26
प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते ।

वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता234

वस्तुसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता समाश्रया

क्षीरे दध्यादि यन्नास्ति प्रागभाव स उच्यते ॥

नास्तिता पयसो दध्नि प्रध्वंसाभावलक्षणम् ।

गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥

शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ।

शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते ॥

क्षीरे दधि भवेदेव दध्नि
क्षीरं
घटे पटः235

शशे शृङ्गं236 पृथिव्यादौ चैतन्यं मूर्त्तिरात्मनि ॥

अप्सु गन्धो रसश्चाग्नौ वायौ रूपं च तैः237 सह ।

व्योम्नि संस्पर्शता वेति न चेदस्य प्रमाणता ॥

न च स्याद्व्यवहारोऽयं कारणादिविभागतः ॥

प्रागभावादिभेदेन नाभावो विभिद्यते यदि ।

न वा वस्तुन एभिः स्युर्भेदास्तेनास्य वस्तुता238

कार्यादीनामभावः कार्यो भाव कारणादितः239

यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यदस्त्ययम्240

तस्माद् घटादिवद्वस्तु प्रमेयत्वाच्च गृह्यताम् ॥

न चौप241चारिकं वात्र भ्रान्तिर्वापि यदृच्छया ।

भवत्यतो न सामान्यविशेषात्मकता वृथा ॥

प्रत्यक्षादेरनुत्पत्ति प्रमाणाभाव उच्यते ।

आत्मनः परिणामो वाआत्मनो परिणामो वा विज्ञानं स्वान्यवस्तुनि ।

स्वरुपपररूपाभ्यां242 नित्यं सदसदात्मके ॥

वस्तु विज्ञायते वस्तुनि ज्ञायते कैश्चिद् रूपं किंचित् कदाचन ॥

यस्य यत्र यदोद्भूतिर्जिघृक्षा वापि जायते ।

विद्यतेऽनुभवस्तस्य तेन च व्यपदिश्यते ॥

  1. Ms. तत्र भाव प्रमाणात् ।

  2. Ms. घटोपटः ।

  3. Ms. शशशृङ्गं ।

  4. Ms. वैः । वायौ रूपेण तौ सह इति श्लोकवार्त्तिकपाठः ।

  5. Ms. न चावस्तुन एतेस्युरिति श्लोकवार्त्तिकपाठः ।

  6. Ms. कारणादिनः कारणादिना इति च श्लोकवार्त्तिके पाठः ।

  7. Ms. यदस्त्वयम् ।

  8. Ms. कारिकं ।

  9. Ms. …स्वरूपाभ्यां ।