्म कृतं तत्फलाभ्यागमलोपेन प्रवर्तमानस्येत्यर्थः ।


वार्त्तिके ईश्वरप्रक्रियेति । प्रक्रिया प्रकरणम् ईश्वरनिमित्तत्वविचार
इत्यर्थः । अथ विद्यमानः प्रतिबन्धान्न प्रवर्तयतीति । सुखाय पुरुषार्थेन प्रधाने
प्रवर्तयितव्ये अधर्मः पुरुषार्थस्य प्रतिबन्धकः । एवं दुःखाय पुरुषार्थेन प्रधाने
प्रवर्तयितव्ये धर्म इत्यर्थः ।


न चायं हेतुस्तस्मान्निवर्तते इति । अयमचेतनत्वलक्षणो हेतुः क्षीरान्न निवर्तत
इत्यर्थः ।


परिस्पन्दः क्रिया । सा च मूर्त्यनुविधायिनी नामूर्ते सर्वगत ईश्वरे संभविनीति
मन्वानः शङ्कते—क्रियानावेशादकारणमिति चेत् इति । अपरिस्पन्दा अपि
ज्ञानचिकीर्षाप्रयत्ना आख्यातपदवाच्यतया भवन्ति क्रिया ईश्वर इत्यभिसन्धिना
परिहरति—न विकल्पानुपपत्तेरिति । यदा च युगपदनेकानि द्रव्याणि संहन्यन्ते,
तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य
इति । असाधारणं कार्यम् एकैकस्य
562 तन्तुद्वयसंयोगस्य द्वितन्तुकम्, तस्माद् व्यावृत्तेभ्यः संयोगेभ्यः सह साधारणस्यैव
कार्यस्य पटलक्षणस्योत्पादादित्यर्थः । न केवलमुत्पन्नक्रियेषु क्रियोपरतौ द्रव्योत्पादः
कदाचिदनुत्पन्नक्रियेष्वपि द्रव्येष्ववस्थितसंयोगेभ्यः पूर्वद्रव्योपरतौ द्रव्यान्तरोत्पाद
इत्याह—एकावयवविभागे त्विति । तुशब्देन पूर्वस्मादुत्पन्नोपरतक्रियाद् विशेषो
दर्शितः । किमक्रियावतामेवारम्भः ? नेत्याह—कानिचित् पुनरिति । अन्यतर
कर्मजान्नोदनात् संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव
द्रव्यमुत्पद्यते इति ।


तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टमिति । चेतनोऽप्ययं परानुग्रहस्वभावोऽपि
वस्तुस्वभावमनुरुध्यमानः कर्माशयानुरोधेन जगद्वैचित्र्यं विधत्ते । न चावश्यं 2082सुकृते
प्रवृत्तिमिवावश्यं दुष्कृते पुंसां प्रवृत्तिं विहन्तीत्यर्थः । अद्यत्वेऽपि च चेतनानां
विचित्रस्वभावत्वं दृष्टं सदसन्मध्यमानां जनानाम् ।


अथ नित्यमैश्वर्यं धर्मवैयर्थ्यं न तद् धर्माद् भवतीति । ततश्च ईश्वरस्यैश्वर्यं
स्वकृतकर्मफलं वेदितव्यमित्ययुक्तं भाष्यमिति भावः । परिहरति—नित्यमिति
ब्रूमः ।
तस्य हि ज्ञानक्रियाशक्ती नित्ये इति ऐश्वर्यं नित्यम् । अणिमादिकं त्वनित्यम्,
तदभिप्रायं च भाष्यकारस्य धर्मफलत्वाभिधानम् । प्रत्यात्मवृत्ति धर्माधर्म
सन्निचयाधिष्ठानं 2083प्रत्यात्मवृत्तिसंकल्पानुविधायिन ईश्वरधर्मस्य प्रयोजनमिति ।
अभ्युपेत्येश्वरधर्ममेतदुक्तं भाष्यकृता । परमार्थतस्तु नेश्वरस्य धर्मसद्भावे
प्रमाणमस्ति, नित्याभ्यामेव ज्ञानक्रियाशक्तिभ्यां सकलकार्योत्पादसिद्धेरित्याशयवान्
आह—न चेश्वरे धर्मोऽस्तीति ।


बुद्धिमत्त्वात् तर्हि आत्मान्तरमिति । आत्मान्तरं शरीर्यन्तरमभिप्रेतमिति । स
च शरीरसंबन्धो वर्तमानः केषाञ्चिद् यथा संसारिणाम्, केषाञ्चिदतीतो यथा मुक्तानां
शुकप्रह्लादादीनाम् । तदनेनेश्वरेण बुद्धिमता अवश्यं भाव्यं शरीरिणेति देश्यार्थः ।
563 नात्मान्तरं 2084न शरीरीत्यर्थः । कुतः ? गुणभेदात् । नित्याश्चेदस्य बुद्ध्यादयः कृतं
शरीरग्रहणेन तदुत्पादार्थेनेति भावः । नन्विदमेव बुद्धिमत्कारणाधिष्ठिताः परमाणवः
प्रवर्तन्ते इति ।
पक्षधर्मताबलात् तर्कसहायात् नित्यबुद्धिमत्त्वमस्य सिध्यतीत्यर्थः ।
प्रत्यर्थनियमासंभवाद् इत्यादिना तर्कः प्रमाणसहायो दर्शितः ।


एवं तावद् गुणभेदेनाशरीरित्वमीश्वरस्य दर्शितम् न चैतस्य शरीरयोगो
विकल्पमपि सहत इत्याह—अथ बुद्धिमत्तयेति । अतीतानागतवर्तमानविषया
प्रत्यक्षेति
साक्षात्कारवतीत्यर्थः । न पुनरक्षमाश्रिता नित्यत्वात् । उपलक्षणं चैतत् ।
नानुमानि की चेति नैन्द्रियकी नौपमानिकीत्यपि द्रष्टव्यम् । अक्लिष्टेति । क्लेशोऽ
विद्या 2085तदरूषितेत्यर्थः ।


मूर्तिमद्द्रव्यसंबन्धित्वादिति संयोगित्वादित्यर्थः । तथा च न रूपादिभि
र्व्यभिचारः । 2086एतावदत्राभिसंहितमाचार्यस्य, 2087त्रयो हि खलु भावा जगति भवन्ति ।
प्रसिद्धचेतनकर्तृकाश्च यथा प्रासादाट्टालगोपुरतोरणादयः । प्रसिद्धतद्विपर्ययाश्च
यथा परमाण्वाकाशादयः । सन्दिग्धचेतनकर्तृकाश्च यथा तनुतरुमहीमहीधरादयः ।
तत्र च प्रमेयत्वाद् वा वादिविप्रतिपत्तेर्वा साधकबाधकप्रमाणाभावे चेतनकर्तृत्वे
संशयः । न च प्रत्यक्षानुपलब्धिमात्रमत्र बाधकं भवितुमर्हति । स्वभावविप्रकर्षिणां
सतामपि प्रत्यक्षानुपलब्धेः परमाण्वादीनाम् । तथा च विवादाध्यासिता
स्तनुतरुगिरिसागरादय उपादानाभिज्ञकर्तृका उत्पत्तिमत्त्वात् अचेतनोपादानत्वाद्
वा, यद् यदुत्पत्तिमदचेतनोपादानकं वा तत्सर्वमुपादानाद्यभिज्ञकर्तृपूर्वकं यथा
प्रासादादि । तथा च विवादाध्यासितास्तनुतरुगिरिसागरादयः । तस्मात् तेऽपि तथेति ।
न चैषामुत्पत्तिमत्त्वमसिद्धम्, सावयवत्वेन वा, महत्त्वे सति क्रियावत्त्वेन वा
वस्त्रादिवत् तत्सिद्धेः । न चैतावता वैनाशिकानां कर्मणा चेतनेन, मीमांसकानां
वा क्षेत्रज्ञेन चेतनेन चेतनकर्तृकत्वसिद्धेः पृथिव्यादीनां सिद्धसाधनं चेतनत्वेऽपि हि
564 तेषां पृथिव्याद्युपादानाद्यनभिज्ञत्वात् । तज्ज्ञत्वे वा स एवास्माकमीश्वरः । ईदृशमस्तु
सिद्धसाधनं को हि क्लेशं विना न वाञ्छितसिद्धिमिच्छेत् ? न च साध्यहीनो
दृष्टान्तः । पटादीनामप्युपादानाभिज्ञकुविन्दादिकर्तृकत्वात् । अत एव न विरुद्धता
हेतोः । एवं हि सा भवेत् यद्युपादानाद्यनभिज्ञकर्तृकाः घटपटादयो भवेयुः । न
चैतत्परेषामपि संमतम् ।


स्यादेतत् । अर्थाक्षिप्तस्य विशेषस्य शरीरादिमत्त्वादेः प्रमाणविरोधाद् विरुद्धता ।
यथा तृणादिविकारकारित्वाद् अग्निमद्धिमम् इत्यत्र वह्निमत्त्वाक्षिप्ततृणादि
विकारोपयुक्तवह्निगतोद्भूतोष्णस्पर्शविरुद्धस्य शीतस्पर्शस्य प्रत्यक्षेणोपलम्भाद्
बाधितो विरुद्धो हेतुः । तथा ह्यस्य क्षित्पाद्युपादानादिविषयं ज्ञानमात्ममनः
सन्निकर्षशरीरादिकारणकं नासति तस्मिन् भवतीति तदनेनाक्षिप्तम् । तच्चात्र
प्रमामबाधितमिति । तन्निवृत्तौ ज्ञानमप्यस्य निवर्तते उष्णत्वोद्भूतिविनिवृत्ताविव
दाहको वह्निरवश्याय इति । न, अव्यापकनिवृत्तावव्याप्यनिवृत्तेरयोगात् । कारणं
चेदव्यापकं कार्यस्य, हन्त हता तर्हि व्याप्यव्यापकसंकथा । भवेदेतद् यदि
क्षित्याद्युपादानज्ञानमप्यस्य कार्यं स्यात्, नित्यं तु तदभ्युपेयते इति न शरीरनिवृत्ता
वपि निवर्तितुमर्हति, अव्यापकनिवृत्तेरव्याप्यस्यानिवृत्तेः । अन्यथा नाश्ववान् मैत्र
इति गोमानपि न स्यात् । न च बुद्ध्यादीनामनित्यानां बहुलमुपलब्धेर्नित्या बुद्धिर
संभविनीति सांप्रतम् । न हि प्रत्यक्षाः पाथसीया हिमकरकादयस्तद्गता रूपादयोऽनित्या
इति तदारम्भकैः पाथःपरमाणुभिः तद्गतैर्वा रूपादिभिरनित्यैर्भवितव्यम् । सदकारण
तया तु नित्यतोभयत्रापि तुल्या । न च शरीरादिसहभावेन ज्ञानस्य तत्र तत्रोपलम्भात्
शरीरादीनां ज्ञानं व्याप्यमिति युक्तम् । स्वाभाविसंबन्धशालिता हि व्याप्यता । सा
चोपाधिविरहे भवति । अस्ति च शरीरादिसहभावे ज्ञानस्योपाधिः कार्यत्वम् । कार्यं
हि ज्ञानं स्वकारणं शरीरादि नातिवर्तते । नित्यं तु तदतिवर्तमानमपि साहित्योपलम्भं
न विरुणद्धि । तस्माद् यथा अनित्यः शब्द उत्पत्तिमत्त्वात् घटवदिति प्रयुक्ते कश्चित्
साध्यदृष्टान्तयोर्धर्मवैचित्र्यात् प्रत्यवतिष्ठते—यदि घटसाधर्म्याद् उत्पत्मित्त्वादनित्यः
565 शब्दः, हन्त तस्मादेव रूपादिमतापि तेन भवितव्यम्, न चेदयं घटसाधर्म्येण
रूपादिमान् एवमनित्योऽपि मा भूदिति । एवं च प्रत्यवतिष्ठमान उत्कर्षसमजातिवादी
पराजीयते । एवमेवंवाद्यप्युत्कर्षसमजातिवादितया पराजेतव्यः साधर्म्यमात्रेणा
प्रयोजकेन प्रत्यवस्थानात् । तस्य च सर्वानुमानेषु सुलभतया सर्वानुमानोच्छेदा
पादकत्वात् ।


स्यादेतत् । उत्पत्तिमत्त्वमुपादानाद्यभिज्ञकर्तृपूर्वकत्वमात्रव्याप्तं घटादिषु दृष्टं
तावन्मात्रमेव पृथिव्यादीनां गमयेत् । नित्यसर्वविषयज्ञानवत्कर्तृत्वं तु कुतस्त्यम् ? न
हि तद्घटादौ दृष्टान्तधर्मिणि दृष्टम् । अथ रूपाद्युपलब्धेः क्रियात्वेन 2088चक्षुरादि
साधनत्वानुमानमपि कथम् ? न हि च्छिदादयः क्रिया इन्द्रियादिसाधना 2089दृष्टाः, तासां
कुठारादिसाधनत्वात् । अथ दृष्टान्तधर्मिण्यदृष्टमपीन्द्रियसाधनत्वं पक्षधर्मताबलात्
सिध्यति । रूपाद्युपलब्धिगतं हि क्रियात्वं तदेव करणं गमयेद् यत् तदुप
लब्धिनिर्वर्तनसमर्थम्, न च कुठारादयस्तन्निर्वृत्तिसमर्था इति पक्षधर्मताबलात्
कुठारादिविलक्षणमदृष्टचरमपि चक्षुराद्युपस्थापयतीति 2090तदत्रापि समानम् । न
ह्यपरिमेयानियतदिग्देशैन्द्रियकातीन्द्रियकत्रसस्थावरादिलक्षणकार्योत्पादयौग
पद्यमसति सर्वविषयविज्ञाने तन्नित्यत्वे वा सेद्धुमर्हति । नो खल्वीदृशं पारमेश्वरं
विज्ञानं 2091कार्यशरीरेन्द्रियादिकार्यं संभवति, शरीराद्युत्पत्तेः प्रागस्याचैतन्येन
2092तत्प्राक्कालकार्यजातोत्पादाय ईश्वरान्तरकल्पनाप्रसङ्गात् । एवं ततः प्राक् ततः
प्रागित्यनेकालौकिककल्पनायाः2093 वरमेकमेवालौकिकं2094 बुद्धिनित्यत्वं कल्पितम् ।
एतेनैव शरीरेन्द्रियनित्यत्वकल्पनापि प्रत्युक्ता ।


एतेन यदेके ब्रुवते—

सन्निवेशादिमत्सर्वं बुद्धिमद्धेतु यद्यपि ।

प्रसिध्येत् सन्निवेशादेरेककारणता कुतः ॥

566 इति तददपि 2095पराकृतम् । तेषां प्रसिध्येत् सर्वज्ञनिराक्रियामनोरथो यदि पिशितचक्षुषः
परमाणून् क्षेत्रज्ञान् तत्समवेतान् वा कर्माशयान् द्रष्टुमीशते, न चैतदस्ति । तस्मादती
न्द्रियार्थदर्शिनोऽस्मदादिविलक्षणा बहवः कल्पनीयाः । तद् वरमस्त्वेक एव तादृशः
कल्पनालाघवायेति ।


न च कादाचित्कपरिपाकादृष्टवत् क्षेत्रज्ञपरमाणुसंयोगादेव तनुभुवनादि
कार्योत्पादोपपत्तेः कृतं चेतनकर्तृकत्वेनेति वाच्यम् । उत्पत्तिमत्त्वस्योपादानाद्य
भिज्ञकर्तृपूर्वकत्वेनोपाधिविरहिणः स्वाभाविकप्रतिबन्धसिद्धेः । न चाविज्ञाताना
मिन्द्रियमनसां विज्ञानोत्पादसाधनानामनधिष्ठानस्य वत्सवृद्धिनिमित्तस्याप्यचेतनस्य
क्षीरस्य स्वातन्त्र्येण प्रवृत्तेश्च वने विटपादीनां च विना प्रयत्नमुत्पादस्य च दर्शनाद्
व्यभिचार इति सांप्रतम्, सर्वेषामेव तेषां विवादास्पदीभूतत्वेन पक्षनिक्षेपात् । न च
शशशृङ्गस्यास्तितावदनुपलब्धिविरोधादपक्षधर्मता धर्मिणो दर्शनानर्हतया
भगवतस्तद्विरोधानुपपत्तेः अन्यथा सर्वानुमानोच्छेदप्रसङ्गात् । शृङ्गस्य तु शशशिरोवर्तिनो
वत्सादिगतस्येव दर्शनार्हस्यानुपलब्धिनिराकृतस्य साधनानर्हत्वात् ।


स्यादेतत् । नोत्पत्तिमन्मात्रं स्वभावप्रतिबद्धं बुद्धिमद्धेतुत्वेन किन्तु तद्विशेषः,
यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते, तस्य च दृष्टेः सोपजायते । यद्
बुद्धिमद्भावाभावानुविधायिभावाभावं2096 दृष्टं घटादि च तथा, न तूत्पत्तिमन्मात्रं तनु
भुवनाद्यपि, तस्य 2097तद्भावाभावानुविधानादर्शनात् । तदेतेन विशेषणोपाधिना प्रयुक्तां
बुद्धिमद्धेतुकत्वव्याप्तिमुपजीवदुत्पत्तिमत्त्वसामान्यं न तेन स्वभावप्रतिबद्धमिति न
तद्गमयितुमर्हति । अन्यथा धूमप्रयुक्तां धूमध्वजव्याप्तिमुपजीवतः पाण्डुतादेः
कुमुदकपोतकादिगतादपि 2098धूमकेतनानुमानप्रसङ्गादिति ।


अत्रोच्यते । इदमत्र निपुणं भवन्तो निरूपयन्तु किं बुद्धिमदन्वयव्यतिरेकानु
विधानं विशेष उताहो तद्दर्शनम् । यदि पूर्वः कल्पः, स बुद्धिमद्धेतुकत्वं तनुभुवनादी
नामातिष्ठमानैरभ्युपेयत एव । न हि कारणं कार्याननुविहितभावाभावमन्यो
567 वक्तुमर्हत्यह्रीकात् । अथ तद्दर्शनं न तर्ह्यक्रियादर्शिनः कृतबुद्धिसंभवः । य एव हि
पटोऽनेन बुद्धिमद्धेत्वन्वयव्यतिरेकानुविधायी दृष्टः, स एव तत्कार्यो न तु विपणिवर्ती ।
तज्जातीयस्य तदन्वयव्यतिरेकानुविधानदर्शनाददृष्टान्वयव्यतिरेकानुविधानमपि
तज्जातीयं तथेति चेत् ? हन्त उत्पत्तिमद् घटादि बुद्धिमदन्वयव्यतिरेकानुविधायीत्यन्य
दपि तज्जातीयं तनुभुवनादि तथा भवद् दण्डेन न पराणुद्यते । घटजातीयमुत्पत्तिमद्
बुद्धिमत्पूर्वमिति चेत् ? ननु प्रासादादि न तद्धेतुकं भवेत् अघटजातीयकत्वात् । अथ
यज्जातीयं बुद्धिमदन्वयव्यतिरेकानुविधायि दृष्टम् तज्जातीयमेवादृष्टान्वयव्यतिरेकमपि
बुद्धिमद्धेतुकम् । तत् किमिदानीं कार्यजातीयं प्रासादादि बुद्धिमद्धेतुकं न दृष्टं
येनोत्पत्तिमत्तनुभुवनादि तथा न स्यात् । न खलु तज्जातीयत्वे कश्चिद् विशेष इति ।
यत्तु मृद्विकारत्वेन वल्मीकस्य घटादिवत् कुलालकार्यत्वं न भवति तत्कुम्भकारस्य
दृश्यस्य प्रत्यक्षानुपलम्भविरोधात् । अदृश्यचेतनपूर्वकत्वं2099 तु तस्योपेयत एव ।


स्यादेतत् । नोत्पत्तिमात्रमुपादानाभिज्ञकर्तृकत्वेन व्याप्तम्, अपि तु यदस्मदा
दिशक्यज्ञानोपादानादि । न च तथा तनुभुवनाद्युत्पत्तिमदपि, तस्माद् व्याप्तिविरहान्न
तत्पूर्वकमिति । तदयुक्तम्, उत्पत्तिमत्त्वतदुपादानाद्यभिज्ञकर्तृकत्वयोः प्रथममन्वय
व्यतिरेकाभ्यां व्याप्तौ सिद्धायां तदुपादानादिशक्यज्ञानत्वादिकल्पनायाः कार्यज्ञानविषये
व्यवस्थापनात् । व्याप्तिबलेन 2100ज्ञानसामान्यसिद्धौ पक्षधर्मताबलेन तन्नित्यत्वसिद्धि
रित्युक्तम् । तेनोपाधेरनुस्रियमाणस्यानुपलब्धेः स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं
बुद्धिमद्धेतुकत्वेन । न च स्वभावप्रतिबद्धमुत्पत्तिमत्त्वं स्वसम्बन्धिनमतीत्यापि2101
वर्त्स्यतीति शक्यं शङ्कितुम् । तथा सति स्वभावहानिप्रसङ्गः ।


स्यादेतत् । न सर्वज्ञपूर्वकाः क्षित्यादयः प्रमेयत्वसत्त्वादिभ्यः घटादिवदित्यनुमा
नानि सन्ति प्रतिपक्षसाधनानीति सत्प्रतिपक्षतया प्रकृतमनुमानाभासम् । अत्रोच्यते ।
किमनेन सर्वज्ञपूर्वककत्वं निषिध्यते उत ज्ञातृमात्रपूर्वकत्वं सर्वज्ञग्रहणं तूपलक्षणार्थम् ।
यदि पूर्वः 2102कल्पः, तत एकदेशदर्शिपूर्वकत्वं साधितं स्यात् । तथा चापसिद्धान्तः ।
568 न च शक्यमपि । न ह्यस्मदादिनार्वाग्दृशा शक्याः पृथिव्यादयः कर्तुम् । ज्ञातृमात्रपूर्वकत्वे
तु निषेध्ये घटादिभिर्व्यभिचारः । यच्चेश्वरो नाधिष्ठाता परमाण्वादीनामशरीरित्वाद्
मुक्तात्मवत्, ऐश्वरं वा ज्ञानं न सर्वविषयम् अनित्यं च, ज्ञानत्वाद् अस्मदादिज्ञानवत्
इत्यनुमानं तत्पक्षधर्मतासिद्ध्यर्थमीश्वरसिद्धिं तद्बुद्धिमत्त्वं चापेक्षमाणं तत्प्रसाधक
प्रमाणविरुद्धमात्मानमेव तावन्नासादयितुमर्हति, प्रागेव तद्विरोद्धुम् । न ह्यागमानुमाने
जगत्कर्तृत्वनित्यसर्वविषयबुद्धिमत्त्वमन्तरेण2103 केवलमीश्वरं साधयतः । तथा च
ताभ्यां विरुद्धं भवदनुमानं नोत्पत्तुमर्हतीति सिद्धम् । बुद्धिवदिच्छाप्रयत्नावप्यस्य
नित्यौ सकर्तृकत्वसाधनान्तर्गतौ मन्तव्यौ2104, ज्ञानचिकीर्षाप्रयत्नसमवायलक्षणत्वात्
कर्तृत्वस्य । तेषां च परस्पराविनाभावादन्यतमसिद्धावितरयोः सिद्धेः । तदेव
मुत्पत्तिमत्त्वादेव पक्षधर्मतासहायादेवंभूतेश्वरसिद्धिरित्युक्तम् ।


भवतु वा तस्मादुपादानाद्यभिज्ञकर्तृकत्वमात्रसिद्धिः । परिशेषानुमानात् तु
2105व्यतिरेकसिद्धेर्विशेषसिद्धिः । तथा हि 2106तनुभुवनाद्युपादानाद्यभिज्ञः कर्ता नानित्या
सर्वविषयबुद्धिमान्, तत्कर्तुस्तदुपादानाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदु
पादानाद्यभिज्ञो दृष्टः, यथास्मदादिः । तदुपादानाद्यभिज्ञश्चायम् । तस्मात् तथेति । नो
खलु परमाणुभेदान् प्रति क्षेत्रज्ञसमवायिनश्च कर्माशयभेदानपरिमेयान् अन्यः शक्तो
ज्ञातुमृते तादृशादीश्वरादिति विपञ्चितमधस्तात् । परपुरुषसमवेतावपि धर्माधर्माव
धिष्ठातुं शक्नोति संबन्धात् । न हि साक्षात् संयोगसमवायावेव संबन्धौ संयुक्त
संयोगिसमवायस्यापि तद्भावात् । संयुक्ताः खल्वीश्वरेण परमाण्वादयः । तैश्च
क्षेत्रज्ञाः । तत्समवेतौ धर्माधर्माविति । संयुक्तसमवायो वा क्षेत्रज्ञेनेश्वरस्य संयोगात्
अजसंयोस्याप्युपपादितत्वात् । धर्माधर्मौ परमाणून् वा स्वधर्मोपग्रहमन्तरेणापि
चेश्वरः स्वकार्यारम्भाभिमुखान् करिष्यति विषविद्याविदिव विषशकलं क्रिया
रम्भाभिमुखम् । एतेन चेतनोपादानत्वमपि व्याख्यातम् । वार्त्तिककृता तूपलक्षण
569 तया चेतनत्वं हेतुरुक्तः । उत्पत्तिमत्त्वादयोऽपि हेतव ऊहनीयाः ।


इमं च न्यायमाम्नाय उपोद्वलयति—
2107एतस्य वाक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
2108द्यावाभूमी जनयन् देव एकः ।
2109तदैक्षत बहुस्यां प्रजायेय ।
इत्यादिः स्मृतिश्च भवति—

2110अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।

ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥

अकारणत्वेन चेश्वरज्ञानस्य नित्यतां दर्शयति श्रुतिः—
2111अपाणिपादो जवनो ग्रहीता

पश्यत्यचक्षुः स शृणोत्यकर्णः ।

स वेत्ति वेद्यं न च तस्यास्ति वेत्ता

तमाहुरग्यं पुरुषं महान्तम् ॥

इत्यादिका । एतयैवाशरीरित्वमपि दर्शितं भवति । परिशिष्टं तु वार्त्तिककृता स्वयमेव
विपञ्चितमित्युपरम्यते ॥ २१ ॥


॥ इतीश्वरोपादानताप्रकरणम् ॥

आकस्मिकत्वप्रकरणम्


अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात् ॥ ४ । १ । २२ ॥


कण्टकादीनां संस्थानविशेषवतां निमित्तादर्शनेनानिमित्ततां मन्वानस्तेनैव दृष्टान्तेन
शरीरादीनामपि संस्थानभेदवतामनिमित्ततां मन्वानः पूर्वपक्षयति—अनिमित्ततः
570 …दर्शनात् ॥
इति । अदृश्यमाननिमित्तानां शरीरकण्टकादीनां पक्षनिक्षेपात् पक्षेण
व्यभिचारानुद्भावनात् उद्भावने वा सर्वानुमानोच्छेदप्रसङ्गात् सर्वत्र तस्य सुलभत्वात्
उभयसिद्धेन निमित्तवत्पटादिदृष्टान्तेन 2112संस्थानभेदवत्त्वात् कण्टकशरीरादीनामपि
2113निमित्तवत्त्वानुमानमिति सिद्धान्तः ॥ २२ ॥


अनिमित्तनिमित्तत्वान्नानिमित्ततः ॥ ४ । १ । २३ ॥


सिद्धान्त्येकदेशिमतमुपन्यस्य2114 दूषयति—अनिमित्त…निमित्ततः ॥ अपरे
त्विति
॥ २३ ॥


निमित्तानिमित्तयोरर्थान्तरभावादप्रतिषेधः ॥ ४ । १ । २४ ॥


स्वयं वार्त्तिककारः कण्टकादीनामनिमित्ततां विकल्प्य दूषयति—
कण्टकादीनां चानिमित्तं जन्मेति । प्रतिपाद्यप्रतिपादकन्यायस्येति । प्रतिपाद्यः
पुरुषः कर्म प्रतिपादकश्च पुरुषः कर्ता, कर्तृकर्मणी च कारके । कारकं च क्रियाया
निमित्तमिति प्रतिपाद्यप्रतिपादकविषयो न्यायः । स चायमनिमित्तं शरीरादीनां
जन्मेति प्रतिजानानेनानेनाभ्युपेयते । अन्यथा ते मूकतैव स्यादिति । तदिदमुक्तम्, सर्वं
चानिमित्तं प्रतिपादयसि चेति व्याहतम् ।
न केवलं प्रतिपाद्यप्रतिपादकन्याया
भ्युपगमात्, इतोऽपीत्याह—वाक्योपादानाच्चेति । प्रतिपादननिमित्तं वाक्यमुपादत्से
अभिधत्से चानिमित्तं सर्वमिति व्याघात इत्यर्थः । तथा प्यन्यतरधर्मासिद्ध इति ।
अन्यतरेण साध्यधर्मेणानिमित्तत्वाख्येनासिद्धोऽनिमित्तत्वस्यैवासिद्धेः । ननु प्रतिवादिनो
वाङ्मात्रेण न सिद्धमसिद्धं भवत्यतिप्रसङ्गादित्यत आह—संस्थानविशेवत्त्वस्य
भावात् ।
पटादिदृष्टान्तेन कण्टकादीनां सनिमित्तकत्वस्य प्रामाणिकत्वे न
571 वाङ्मात्रासिद्धेरसिद्धिरिति2115 । कस्मात् पुनः पूर्वः पक्षः स्वयं सूत्रकारेण न निराकृत
इत्यत आह भाष्यकारः, स खल्वयं वादोऽकर्मनिमित्त इति ॥ २४ ॥


॥ आकस्मिकत्वप्रकरणम् ॥

सर्वानित्यताप्रकरणम्


सर्वमनित्यमुत्पत्तिविनाशधर्मकत्वात् ॥ ४ । १ । २५ ॥


अन्ये तु मन्यन्ते—सर्वम्…त्वात् ॥ हेतोर्गमकत्वं दर्शयितुं पृच्छति—
किमनित्यमिति । उत्तरम् यस्य कदाचिद्भावः । हेत्वर्थं विवृणोति—उत्पत्तीति ।
यद् उत्पत्तिधर्मकमनुत्पन्नं नास्ति तद् उत्पन्नं चास्ति, विनाशधर्मकं च विनष्टं
नास्ति
अविनष्टं चास्ति । तस्मात् पूर्वापरयोः कालयोरभावान्मध्ये च भावात् सिद्धं
कदाचिद्भावलक्षणमनित्यत्वमुत्पत्तिविनाशधर्मकत्वादित्यर्थः । साध्यधर्मिरूपं
पृच्छति—किं पुनरिति । उत्तरम्—भौतिकं चेति । अत्र तावत् स्वयं वार्त्तिककार
उत्तरमाह—सर्वमनित्यमिति । सूत्रस्य दृष्टान्तार्थत्वादिति । अर्थशब्दो निमित्त
वचनः, दृष्टान्तनिमित्तत्वात् सूत्रस्य प्रतिज्ञाहेतूपन्यासपरस्य । न दृष्टान्तं विना हेतूः
प्रतिज्ञार्थस्य गमको यत इत्यर्थः । एतदेव विभजते—सर्वमनित्यमिति ।
निराकरणान्तरमाह—उत्पत्तिविनाशधर्मकत्वादिति चायमिति ॥ २५ ॥


नानित्यतानित्यत्वात् ॥ ४ । १ । २६ ॥


सिद्धान्त्येकदेशीमतमुपन्यस्य दूषयति—नानि…त्वात् ॥ इति ॥ २६ ॥


572

तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् ॥ ४ । १ । २७ ॥


नित्यस्याप्रत्याख्यानं यथोपलब्धि व्यवस्थानात् ॥ ४ । १ । २८ ॥


परमसिद्धान्तं सूत्रोक्तमाह—अयं खल्विति । अथोच्यते न वयं सर्वमनित्यं
साधयामः, अपि तु यस्य यस्यानित्यता नामास्ति धर्मः तत्सर्वमनित्यमिति ।
ततश्चाकाशादीनां नित्यत्वेऽपि नास्मत्पक्षक्षतिरिति । तदेतत् सिद्धसाधनेन
दूषयति—अनित्यताभावाच्च सर्वमनित्यं न दोष इति । यस्य सन् धर्मी स्वं
तद्योगादनित्यः स्यात् स एव कदाचिन्नास्तीत्यत आह—अनित्यत्वं नाम धर्मः,
सोऽसति धर्मिणि न भवतीति ।
स्यादेतत् । उत्पत्तिविनाशधर्मकत्वावगतावनित्यता
धर्मयोगात् तावद् घटादि भवत्यनित्यम्2116 । तेनैव दृष्टान्तेन सत्त्वादाकाशादयोऽपि
भविष्यन्त्यनित्या इति देशयति—अथ पुनरिति । परिहरति—तस्याप्युत्तर
पदसिद्ध्या2117
तत्पदार्थस्य नित्यत्वस्य सिद्धेरिति ॥ २८ ॥


॥ सर्वानित्यताप्रकरणम् ॥

सर्वनित्यत्वनिराकरणप्रकरणम्


सर्वं नित्यं पञ्चभूतनित्यत्वात् ॥ ४ । १ । २९ ॥


अयमपर एकान्तः—सर्वं…त्वात् ॥ सर्वं नित्यम् । कस्मात् ? पञ्चभूत
नित्यत्वात् ।
पञ्चभूतात्मकं खल्वेतद् गोघटादिकार्यमुपलभ्यते । व्यपदिशान्ति हि
मृद्घटो मृच्छरीरमिति । भूतानि च नित्यानि, तेषामुच्छेदस्य नैयायिकैरनभ्युपगमात् ।
तेन भूतात्मनां गोघटादीनां नित्यतेति पूर्वः पक्षः ॥ २९ ॥


573

नोत्पत्तिविनाशकारणोपलब्धेः ॥ ४ । १ । ३० ॥


भूतेभ्यो भौतिकानि भिन्नानि । न हि परमसूक्ष्माः परमाणवो गोघटादयः,
परमाणुवत्तेषामप्यतीन्द्रियत्वेन सर्वाग्रहणप्रसङ्गादित्युक्तं द्वितीयेऽध्याये । तस्माद्
2118ग्रहणाग्रहणलक्षणविरुद्धधर्मयोगाद्2119 अन्ये भौतिका भूतेभ्यः । तथा च तेषामुत्पत्ति
विनाशकारणोपलब्धेर्न नित्यत्वं भूतनित्यत्वेऽपीति सिद्धान्तमाह—नोत्पत्ति…
लब्धेः
इति ॥ ३० ॥


तल्लक्षणावरोधादप्रतिषेधः ॥ ४ । १ । ३१ ॥


भूतसारूप्येण तादात्म्यं मन्यमानः पुनरपि पूर्वपक्षवाद्याह—तल्लक्षणा…
षेधः ॥ तल्लक्षणावरोधाद्
गोघटादीनां भूतनित्यत्वेन नित्यत्वस्याप्रतिषेधः ॥ ३१ ॥


नोत्पत्तितत्कारणोपलब्धेः ॥ ४ । १ । ३२ ॥


भूतसारूप्यं गोघटादीनां भूतकार्यत्वेऽप्युपपद्यमानं न भूतात्मकत्वमवगमयती
त्याशयवानाह—नोत्पत्ति…लब्धेः ॥ इति । अपि च यद्युत्पत्तिविनाशौ न भावानां
वस्तुसन्तौ कथं प्रेक्षावतामभिमतोत्पत्तिकारणे अनभिमतविनाशकारणे च तदर्थिनां
प्रवृत्तिरित्याह—उत्पत्तिविनाशकारणेति । अपि चाव्यापको हेतुरित्याह—
शब्दकर्मबुद्ध्यादीनां चाव्याप्तिः । अव्यापकश्च अनेकान्त उक्तः । पक्षो हि सर्वं
नित्यमिति । तस्मिन्नस्य सत्त्वासत्त्वाभ्यामनेकान्तः, अनेकः सत्त्वासत्त्वलक्षणः
अन्तोऽस्येत्यनेकान्त इति । तदेतद् वार्त्तिककारो वक्ष्यत्यर्थदृष्ट्या पक्षस्यान्तद्वयेऽ
वस्थानादिति ।
हेतोरन्तद्वये सत्त्वासत्त्वरूपे पक्षस्यावस्थानादिति योजना ।


574

असति बाधके मिथ्यात्वकल्पनायामतिप्रसङ्ग इत्यमुमर्थं शङ्का
निराकरणाभ्यामाह—सप्नविषयेत्यात्यादिना । भाष्योक्तमर्थमुक्त्वा स्वयं वार्त्तिक
कार
आह—2120सर्वस्य चेति । 2121यावद् येन प्रतिपाद्यत इति । प्रतिपादनेन क्रियत
इत्यर्थः । शेषमतिरोहितार्थम् ॥ ३२ ॥


न व्यवस्थानुपपत्तेः ॥ ४ । १ । ३३ ॥


तदेवं सांख्यानां मतमपास्य स्वायम्भुवानां मतमपाकर्तुमुपन्यस्यति—अपरे
तु सर्वं नित्य
मित्यन्यथा वर्णयन्ति । त्रिविधः खल्वयं धर्मिणः परिणामो धर्म
लक्षणावस्थारूपः । तद् यथा सुवर्णं धर्मि, तस्य धर्मपरिणामो वर्धमानरुचकादिः,
धर्मस्य तु लक्षणपरिणामोऽनागतादिः । यदा खल्वयं हेमकारो वर्धमानकं भङ्क्ता
रुचकादिमारचयति, तदा वर्धमानको वर्तमानतालक्षणं हित्वा अतीततालक्षणमापद्यते ।
रुचकं त्वनागततालक्षणं हित्वा वर्तमानतामापद्यते । वर्तमानतापन्न एव तु रुचको
नवपुराणभावमापद्यमानोऽवस्थापरिणामवान् भवति । नवपुराणावस्थाश्च वर्तमान
लक्षणाश्रया लक्षणपरिणामाः । सोऽयं त्रिविधः परिणामो धर्मिणः । धर्मलक्षणा
वस्थाश्च धर्मिणो भिन्नाश्चाभिन्नाश्च । तथा च ते 2122धर्म्यभेदात् तन्नित्यत्वेन
नित्याः । भेदाच्चोत्पत्तिविनाशविषयत्वमित्युभयमुपपन्नम् ।


ननु यद्युपजनापायधर्मकत्वं धर्माणां हन्तोत्पत्तेः प्राक तेषामसत्त्वाद्
विनाशाच्चोर्ध्वमसत्त्वात् कथं सर्वनित्यत्वसिद्धिरित्यत आह भाष्यकारः—
यच्चोपजायते तत् प्रागप्युपजनादस्ति
धर्मिरूपेणेति शेषः । तन्निवृत्तमप्यस्तीति ।
अत्रापि धर्मिरूपेणेति शेषः ॥


निराकरोति—न व्यव…पत्तेः ॥ उपजनापाययोः स्वरूपतः कालतो
575 विशेषतः2123 संबन्धितोऽनागतत्वादितश्च व्यवस्थानुपपत्तेरित्यर्थः । एतदुक्तं भवति न
तावद् भेदाभेदौ परस्परपरीहारव्यवस्थितधर्माणावेकत्र समाविशतः । तस्मादुप
जनापायव्यवस्थायै भेदं धर्मलक्षणावस्थानां धर्मिण इच्छता तेषामनित्यत्वमभ्युपेतव्यम् ।


सांख्यवत् सत्कार्याभ्युपगमेन तु नित्यत्वव्यवस्थापने वार्त्तिककार
आह—यच्च निवर्तते तन्निवृत्तमप्यस्तीति ब्रुवाण इति सुगमम् ॥ ३३ ॥


॥ इति सर्वनित्यत्वनिराकरणप्रकरणम् ॥

सर्वपृथक्त्वनिराकरणप्रकरणम्


सर्वं पृथग् भावलक्षणपृथक्त्वात् ॥ ४ । १ । ३४ ॥


अयम् अन्य एकान्तो बौद्धानाम् सर्वं…पृथक्त्वात् ॥ सर्वं पृथक्,
कस्मात् ? भावलक्षणपृथक्त्वात् । न रूपाद्यतिरिक्तं द्रव्यं नाम किञ्चिदस्ति,
नाप्यवयवातिरिक्तः कश्चिदवयवीति सौत्रान्तिका वैभाषिकाश्च प्रतिपेदिरे ।
2124वार्त्तिकम्—अस्य प्रयोग इति । कुम्भशब्दोऽनेकविषय इति । पारमार्थि
कानेकविषयः, काल्पनिकं तु कुम्भस्यैकत्वं न वार्यते । तथा चैकपदमित्येकपदेन
न व्यभिचारः, तस्यापि पारमार्थिकानेकविषयत्वादित्यर्थः ॥ ३४ ॥


नानेकलक्षणैरेकभावनिष्पत्तेः ॥ ४ । १ । ३५ ॥


तान् निराकरोति—नानेक…निष्पत्तेः ॥ अनेक विधैर्लक्षणैः संबद्धस्यैकस्य
भावस्य घटादेरवयविनो निष्पत्तेरिति । स्यादेतत् । घटादिशब्देभ्यो रूपादीनां च
बुध्नादीनां च बहूनामवगमात् कथमेकार्थतेत्यत आह—आधारधेयभावेनेति । यदि
576 नानार्थतापि भवति घटादिशब्दानां तथापि प्रत्येकमेकत्वं तदर्थानामशक्यापह्नव
मिति न पूर्वपक्षिणोऽभिमतसिद्धिरिति2125 ॥ ३५ ॥


लक्षणव्यवस्थानादेवाप्रतिषेधः ॥ ४ । १ । ३६ ॥


अथापीति अपि चेत्यर्थ । लक्षण…प्रतिषेधः ॥ अणुसमूहे चागृह्यमाण
इति । परमसूक्ष्मत्वेनातीन्द्रियत्वादित्यर्थः । अथाप्येतदनुक्तमिति । अपि च
भावलक्षणपृथक्त्वादिति हेतुमुक्त्वा बौद्धेन पश्चादेतदुक्तम् । किं तदुक्तमित्यत
आह—नास्त्येको भावो यस्मात् समुदाय इति । एतदनूक्तं दूषयति—एका
नुपपत्तेर्नास्त्येव समूहः ।
अनूक्तं विवृणोति—नास्त्येको भावो यस्मात् समूहे
भावशब्दप्रयोगः ।
अस्य दूषणं विवृणोति—एकस्यानुपपत्तेरिति । एतत्
प्रपञ्चयति—एकसमुच्चयो हीति । नास्त्येको भाव इति यस्य भावस्यैकत्वप्रतिषेधः
प्रतिज्ञायते, समूहे भावशब्दप्रयोग इति ब्रुवता स एवाभ्यनुज्ञायते । ननु समूहोऽभ्यनुज्ञायते
न त्वेको भाव इत्यत आह—एकसमुच्चयो हि समूह इति । तदनेन प्रतिज्ञया हेतो
र्व्याघात उक्तः । संप्रति प्रतिज्ञाया हेतुना व्याघात इत्याह—समूहे भावशब्द
प्रयोगादिति चेति ।


उपेत्य तूच्यते अनेकार्थत्वमप्यत्रासंभवीति 2126समूहभेदस्य चानवस्थानादिति ।
यदि समूहमात्रमेव2127 न त्वेकं किञ्चिदस्ति । तथा सति घटलक्षणे समूहे भेद्यमाने
नाल्पतरतमादिभेदः प्रतीयेत, घटादिकपालशर्कराचूर्णपरमाणूनां समूहत्वेनानन्ता
वयवत्वादयं महान् अयमल्पोऽल्पतरोऽल्पतम2128 इति विभागो न स्यात् । तस्मादनेन
तारतम्यं समर्थयमानेन क्वचित् समूहनिवृत्तिर्वाच्या । न चासावसमूहमेकमन्तरेण
577 इत्येकोऽभ्युपेयत इत्यर्थः । उक्तमर्थमविद्वान् शङ्कते—अथ मन्यस इति । रूपादीनां
समुदाय2129 इति चत्वारि वा द्रव्याणीति
चावान्तरदर्शनभेदविवक्षया द्रष्टव्यम् ।
2130उक्तार्थप्रदर्शनेनोत्तरम्—एतस्मिन् वै दर्शने इति । अथानन्तं समुदायं प्रतिपद्यस
इति । निराकृतस्यापि पुनराशङ्का आगमविरोधमापादयितुम् । एकानुपपत्तौ नानेकोप
पत्तिरिति ।
2131यत्तदनेकमुक्तमेतत् त्याज्यमिति । शेषं भाष्यव्याख्यायां व्याख्यातम् ॥ ३६ ॥


॥ इति सर्वपृथक्त्वनिराकरणप्रकरणम् ॥

सर्वशून्यत्वनिराकरणप्रकरणम्


सर्वमभावो भावेष्वितरेतराभावसिद्धेः ॥ ४ । १ । ३७ ॥


संप्रति शून्यतावादिनम् उत्थापयति—अयमपर एकान्तः । सर्वम्………
सिद्धेः ॥ सर्वमभाव
इति प्रतिज्ञा । अत्र हेतुः भावेष्वितरेतराभावसिद्धेरिति ।
सर्वमिदं प्रमाणप्रमेयप्रमातृप्रमितिरूपमभावस्तुच्छं भावेष्वितरेतराभावसिद्धेरिति ।
वार्त्तिककारो व्याचष्टे—असत्प्रत्ययप्रतिषेधाम्यां भावशब्दसामानाधिकरण्यात् ।
प्रमाणादयः खल्वमी परस्परानात्मकतया असदिति प्रत्ययस्य नञश्च गोचरा
इत्यनुभूयन्ते । अतस्तद्वाचिनां शब्दानां तत्सामानाधिकरण्यम् । ततः प्रमाणादयोऽसन्तः
अनुत्पन्नप्रध्वप्तपटवत् । अपि चामी भावा नित्या अनित्य वा ? नित्यत्वे सर्वसामर्थ्य
रहितस्यासत्त्वम् । न हि नित्यं क्वचित् कार्य उपयुज्यते क्रमाक्रमानुपपत्तेरित्युक्तम् ।
अनित्यत्वे तु विनाशस्वभावाश्चेद् द्वितीयादिष्विव क्षणेषु प्रथमक्षणेऽपि न स्युः ।
सत्त्वे वा नामी विनाशस्वभावाः । अतत्स्वभावत्वे वा क्षणान्तरेऽपि न नश्येयुः । नो
खलु नीलं स्वकारणादुपजातं जातु कारणसहस्रैरपि शक्यं पीतं कर्तुमिति
विनाशस्वभावकत्वमकामेनाप्यनित्यानामेषितव्यम् । तस्माद् भावानां शून्यतैव
578 पारमार्थिकी, कल्पनया त्ववस्तुसत्या सन्त इवावभासन्त इति युक्तमुत्पश्यामः ।
तथा च सर्वे भावा इति । सर्वे भावशब्दा इत्यर्थः । प्रयोगश्च सर्वे भावशब्दा
असद्विषया असत्प्रत्ययप्रतिषेधशब्दाभ्यां सामानाधिकरण्यात् । अनुत्पन्नप्रध्वस्त
घटवाचकशब्दवदिति ॥ ३७ ॥


न स्वभावसिद्धेर्भावानाम् ॥ ४ । १ । ३८ ॥


अत्र तावदुत्सूत्रं भाष्योक्तं दूषणं वार्त्तिककार आह—प्रतिज्ञापदयोः
प्रतिज्ञाहेत्वोश्च व्याघात
इति । अभिन्नविभक्तिकत्वमिति । अभिन्नार्थक
विभक्तिकत्वं न त्वभिन्नविभक्तिकत्वमेव विभिन्नविभक्तिकानामपि सामाना
धिकरण्यात् । यथा चैत्रः पठतीति, यथा वा न त्वां तृणाय मन्य इति । नासति
तत्प्रत्ययेन भवितुमिति ।
न ह्यत्यन्तासन्निरुपाख्यं सर्वमिति वा भाव इति वा
2132अभिधानस्यापि गोचरः । उपपादितं हि द्वितीयसूत्रे एव यथा असद्वा अनिर्वचनीयं
वा न ख्यातिगोचरोऽपि तु सदेव सदन्तरात्मना । तथा च कुतोऽत्यन्तासतः कल्पना
गोचरत्वमपीति । शेषं भाष्ये इति । प्रतिज्ञाहेत्वोर्व्याघातो भाष्ये प्रपञ्चित इति ।


उत्सूत्रमुक्त्वा भाष्यकारः सौत्रं दूषणं वक्तुमाह—सूत्रेण चाभिसंबन्धो
दूषणस्य । न स्वभावसिद्धेर्भावानाम् ॥ सर्वमभाव इति नास्ति । कस्मात् ?
स्वभावसिद्धेर्भावानां स्वभावो धर्मो द्रव्यादीनां सदादिः । अथवा स्वभावः स्वरूपं
भावानां येनामी भावाः 2133स्वभावाद् व्यावर्तन्ते तस्य सिद्धेः, अथवा2134 असन्निति
प्रत्ययस्य गव्यश्वात्मनेति विशेषणात् । अगौरित्यस्य च गां परिहृत्याश्वादिभिः
संबन्धात् गोभावसिद्धिः2135 एवमश्वादिष्वपीति । स्वभावसिद्धेर्भावानां नाभाव
इत्यर्थः । न स्वभावसिद्धेरिति सूत्रमनूद्य वार्त्तिककारः स्वरूपमात्रेण व्याख्याय
प्रश्नपूर्वकं तात्पर्यमस्य दर्शयति—पूर्वसूत्रस्यति । कश्च स्वो भाव इत्यादिना
579 सिद्धो भाव इत्यन्तेन सूत्रस्य व्याख्यानत्रयं भाष्यकारीयं वार्त्तिककारो दर्शयति ।
सामान्यो धर्मः समानो नित्यत्वादिरित्यर्थः । प्रश्नपूर्वकमसत्प्रत्ययप्रतिषेध
सामानाधिकरण्यं भावस्योपपादयति—कथं तर्हीति । असच्छब्दः खल्वभाव
विशेषणं सदेवाभिधत्ते, एवमसत्प्रत्ययोऽप्यभावविशेषणं सदेवावलम्बते । यथा
शुक्लशब्दः शुक्लगुणविशिष्टे पटे वर्तते, तथा चासत्प्रत्ययाभिधानयोरुपपन्नं भाव
वाचिना पदेन सामानाधिकरण्यमित्यर्थः । भावश्च कश्चिन्नित्यः कश्चिदनित्यः ।
तत्र नित्यस्यार्थक्रियाकारित्वमुपपादितं क्षणभङ्गभङ्गे । अनित्योऽपि न विनाश
स्वभावो भावः, किं तु स्वकारणादयं सत्स्वभावो भावो जातः, कारणान्तरात् तु
विनश्यति । यत् तूक्तम्, नीलं न शक्यं पीतं कर्तुमिति, तत्र ब्रूमः, शक्य एव नीलः
पटः पीतः कर्तुम् । आमः श्यामो घटो वह्निसंयोगाद् रक्तः । अथ नीलत्वं न पीतत्वं
शक्यं कर्तुम्, ननु भावोऽपि किमभावः कर्तुं शक्यः ? यथैककुम्भाधिकरणे श्याम
रक्तत्वे पर्यायेण भवतः, एवं कपालाधिकरणौ कुम्भभावाभावाविति न दोषः ॥ ३८ ॥


न स्वभावसिद्धिरापेक्षिकत्वात् ॥ ४ । १ । ३९ ॥


स्वभावसिद्धेरिति यदुक्तं तदाक्षिपति शून्यवादी—न स्व……त्वात् ॥
सर्व एव हि भावा भिन्नस्वभावाः, भिन्नत्वं चैषामन्यापेक्षम् । तथा हि नीलं भिन्नं
पीतापेक्षया2136 न तु स्वभावतः । एवं ह्रस्वदीर्घत्वपरापरत्वपितापुत्रत्वादयः परस्परापेक्षा
द्रष्टव्याः । यच्च परापेक्षं तन्न स्वाभाविकं यथा जपाकुसुमापेक्षः स्फटिकस्यारुणि
मेत्याक्षेपः2137 ॥ ३९ ॥


व्याहतत्वादयुक्तम् ॥ ४ । १ । ४० ॥


580

समाधत्ते—व्याह………क्तम् ॥ एतद् व्याचष्टे—यदीति । ननु यद्यनेन
क्रमेणोभयाभावो भवति, भवतु सिद्धमेव नः समीहितमित्यत आह—अपेक्षाया
मनपेक्षायां चेति ।
परिमाणभेदो हि दीर्घत्वं ह्रस्वत्वं वा स च भावानामौत्पत्तिकः
केवलं तस्यातिशयानतिशयौ परस्परग्रहणाधीनौ । तथा हीक्षुयष्टेर्वेणुयष्टितो ह्नस्वत्वं
पूर्वसंख्यायोगिहस्तपरिमितत्वमनतिशयः वेणुयष्टेस्तु दीर्घत्वातिशयः परसंख्या
योगिहस्तपरिमितत्वम् । तच्चेदं प्रतियोगिनिरूपणाधीननिरूपणम् । न तु प्रतियोग्यधी
नोत्पत्तीति न वस्तुधर्मोऽयं परापरापेक्षो भिन्नत्वं च भेदः । स च वस्तु विशेषणं
नोत्पत्तौ वस्त्वन्तरमपेक्षते, किं तु स्वनिरूपणे । एवं पितृत्वमपि पितरि व्यवस्थिता
जननशक्तिरेव, सा जन्यनिरूपणाधीननिरूपणा, न तु तदधीनोत्पत्तिः । विपञ्चितं
चैतदस्माभिः 2138ब्रह्यतत्त्वसमीक्षायाम् । परत्वापरत्वादयस्त्वपेक्षाबुद्धिनिमित्ततया
परापेक्षोत्पादा2139 अपि लोकयात्रामुद्वहन्तो न शक्याः प्रत्याख्यातुम् । न चैतावता
तदधिकरणं भावो न निरपेक्ष इति सर्वमवदातम् ।


स्यादेतत् । अपेक्षामात्रमेव दीर्घत्वादयो भविष्यन्ति, कृतमेषां वस्तुस्वभावेनेत्यत
आह—स्वभावसिद्धौ चासत्यामिति । अपेक्षासामर्थ्यम् अपेक्षाप्रयोजनयोगः ।
स्वयं वार्त्तिककारो दूषणान्तराण्याह—सर्वथा चायं व्याहत इति । निगद
व्याख्यातम् ॥ ४० ॥


॥ इति सर्वशून्यतावादप्रकरणम् ॥

संख्यैकान्तवादनिराकरणप्रकरणम्


सङ्ख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्तिभ्याम् ॥ ४ । १ । ४१ ॥


उत्तरसूत्रावतारपरं भाष्यम् अथेमे संख्यैकान्तवादाः । संख्या एकान्तो येषु
581 वादेषु ते तथोक्ताः । अथ शून्यतावादानन्तरं ते परीक्ष्यन्त इत्यर्थः । तत्र प्रथमं
ब्रह्याद्वैतवादमुत्थापयति—सर्वमेकम् । कुतः ? सदविशेषात् । इदमस्याकूतम् । न
तावदयं नामरूपप्रपञ्चः प्रकाशाद् भिन्नः सन् प्रकाशितुमर्हति जडस्य स्वयं
प्रकाशासंभवात् । न च प्रकाशयोगात् प्रकाशत इति युक्तम् । न खल्वान्तरेण
प्रकाशेनास्य कश्चिद् योगः संभवति । विषयविषयिभावः संबन्ध इति चेत्—
न, तत्राकिञ्चित्करस्य विषयित्वासंभवात् । न चार्थे ज्ञानं फलं जनयतीति
सांप्रतम्, अतीतानागतयोरर्थयोस्तदसंभवात् । न च न तयोर्विषयभावः । तस्माज्
ज्ञानाद् भिन्नस्य नामरूपप्रपञ्चस्य न प्रकाशसंभव इति ज्ञानस्यैवार्यं विवर्त इति
युक्तमुत्पश्यामः । न च प्रकाशात्मनो घटपटादयः । एवोदयव्ययधर्माणः परस्परव्यावृत्ताः
सन्तीति सांप्रतम्, तद्व्यावृत्तिग्रहे प्रमाणाभावात् । 2140सा हि यद् यतो व्यावर्तते
तदुभयग्रहे गृह्यते । न च विज्ञानानि विलक्षणानि स्वरूपमात्रावसितानि2141
परस्परवार्त्तानभिज्ञानि ज्ञानान्तरमपि ग्रहीतुमुत्सहन्ते प्रागेव स्वस्माद् व्यवर्तयितुम् ।
न च निषेध्यनिषेधाधिकरणग्रहणकारणो व्यावृत्तिग्रहः स्वकारणेन समसमयो
त्पादो भवितुमर्हति, तादृशोः सव्येतरविषाणवत् कार्यकारणभावाभावात् । न चैकं
विज्ञानं क्षणिकं निषेध्यनिषेधाधिकरणे गृहीत्वा पश्चान्निषेधं गृह्णातीति युक्तम् ।
क्षणिकस्याक्रमस्य क्रमवद्व्यापारायोगात् । न चैकं विज्ञानं निषेध्यनिषेधाधिकरणे
गृह्णाति । अथ ज्ञानान्तरं निषेधतीति युक्तं चैत्रगृहीतेऽपि तस्मिन् मैत्रस्य
निषेधज्ञानप्रसङ्गात् । न च ज्ञानस्वरूपग्रह 2142एवान्यनिषेधग्रह इति सांप्रतम् । एवं हि
स भवेद् यदि स्वरूपतदन्यव्यावृत्त्योरेकत्वं स्यात् । तत्र व्यावृत्तिस्वभावो वा भावो
भावस्वभावा वा व्यावृत्तिः ? तत्र पूर्वस्मिन् कल्पे व्यावृत्तेस्तुच्छत्वात् तत्स्वभावा
भावास्तुच्छाः स्युः । ततश्च वचोभङ्ग्यन्तरेण शून्यवादप्रसङ्गः । उत्तरस्मिंस्तु कल्पे
विधिरूपो भाव2143 एव व्यावृत्तिरिति विधिरूपतया च ते न व्यावर्तन्त इति न व्यावृत्ता
भावाः परस्परं परमार्थतः । तदिदमुक्तं—सदविशेषादिति ।


अनाद्यनिर्वचनीयाविद्यानिबन्धनं तु भावानां भेदं न व्यसेधामः । न च ज्ञातुरपि
2144ज्ञानाद् भेदग्राहकमस्ति प्रमाणम्, उक्तादेव 2145क्रमात् । तस्मान्न ज्ञेयानां परस्परतश्च
582 ज्ञानाच्च भेदः । नापि ज्ञातुर्ज्ञानादस्ति भेदः, नापि ज्ञानानामन्योन्यस्य । तस्मात् प्रकाश
एव स्वयंप्रकाशः कूटस्थनित्य आनन्दघनोऽनाद्यविद्योपदर्शितविविधविचित्र
नामरूपप्रपञ्चो ब्रह्येत्यद्वैतसिद्धिः । अत्र च श्रुतयो भवन्ति—
एकमेवाद्वितीयं ब्रह्म ।
नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
इत्यादिकाः ।


तदेवमैकान्किकमेकत्वमुपन्यस्य द्वित्यमैकान्तिकमाह—सर्वं द्वेधा । कुतः ?
नित्यानित्यभेदात् । न च नित्यानित्याभ्यामन्यो राशिरस्ति यमास्थाय2146 पदार्था
स्त्रित्वादिके व्यवतिष्ठेरन्निति ।


मतान्तरमाह—सर्वं त्रेधा । तदेव दर्शयति—ज्ञाता ज्ञेयं ज्ञानमिति । ज्ञप्तिरपि
ज्ञायमानत्वाज् ज्ञेयतां नातिपतति2147 इति भावः ।


मतान्तरमाह—सर्वं चतुर्धा । तद् दर्शयति—प्रमाता प्रमाणं प्रमेयं प्रमितिरिति ।
यदि प्रमितिर्नाम तत्त्वं प्रमाणादिभ्यो भिन्नं 2148नास्थीयते प्रमायाः प्रधानक्रियाया अभा
वात् कथं प्रमात्रादयः ? कथं च प्रधानक्रियामन्तरेणैषामेकवाक्यता स्यात्, कारकवैचित्र्यं
वा ? प्रमायाश्च फलत्वावस्थाया उपरि प्रमेयव्यपदेशं न वारयामः । न चैतावता
तत्त्वान्तरं न भवति ।


एवं यथासंभवमन्येऽपीति प्रकृतिपुरुषाविति वा, पञ्चस्कन्धा इति वा,
पशुपाशतदुच्छेदेश्वरा इति वेत्यादयः ।


तत्र परीक्षां संख्यैकान्ततानिराकरणरूपान्तां दर्शयति सूत्रेण—संख्यै…पत्ति
भ्याम् ॥
अनवयवेन सर्वम् चेदेकं द्वेधा वा त्रेधा वा चतुर्धा वेति प्रतिज्ञार्थः,
ततस्तदतिरिक्तं साधनं वाच्यम् । न हि साध्यमेव साधनं भवति । तथा च साधनस्य
तदतिरेकान्न संख्यैकान्तसिद्धिः । न च किञ्चिदपि स्वसंवेदनमस्ति ज्ञानप्रदीपादीनामपि
583 परसंवेद्यत्वात् । यथा च 2149ज्ञानातिरिक्ता अप्यर्था विषयास्तथा विज्ञानवाद
निराकरणावसरे2150 वक्ष्यते । न च विज्ञानादर्थस्य भेदोऽशक्यग्रहः । तथा हीदं
नीलमुपलभ इत्यनहङ्कारास्पदमसातादिरूपं च नीलं प्रत्यात्मम् अनुभवगोचरः । एवं
नीलादीनामपि परस्परम् । अन्यथा पटमानयेति देशितो नयने निमील्य शयीत,
शयीथा 2151इति वा चोदितस्तोयमाहरेत् । कस्यचित् कुतश्चित् कथञ्चिद् विवेकाभावात् ।
न चानिर्वचनीयानाद्यविद्यानिबन्धनोऽर्यं सर्वो भेदव्यवहार इति सांप्रतम् ।
अनिर्वचनीयख्यातेः 2152पूर्वमेवापाकृतत्वात् । तस्मात् सर्वजनसंवेदनसिद्धोऽयं भेदप्रत्ययो
न कारणमुखनिरीक्षणेन युक्तो निराकर्तुम् । अपि तु स्पष्टदृष्टात् कार्याद् भेदप्रत्ययलक्षणात्
कार्यात् तादृशं तत्कारणं कल्पनीयम्, यादृशेन कारणेन प्रपञ्चप्रत्ययोऽप्रत्यूहमुत्पत्तु
मर्हति2153 । तच्च प्रत्यक्षमेव । तथा हि तन्नीलं परिच्छिन्दत्पीतादिभ्योऽस्य भेदं
परिच्छिनत्ति संयुक्तविशेषणतालक्षणादिन्द्रियार्थसन्निकर्षात् । नीलं हि नीलमित्यनुभवन्
2154अयं प्रमाता पीतादिकं च पीतादिकमित्यनुभवन् वा स्मरन् वा शक्नोति निषेध्यनिषेधा
धिकरणतया समाकलयितुं रूपमात्रेणागृहीतपरस्परभेदमपि । न हि तन्न भेदेन प्रथत
इत्यभेदेन प्रथेत । येनानयोर्नीलपीतयोर्गृहीतस्वरूपयोरवध्यवधिमद्भावो न स्यात् ।
तथा च तौ गृहीत्वा प्रत्यक्षेण शक्योऽनयोर्भेदो2155 ग्रहीतुमित्यसांप्रतमेतत् ।

अन्योन्यसंश्रयाद् भेदो न प्रमान्तरसाधनः ।

2156नास्मिन्निदं नायमयमिति 2157भेदं विना न धीः ॥

इत्येतेन प्रमातुरपि प्रमाया भेदो व्याख्यातः । प्रमातारस्त्वनेकविधसुखदुःखोप
भोगव्यवस्थानाद् बधिरान्धकाणादिकोविदजाल्मसंसारिमुक्तविभागोपपत्तेश्च भेद
वन्तोऽनुमीयन्ते एकस्मिन्नपर्यायेण विरुद्धधर्मसंसर्गासंभवात् । कल्पनया कथंचित्
संभाव्यमानोऽप्ययं गोमयपायसीयन्यायमावहति । तदेवं प्रत्यक्षादिविरोधाद
नुत्पन्नार्थाः श्रुतयः


584

एकमेवाद्वितीयम्


इत्याद्याः प्रथमां वृत्तिमतिलङ्घ्य जघन्यामालम्बन्ते


यजमानः प्रस्तरः


आदित्यो वै यूपः


इत्यादिवत् । यदाह भगवान् जैमिनिः गुणवादस्त्विति । तत्सिद्धिरिति
चेति ।
तस्मात् नाद्वैतमिति ॥ ४१ ॥


न कारणावयवभावात् ॥ ४ । १ । ४२ ॥


साध्यात्साधनस्य भेदेन च संख्यान्तरैकान्ता 2158अप्यपाकृतार्था इत्युक्तम् । अत्र
पूर्वपक्षवाद्याह—न का…भावात् ॥ तद् व्याचष्टे—कारणस्य साध्यावयवभावात् ।
एकस्य वा द्वयादीनां वा कश्चिदेकदेशः साधनम् । तथा च न संख्यान्तरं न च
साधनभाव इत्यर्थः ॥ ४२ ॥


निरवयवत्वादहेतुः ॥ ४ । १ । ४३ ॥


निराकरोति—निरवयवत्वादहेतुः ॥ अवयवभावादिति यदि साध्यस्य
कश्चिदवयवो भवेत्, न संख्यैकान्तः स्यादिति सर्वमेकमित्येतस्मिन् प्रतिज्ञार्थे न
किंचिदपवृज्यते व्यावर्तते यतस्तत्साधनं 2159न स्यादित्यर्थः । अथ 2160कस्मात् न
साध्यमेव हेतुरित्यत आह—आत्मनि चेति । चो हेतौ । अपि चैते संख्यैकान्ताः
प्रत्यक्षादिप्रमाणविरोधान्मिथ्यावादा इत्याह—ते खल्विमे संख्यैकान्ता इति ।
खलुशब्दः समुच्चये वक्रकोटरशिरःपाण्यादिविशेषकारितो योऽर्थभेदः स्थाणु
पुरुषादिः तत्प्रत्याख्यानेनेत्यर्थः । अथ विशेषकारितार्थभेदाभ्यनुज्ञानेन वर्तन्ते
तथाप्येकान्तत्वं जहति एकत्वादिसंख्याया अनैकान्तिकत्वमित्यर्थः । अथ
सामान्यकारित
इति संख्यामात्रमङ्गीक्रियते न पुनरस्या ऐकान्तिकत्वमित्यर्थः ।
585 तदस्माकमभिमतमेवेत्याह—तथापि न किंचिद् बाध्यत इति । ये त्वाहुः सत्तासामान्य
मेव तत्त्वं भेदास्तु काल्पनिका इति, तान् प्रत्याह—न च भेदमन्तरेणेति । यथाहुः


निर्विशेषं न सामान्यं भवेच्छशविषाणवत् इति ।

स्यादेतत् । प्रेत्यभावपरीक्षायां क एषामवसरो यदेते एकान्तवादाः परीक्ष्यन्त
इत्य आह—त इति । अद्वैतादिष्वेकान्तेषु प्रेत्यभावो न तात्त्विको भवेदपि तु
काल्पनिकः । न केवलं प्रेत्यभावोऽपि तु षोडशापि पदार्थाः । तस्मादेतेषां यत्तत्त्वज्ञानं
तस्य प्रविवेकार्थं ज्ञेयप्रविवेकेन ज्ञानप्रविवेक इति तदर्थमेते परीक्षिता इति ॥ ४३ ॥


॥ संख्यैकान्तवादनिराकरणप्रकरणम् ॥

फलपरीक्षाप्रकरणम्


सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ॥ ४ । १ । ४४ ॥


तदनेन प्रबन्धेन प्रेत्यभावः परीक्षितः । अथोद्देशक्रमानुरोधात् फलमिदानीं
परीक्ष्यते । तत्राग्निहोत्रादीनां फलमनन्तरभावि वा कालान्तरे वेति संशयः । एतदुक्तं
भवति । कर्मानन्तरं दुःखं च 2161लोकपक्त्यादि चोपलभ्यते । प्रशंसन्ति हि लौकिका
धार्मिकोऽयं साधुतम इति, तत् किमेतावदेवास्य फलमस्तु अथामुष्मिकं स्वर्गादीति ?
किं प्राप्तं स्वर्गादिफलत्वे कर्मणः स्वरूपेणाकारणत्वात् चिरनिवृत्ते तस्मिंस्तदुत्पत्तेः
अपूर्वकल्पनायां च प्रधानाङ्गापूर्वाणि भूयांसि कल्पनीयानि । न च तान्यप्युत्पन्नमात्राणि
जनयन्ति फलमिति तत्सहकार्यन्तराणि कल्पनीयानीत्यदृष्टकल्पनागौरवात्
तदनन्तरदृष्टफलाबाधनाच्च नामुष्मिकं फलं स्वर्गादि, अपि त्वनन्तरदृश्यमानमेव ।
तत्रापि दुःखफलत्वे उपदेशत्वव्याघाताल्लोक2162पक्तिलाभख्यात्यादिकमेव फलम्,
तच्च सुखहेतुतया कथञ्चित् स्वर्गादिपदेनोच्यते । दृष्टो हि सुखहेतौ स्वर्गपदप्रयोगो
586 लोके । यथा चन्दनं स्वर्गः सूक्ष्माणि वासांसि स्वर्ग इति प्राप्तम् । एवं प्राप्ते ब्रूमः
स्वर्गपदस्य तावदर्थवादतः,

यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ।

अभिलाषोपनीतं च 2163तत्सुखं स्वःपदास्पदम् ॥

इति सुखं प्रति वाचकत्वमवधारितम् । न च तद्वाचकत्वेनैव चन्दनादौ तत्प्रयो
गोपपत्तावनेकार्थत्वकल्पना युक्ता । यदाहुरन्यायश्चानेकार्थत्वमिति । तस्मान्मुख्योऽयं
स्वर्गशब्द उक्तभेदे सुखे । तथा च स्वर्गकाम इत्यत्र मुख्यार्थसंभवे नोपचरितार्थता
युक्ता । न चानेकादृष्टकल्पनाभयात् मुख्यार्थपरित्यागो न्याय्यः, प्रमाणसिद्धे
नियोगपर्यनुयोगानुपपत्तेः । यथाहुः


श्रुतसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यम्, न तु श्रुतशैथिल्यमादरणीय
मिति । तथा


प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि ।

न चानन्तरदृश्यमानं लोकपक्त्यादि होमाद्यनुष्ठानफलम्, अपि तु
तदुपलम्भफलम् । अदाम्भिकानां प्रच्छन्नमनुतिष्ठतामपि लोकपक्त्यादेरभावात् । तस्मात्
सुष्ठूक्तं—न सद्यः कालान्तरोपभोग्यत्वात् इति ॥ ४४ ॥


न सद्यः कालान्तरोपभोग्यत्वात् ॥ ४ । १ । ४५ ॥


वार्त्तिकं—सद्यस्तापादिफलेति । अतद्गुणसंविज्ञानोऽयं बहुव्रीहिस्तापादीति ।
तेन लोकपक्त्यादिकमवरुध्यते2164 । स्वर्गः फलं श्रूयत इत्ययुक्तम् । स्वर्गकाम इति
स्वर्गस्य पुरुषविशेषणत्वेन श्रवणादसाध्यत्वात् । अत आह—देशितया च क्रिययेति ।
आप्तोपदेशः खल्वयमुपदेश्यस्य कर्मणोऽभिमतोपायतामाह । तत्र कर्मणोऽभिमता
पेक्षायां पुरुषविशेषणस्याप्यपेक्षितत्वात् साध्यत्वमिति सिद्धम् । एवं हि लोकपक्त्यादि
रग्निहोत्राद्यनुष्ठानसाध्यो भवेद् यदि तत्कामस्य स्वर्गकामस्येवाग्निहोत्राद्यनुष्ठानं
587 देश्येत । न चैतदस्तीत्यत आह—न च तापादिकाम इति । लोकपक्त्यादिकाम
इत्यर्थः । शेषमतिरोहितार्थम् ॥ ४५ ॥


कालान्तरेणानिष्पत्तिर्हेतुविनाशात् ॥ ४ । १ । ४६ ॥


प्राङ्निष्पत्तेर्वृक्षफलवत् तत् स्यात् ॥ ४ । १ । ४७ ॥


भाष्यम्—तथा प्रवृत्त्या संस्कारो धर्माधर्मलक्षणो जन्यत इति । नैष
पुरुषसंस्कारः स्नानादिजन्य इव बोद्धव्यः, अपि तु पुरुषधर्मतामात्रेण संस्कार
इत्युच्यते । परमार्थतस्त्वयं धर्मः पुरुषाश्रयोऽपि कर्मणा फले जनयितव्ये
तस्यावान्तरव्यापार इति2165 ॥ ४७ ॥


नासन्न सन्न सदसत् सदसतोर्वैधर्म्यात् ॥ ४ । १ । ४८ ॥


इदमिदानीं चिन्त्यते किमेतत् फलमुत्पत्तेः प्राकृ असद् वा सद् वा सदसद वा
अनुभयं वेति । अत्र समस्तपक्षाक्षेपेण फलाभावमभिधित्सुः पूर्वपक्षयति । तदिदं फलं
निष्पत्तेः प्राक् । नास…र्म्यात् ॥ नासन्न सन्न सदसत् नाप्यनुमयं सदसत् कस्मान्न
भवतीत्यत आह—सदसतोर्वैधर्म्यात् परस्परविरुद्धधर्मत्वात् । धर्मः स्वभावः
स्वभावविरोधादित्यर्थः । अथानुभयं कस्मान्न भवतीति । अत
आह—नाप्युभयविपरीतमिति ॥ ४८ ॥


उत्पादव्ययदर्शनात् ॥ ४ । १ । ४९ ॥


588

सिद्धान्त्याह—प्रागुत्पत्तेरुत्पत्तिधर्मकमसदित्यद्धा2166 ननु नासदुत्पद्यते न
सन् निरुध्यत2167 इत्याचक्षते सांख्याः । तत्कथमेतदित्य आह—उत्पादव्ययदर्शनात् ॥
यथा नित्यस्वरूपायाश्चितिशक्तेर्नोत्पादो न च व्यय एवं फलस्यापि नित्यस्य तौ
न स्यातामित्यर्थः । न हि सत्पक्ष इति सत्कार्यपक्ष इत्यर्थः । न किञ्चिज्जायत इति ।
2168प्रतिज्ञादिवाक्यात् किञ्चित् तत्त्वज्ञानं संभवति2169 । किञ्चिच्च सन्देहादि न विनश्यति
इति अज्ञानतिरोभावः संशयविपर्ययतिरोभावः । कारणस्य हि प्रधानस्य स्वलक्षणं
महान् । लक्ष्यते हि महता प्रधानमिति । एवं तस्याप्यहङ्कारः तस्य पुष्टिः स्थूल
तेत्यर्थः । पश्चाद् भवतीति केवलकारणावस्थायाः पश्चादिति ॥ ४९ ॥


बुद्धिसिद्धं तु तदसत् ॥ ४ । १ । ५० ॥


यच्चोक्तम् उपादाननियमादिति तदयं यदि पुरुषस्योपादाननियमः 2170पटार्थी
तन्तूनेवोपादत्ते न वीरणम् । कटार्थी2171 च वीरणमिति, 2172ततः तदुपादानानां तत्र
तत्र कार्ये सामर्थ्यपरिज्ञानात् । तच्च सामर्थ्यमानुमानिकम् । तदिदमुच्यते—बुद्धिसिद्धं
तु तदसत् ॥
इति । तदसद्भावि कार्यमनेनैव कारणेन जन्यते, नान्येनेत्यनुमानाद्
बुद्धिसिद्धमेवेत्यर्थः । अथासत्कार्यपक्षे तन्तव एव पटस्योपादानं न 2173वीरणादीत्ययं
नियमो न स्यात् इति ब्रूषे तदयुक्तम् । असत्त्वाविशेषेऽपि स्वकारणादुत्पन्नं किञ्चिदेव
किञ्चित्कार्यं जनयितुं समर्थं नान्यदित्ययं स्वभावविशेषादुपपत्स्यते2174 इति । अपि च
सत्कार्यपक्षे प्रधानोपादानत्वाद् विश्वस्य तस्य चाभेदात् कारणात्मकत्वाच्च
कार्यजातस्य सर्वं सर्वात्मकमितीदमिह नेदमिदमिदानीं नेदमिदमेवं नेदमिति नियमो
न स्यात्2175, कस्यचित् कदाचित् कुतश्चिद् विवेकहेतोरभावात् । तस्मादस्ति
589 रासभेऽपि विषाणमित्यत्र2176 तस्यासत्त्वं ब्रुवाणः स्वसिद्धान्तं बाधत इत्याह—
असत्त्वाच्च खरविषाणं नोत्पद्यत इति ब्रुवाणः इति । सत्त्वे चासत्त्वे च समाने यस्य
2177कारणमस्ति तदुत्पद्यते इति 2178समानत्वं गुडजिह्विका । परमार्थतस्त्वसत्त्वे
कारणसामर्थ्यनियमादुत्पत्तिनियमः कल्पते, सर्वात्मना सर्वस्य सत्त्वे तु न नियम
हेतुरस्तीति उक्तप्रायम् । देशयति—अथासत्कार्ये किं प्रमाण् ? न ह्यनुमानमस्मिन्नर्थे
प्रमाणं भवितुमर्हति, आश्रयासिद्धेः । नापि प्रत्यक्षम्, तेनाप्यसतः स्वातन्त्र्येणा
निरूपणादिति भावः । विदिताभिप्राय उत्तरमाह—2179न सत्त्वे न चासत्त्वेऽनुमानमस्ति ।
यथास्माकमाश्रयासिद्धिदोषादसत्त्वे कार्यस्य नानुमानम्, एवं भवतामपि2180 कार्यस्य
सत्त्वे नानुमानमाश्रयासिद्धेरेव2181 । कुतस्तर्ह्यनुमानमित्यत आह—धर्मिण्यविप्रतिपत्तेः
अनुमानमस्तीति योजना । तथा सत्याश्रयोऽस्य सिध्यतीत्यर्थः । पुनः पृच्छति—क्वेति ।
यदि धर्मिण्यविप्रतिपत्तिः, क्व तर्हि विवादः ? उत्तर—यदुभयेति । धर्म्यधिकरणान्
सत्कार्यवादिनामेव 2182अवान्तरविवादान् विभजते—तान् प्रतीति । तन्तुमात्रं पट
इति । तन्तुभ्योऽभिन्न इत्यर्थः । कार्यात्मनेति कार्यं कारणाद्भिन्नाभिन्नमित्यर्थः ।


असत्कार्यपक्षस्तु स्वाभिमतः स्फुटत्वादवान्तरप्रतिबन्द्यभावाच्च2183 नोपन्य
स्तः । उपपादित इति द्वितीयेऽध्याये । प्रागुपलब्धिकालादिति2184 कारणव्यापारात्
प्रागित्यर्थः । संस्थानविशेषशून्यतामात्रविवक्षया तुर्यादिदृष्टान्तो न तु प्रागभावोऽत्र
विवक्षितः । शक्तिविशेषावस्थिता इति । कारणव्यापारात् प्रागिति शेषः । अत्र
सिद्धसाधनं वयमपि ब्रूमहे । स्वव्यापारात् पटोत्पत्तिनिमित्तात् प्राक् तन्तवः
शक्तिविशेषावस्थिता2185 एवेति परेषां सत्कार्यसाधनमुपनयस्यति—विद्यमाना
भिव्यक्त्यर्थास्तन्तवस्तदर्थिना नियमेनोपादानात् खनित्रादिवत् ।
यथा हि
खनित्रं विद्यमानमेवोदकं मृदपनयनेन व्यनक्तीति । तदेतद् दूषयति विद्यमानस्या
590 भिव्यक्तिरसतीति
व्यक्तिवत् कार्येऽपि प्रसङ्गः । यथा व्यक्तेरसत्या एवोत्पादस्तथा
कार्यस्याप्यसत एवोत्पाद इत्यर्थः । खनित्रादिवदिति च दृष्टान्तः साध्यविकल
इत्याह—यदपीति । साऽप्राप्तिः कुतो भवतीति वक्तव्यमिति । प्राप्तिः खलु
संयोगः । स च गुणः । गुणश्च द्रव्यविनाशाद् विनश्येद् विरोधिगुणान्तरोपादानाद्2186
वा । तत्र तावदावरणद्रव्यम् आव्रियमाणं वोदकं न विनष्टम्, येन तयोः संयोगो
विनश्येत् । ततस्तद्विरोधिगुणान्तरोत्पादो वक्तव्यः । स एव च संयोगविरोधी गुणो
विभाग इत्युच्यत इत्यर्थः । प्राप्तेरभावोऽप्राप्तिरिति पक्षं दूषयित्वा पर्युदासपक्षमाशङ्क्य
दूषयति—अथ प्राप्तेरिति । पुनः शङ्कते—अथ भिन्नदेशोत्पत्तिमिति । न वयं
संयोगं विभागम् वा गुणमुपेमः, किं तु भिन्नदेशोत्पन्न एव द्रव्ये विभागो निरन्तरोत्पन्न
एव संयोग इत्यर्थः । निराकरोति—भिन्नदेश इम इति । विशेषणोपादानान्न
भिन्नदेशोत्पत्तिर्विभागः । कस्मात् ? उत्पन्ने उत्पन्नमिति भिन्नदेशतया भिन्नमिति
विशेषणं हि स्वानुरक्तं प्रत्ययं विशेष्ये जनयति, न त्वन्यानुरक्तम् । न खलु नीलं
विशेषणमुत्पले रक्तप्रत्ययं जनयत्यभ्रान्तस्येत्यर्थः । अपि च क्षणभङ्गं भावानां
व्यासेदद्भिरस्माभिर्भिन्नदेशोत्पत्तेः प्रतिषेधान्न भिन्नदेशोत्पत्तिर्विभागः ।


शङ्कते—क्षणिकत्वाद् विभागस्येति । उत्पद्य हीन्द्रियसन्निकर्षाद् विभागेन
स्वविषयं ज्ञानं जनयितव्यम् । न चैतावन्तं कालमसावस्ति, क्षणिकत्वेनो
त्पन्नापवर्गित्वादित्यर्थः । निराकरोति—न सामान्याभिव्यक्तीति । एतद् विभजते—
पूर्वं तावदुत्पन्नो विभागः सामान्यं व्यनक्तीति । स्वकारणसमवायः सत्तासमवायो
वोत्पत्तिः । तद्विशिष्ट उत्पन्न इत्युच्यते । येषां सामान्यग्रहपुरःसरं विशेषज्ञानं, तन्मते
न सामान्यं व्यनक्ति, तदुत्तरकालं च स्वप्रत्ययं जनयतीत्युक्तम् । एतदुक्तं भवति,
न वयं बौद्धा इव 2187पूर्वापरभागविकलकालकलामात्रावस्थितिलक्षणां क्षणिकतां
विभागादीनामाचक्ष्महे, किं त्वाशुतरविनाशलक्षणाम् । सा च द्वित्रादिक्षणस्थायिनी2188
चिरस्थायिभ्यो घटादिभ्यो व्यावृत्ता2189 शक्या वक्तुमिति ॥ ५० ॥


591

आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः ॥ ४ । १ । ५१ ॥


देहाद्यतिरिक्तमात्मानं नित्यं परलोकिनमसन्तं मन्यमान आह—आश्रय…
अहेतुः ॥
मूलसेकफलोत्पादयोरेकवृक्षाश्रयत्वम् । कर्मणस्तु होमादेराश्रयः शरीरम् ।
न चामुष्मिकस्य स्वर्गादेस्तच्छरीरमाश्रयः, तस्मिन्नष्टेऽस्य भावात् । तस्मादाश्रयव्य
तिरेकात् स्वर्गादेर्वृक्षफलोत्पत्तिवदित्ययं 2190दृष्टान्तः स्वर्गफलत्वे होमस्याहेतुरि
त्यर्थः ॥ ५१ ॥


प्रीतेरात्माश्रयत्वादप्रतिषेधः ॥ ४ । १ । ५२ ॥


अस्त्यात्मा 2191सर्वोपभोगसमर्थः शरीरादिव्यतिरिक्तः कर्तेत्युपपादित
मित्याशयवान् आह—प्रीते…षेधः ॥ ५२ ॥


न पुत्रस्त्रीपशुपरिच्छदहिरण्यान्नादिफलनिर्देशात् ॥ ४ । १ । ५३ ॥


अस्तु स्वर्गाद्यात्माश्रयम्, तथाप्यव्यापको हेतुः पुत्रादिफलेभ्यो निवृत्तेरिति
देशयति—न पुत्र…निर्देशात् ॥ ५३ ॥


तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ॥ ४ । १ । ५४ ॥


परिहरति—तत्संबन्धात्…पचारः ॥ स्वर्गोऽपि तावत् स्वर्गतया न काम्यते,
किं तु भोग्यतया । एवं सति कैव कथा पुत्रादिषु । तेऽपि भोग्यतयैव काम्यन्ते । न 2192
तत्स्वरूपम् भोग्यमिति तत्साध्यं सुखं भोग्यम् । तस्मात् पुत्रादिसंबन्धात् तदुत्पत्तेः
592 सुखोत्पत्तेः तेषु फलेषु यथा फलशब्दप्रयोगस्तथा तेषु पुत्रादिष्वित्यर्थः ।
सूत्रार्थकथनेनैव भाष्यवार्त्तिके व्याख्याते ॥ ५४ ॥


॥ इति फलपरीक्षाप्रकरणम् ॥

दुःखपरीक्षाप्रकरणम्


विविधबाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ॥ ४ । १ । ५५ ॥


फलानन्तरं दुःखं परीक्षणीयम्2193 । तत्रयं परीक्षा । भवतु दुःखं बाधना
लक्षणमनुभूयमानम् । यत् पुनरिदं सुखं प्रत्यात्ममनुकूलवेदनीयम्, तत्कथं दुःखम्,
अनुभवविरोधात् । शरीरेन्द्रियविषयबुद्धयश्च यदि दुःखहेतुतया दुःखं, कस्मात्
सुखहेतुतया सुखमेव न भवन्ति ? सेयमतिभीरुता सकललोकयात्राविरोधिनी ।
यथाहुः न हि मृगाः सन्तीति शालयो नोप्यन्ते । न च भिक्षवः सन्तीति स्थाल्यो
नाधिश्रीयन्त इति । तस्मान् मांसार्थीव कण्टकानुद्धृत्य मांसमश्नन्नानर्थं
कण्टकजन्यमाप्नोतीति, एवं प्रेक्षावान् दुःखमुद्धृत्येन्द्रियादिसाधनं सुखं भोक्ष्यते ।
सन्ति च त्रिविधदुःखपरिवर्जनहेतवो दृष्टाः परिदृष्टसामर्थ्या अन्वयव्यतिरेका
भ्यामित्यभिप्रायवान् पूर्वपक्षी गुडजिह्विकया संशयान इव पृच्छति—तत्
किमिदमिति ?
सिद्धान्तिन उत्तरम्—अन्य इत्याह सूत्रकार इति । तेनैवाभिप्रायेण
पूर्वपक्षी पृच्छति—कथम् ? उत्तरं—न वै सर्वलोकसाक्षिकमिति । अयं तु दुःख
भावनोपदेशः किमर्थमित्यत आह भाष्यकारः—दुःखहानार्थः । किं भूतस्य
2194दुःखभावनमित्यत आह—जन्ममरणप्रबन्धस्य अनुभवः प्राप्तिः । तन्निमित्ताद्
दुःखोपदेशपरिशीलनेन निर्विण्णस्यालंप्रत्ययवतः, अत एव दुःखं जिहासत इति
योजनीयम् । स्वाभिप्रायेण पूर्वपक्षी पृच्छति—कया युक्त्या ? उत्तरम्—सर्वे खलु
593 सत्त्वनिकाया
इति । 2195उपपत्तिः सुखदुःखहेतुभूता विषयसम्पत्तिः तस्याः स्थानानि
भुवनानि । आ सत्यलोकादा चावीचेरिति । एतदुक्तं भवति, यदि दुःखवर्जनेन शक्येत
सुखमादातुम्, ततस्तादृशं सुखमनुकूलवेदनीयं कः प्रज्ञावान् प्रजह्यात् ? न तु
तादृशमस्ति सुखं क्वचिदपि, सर्वस्य तस्य दुःखाविनाभाविनः केवलस्यो
पादानाशक्यत्वात् । न हि मधुविषसंपृक्तमन्नं विषमपनीय शक्यं मधुमात्र
युतमुपादातुमिति । तस्मान्नेदं सुखस्य प्रत्याख्यानमपि तु सुख एव दुःख संज्ञाभावन
मुपदिश्यते 2196ऋषिणा । अत्र हेतुरुपादीयते2197विविध…त्पत्तिः ॥ जन्मन
उत्पत्तिर्जन्मोत्पत्तिः । सा दुःखमेव भावयितव्या विविधबाधनायोगादिति ॥ ५५ ॥


न सुखस्याप्यन्तरालनिष्पत्तेः ॥ ४ । १ । ५६ ॥


कस्मात् पुनर्दुःखमेव स्वरूपतो न भवतीत्यत आह—न सुखस्याप्य
न्तरालनिष्पत्तेः ॥
न खल्वयं दुःखोद्देशो दुःखस्य कथनम्, सुखस्य प्रत्या
ख्यानम् ॥ ५६ ॥


बाधनानिवृत्तेर्वेदयतः पर्येषणदोषादप्रतिषेधः ॥ ४ । १ । ५७ ॥


इतश्च दुःखसंज्ञाभावनम् न तु सुखस्य प्रतिषेधो दुःखोद्देशेनेत्याह—बाधना…
अप्रतिषेधः ॥
यस्मादिदं मे सुखसाधनमिति वेदयन् प्रार्थयते सुखसाधनम्,
तच्चोक्ताद् बहुप्रकाराद् दोषाद् बाधनाहेतुरिति दुःखभावनोपदेशनमिति । कामं
काम्यं कामयमानस्य यदा कामः समृध्यति संपन्नो भवति, अथानन्तरमेनं पुरुषमपरः
काम इच्छा क्षिप्रं प्रबाधते स्वर्गादिप्राप्तावपि स्वाराज्यादि कामयते । एवं तत्प्राप्तौ
प्राजापत्यादीति । अस्येच्छा तदुपायप्रार्थनादिना दुःखेन प्रबाधत इत्यर्थः । समन्ताद्
594 उदनेमि यथा भवति तथा भूमिं लभत इति योजना ॥ ५७ ॥


दुःखविकल्पे सुखाभिमानाच्च ॥ ४ । १ । ५८ ॥


नन्वयं यद्यप्यन्तराले सुखान्यनुभवति, तथापि तत्तद्दुःखसंभेदमाकलयन्
अनुपदिष्टोऽपि स्वयमेव 2198निर्वेत्स्यते कृतमस्य दुःखभावनोपदेशेनेत्यत आह—
दुःखवि…भिमानाच्च ॥ शास्त्रशिष्टानां विवेकिनां खलु विविधबाधनानुषङ्गाद्
अनवयवेन सुखमात्रं दुःखमेवेति विनिश्चयः । अक्षिपत्रकल्पा हि ते । तद्
यथेषीकतूलसंपर्कादप्यक्षिपत्रं2199 दूयते, न तु गात्रावयवान्तराणि, तथा मृदुचित्ततया
विवेकिनो दूयन्ते । अविवेकिनस्तु प्रणयकलहकुपितकुरङ्गशावलोचनाङ्गनालक्त
करसार्द्रपादपल्लवपातमपि शिरसि रहसि सुखमभिमन्यमाना घनपुलककञ्चुका
ञ्चिततनवः सान्द्रानन्दाश्रुप्लवननयना निवृण्वन्तीति तान् प्रत्ययमुपदेशोऽर्थवा
नित्यर्थः । जायस्व म्रियस्य चेति संधावतीति । पुनः पुनर्जायते पुनः पुनर्म्रियते,
जनित्वा म्रियते, मृत्वा जायते । तदिदं संधावनव्यापारप्रचय इत्यर्थः ।


चोदयति—यद्येवं कस्माद् दुःखं जन्मेति नोच्यत इति । यदि दुःखभावनो
पदेशो जन्मनि, एवं सत्येवकारः किमर्थ इत्यर्थः । परिहरति—जन्मविनिग्रहार्थीय
इति । जन्मविनिग्रहो जन्मनिवृत्तिः स एवार्थः । तत्र प्रवर्तत इति जन्मविनिग्रहा
र्थीयः । यथा च मत्वर्थीय इति । एतदुक्तं भवति जन्म दुःखमेवेति भावयितव्यम् । नात्र
मनागपि सुखबुद्धिः कर्तव्या । 2200अनेकानर्थपरम्परापातेनापवर्गप्रत्यूहप्रसङ्गादिति ॥ ५८ ॥


॥ दुःखपरीक्षाप्रकरणम् ॥

595

अपवर्गपरीक्षाप्रकारणम्


ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ४ । १ । ५९ ॥


दुःखोद्देशानन्तरमपवर्गः उद्दिष्टो लक्षितश्चेति शेषः । स प्रत्याख्यायते—
ऋणः………वर्गाभावः ॥ तद् व्याचष्टे भाष्यकारः । ऋणानुबन्धादिति । अस्ति
हि

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः ॥

तत्र ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव
इत्यर्थः । क्लेशानुबन्धान्नास्त्यपवर्गः । नानुच्छिन्ननिदानः संसारः शक्य
उच्छेत्तुमित्यर्थः । प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या ॥ ५९ ॥


प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥
४ । १ । ६० ॥


एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते—अत्राभिधीयते यत् तावद्
ऋणानुबन्धादिति ।
जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं
दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह—प्रधानशब्दानुपपत्तेरिति ।
प्रधा…पपत्तेः ॥
तद् व्याचष्टे—ऋणैरिति । नायं प्रधानशब्द इति । ऋणवानिव
परतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा । तदभावे तु स्वतन्त्र इति प्रशंसा । एवं
जायमान इति गुण शब्दो न मुख्य इति । कस्मात् पुनर्न मुख्य इत्यत आह—मातृतो
2201जातमात्रस्य
बालकस्यानधिकारात् । कस्मादनधिकार इत्यत आह—अर्थिनः
596 शक्तस्य चाधिकारात् ।
कस्मादर्थिन इत्यत आह—कर्मविधौ अग्निहोत्रं जुहुयात्
स्वर्गकाम इत्यादौ कामसंप्रयोगश्रुतेः । न च बालकः सुखदुःखाप्तिपरिहारकामोऽपि
विवेकेन स्वर्गपुत्रपश्वन्नादि कामयत इति । शक्तस्य च प्रवृत्तीति । न ह्यशक
नीयमर्थमशक्तं प्रति वेद आप्तोपदेशरूपो विधातुमर्हति । न च बालकः शक्तोऽ
विद्वत्त्वादिना । अत+एव तिर्यग्देवर्षिपङ्गुशूद्रत्र्यार्षेयाणामनधिकारः सामर्थ्याभावात् । न
केवलं वैदिकोऽयमीदृशो व्यवहारोऽपि तु लौकिकोऽपीत्याह—न भिद्यते च
लौकिकात् ।
तद् व्याचष्टे—लौकिकस्तावदिति । उपपन्नानवद्यवादीति । उपपन्नं
प्रमाणेन अनवद्यं पुनरुक्तदोषेण अनपेक्षितमुपदेष्टव्यस्य यन्न भवति तदित्यर्थः ।
न्यायप्राप्तमिममर्थं लिङ्गदर्शनमुपोद्बलयतीत्याह—गार्हस्थ्यलिङ्गं च मन्त्रब्राह्मणं
कर्माभिवदतीति ।
गार्हस्थ्यस्य लिङ्गं पत्नी यस्मिन् कर्मणि तत् तथोक्तम् ।
पत्न्यवेक्षितमाज्यं भवति
पत्न्य उद्गायन्ति
क्षौमे वसानावग्नी आदधीयाताम्
इत्येवमादि ।


तदनेन गार्हस्थ्यात् पूर्वावस्था तावदृणानुबद्ध न भवतीत्युक्तम् । संप्रत्युत्त
रावस्थापि न ऋणानुबद्धेत्याह—यदा चार्थिनोऽधिकारस्तदा अर्थित्वस्याविपरिणामे
जरामर्यवादोपपत्तिः ।
तेन यदुक्तमृणापाकरणेन वयःपर्यवसानान्नास्ति 2202मोक्षे
निवेशस्यावसर इति अपाकृतं भवतीति । अविपरिणामपदार्थव्याख्यानं न निवर्तत
इति । तुरीयस्येत्यस्य व्याख्यानं चतुर्थस्येति । प्रायेण पञ्चसप्ततौ वत्सरेष्वतिवाहितेषु
विषयतृष्णा तनूभवति । अत्यन्तसंयोगे तु जरया ह वा एष इत्यनर्थकम् । मृत्युना
वेत्यनेनैव सिद्धेरिति शेषः । यद्युच्यते अशक्ततोपलक्षणपरमेतत् जरया ह वा मृत्युना
वेति । तेन कस्यानर्थक्यमित्यत आह—अशक्तो हि विमुच्यत इत्येतदपि नोप
पद्यते
इति ।


597

वार्त्तिकम्—यावज्जीवसंयोगे हि जरया ह वेत्यनर्थकमिति । मृत्युना ह
वेत्यनेनैव गतार्थत्वादित्यनुक्त्वा भाष्योक्ता द्वितीया युक्तिरुक्ता वार्त्तिककृता
यस्मात् स्वयमशक्तस्य
इत्यनेन ।


यज्ञसाधनत्वादिति । यज्ञकर्तृत्वादित्यर्थ । एतदेव स्फुटयति—यस्माद्यजमानो
यज्ञाङ्गं भवति ।
यथाह भगवान् जैमिनिः पुरुषकर्मार्थत्वात्2203 इति ।


स्यादेतत् । यद्यपि गृहस्थस्य यज्ञादिविधानान्तराणि सन्ति तथापि जायमान
स्त्रिभिरृणैरिति वाक्यं बालस्यापि यज्ञादि विधास्यतीत्येतां शङ्कां विमर्शपूर्वमपा
करोति—अथापि विहितं वानूद्येत कामाद् वार्थः परिकल्प्येतेति । न तावत्
जायमानो ह वै
इति वाक्ये विधिविभक्तिरस्ति । तेन सिद्धान्तानुवादः स्वरसतः प्रतीयते । यदि तु
तस्यार्थस्य सिद्धिर्वाक्यान्तराद् वा प्रमाणान्तराद् वा कथमपि न कल्पेत, ततो
वचनानि त्वपूर्वत्वात्
इति न्यायाद् विधित्वमस्य कल्प्येत । सन्ति तु शतशस्तदर्थविधायकानि वाक्यानि
विधिविभक्तिमन्तीति को जातमात्रस्य2204 स्वेच्छामात्रेण विध्यर्थतां2205 कल्पयेत् ?
तस्माद् विहितानुवचनमेव न्याय्यमिति जायमानशब्दो जघन्यवृत्तिरिति युक्त
मुत्पश्यामः ।


स्यादेतत् । जायमानशब्दोऽनुपचरितार्थः स्वभावतो मातुरुदराद् विभागमाह ।
स कथंचिदनुवादत्वानुरोधेन जघन्यवृत्तिः कल्पनीयः । तद् वरं मुख्यार्थानुरोधेन
विधानमेव कल्प्यताम् । एवं सति श्रुतिरनुरोधिता भवति । अस्ति च बालकस्यापि
फलोत्पादनयोग्यता, तदात्मनः फलं प्रति समवायिकारणत्वात् । तेन यद्यपि
जातमात्रस्य फलसाधनानुष्ठानयोग्यता नास्ति, तथापि फलोत्पादं प्रति योग्यतास्ति ।
फलेन च प्रयोजनं न तत्साधनेनेत्यत आह—फलस्य साधनानि हि प्रयत्नविषयो
न फलमिति ।
अयमभिसन्धिः2206, विधिर्हि स्वव्यापारे कर्तृतया पुरुषं नियुङ्क्ते,
598 प्रयत्नश्चास्य व्यापारः स च निर्विषयो2207 न शक्यो निवर्तयितुमिति स्वविषयमपेक्षते ।
न चास्य साक्षात्फलं विषयो भवितुमर्हति, उद्देश्यतामात्रेण तु भवेत् । न चैतावता
प्रयत्नोऽस्य निर्वृणोति यावदयं साक्षादभिनिर्वर्तनीयं न प्राप्नोति । तदुपायश्चास्य
साक्षादभिनिर्वर्तनीय इति फलोद्देशप्रवृत्तस्य 2208पुरुषप्रयत्नस्य तदुपायो विषयः । न च
बालकस्य तदुपायमविदुषस्तत्र सामर्थ्यमस्ति । असमर्थश्चाकर्ता कथमात्मानं2209
प्रयत्नेन व्याप्नुयात् ? तदव्याप्नुवंश्च कथमधिकारीति जायमानशब्दो जघन्यवृत्तिरेव
न्याय्य इति सिद्धम् । विहितं च 2210याजमानमिति ऋणवाक्यात् प्राक्, विधीयते च
ऋणवाक्यादूर्ध्वमित्यर्थः ।


यदुक्तं तत्र हि प्रव्रज्या विधीयते इति तदमृष्यमाण आह—
प्रत्यक्षविधानाभावादिति चेत् ? शङ्कां निराकरोति—न, प्रतिषेधस्य प्रत्यक्ष
विधानाभावात् ।
शङ्कां विभजते—प्रत्यक्षत इति । परमाप्तो भगवानीश्वरोऽनुकम्पया
भूतोपदेशाय प्रवृत्तो यद् गार्हस्थ्यमेवाश्रममुपदिशति ततोऽवगच्छामो न
सन्त्याश्रमान्तराणि भूतेभ्यो हितानीत्यर्थः । अत एवाहुः
ऐकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद् गार्हस्थ्यस्येति2211
निराकरणं विभजते—न प्रतिषेधस्येति । स्मृतीतिहासपुराणानि तावदविवादं विदधति
चातुराश्रम्यमुपलभ्यन्ते, यदि तु प्रत्यक्षया श्रुत्या 2212चातुराश्रम्यं निषेध्येत, ततस्तद्वि
रोधेनौदुम्बरीसर्ववेष्टनवत् तत्राप्रमाणानि स्युः । न च तत्प्रतिषेधः श्रुतेः साक्षादव
गम्यते । तस्मात् स्मृत्यादिविहितं चातुराश्रम्यमप्रतिषिद्धं श्रुत्या न शक्यं परित्यक्तु
मित्यर्थः ।


न चाविधानेन तत्प्रतिषेधानुमानमित्याह—अधिकाराच्चेति । गार्हस्थ्योपदेश
स्याधिकारात्तस्यैव विधानं नाश्रमान्तरस्य, न त्वाश्रमान्तराभावात् । न हि व्याकरणं
शब्दं व्युत्पादयत् प्रमाणाद्यभावमाक्षिपति ।


599

अपि च मा भूत् प्रत्यक्षविधानम्, श्रुतौ ससाधनापवर्गाभिधानानि च
चातुराश्रम्याभिधानानि च प्रत्यक्षाण्युपलभ्यन्ते वचनानि । तान्यपूर्वत्वाद् विधानानि
अपवर्गस्य ससाधनस्य चातुराश्रम्यस्य च भविष्यन्तीत्याह—ऋग्ब्राह्यणं चा
पवर्गाभिधाय्यभिधीयत
इति । मृत्युमिति प्रेत्यभावमित्यर्थः । परं कर्मभ्य इति
कर्मपरित्यागमपवर्गसाधनं सूचयति । अमृतत्वमिति चापवर्गो दर्शितः । सूचितं
कर्मत्यागमपवर्गसाधनं श्रुत्यन्तरेण विशदयति—न कर्मणा न प्रजयेति । परेण
नाकमिति ।
नाकमित्यविद्यामुपलक्षयति । अविद्यातः परमित्यर्थः । निहितं गुहायाम्
इति लौकिकप्रमाणागोचरत्वं दर्शयति । तमसः परस्ताद् इति । अविद्या तमः तस्य
परस्तात् । आदित्यवर्णमिति नित्यप्रकाशमित्यर्थः । तदनेनेश्वरप्रणिधानस्याप
वर्गोपायत्वमुक्तम् ।


ऋच उदाहृत्य ब्राह्मणमुदाहरति—अथ ब्राह्मणानीति । यज्ञ इत्यादिना
गृहस्थाश्रमो दर्शितः, तप एवेति वानप्रस्थाश्रमः, ब्रह्मचारीति ब्रह्मचर्याश्रमः । एषा
मभ्युदयलक्षणं फलमाह—सर्व एवैत इति । चतुर्थमाश्रममाह—ब्रह्मसंस्थ इति ।
तथा क्रतुरिति । क्रतुः संकल्पः । कामयमानो य आसीत् स एव अथाकामयमानो
भवति । अकामयमानः कामं परिहरन् तत्परिहारसिद्धौ । सोऽकामयं स्तस्य व्याख्यानं—
निष्काम इति । आत्मकाम इति कैवल्योपेतात्मकामः । तत्प्राप्त्याप्तकामो भवति ।
तस्य प्राणा
इति । शाश्वतो भवतीत्यर्थः । प्रकृतमुपसंरति—तत्र यदुक्तमिति ।
अपरामपि चातुराश्रम्याभिधायिनीं श्रुतिमुदाहरति—ये चत्वार इति ॥ ६० ॥


समारोपणादात्मन्यप्रतिषेधः ॥ ४ । १ । ६१ ॥


इतश्च फलार्थिन एष जरामर्यवाद इत्याह—फलार्थिनश्चेति । पृष्ट्वा सूत्रं
पठति—कथम् ? समारोप…प्रतिषेधः ॥ आत्मन्यग्नीनां समारोणाद् ऋणानुबन्धेना
पवर्गस्याप्रतिषेधः । तदनेन छलेन प्रत्यक्षविधानं प्रव्रज्याया अपि दर्शितम् ।
600 एषणाभ्यो व्युत्थितस्य विपर्यस्तबुद्धेः अलमाभिरेषणाभिरनर्थहेतुभिरिति कृत
बुद्धेः । अत एव निवृत्ते फलार्थित्वे समारोपणमात्मन्यग्नीनां विधीयत इति ।


एवं च ब्राह्मणानीति । यदैषणाभ्यो व्युत्थितस्य प्रव्रज्याविधानं तदा तदभि
धायीनि ब्राह्मणान्युपपन्नानीत्यर्थः ॥ ६१ ॥


पात्रचयान्तानुपपत्तेश्च फलाभावः ॥ ४ । १ । ६२ ॥


प्रमृते खलु यजमाने यज्ञपात्राणि यजमानस्य शरीरे यथावयवं निधायान्त्येष्टिः
क्रियते । तत्र जरामर्ये कर्मण्यविशेषेण कल्प्यमाने सर्वस्य पात्रचयान्तानि कर्माणीति
प्रसज्येत । मरणपर्यन्तानि कर्माणीति प्रसज्येतेत्यर्थः । नन्विष्यत एव पात्रचयान्तत्वं
कर्मणामित्यत आह—तत्रैषणाव्युत्थानमिति । तस्मान्नाविशेषेण कर्तुः प्रयोजकं
फलं भवतीति । फलाभाव इत्यस्य सूत्रावयवस्याविशेषेण फलस्य
कर्तृप्रयोजनकत्वाभाव इत्यर्थः । तदनेनैषणाव्युत्थानश्रुतिविरोधो दर्शितः ।


तदेवं चातुराश्रम्ये श्रुतिरुक्ता । संप्रति स्मृत्यादयोऽपि चातुराश्रम्यस्योपदेशकाः
सन्तीत्याह—चातुराश्रम्यविधानाच्चेति । शङ्कते—तदप्रमाणमिति चेत् । जग
न्निर्मातुः परमकारुणिकस्य सर्वज्ञस्यात्रभवतः परमेश्वरस्यागमो भवतु प्रमाण
माप्तोक्तत्वात् । मनुव्यासादीनां त्वाप्तत्वाविनिश्चयात् कथं तत्प्रणीतानां प्रामाण्य
विनिश्चय इत्यर्थः । उत्तरं—न, प्रमाणेनेति स्यादेतत् । भवतु वेदेनाभ्यनुज्ञानादिति
हासपुराणप्रामाण्यम्, धर्मशास्त्राणां तु मन्वादिप्रणीतानां कुतः प्रामाण्यनिश्चय
इत्यत आह—अप्रामाण्ये चेति । सर्वजनपरिग्रहात् तेषामपि प्रामाण्य—मित्यर्थः ।
बुद्धादिस्मृतयस्तु वेदनिन्दितैर्म्लेच्छादिभिः परिगृहीता न त्वार्यैरिति न ताः प्रमाणं
भवितुमर्हन्तीत्यर्थः । द्रष्टवक्तृसामान्याच्चाप्रामाण्यानुपपत्तिः । य एव वेदस्य
द्रष्टारोऽनुष्ठातारश्च तदर्थस्य, त एवेतिहासादीनां प्रवक्तारः प्राचेतसकृष्ण
द्वैपायनमनु
प्रभृतयः । अपि च वैदिकानि कर्माणि स्मार्तीमितिकर्तव्यतामपेक्षन्ते,
601 स्मार्तानि च वैदिकानि मन्त्रादीनि । सर्वमेतदप्रामाण्ये धर्मशास्त्राणां नोपपद्यते । यद्यपि
2213कृष्णद्वैपायनादयोऽपि धर्मज्ञानवैराग्यैश्वर्यसम्पन्नतया अनुभूयाप्युपदिशन्तीति
संभवति, तथापि वेदमूलकत्वमेवेतिहासपुराणादीनामिति युक्तम् । तथा हि

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।

यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥

इत्यादिभिः स्ववचनप्रपञ्चैः आत्मा बोद्धा2214 वेद एवार्पितस्तैरिति । अथायम् इतिहासादि
गोचरोऽर्थ कस्मात्, प्रत्यक्षप्रतीतेन वेदेन नोच्यत इति तदनभिधानादवगच्छामो
नूनमयमनभिमतोऽर्थो वेदानां कर्तुरिति निराकृतोऽप्ययं पुनर्निराक्रियते दार्ढ्यार्थं
विषयव्यवस्थानाच्चेत्यनेन ॥ ६२ ॥


सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ॥ ४ । १ । ६३ ॥


यदप्युक्तं क्लेशानुबन्धस्याविच्छदोदिति तद् दूषयति—सुषुप्तस्य…अप
वर्गः ॥
तद् व्याचष्टे—सुषुप्तस्य खल्विति । लोकसिद्धतया सुषुप्तावस्थोदाहृता ।
महाप्रलयावस्थायामपि क्लेशमुक्ता एवात्मानः, केवलमसौ न लोकसिद्धेति
नोदाहृता । एतावांस्तु मुक्तावस्थाया विशेषः यदस्यां क्लेशवासनापि नास्ति ।
सुषुप्तावस्थायां प्रलयावस्थायां च क्लेशविच्छेदेऽपि तद्वासनास्तीति ॥ ६३ ॥


न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ॥ ४ । १ । ६४ ॥


यदपि प्रवृत्त्यनुबन्धादिति तत्राह—न प्रवृत्तिः…हीनक्लेशस्य2215 तद्
व्याचष्टे—प्रक्षीणेषु रागद्वेषमोहेषु सती अपि प्रवृत्तिर्न 2216प्रतिसन्धानाय ।
602 उपपादितमेतदस्माभिर्यथा 2217क्लेशतुषावनद्धाः कर्मतण्डुला जन्माङ्कुराय कल्पन्ते, न
केवला इत्यर्थः । शङ्कते—कर्मवैफल्यप्रसङ्ग इति । वैफल्ये शास्त्रस्य कर्मणां
फलसाधनताप्रतिपादकस्याप्रामाण्यप्रसङ्ग इति भावः । निराकरोति—
कर्मविपाकेति ।
विपाकः फलं तस्य प्रतिसंवेदनं भोगः ॥ ६४ ॥


न क्लेशसन्ततेः स्वाभाविकत्वात् ॥ ४ । १ । ६५ ॥


पूर्वपक्षवाद्याह—न क्लेश…त्वात् ॥ ६५ ॥


प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविकेऽप्यनित्यत्वम् ॥ ४ । १ ।
६६ ॥


सिद्धान्त्येकदेशी ब्रूते—प्रागु…त्वम् ॥ दध्यादेरुत्पत्तेः प्राक् क्षीरादिषु
योऽभावस्तस्यानित्यत्ववदिति योजना ॥ ६६ ॥


अणुश्यामतानित्यत्ववद्वा ॥ ४ । १ । ६७ ॥


अपरस्त्वेकदेशी भावमेव दृष्टान्तयतीत्याह—अणुश्यामतानित्यत्ववद् वा ॥
यदेतच्छ्यामं रूपं तदन्नस्य2218 इत्यागमः । पार्थिवानां परमाणूनां श्यामतामनादिमाह,
अन्नपदेन मृदोऽभिधानादिति भावः । अत्र प्रथममेकदेशिनं दूषयति—सतः
खल्विति ।
द्वितीयमेकदेशिनं दूषयति—अनादिरणुश्यामतेति हेत्वभावाद
युक्तम् ।
अणुश्यामता कार्या पृथिवीरूपत्वात् लोहितादिवदिति प्रत्युतानित्यता
हेतुरस्ति । पुरुषप्रयत्नजन्यलोहितादिरूपवैलक्षण्येन त्वस्याप्रयत्न—पूर्वकत्वमात्रे
णानादित्वाभिधानमिति नागमविरोधः ॥ ६७ ॥


603

न सङ्कल्पनिमित्तत्वाच्च रागादीनाम् ॥ ४ । १ । ६८ ॥


तदेवमेकदेशिनौ दूषयित्वा परमसमाधिमाह—अयं तु समाधिरिति । न
संकल्प…रागादीनाम् ॥
चकारमनुक्तसमुच्चयार्थं व्याचष्टे—कर्मनिमित्तत्वादित
रेतरनिमित्त त्वाच्च ।
समुच्चयोऽनुक्तस्येति शेषः । तत्र संकल्पनिमित्तत्वादिति
विभजते—मिथ्यासंकल्पेभ्य इति । यद्यप्यनुभूतविषयप्रार्थना संकल्पः, तथापि
तस्य पूर्वो भागोऽनुभवोऽत्र ग्राह्यः, प्रार्थनाया रागत्वात् । तेन मिथ्यानुभवः संकल्प
इत्यर्थः ।


नन्वेकस्मान्मिथ्याज्ञानात् कुतः कार्यवैचित्र्यमित्यत आह—रञ्जनीयकोपनीय
मोहनीयेभ्य
इति । 2219भव्यगेयादिषु पाठात् कर्तरि कृत्यः । मोहनीयः संकल्पो
मिथ्याज्ञानसंस्कारः । कर्मनिमित्तत्वं रागादीनां विभजते—कर्म चेति । निकायेन
जातिरुपलक्ष्यते । इतरेतरनिमित्तत्वं रागादीनामाह—इतरेतरेति । स्यादेतत्,
भवन्त्वनित्याः क्लेशाः । तथापि यदेषां निर्वर्तकं मिथ्याज्ञानं तस्य निवृत्तिहेतोरभावात्
स एव क्लेशानुबन्धादपवर्गाभाव इत्यत आह—सर्वमिथ्यासंकल्पानां चेति । अपि
अनादिः क्लेशसन्ततिरित्ययुक्तम् । कुतः ? सर्व इमे आध्यात्मिका भावा
इति । आत्मानमधिकृत्य प्रवर्तमानाः शरीरेन्द्रियादयो भवन्त्याध्यात्मिका इति । 2220अथ
यद्यनादीनामपि निवृत्तिः, हन्त अनुत्पत्तिधर्मकाणामपि निवृत्तिप्रसङ्ग इत्यत
आह—न चैवं सत्यनुत्पत्तिधर्मकं किञ्चिदिति । रागादिनामुत्पत्तिधर्मकाणामेव
व्ययधर्मकत्वाभ्युपगमादित्यर्थः । ननु मा भूवन् मिथ्याज्ञाननिमित्ता रागादयो
मिथ्याज्ञाननिवृत्तौ, ये पुनरमी कर्मनिमित्तास्तेषां कुतो निवृत्तिः ? न च कर्मनिवृत्तौ
रागादिनिवृत्तिः रागादिमतः कर्मनिवृत्तेरभावात् । तस्मान्न मोक्ष इत्यत आह—कर्म
च निकायनिर्वर्तकं तत्त्वज्ञानकृतान्मिथ्याज्ञानरूपसंकल्पविघातान्न रागा
द्युत्पत्तिनिमित्तं भवति ।
सर्वत्र रागादीनां मिथ्याज्ञानमेव निमित्तम् । कर्माणि तु
604 निकायनियमेन रागादीन् 2221प्रवर्तयन्तीति कर्मनिमित्तत्वमुक्तमिति भावः । ननु यथा
रागादयः सत्यपि कर्मणि मिथ्यज्ञाननिवृत्त्या निवर्तन्ते, एवं सत्यपि कर्मणि
मिथ्याज्ञाननिवृत्त्या फलमपि मा भूदित्यत आह—सुखदुःखसंवित्तिफलं तु
भवतीति ।


2222संकल्पाद्यपेक्षं कर्म रागादिकारणमिति । यज्जातीयस्य जन्मनो यत्कर्म
कारणं तत् तज्जन्मोचितामेव मिथ्याज्ञानवासनामभिव्यनक्तीति तद्द्वारेण रागादीनां
कारणं भवति । चोदयति—सुखादीनामपीति । यथा मिथ्याज्ञानसहायं कर्म रागादि
हेतुः, एवं तत्सहायं फलहेतुरिति चरमदेहस्य तत्त्वज्ञानवतः सदपि कर्म फलकारणं
न स्यादित्यर्थः । परिहरति—न निरपेक्षत्वादिति । 2223कर्माशयप्रचयं क्षेतुममूढोऽप्य
सक्तोऽप्यद्विष्टोऽपि मूढ इव सक्त इव द्विष्ट इव तत्फलं भुङ्क्ते इति रागाद्यनपेक्षं कर्म
स्वफलं जनयति । तेनासौ फलोपभोगो न बन्धहेतुः । मूढादीनां बन्धहेतुः फलोप
भोगः । स च तादृशो रागादिसहायैः कर्मभिः क्रियते, न रागादिनिरपेक्षैरित्यव
दातम् ॥ ६८ ॥


॥ इत्यपवर्गपरीक्षाप्रकरणम् ॥

॥ इति मिश्रश्रीवाचस्पतिविरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
चतुर्थाध्याये प्रथमाह्निकम् ॥

  1. रूपंJ

  2. दर्शयतिC

  3. बहुत्वंJ

  4. चिन्तन प्र…खल्विमेC

  5. नानुJ

  6. तत्प्र…यैव परीक्षिता इ°J

  7. गुणत्वे सत्या°J

  8. विशेषणंOmJ

  9. °न्न लक्षणमेतद् युक्तम्C

  10. ज्ञानिपिशाचस्ये° C

  11. अयम् J

  12. अपि Om C

  13. वा J

  14. ४-५ सूत्रयोः मुद्रितग्रन्थस्थित टीकापाठविपर्यासः C संस्करणे विशोधितः,J मातृकापाठस्तदनु
    कूलः ।

  15. पा. सू. ३. ४. ६८

  16. निदानोच्छेद इ° C

  17. कृतनाशा° C

  18. सार्थमप्रवृत्तिः C

  19. °प्रसङ्गश्च C

  20. प्रेत्योत्पत्ति° C

  21. तावत्पक्षं गृह्णाति C

  22. गवादीति शरीरम् J

  23. च इत्यधिकम C

  24. °न्यस्तानि C

  25. तत्रेत्यधिकम् C

  26. द्रः
    छान्दोग्योपनिषत् ६॑२॑१

  27. का पुनर्भक्तिः…प्रयोग इत्यर्थ इत्यस्य पृच्छति-कः पुनः…मर्दार्थ इत्यतः प्रागुपन्यास
    औचित्यात् सत्यपि आदर्शविरोधे ।
    C पुस्तकेऽपि तथा ।

  28. उक्तं C

  29. किं तु C

  30. को नु…भेद इतिC

  31. शक्तियुक्तानिC

  32. पाकजादीनांC

  33. छान्दो
    ग्योपनिषत् ६॑२॑२

  34. °दिभावेनC

  35. °मोऽपिJ

  36. महाभाष्यम् १॑१॑१

  37. छान्दोग्योपनिषत् ६॑२॑३

  38. प्रकृतिर्वाJ

  39. निष्फलं विद्वान्C

  40. अपरिणामःJ

  41. रूपविशेषाग्रहेC

  42. ब्रह्म…त्वं
    OmJ

  43. °निर्माणफलमितिC

  44. पितुरप°J

  45. सुकृते…वश्यंJ

  46. धृत्यात्मवृत्ति° C,JOmits either

  47. शरीर्यन्तरमित्यर्थःC

  48. तददूषि°C गुण्डितरूषिते—अमरकोशः ।

  49. एतावदभिप्रेत°
    C

  50. ये खलुC

  51. चक्षुराद्यनु°C

  52. दृष्टाःJ

  53. तदितरत्रापिC

  54. °शरीरादि°C

  55. कार्यान्तरोत्पा°C

  56. कल्पनया C कल्पनायांJ

  57. एकमेवालौकिकंJ

  58. परिहृतम्C

  59. बुद्धिमद्भावाभावंC

  60. सद्भावासद्भावानु°C

  61. °केतुना°C

  62. चेतनहेतुत्वंJ

  63. ज्ञानमात्र°J

  64. अतिपत्यापिJ

  65. पक्षःC

  66. °त्त्वव्यतिरेकेणC

  67. वेदितव्यौC

  68. व्यतिरेकिद्वितीयनाम्नो विशेष°J

  69. तनुभुवनाद्यभिज्ञःC

  70. बृह° उप° ३.८.९

  71. ऋ. वे. १०. ८१. ३

  72. छान्दो° उप° ६.२.३

  73. महाभारते
    ३.३०.२८

  74. श्वेता° उप° ३.१९

  75. संस्थानवत्त्वात्J

  76. निमित्तवत्त्वमितिC

  77. उद्भाव्यC

  78. वाङ्मात्रादसिद्धेरिति C

  79. °गतावनित्यतायोगाद् घटादि भवत्व° C

  80. °सिद्धिवत् J

  81. °णाग्रहणवि° C

  82. °धर्माध्यासयो° C

  83. सर्वस्य च इति या वाक्येन प्रति°J यावदद्येन प्रतिपाद्यत इति च प्रतीकद्वयं वार्त्तिके
    नोपलभ्यते ।

  84. सर्वस्य च इति या वाक्येन प्रति°J यावदद्येन प्रतिपाद्यत इति च प्रतीकद्वयं वार्त्तिके
    नोपलभ्यते ।

  85. °भेदान्नित्याःC

  86. विशेष्यतःJ

  87. अत्र पाठक्रमविपर्ययः J पुस्तकेऽपि । सC पुस्तकानुसारं
    विशोधितः ।

  88. आधाराधेयभावेनेति प्रतीकस्य ३५ सूत्रवार्तिके दर्शनात् स्यादेतदित्यादि अभिमतसिद्धिरित्य
    न्ताटीकाखण्डोऽपि तत्सूत्रटीकायां सन्निविष्टः ।

  89. समूहे भेद°C

  90. °मेवंC

  91. °ऽल्पोऽ
    ल्पतर इति
    C

  92. समूहJ

  93. उक्तार्थदर्श°C

  94. एतदनेकमभिमतं त्याज्यम्J

  95. अभिमानस्या°J

  96. स्वाभावाद्J

  97. तस्य सिद्धेः अथवाJ

  98. °सिद्धेःC

  99. °पेक्षं J

  100. °पेक्षं…रक्तत्वमित्याक्षेपार्थः C

  101. ब्रह्यतत्त्वसमीक्षायाम्OmJ

  102. °क्षोत्पत्तिकाC

  103. सःC

  104. °वस्थितानि°C

  105. एवास्यC

  106. रूपाभावःJ

  107. ज्ञानेन्द्रियं
    ग्रा°
    C

  108. विशेषात्C

  109. °माश्रित्यC

  110. ज्ञेयान्नातिरिच्यतेC

  111. नाश्रीयतेC

  112. °क्तोऽप्यर्थो विषयः C

  113. निरासाव° C

  114. इति देशिते तोयम् C

  115. °वनिराकृ° C

  116. °त्यूहमुत्पद्येत C

  117. अयं प्रमाता J

  118. शक्तस्तयोर्भेदं J

  119. नास्मि° J

  120. भेदाद् J

  121. अप्यपहृतार्थाC

  122. OmJ

  123. कस्मात् साध्यमेव न हेतुःJ

  124. °पङ्क्त्यादि°C

  125. पङ्क्ति°C

  126. सुखं स्वर्गप°J

  127. °दिकमुच्यतेC

  128. ४७ तमसूत्रीयष्टीकाभागः ४४तमसूत्रीयटीकायां न सद्यः कालान्तरोपभोग्यत्वादित्यतः
    परम्, वार्त्तिकं सद्यस्तापादिफलेत्यतः पूर्वं मातृकासु प्रक्षिप्तम् । तत्तु न सम्यक् । अनवसिते ४४तमसूत्र
    टीकाभागे ४७तमसूत्रटीकासन्निवेशस्यानौचित्यात् ।

  129. न्यायभाष्यJusesनिष्पत्तिforउत्पत्तिhere. But theṬīkāJusesउत्पत्ति°

  130. विनश्यतिJ

  131. आदिOmC

  132. जायतेJ

  133. पदार्थान् C, पटार्थी CV

  134. वीरणकटार्थोC

  135. तत्र उपा°J

  136. वीरणानीत्य°J

  137. °दुपपद्यत°C

  138. °मितीदं
    नेदमिदानीं नेद°
    C

  139. मिति । तत्रC

  140. कारणत्वम°C

  141. समानत्वंJ

  142. नासत्त्वे न
    सत्त्वे°
    C

  143. भावेऽपिC

  144. °द्धत्वादेवJ

  145. अवान्तरवि°J

  146. °प्रतिपत्त्य°J

  147. °कारणादितिC

  148. °वच्छिन्नाC

  149. °न्तराद् वा C

  150. पूर्वापरकालमात्रा° C

  151. °स्थायिनां C

  152. व्यावृत्तात्मा C

  153. अदृष्टान्तःJ

  154. स्वर्गोप°C

  155. न तु स्वरूपंC

  156. दुःखपरीक्षणम्C

  157. दुःखहानमि°C

  158. उत्पत्तिःC

  159. ऋषिणाJ

  160. °ते ऋषिणाC

  161. निवर्त्स्यति° C

  162. °पात्रं J

  163. परम्परायामप° C

  164. जातमात्रस्यैवानधि°C

  165. मोक्षावसरस्तदपाकृतं भवति C

  166. जै. सू. ३॑१॑६

  167. जात्वस्यC

  168. विधित्वंC

  169. अभिप्रायःJ

  170. संभवति विषये for स च निर्विषयो C

  171. °त्नस्य निर्वृणोति यावदुपायो C

  172. कथमेनं
    J

  173. जायमान° C

  174. गौतमधर्मसूत्रे १. ४. ३५

  175. प्रतिषिध्यन्ते for चातु…ध्येत in C

  176. मन्वादयोऽपिC

  177. बद्ध्वाJ

  178. °स्यदेहिनःC

  179. स्वप्रति°C

  180. दोषतुषा° C

  181. द्रः छान्दोग्योप° ६. ४

  182. cf पाणिनिसू° ३. ४. ६८

  183. ननुJ

  184. °र्तन्त इति J

  185. वार्त्तिकमित्यादिकर्मार्थत्वादिति सन्दर्भोऽर्थसंगत्यनुसारं ५९४-५
    पत्रयोः सन्निवेशितः ।

  186. °शयप्रपञ्चमुच्छेत्तु° C