35 निन्दतोक्तम् धिक्करभमतिदीर्घवक्रग्रीवं314 प्रलम्बोष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावय
वसन्निवेशमप315316दं पशूनामिति । तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य
नूनमयमर्थोऽस्य करभशब्दस्यैति यद317वैति तदपि दर्शनस्मरणकारणकत्वात् सङ्क
लनाज्ञानं प्रत्यभिज्ञानम् ।


येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं
प्रमाणान्तरमनुषज्येत । यदाहुः318--


उपमानं प्रसिद्धार्थसाधर्म्यात् साध्य319साधनम् ।

तद्वैधर्म्यात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥ लघीय॰ ३. १०

इदमल्पं महद् दूरमासन्नं प्रांशु320 नेति वा ।

व्यपेक्षा321तः समक्षेऽर्थे विक322ल्पः साधना323न्तरम् ॥ लघीय॰ ३. १२ इति ।

अथ साधर्म्यमुपलक्षणं योग324विभा325गो वा करिष्यत इति चेत्; तर्ह्यकुशलः
सूत्रकारः स्यात्, सूत्रस्य लक्षणरहितत्वात् । यदाहुः-

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।

अस्तोभ326मनवद्यं च सूत्रं सूत्रविदो विदुः ॥

अस्तोभमनधिकम् ।


ननु ततिति स्मरणम् इदम् इति प्रत्यक्षमिति ज्ञानद्वयमेव, न ताभ्या
मन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतद्युक्तम्, स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञा
विषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पू327र्वापराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य
विषयः । न च तत् स्मरणस्य गोचरस्तस्यानुभूतविषयत्वात् । यदाहुः328-

पूर्वप्र329मितमात्रे हि जायते स इति स्मृतिः ।

स एवायमितीयं तु प्रत्यभिज्ञा330ऽतिरेकिणी ॥ तत्त्वसं॰ का॰ ४५३

नापि प्रत्यक्षस्य331 गोचरः, तस्य332 वर्तमानविव333र्त्तमात्रवृत्तित्वात् । न च दर्शनस्मरणाभ्या
मन्य334द् ज्ञानं नास्ति, दर्शनस्मरणोत्तरकालभाविनो ज्ञानान्तरस्यानुभूतेः । न चानु
भूयमानस्यापलापो युक्तः अतिप्रसङ्गात् ।


ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानम् इत्येके335 । नैवम्, तस्य सन्निहितवार्तमा
निकार्थविषयत्वात् ।

सम्ब336द्धं वर्तमानं च गृह्यते चक्षुरादिना श्लोकवा॰ सूत्र ४ श्लो॰ ८४

इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः । अथ स्मरणस337

  1. --॰ग्रीवप्र॰--ता॰

  2. --॰मपसदं--मु॰--॰मपशब्दं--डे॰

  3. निकृष्टम् ।

  4. तात्पर्य॰ पृ॰ १९८ ।

  5. यदाह--ता॰

  6. सादृश्यसाधनम् ।

  7. दीर्घम् ।

  8. अपेक्षका ह्यल्पमहदादिव्यापाराः ।

  9. अक्षनिरपेक्षं
    मानसं ज्ञानं विकल्पः ।

  10. प्रमाणान्तरं प्राप्नोति ।

  11. उपमानमिति सूत्रावयवयोगः ।

  12. उपमानं द्विधा
    साधर्म्यतो वैधर्म्यतश्चेति विभागः ।

  13. पूरणार्थवादिनिपातरहितमस्तोभम् ।

  14. तदेवेदमित्यत्रैकत्वं विषयः,
    गोसदृशो गवय इत्यत्र तु सादृश्यम् ।

  15. यदाह--ता॰

  16. पूर्वप्रवृत्तमा॰--मु--पा ।

  17. पूर्वप्रमितमात्रादधिका ।

  18. --॰स्य तस्य विव॰--डे॰

  19. तस्येति प्रत्यक्षस्य ।

  20. विवर्तः परिणामः पर्यायः इति यावत् ।

  21. --॰मन्यज्ञा॰--डे॰

  22. वैशेषिकादयः ।

  23. चक्षुरादीन्द्रियसम्बन्धि ।

  24. सहायम् ।