32

तथा, परिणाम उक्तलक्षणः स विद्यते यस्य स परिणामी । कूटस्थनित्ये
ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्त
नाशिनि च कृतनाशाकृताभ्यागमौ स्याताम्, स्मृतिप्रत्यभिज्ञाननिहितप्रत्यु285न्मार्गणप्रभृ
तयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् । परिणामिनि तूत्पादव्ययध्रौव्यधर्मण्यात्मनि
सर्वमुपपद्यते । यदाहुः-

यथाहेः कुण्डलावस्था व्यपैति तदनन्तरम् ।

सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्तते ॥

तथैव नित्यचैतन्यस्वरूपस्यात्मनो हि न ।

निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥

किं त्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः ।

अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवर्तते ॥

स्यातामत्यन्तनाशे हि कृतनाशाकृतागमौ ।

सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥

न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते ।

287तोऽबस्थावतस्त288त्त्वात्289 कर्तैवाप्नोति तत्फलम् ॥ तत्त्वसं॰ का॰ २२३--२२७

इति अनेनैकान्तनित्यानित्यवादव्युदासः । आत्माइत्यनात्मवादिनो व्युदस्यति ।
कायप्रमाणता त्वात्मनः प्रकृतानुपयोगान्नोक्तेति सुस्थितं प्रमातृलक्षणम् ॥ ४२ ॥


इत्याचार्यश्रीहेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्च
प्रथमस्याध्यायस्य प्रथममाह्निक290म्



॥ अथ द्वितीयमाह्निकम् ॥

  1. एकान्तनाशिनी 285

  2. ?
  3. ?
  4. अवस्थायाः ।

  5. --॰वतस्तात्त्वात्--डे॰ । ॰स्थासु तत्तत्त्वात्--तत्त्वसं॰ का॰
    २२७

  6. एकत्वात् ।

  7. --॰कम् । श्रेयः--ता॰