34 चार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत्; तत् किं प्रमाणान्तरेऽप्यर्थजन्य302त्वमविसंवाद
हेतुरिति विप्रलब्धोऽसि ? । मैवं मुहः, यथैव हि प्रदीपः स्वसामग्रीबललब्धजन्मा घटादि
भिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्ध
जन्म संवेदनं विषयमवभासयति । नाननुकृतान्वयव्यतिरेकं कारणम् नाकारणं
विषयः
इति तु प्रलापमात्रम्, योगिज्ञानस्यातीतानागतार्थगोचरस्य तदजन्यस्यापि
प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किंच, स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः,
तया व्याप्तेरविष305यीकरणे तदुत्थानायोगात्; लिङ्गग्रहण-सम्बन्धस्मरणपूर्वकमनुमानमिति
हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणम्, अनुमानप्रामाण्यान्यथानुपपत्तेरिति306
सिद्धम् ॥ ३ ॥


अथ प्रत्यभिज्ञानं लक्षयति--


दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रति
योगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥ ४ ॥


दर्शनम् प्रत्यक्षम्, स्मरणम् स्मृतिस्ताभ्यां307 सम्भवो यस्य तत्तथा दर्शन
स्मर308णकारणकं सङ्क309लनाज्ञानं प्रत्यभिज्ञानम् । तस्योल्लेखमाह--तदेवेदम्, सामान्यनिर्दे
शेन नपुंसकत्वम्, स एवायं घटः, सैवेयं पटी, तदेवेदं कुण्डमिति । तत्सदृशः गोस
दृशो गवयः, तद्विलक्षणः गोविलक्षणो महिषः, तत्प्रतियोगि इदमस्मादल्पं महत्
दूरमासन्नं वेत्यादि । आदिग्रहणात्-

रोमशो दन्तुरः श्यामो वामनः पृथुलोचनः ।

यस्तत्र चिपिटघ्राणस्तं चैत्रमवधारयेः ॥ न्यायम॰ पृ॰ १४३

पयोम्बुभेदी हंसः स्यात्षट्पा310दैर्भ्रमरः स्मृतः ।

सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥

पञ्चवर्णं भवेद्रत्नं मेचकाख्यं पृथुस्तनी ।

युवतिश्चैकशृङ्गोऽपि गण्डकः परिकीर्तितः ॥

इत्येवमादिशब्दश्रवणात्तथाविधानेव चैत्रहंसादीनवलोक्य तथा311 सत्यापयति यदा, तदा
तदपि संकल312नाज्ञानमुक्तम्, दर्शनस्मरणसम्भवत्वाविशेषात् । यथा वा औदीच्येन313 क्रमेलकं

  1. अर्थजन्यत्वात् ज्ञानस्य प्रामाण्याभ्युपगमे मरुमरीचिकादौ जलज्ञानमप्यर्थजन्यत्वात् प्रमाणं स्यात् ।
    अथ प्रतिभासमानार्थजन्यं प्रमाणमिष्यते तदानुमानं न स्यात् प्रमाणम् । अनुमानं ह्यनर्थसामान्यप्रतिभासि, न च
    तेन जन्यम्, भवन्मते सामान्यस्यावस्तुत्वात् । यत् प्रमाणं तदनर्थजन्य302

  2. तदर्थज
  3. मेवेति अतिव्याप्ति 303
  4. ॰वेति
    व्याप्ति
  5. रपि दुष्टा स्वसंवेदनप्रत्यक्षेण व्यभिचारात् तद्धि स्वात्मविषयं, न च तेन जन्यम् ।

  6. तदर्थज
  7. ॰वेति
    व्याप्ति
  8. व्याप्तेरग्रहणेऽग्रहणं
    त्वप्रमाणत्वात् ।

  9. रिति ॥ अथ मु-पा ।

  10. क्वचिद्व्यस्ताभ्यामपि यथेदमस्माद्भिन्नमित्यादिकं प्रत्यभिज्ञानं दर्श
    नादेव स्मरणरहितात् । तस्मात् भिन्नमित्यादिकं केवलादेव स्मरणात् प्रत्यभिज्ञानम् ।

  11. मदीयेन गृहस्थितेन
    गवा सदृशोऽयं गवय इत्यादिकम् अत्र टिप्पणकारेण उभयकारणकत्वं उदाहृतम्--सम्पा॰

  12. एकत्वसादृ
    श्यवैसदृश्यादिनाऽर्थद्वयघटनं सङ्कलना ।

  13. --॰पदै॰--मु॰

  14. तथा वचनं सत्या॰-डे॰

  15. संकलनमु॰-डे॰

  16. अत्र उदीच्येन इति सुचारु ।