25
अविनाभाविता220 चात्र तदैव यदि कल्प्यते ।

न प्रागवगतेत्येवं221 सत्यप्येषा न कारणम् ॥

अविनाभावितैवात्र प्रागेव परिनिश्चिता ।

तदैवावगता222 नेयमिति केन न कारणम् ॥

पूर्वदेशानवस्थान223मन्यदेशस्थितिं विना ।

न दृष्टमेकसामग्य्रा … … …

दृष्टौहि समाजकालस्थौ नामग्रामौ224 तुलात्तयोः ।?

गृहाभावबहिर्भावौ न 225सापेक्षौ नियोगतः ॥

अन्या स्थाने प्रतीतिस्तु नियमेनैव जायते ।

प्रतीत्या सति226 साहित्ये प्रमाणं किं227 न विद्यते ॥

अन्यथानुपपत्त्यैव नैकेनान्यः228 प्रतीयते ।

प्रत्यक्षानुमयोरेव229 प्रामाण्यमिह विद्यते ॥

तथा न कल्प्यतेच्चेत् साहित्यं किं230 न सिध्यति ।

न च संबन्धवेलायां संबन्ध्यन्यतरो231 ध्रुवम् ॥

अर्थापत्त्यावगन्तव्यः पश्चादस्त्यनुमानता ॥

योऽत्यन्तमन्त्रजडधीर्न विवेकभाजि,

तत्त्वे प्रवर्त्तनमुपैति न मे कथंचित् ।

अन्यस्य तस्य न जआनुमतेर्विशेष-

स्तस्य स्खलद्गति निवर्त्तनमेतदस्तु ॥

इति प्रमाणान्तर्गतौप्रमाणान्तर्गतौ तृतीयोऽर्थापत्तिपरिच्छेदः ॥ छ ॥


चतुर्तः परिच्छेदः


प्रमाणान्तरभावोऽपि
भाष्यकृ
त्प्रतिपादितः ।

अभावेऽपि232 प्रमाभावो नास्तीत्येतद्विनिश्चये ॥

अर्थस्यासंनिकृष्टस्य233 तथाचाह
कुमारिलः

भाष्यकारोक्तमेवार्थमुपपत्त्योपदर्शयन् ॥

  1. Ms. भाविना ।

  2. Ms. प्रागेवतेत्येवं ।

  3. Ms. तदैवापगता ।

  4. Ms. स्थानं अन्यदेश ।

  5. Ms. नामी ग्रामौ ।

  6. Ms. नापेक्षौ ।

  7. Ms. सत ।

  8. Ms. किन्न ।

  9. Ms. नैकोनान्य ।

  10. Ms. प्रत्यक्षानुमानयोरेव ।

  11. Ms. किन्न ।

  12. Ms. सन्ध्यतरो ध्रुवम् ।

  13. Ms. अभावोऽपि ।

  14. Ms. सन्निकृष्स्यट ।