1

प्रथमः परिच्छेदः


यस्य प्रज्ञाप्रकाशः कवलयति जगच्चक्रमेवाकलङ्कः

सत्त्वार्थं वा विधातुं यदपर उदयी नासमर्थोऽ1कलङ्कः ।

तं2 नत्वा स्वार्थसम्पत्सुहितमनुपमो मञ्जुवाग्यो न दीनः

प्रत्यक्षं वानुमावेत्यत उदितमिदं येन तुल्यो न3दीनः ॥

प्रत्यक्षं चानुमानं च प्रमाणमिदमेव हि ।

प्रमाणसंप्लवायोगात् प्रमेयद्वयसंगतेः ॥

शब्दादिकं प्रमाणं हि भ्रान्तिमात्रात्तदन्यथा ।

प्रमाणलक्षणायोगात् प्रमाणाभं बहिः4स्थितेः ॥

न भ्रान्तिमात्रप्रवारितप्रामाण्यः प्रमाणं प्रमाणाभासः5 । अथ कथंचित् प्रामाण्य
मुपपद्यते, तथा सत्यनुमानलक्षणसंभवान्न प्रमाणान्तरं, साक्षात्करणवृत्तं हि प्रमाणं,--
तदसंभवे तस्यैव सूचकं, तत्राव्यभिचार6प्रसादतः यदेव स्वार्थेऽस्तित्वमवबोधयति
तत्प्रमाणमन्यथा संशयविपर्ययादेर्बोधादप्रमाणता7 । यच्च साक्षादुपलभ्यते तदे
वास्ति, उपलम्भ एव सत्तेति प्रतिपादनात् । न तत्र संदेहविपर्ययावनुपलभ्यमान
एव तयोर्नियतत्वात् । तस्मादुपलभ्यमस्ति ।


यत्र चोपलभ्यमानतायाः साक्षात्करणलक्षणायाः प्रतिबन्धतो निश्चयस्तद
परमस्तीति नियमस्तेन द्वयमेव प्रमाणम् । तत्रार्थापत्त्यादीनां तथात्वाभावादप्रमाण
तेति संक्षेपार्थः । अथ सत्तायोगादेवंप्रकाराभावेऽपि तदस्तीति व्यपदिश्यते तदसत्--


उपलभ्यता न यस्यास्ति सत्तायोगगतिः कथम् ।

उपलभ्यभावो यस्यास्ति सत्तायोगो वृथा परः ॥

अन्यथा खरशृङ्गादेः8 सत्तायोगो न किं मतः ।

अवस्तुत्वान्मोपगच्छेद् वस्तुत्वे तेन किं पुनः ॥

2
न च दृश्यस्य वस्तुत्वमुपलम्भ9विनाकृतम् ।

उपलम्भे तदेवास्य वस्तुत्वमपरेण किम् ॥

तस्मात्सत्त्वोपलभ्यत्वं प्रत्यक्षाभं10 तदन्यतःथा

प्रत्यक्षपूर्वादेवानुमानात्तत्तत्प्रमाद्वयम् ।

अन्यथा प्रतिपत्तिस्तु न तस्याव्यभिचारिणी ॥

प्रत्यक्षस्मरणाकारव्यतिरिक्ता च11 नास्ति धीः ।

असंबद्धा12 स्मृतिः सर्वा प्रमाणं चेत् प्रमाऽखिला ॥

संबद्धा चेत् तदा दृष्टा तत्र देशे च साऽनुमा ।

सामान्याकारता शब्दादपि सा यदि गम्यते ॥

प्रमाणं13 तदपि प्राप्तमनुमानवदेव हि ।

तथोपमानार्थापत्त्यादि ततोऽ14युक्तं प्रमाद्वयम् ॥

शब्दादेरपि यद्वित्तिः परोक्षार्थस्य विद्यते ।

ततोऽनुमानादेवास्य वित्तिरि15त्यतिसाहसा ॥

तथाहि कुरु किञ्चित् त्वं भावनायांकिञ्चि भावत्त्वं16नायां मतिं17 सदा ।

नवानेन विनार्थेन व्यवहारः प्रसिध्यति ॥

न च वैदिकवाक्यार्थं विना स्वर्गादिसाधनम्

नास्या18प्रमाणता तेन स्वर्गादिफलभागिनः19

अथानुमानतः साध्यः परलोको भवत्यसौ ।

नात्र हेतुः क्वचित्सृष्टः संबन्धग्रहणम् न हि ॥

सिद्धेऽपि वा परे लोके कर्मणां नियमः कुतः ।

तस्मादागम20 एवेष्टः स चेदस्त्वनुमा वृथा ॥

परलोकोऽकृतोऽसिद्धस्तत्संबन्ध21श्च दृक्कृतः ।

तस्मादागमतः22 सर्वं परलोकस्य वेदनम् ॥

उपमानादि सर्वै च नानुमालक्षणान्वितम् ।

ततः प्रमान्तरास्तित्वे कथं द्वे एव ते इति ॥

3
प्रमाणान्तरमनुमानाच्छब्द इत्यन्यथा भण्यते23--।

कृतकत्वादिवत्स्वार्थमन्याऽपोहेन भाषते ।

उत्क्रमे तत्र संबन्धः परलोके न सिध्यति ॥

प्रामाण्यं च विवक्षायामिति पश्चाद्वदिष्यते ।

लौकिको व्यवहारस्तु वाक्यार्थविषयः सदा ॥

पदेन व्यवहारस्तु न लोकस्य कदाचन ।

वाक्यवाक्यार्थयोः स24र्गापूर्वत्वाद्योगविन्नहि ॥

तस्मादपोहविषयः कथं नाम ध्वनिर्मतः ।

अथापि पदतद्वाच्यसंबन्धस्य प्रसिद्धता ॥

ततोऽनुमानं संबन्धग्रहणे सति किं न तत् ।

तदयुक्तं पदस्यापि न प्रमाणत्वमिष्यते ॥

पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ।

अन्वितार्थाभिधानं च सर्वदा कैश्चिदिष्यते ॥

विपरीतार्थवाच्यत्वे पश्चात् संबन्धिता कुतः ।

उपात्तस्य कुतस्त्यागस्त्यागश्चेत्तद्वृथा पदम् ॥

अनन्वितार्थाभिधायां दशदाडिमवाक्यवत् ।

न नाम व्यवहारः स्यादसंबन्धाददृष्टितः ॥

अथापि पश्चात्संबन्धोऽनन्वितार्थेऽपि विद्यते ।

वाक्यार्थ एव तत्रापि वाक्यस्यास्तु प्रमाणता ॥

संबन्धाग्रहणं तत्र पूर्वमेवोपपादितम् ।

तस्मान्न वाक्यवाक्यार्थेऽनुमानं भवितुं क्षमम् ॥

पदार्थः सर्व एवेत्थं25 पदार्थान्तरसंगतः ।

देवकम्बल एवासौ वाक्यार्थः कथमन्यथा ॥

अथ प्रकरणापेक्षाप्रतिपत्तिरिहान्यथा ।

पदाप्रकरणं नास्ति समप्रकरणे कथम् ॥

एवं शब्दान्तरासङ्गे दोषो वाच्यं प्रमाविदा ।

समानशब्दान्तरतः कथं नियतवेदनम् ॥

न च शब्दार्थसंबन्धस्तदुत्पत्त्यादिलक्षणः ।

वाच्यवाचकसंबन्धस्तत्र केवलमिष्यते ॥

4
न च तस्यानुमानेऽस्ति हेतुभावः प्रमागतः ।

अनुमानं हि तादात्म्यतदुत्पत्तिसमन्वयात् ॥

धर्मे धर्म26विशिष्टे हि तत्प्रवृत्तिमदीक्ष्यते ।

तस्माननुमानत्वं शब्दे प्रत्यक्षवद्भवेत् ॥

त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ।

तत्र शब्दे कुतो27 यत्नोऽनुमानत्वप्रसिद्धये ॥

विषयोऽन्यादृशस्तावद्दृश्यते शब्दलिङ्गयोः ।

सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥

धर्मी28 धर्मविशिष्टश्च लिङ्गीत्येतच्च साधितम् ।

अर्थे धर्मिणि शब्दे च तत्र सिद्धेन साध्यता29

नहि सिद्धस्य साध्यत्वं धर्मिणः क्वचिदिष्यते ।

अथ साध्यत्वमर्थस्य न ध्वनेः पक्षधर्मता ॥

अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान्न कल्प्यते ।

प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र प्रसज्यते ॥

पक्षे धर्मिविशेषे हि सामान्यं हेतुरिष्यते ।

शब्दत्वं गमकं नात्र गोशब्दत्वेन-लिङ्गता ॥

नहि तेनास्ति संबन्धसिद्धिः सिद्धौ वृथानुमा ।

अथकालान्तरत्वेन युक्तः सोऽर्थः प्रसाध्यते ॥

कालान्तरस्थितिर्नैव श्रीहर्षादेः प्रसिध्यति ।

अथ वाक्यार्थ-साध्यत्वं न वाक्यार्थेन योगवित् ॥

पूर्वं तस्यानुमानत्वं कथमेवं प्रसिध्यति ।

तत्र पूर्वार्थसिद्धिर्हि वाक्यादेवोपजायते ॥

न वाक्यस्यानुमानत्वमेवं सिध्यति तत्त्वतः ।

न पदव्यतिरेकेण वाक्यं30 नाम निरूप्यते ॥

पदार्थेष्वनुमाभाव31स्तत्र वाक्यार्थता कुतः ।

तथाच पक्षधर्मत्वं शब्दस्येह निरूप्यते ॥

न क्रियाकर्त्तृसंबन्धादृते संबन्धनं क्वचित् ।

राजा32 भर्त्ता मनुष्यस्य तेन राज्ञः स उच्यतेतेन राजा33 स उच्यते

5
वृक्षस्तिष्ठति शाखासु ता वा तत्रेति तस्य ताः ।

देशेऽग्निमति धूमस्य कर्त्तृत्वं भवनं प्रति ॥

कार्यकारणभावादौ क्रिया सर्वत्र विद्यते ।

न चानव गताकारःनचानवगताकारः संबन्ध कश्चिदिष्यते ॥

न चास्यसतिनचास्त्यसति संबन्धे षष्ठीतत्पुरुषोऽपि वा ।

तस्मान्न34 पक्षधर्मोऽयमिति शक्या निरूपणा ॥

अन्वयोऽपि च35 शब्दस्य प्रमेयेण निरूप्यते ।

व्यापारेण हि सर्वेषामन्वेतृत्वं36 प्रतीयते ॥

यत्र धूमोऽस्ति तत्राग्नेरस्तित्वेनान्वयः स्फुटः ।

न त्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चयः ॥

भवेन्नित्यविभु37त्वाच्चेत्सर्वार्थेषु च तत् समम् ।

तेन सर्वस्य दृष्टत्वाद्38 व्यतिरेकस्य वा गतेः ॥

सर्वशब्दैरशेषार्थप्रति39पत्तिः प्रसज्यते ।

व्यतिरेकोऽपि शब्दस्य नैवार्थ40विषयः क्वचित् ॥

नार्थाभावेऽस्ति शब्दानामभाव इति निश्चयात्

प्रतीतेरिति चेदेषा प्रतिपत्तिर्न सर्वदा ॥ ॥

अत्रोच्यते--न युक्तोऽयं पूर्वपक्षः परोदितः ।

भावनार्था प्रतीतिर्हि सङ्केतादेव41 जायते ॥

पदार्थावगति सर्वा न सङ्केतं विना क्वचित् ।

व्यञ्जकश्चेत्42 स संकेतो न प्रतीपोऽन्यथेक्ष्यते ॥

नहि प्रतीपसंबन्धः संकेताद्व्यज्यते क्वचित्43

44हि प्रत्यक्षतः सिद्धमन्यथा क्रियतेऽन्यदा ॥

प्रत्यक्षेण हि तत्रार्थप्रतीतिरिति युक्तिमत् ।

संकेतस्यान्यथाभावे कथमन्यार्थसंगतिः ॥

नानार्थता चेत् सर्वत्र प्रतीतिः45 संकुला भवेत् ।

न च तस्मात् स्वरूपस्य प्रतीतिर्वस्तुनः क्वचित् ॥

6
इच्छयाह्य46नयात्सर्वो यत्र तत्र प्रवर्त्तते ।

सर्वस्य सर्वसंबन्धे दोषः प्रागेव दर्शितः ॥

संबन्धस्य च या व्यक्तिः संबन्धकथनं हि तत् ।

नापौरुषेये कथनादर्थवत्ता विनिश्चिता ॥

न च प्रमाणं पुरुष उपदेष्टा प्रतीयते ।

अनादिरेष संबन्ध इति सात्वपरस्पराइति सात्व47परंपरा

पदार्थस्याप्रसिद्धौ च वाक्यार्थे सत्यता कुतः ।

तथापि स्यात्पदार्थानां विपर्यासो नरोद्भवः ॥

वेदे तु पुरुषाभावाद्विपर्यासक्रिया कुतः ।

नराणामशये दुष्टेनराणामाशयेदुष्टे विपर्यासो हि दृश्यते ॥

वेदस्य48 न नरः कर्त्ता विपर्यासो49ऽस्त्वसौ कुतः ।

अत्रापि परिहारोऽयमुच्यतेऽन्यैर्विलक्षणैः ॥

यथा नात्र विपर्यासः संभवी पुरुषाद्विना ।

अथ स्वाभाविकस्तत्राऽविपर्यासो न कारणात् ।

तथा स्वाभाविकस्तत्र विपर्यासोऽप्यकारणात् ॥

विपर्यासस्तु वेदेऽपि पदार्थानां समीक्ष्यते ।

आत्माकाशादिकस्तत्र पदार्थो50ऽसत्य एव हि ॥

अथापि कुरु किंचित्त्वमितिदृग्व्यवहारभाक् ।

प्रमाणान्तरदृष्टोऽर्थस्तत्र तत्र प्रतीयते ॥

ततो निश्चित्य तस्यार्थं प्रवर्त्तन्ते विचक्षणाः ।

वेदे तु न प्रमार्थत्वं कथमत्र प्रवर्त्तताम् ।

स एव तत्र मानं चेत् न तस्यास्ति प्रसिद्धता ॥

अथापि वेदादर्थस्य प्रबोध उपजायते ।

अवेदादपि किं51 नास्ति किं वा तत्र विशेषणम् ॥

प्रबोधो वा विकल्पेन नादृष्टार्थ52प्रकाशकः ।

अदृष्टकल्पनामात्रात्तदस्तीत्यतिसाहसम् ॥

अथापि निश्चितः सोऽर्थ इति तत्र प्रमाणता ।

निश्चयोऽपि न सर्वस्य तस्मादेवोपजायते ॥

7
कस्यचिन्निश्चयादेव प्रामाण्ये सर्वमानता ।

अपौरुषेयतो वाक्यान्निश्चयस्य प्रमाणता ॥

पौरुषेयात्तु53 वचनादेवं वेदे नियम्यते ।

अपौरुषेयादपि हि नैवमर्थः प्रतीयते ॥

वेदादेव विकल्पार्थ54-प्रतीतिरिति तत्त्वधीः ।

पृथग्55 व्याख्यानतो वेदात् क्वचिन्नार्थः प्रतीयते ॥

एवं व्याख्यातमन्यस्मिन् मयाप्येवमिति स्थितिः ।

अल्पाभ्यासात्तु सर्वत्र निश्चयस्य समागमः56

देवदत्तानयेत्यादिवाक्यार्थस्यास्ति दर्शनम् ।

अथापि नास्ति वाक्यार्थे प्रत्यक्षप्रत्ययोदयः ॥

तेन वाक्यैकगम्योऽसावेवं सति न योगवित् ।

ततश्च वाक्य57वाक्यार्थसंबन्धग्रहणं कथम् ॥

पदार्थसंबन्धगतौ वाक्यार्थप्रतिपद् यदि ।

संबन्धोऽ58स्यास्त्यसत्योऽपि नदीतीरफलादिकः ॥

स तत्र नरयोगाच्चे59दत्र नास्तीति का प्रमा ।

पुरुषाभावतस्तत्र सोऽपि नास्तीति का प्रमा ॥

पुरुषाच्च विना तत्र संबन्ध इति साहसम् ।

ततोऽर्थलाभो यदि किमनर्थस्यापि नेष्यते ॥

यथा सम्बन्धिता नास्ति तथाऽसम्बन्धितापि न ।

किं च संकेतकरणे कोऽर्थो वाच्यार्थसंगतेः60

तत्किं तस्य सद्भावे वाच्यस्यार्थस्य संभवः ।

अर्थशून्यो न शब्दस्य प्रयोगः स्यात्तथासति ॥

न भवत्यर्थशून्यश्चेत् सर्वत्रार्थस्य संभवात् ।

पदार्थः सर्वदाऽस्त्येव सामान्यं वाच्यमिष्यते ॥

सामान्यं च पदस्यार्थस्तत्र न व्यभिचारिता ।

नैतदस्ति यदा नैवं वाच्यवाचकतेष्यते ॥

8
कथं कुतः 61क्व वेत्येवं संदेहस्यानिवृत्तितः ।

सामान्ये62 नैव संदेह इति चेत् क्व भवेदसौ ॥

विशेष इति चेत् कस्मात् तस्य तेन व्यपेक्षणात् ।

अर्थादेव स संदेहः पदात् स्वार्थे63 विनिश्चयः ॥

नन्वर्थकृतसंदेहं स्याद् वाक्यमप्रवर्त्तकम् ।

पदवत्सर्वसंदेहान्न स्याद्वाचकता क्वचित् ॥

देवदत्तादिवाक्ये हि तत्पदार्थकदम्बकम् ।

स्वकारणादिसापेक्षमिति संदेहविद्भवेत् ॥

अभिप्रेते न संदेह64 इतिवाक्यात् प्रवर्त्तनम् ।

अवाचकं पदं प्राप्तमभिप्रेताविनिश्चयात् ॥

सामान्यप्रतिपत्तिस्तु विप्लवो व्यक्त्त्यनन्वये ।

न च व्यक्तिविनाभूतसामान्यप्रतिपत् क्वचित्सामान्यप्रतिपत्कचित्

वर्णसंस्थानभासे च सामान्यस्य न भासनम् ।

तदेव च न सामान्यं व्यावृत्तत्वेन तद्ग्रहात् ॥

नह्यन्यवर्णसंस्थानग्रहणेऽन्यस्य वेदनम् ।

तस्माद्विशेषसंदेह65 एव सामान्यमीक्ष्यते ॥

तस्य संदेहकारित्वे वाच्यासंदिग्धता कुतः ।

अवाचकं ततो वाक्यं कुतस्तस्य प्रमाणता ॥

आत्मादिकपदार्थश्च व्ययायैव66 दृश्यते ।

अपौरुषेयआ पूर्वा67 दि नामास्ति तत्त्वतः ॥

विपरीतार्थसंबन्धो नेति केन प्रतीयते ।

नरादसत्यतेत्येवं सत्यतापि नराद् भवेत् ॥

स्वतन्त्र एव संबन्ध इति न क्वचिदीक्ष्यते ।

अग्निर्हिमस्येति वाक्ये दृश्यमानः कथं न सः ॥

दृश्यमानोऽपि नैवासौ सत्यतामधिगच्छति ।

न भवत्येष शब्दार्थो भरतारणिशब्दवत् ॥

पदार्थनिश्चये हि स्याद् वाक्यार्थस्य विनिश्चयः ।

9
पदार्थसत्यतायां वा यः प्रतीतः स एव किम् ।

वाक्यार्थः कल्पितो यस्मात् पुरुषैरेव दृश्यते ॥

उन्मत्त68वाक्यतो नास्ति संबन्धे सत्यता क्वचित् ।

पण्डितैः कल्प्यते काचित् स्वानुरूपप्रभावतः ॥

उन्मत्तत्वेन संबन्धं न स पश्यति शब्दयोः ।

वेदेऽपि नास्ति संबन्धवेदनाऽत्राप्यसत्यता69

उन्मत्तत्वाद् यदा नास्ति तत्र संबन्धदर्शनम् ।

अपौरुषेये सुतरां न संबन्धस्य वेदनम् ॥

स्वाभाविकश्चेत् संबन्धः किं70 न वेदे प्रकल्प्यते ।

संबन्धस्तत्र नास्तीति वेदेऽपिस्यात्कथं नु सः ॥

तस्मादुन्मत्तवचसि वेदे वाऽसौ न विद्यते ।

नरैः केवलमासाद्य मापाद्य इति सिद्धं समं71द्वयम् ॥

तस्मान्न शब्दादर्थस्य प्रतीतिः प्रतिबन्धतः ।

प्रतीपादिव नार्थस्य प्रत्यक्षेण प्रतीतता ॥

अप्रत्यक्षप्रतीतिस्तु कथमस्तीति गम्यते ।

किञ्च72 स्तु न संकेतं विना कस्यचिदीक्ष्यते ॥

तत्रार्थयोगः प्राग् दृष्टः पदार्थान्तरसंगतः ।

शब्दानां शब्दसंबन्धादस्मिन्नपि तथैव सः ॥

ततोऽनुमानमेवैतदबाह्येऽर्थे प्रवर्त्तते ।

विवक्षा रूढ एवार्थे शब्दप्रामाण्यमप्यतः ॥

वेदेऽपि तत्समानत्वादबाह्यार्थे प्रमाणता ।

अनादिरेष संबन्ध इति सा त्वपरंपरा ॥

ततः प्रतीत्यभावे च न संबन्धः प्रसिध्यति ।

अर्थप्रतीतेः प्रामाण्यं न बाह्येऽर्थे प्रसिध्यति ॥

घुणाक्षरत्ववद्वेदे तन्नार्थस्य प्रसिद्धता ।

अथापि घुणवर्णानां नेयत्ता विद्यते क्वचित् ॥

अतएव हि तत्रापि पौरुषेयत्वमिष्यताम् ।

यथा न घुणवर्णत्वं तथा नापौरुषेयता ॥

10
अपौरुषेयमप्येवं कथं नाम प्रपञ्चवत् ।

ततः कृतक एवायमिति वेदः प्रतीयताम् ॥

पुरुषातिशयासिद्धिर्न तत्रापि प्रमाणता ॥ छ ॥

विषयोऽन्यादृशस्तत्र य उक्तो लिङ्गशब्दयोः ।

तेनाप्रमाणता शब्दे सर्वथैव प्रसिध्यति ॥

विकल्पविषयत्वं हि शब्दस्येति प्रसाधितम् ।

धर्मी धर्मविशिष्टस्तु साध्य उक्तोऽनुमानतः ॥

शब्दस्यापक्षधर्मत्वे न बाह्येऽर्थेस्ति हेतुता ।

नहि धर्मिण्यसिद्धत्वे धूमादर्थः प्रसिध्यति ॥

धर्मिसंबन्धितायां हि प्रत्यक्षेऽपि प्रमाणता ।

न चा73धिष्ठानता नैव प्रत्यक्ष स्या प्रसाधनम्74

प्रत्यक्षेऽप्यनुमानत्वं कया 75वा कलयेष्यते ।

त्रैरूप्यरहितत्वे च न प्रत्यक्षस्य सिध्यति ॥

स्वरूप एव प्रत्यक्षमनुमानत्ववर्जितम् ।

अर्थवत्त्वेन शब्दस्य पक्षत्वपरिकल्पने ।

प्रतिज्ञार्थै76क देशत्वं न शब्दत्वे प्रस77ज्यते ॥

तथाहि शब्दः शब्दत्वात् पूर्वशब्दवदेव हि ।

समीपार्थेन संबद्धो78 धूमो धूमतया यथा ॥

गोशब्दत्वमसिद्धं चेत्79 लता-तालादि वाचिनाम् ।

विशेषार्था प्रसिद्धिः स्यात् तस्माद् युक्ता विशेषता ॥

सामान्येन हि वाक्यार्थसंबन्धः80 सिद्ध एव नः ।

विशेषेण तु नैवास्ति क्वचित् संबन्धसिद्धता ॥

वाक्यस्यैवानुमानत्वमेवं नास्तीत्यसंगतम् ।

संबन्ध81साधकः शब्दो वाक्यमित्यभिधीयते ॥

समुदायस्य धर्मित्वमेकदेशस्य हेतुता82

संबन्धस्य च साध्यत्वं कस्मान्नास्त्यनुमानता ॥

11
क्रियाकारकसंबन्धादृते संबन्धनं कथम् ।

राजा भर्त्ता मनुष्यस्य पदं वाक्यस्य पूरकम् ।

वृक्षस्तिष्ठति शाखासु पदं वाक्ये न किं तथा ॥

देशेऽग्निमति धूमस्य कर्त्तृत्वं भवते83र्यथा ।

तथा वाक्येऽपि किं नास्ति पदस्येति निरूप्यते84

नचानवगताकारः संबन्धो नापि85 लक्ष्यते ।

तेनास्ति सति संबन्धे षष्ठीतत्पुरुषोऽपि वा ॥

ततश्च पक्षधर्मोऽयं शब्दप्राप्तोऽन्यशब्दवत् ।

अन्वयो न च शब्दस्येत्यादि सिद्धप्रसाधनम् ॥

वाह्यार्थे नान्वयः क्वापि विनार्थं शब्द ई86क्ष्यते ।

भवे87न्नित्यविभुत्वाच्चेत् सर्वार्थेऽप्यन्वयस्तथा ॥

ततः सर्वार्थसिद्धत्वे सर्वशब्द-समागमे ।

वाच्यवाचकसंबन्ध उक्ते सा त्वपरंपरा88

व्यतिरेकोऽपि शब्दस्य नास्तीति प्रतिपादितम् ।

अन्यथा संविदानोऽपि विवक्षत्यन्यथा यतः ।

तस्मादेकान्ततो नास्ति पुं89वाक्यात् तद्धियां 90गतिः ॥

भ्रान्तस्यान्य91विवक्षायामन्यद्वाक्यं च दृश्यते ।

यथाविवक्षमित्येतत् तस्मान्नैव प्रवर्त्तते ॥

अभ्रान्तत्वे परिज्ञाते अभ्यासादे92र्विकल्पतः ।

समानसमयत्वे च विवक्षार्थः प्रतीयते ॥

लोकस्य व्यवहारोऽयमेवमेव व्यवस्थितः ।

अन्यथा सर्वमेव स्यात् प्रमाणं नेति साधितम् ॥

व्यवहारं विना नास्ति ब्रह्मलोकेऽपि जन्मभाक् ॥

इत्यर्थ93सङ्गि व्यवहारसिद्धं, शाब्दं, निजार्थेऽनुमिति प्रमाणम्

बाह्ये तु नैवास्य परं प्रमाणं यथाकथञ्चिज्जगतामिहास्था ॥

इति प्रमाणान्तर्भावे शाब्दःप्रमाणान्तर्भावे शाब्दः प्रमाणान्तर्भावः प्रथमः परिच्छेदः ॥

  1. Ms. ऽकलं कः ।

  2. Ms. तन्नत्वा ।

  3. Ms. न दीनः ।

  4. Ms. वहि ।

  5. Ms. प्रमाणाभावः ।

  6. Ms. अव्यभिचारः प्रसादतः ।

  7. Ms. संशयविपर्ययादबोदादप्रमाणता ।

  8. Ms. स्वरशृङ्गादेः ।

  9. Ms. उपलम्भं विना कृतम् ।

  10. Ms. प्रत्यक्षाभकारं तदन्यत् ।

  11. Ms. व्यतिरिक्तावनास्ति धीः ।

  12. Ms. असंबन्धा ।

  13. Ms. प्रमाणन्तदपि ।

  14. Ms. ततो युक्तं ।

  15. Ms. रत्यति साहसा ।

  16. Ms. किंचित्संभावनायां ।

  17. Ms. मति ।

  18. Ms. नात्राप्रमाणता ।

  19. Ms. भागिनी ।

  20. Ms. ततस्मागम एवेष्टव्यः ।

  21. Ms. स्तत्संबन्धस्य ।

  22. Ms. तस्मादावगतः ।

  23. Ms. प्रमाणान्तरमानुमानाच्छाब्दमित्यन्यथा भण्यते--।

  24. Ms. सर्वा ।

  25. Ms. वात्थ ।

  26. Ms. धर्मिविशिष्टे ।

  27. Ms. कृतो ।

  28. Ms. अत्र धर्मो इति च संदिग्धलेखो दृश्यते ।

  29. Ms. साध्यते ।

  30. Ms. वाक्यन्नाम ।

  31. Ms. भावो तत्र ।

  32. Ms. राज्य ।

  33. Ms. राहुः ।

  34. Ms. तस्मात्र ।

  35. Ms. अन्वयोऽनृच ।

  36. Ms. मन्वेतृत्व ।

  37. Ms. न्नित्यवितुत्वा" ।

  38. Ms. दष्टत्वात् ।

  39. Ms. प्रतीपत्तिः ।

  40. Ms. नैव्यर्थ ।

  41. Ms. संकेतावंदेव ।

  42. Ms. व्यञ्जकशवे ।

  43. Ms. क्वचि ।

  44. Ms. न्न ।

  45. Ms. प्रतीतिर्हि ।

  46. Ms. इत्सयासनयात्सर्वो ।

  47. Ms. सान्व ।

  48. Ms. वेदस्य हि न नरः ।

  49. Ms. विपर्यसोस्त्वसौ ।

  50. Ms. पदार्थो सत्य ।

  51. Ms. किंन्नास्ति ।

  52. Ms. तादृश्यार्थ ।

  53. Ms. पौरुषेया तु ।

  54. Ms. विकल्पार्थं° ।

  55. Ms. किथग ।

  56. Ms. समागमो ।

  57. Ms. वाक्यावाक्यार्थ° ।

  58. Ms. संबन्धोऽस्त्यसत्योऽपि । छन्दोभङ्गभयादत्र सम्बन्धोऽस्ति ह्यसत्योऽपि इति वा पाठः कल्पनीयः ।

  59. Ms. नरयागश्चत् अत्र ।

  60. Ms. संगतिः ।

  61. Ms. कुवेत्येवं ।

  62. Ms. न सामान्येनैव ।

  63. Ms. स्वार्थो विनिश्चयः ।

  64. Ms. संदेहे ।

  65. Ms. संदेहे ।

  66. Ms. व्यवायैव ।

  67. Ms. पूर्वी ।

  68. Ms. उन्मत्ते ।

  69. Ms. संबन्धो वेदाद त्राप्यसत्त्वता ।

  70. Ms. किन्ना ।

  71. Ms. समद्वयम् ।

  72. Ms. किञ्चस्तु । कल्पिस्तु इति वा पाठः । कल्पितस्तु इत्यपि संभाव्यते ।

  73. Ms. निचा । नैवाधिष्ठानता इति संभाव्यते ।

  74. Ms. प्रस्नाधनम् ।

  75. Ms. विकलयिष्यते ।

  76. Ms. प्रतिज्ञार्थेक° ।

  77. Ms. प्रसिज्यते ।

  78. Ms. संबन्धो ।

  79. Ms. गोशब्दमप्रसिद्धत्वं चेत् ।

  80. Ms. संबधुः ।

  81. Ms. संबन्धः ।

  82. Ms. हेतुना ।

  83. Ms. भवते यथा । भवतं यथा ।

  84. Ms. निरूप्यतं ।

  85. Ms. संबन्धोन्नापि ।

  86. Ms. इक्ष्यते ।

  87. Ms. भवोन्नित्य° ।

  88. Ms. वात्वपरम्पग ।

  89. Ms. पुम्वाक्यात् ।

  90. Ms. धियाङ्गतिः ।

  91. Ms. भ्रान्तस्यात्य° ।

  92. Ms. अभ्यासादे विकल्पतः ।

  93. Ms. इत्यथसि ।