30

प्रमाणं किमित्याह--


262र्तृस्था प्रमाणम् ॥ ३६ ॥


कर्तृव्यापा263रमुल्लिखन् बोधः प्रमाणम् ॥ ३६ ॥


कथमस्य प्रमाणत्वम् ? । करणं हि तत् साधकतमं च करणमुच्यते ।
अव्यवहितफलं च267 तदित्याह--


तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ ३७ ॥


तस्याम् इति कर्तृस्थायां प्रमाणरूपायां क्रियायां सत्याम् अर्थप्रकाशस्य
फलस्य सिद्धेः व्यवस्थापनात् । एकज्ञानगतत्वेन प्रमाणफलयोरभेदो, व्यवस्थाप्यव्य
वस्थापकभावात्तु भेद इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतति प्रमाणफलभाव
इतीदमखिलप्रमाणसाधारणमव्यवहितं फलमुक्तम् ॥ ३७ ॥


अव्यवहितमेव फलान्तरमाह--


अज्ञाननिवृत्तिर्वा ॥ ३८ ॥


प्रमाणप्रवृत्तेः पूर्वं प्रमातुर्विवक्षिते विषये यत् अज्ञानम् तस्य निवृ268त्तिः
फलमित्यन्ये । यदाहुः--


प्रमाणस्य फलं साक्षा269दज्ञानविनिवर्तनम् ।

केवलस्य सुखोपेक्षे शेषस्यादानहानधीः ॥ न्याया॰ २८ इति ॥ ३८ ॥

व्यवहितमाह--


अवग्रहादीनां वा क्रमोप270जनधर्मा271णां पूर्वं पूर्वं प्रमाण
मुत्तरमुत्तरं फलम्272 ॥ ३९ ॥


अवग्रहेहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां
यद्यत् पूर्वं तत्तत्प्रमाणं यद्यदुत्तरं तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा
ईहारूपफलतया परिणमति इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽपीहा प्रमाणमवायः
फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधा273रणयोर्ज्ञानोपा274दानत्वात् ज्ञानरूपतो
न्नेया । ततो धारणा प्रमाणं स्मृतिः फलम् । ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम् ।

  1. कर्मस्था प्र॰--ता--मू॰

  2. तथाहि कर्मस्था कर्तृस्था चेत् 263

  3. स्था च
  4. क्रिया प्रतीयते तथा 264
  5. ?

  6. ज्ञानस्यापि । त265
  7. थाहि वह्निगता तावत् काचिद्दाहिका शक्तिरभ्युपेया यद्व्यापारात् काष्ठानि दग्धानि भवन्ति
    तथा काष्ठगता दाहक्रिया काचिदस्ति यस्यास्तानि भस्मीभवन्ति । एवमन्यत्रापि ज्ञानार्थयोर्भावनीयम् ।

  8. स्था च
  9. ?
  10. --॰फलं तदि॰--डे॰

  11. वस्तुत ऐक्येऽपि ज्ञानोन्मुखोऽर्थप्रकाशः अर्थोन्मुखी अज्ञाननिवृत्तिः इति भेदः ।

  12. अव्यवहितम् ।

  13. --॰पजननधर्मा॰--सं-मू॰

  14. --॰धर्मणाम्--ता॰

  15. एकोनचत्वारिंशत्तमं चत्वारिंशत्तमं
    च सूत्रद्वयं ता--मू॰ प्रतौ भेदकचिह्नं विना सहैव लिखितं दृश्यते--सम्पा॰

  16. ईहायाश्चेष्टारूपत्वात् धारणायाश्च
    संस्काररूपत्वात् अज्ञानत्वमिति परस्य अभिसन्धिः ।

  17. ज्ञानमुपादानं ययोर्ज्ञानस्योपादनं वा ।