1

प्रथमः परिच्छेदः


यस्य प्रज्ञाप्रकाशः कवलयति जगच्चक्रमेवाकलङ्कः

सत्त्वार्थं वा विधातुं यदपर उदयी नासमर्थोऽ1कलङ्कः ।

तं2 नत्वा स्वार्थसम्पत्सुहितमनुपमो मञ्जुवाग्यो न दीनः

प्रत्यक्षं वानुमावेत्यत उदितमिदं येन तुल्यो न3दीनः ॥

प्रत्यक्षं चानुमानं च प्रमाणमिदमेव हि ।

प्रमाणसंप्लवायोगात् प्रमेयद्वयसंगतेः ॥

शब्दादिकं प्रमाणं हि भ्रान्तिमात्रात्तदन्यथा ।

प्रमाणलक्षणायोगात् प्रमाणाभं बहिः4स्थितेः ॥

न भ्रान्तिमात्रप्रवारितप्रामाण्यः प्रमाणं प्रमाणाभासः5 । अथ कथंचित् प्रामाण्य
मुपपद्यते, तथा सत्यनुमानलक्षणसंभवान्न प्रमाणान्तरं, साक्षात्करणवृत्तं हि प्रमाणं,--
तदसंभवे तस्यैव सूचकं, तत्राव्यभिचार6प्रसादतः यदेव स्वार्थेऽस्तित्वमवबोधयति
तत्प्रमाणमन्यथा संशयविपर्ययादेर्बोधादप्रमाणता7 । यच्च साक्षादुपलभ्यते तदे
वास्ति, उपलम्भ एव सत्तेति प्रतिपादनात् । न तत्र संदेहविपर्ययावनुपलभ्यमान
एव तयोर्नियतत्वात् । तस्मादुपलभ्यमस्ति ।


यत्र चोपलभ्यमानतायाः साक्षात्करणलक्षणायाः प्रतिबन्धतो निश्चयस्तद
परमस्तीति नियमस्तेन द्वयमेव प्रमाणम् । तत्रार्थापत्त्यादीनां तथात्वाभावादप्रमाण
तेति संक्षेपार्थः । अथ सत्तायोगादेवंप्रकाराभावेऽपि तदस्तीति व्यपदिश्यते तदसत्--


उपलभ्यता न यस्यास्ति सत्तायोगगतिः कथम् ।

उपलभ्यभावो यस्यास्ति सत्तायोगो वृथा परः ॥

अन्यथा खरशृङ्गादेः8 सत्तायोगो न किं मतः ।

अवस्तुत्वान्मोपगच्छेद् वस्तुत्वे तेन किं पुनः ॥

  1. Ms. ऽकलं कः ।

  2. Ms. तन्नत्वा ।

  3. Ms. न दीनः ।

  4. Ms. वहि ।

  5. Ms. प्रमाणाभावः ।

  6. Ms. अव्यभिचारः प्रसादतः ।

  7. Ms. संशयविपर्ययादबोदादप्रमाणता ।

  8. Ms. स्वरशृङ्गादेः ।