4
न च तस्यानुमानेऽस्ति हेतुभावः प्रमागतः ।

अनुमानं हि तादात्म्यतदुत्पत्तिसमन्वयात् ॥

धर्मे धर्म26विशिष्टे हि तत्प्रवृत्तिमदीक्ष्यते ।

तस्माननुमानत्वं शब्दे प्रत्यक्षवद्भवेत् ॥

त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ।

तत्र शब्दे कुतो27 यत्नोऽनुमानत्वप्रसिद्धये ॥

विषयोऽन्यादृशस्तावद्दृश्यते शब्दलिङ्गयोः ।

सामान्यविषयत्वं हि पदस्य स्थापयिष्यते ॥

धर्मी28 धर्मविशिष्टश्च लिङ्गीत्येतच्च साधितम् ।

अर्थे धर्मिणि शब्दे च तत्र सिद्धेन साध्यता29

नहि सिद्धस्य साध्यत्वं धर्मिणः क्वचिदिष्यते ।

अथ साध्यत्वमर्थस्य न ध्वनेः पक्षधर्मता ॥

अथ शब्दोऽर्थवत्त्वेन पक्षः कस्मान्न कल्प्यते ।

प्रतिज्ञार्थैकदेशो हि हेतुस्तत्र प्रसज्यते ॥

पक्षे धर्मिविशेषे हि सामान्यं हेतुरिष्यते ।

शब्दत्वं गमकं नात्र गोशब्दत्वेन-लिङ्गता ॥

नहि तेनास्ति संबन्धसिद्धिः सिद्धौ वृथानुमा ।

अथकालान्तरत्वेन युक्तः सोऽर्थः प्रसाध्यते ॥

कालान्तरस्थितिर्नैव श्रीहर्षादेः प्रसिध्यति ।

अथ वाक्यार्थ-साध्यत्वं न वाक्यार्थेन योगवित् ॥

पूर्वं तस्यानुमानत्वं कथमेवं प्रसिध्यति ।

तत्र पूर्वार्थसिद्धिर्हि वाक्यादेवोपजायते ॥

न वाक्यस्यानुमानत्वमेवं सिध्यति तत्त्वतः ।

न पदव्यतिरेकेण वाक्यं30 नाम निरूप्यते ॥

पदार्थेष्वनुमाभाव31स्तत्र वाक्यार्थता कुतः ।

तथाच पक्षधर्मत्वं शब्दस्येह निरूप्यते ॥

न क्रियाकर्त्तृसंबन्धादृते संबन्धनं क्वचित् ।

राजा32 भर्त्ता मनुष्यस्य तेन राज्ञः स उच्यतेतेन राजा33 स उच्यते

  1. Ms. धर्मिविशिष्टे ।

  2. Ms. कृतो ।

  3. Ms. अत्र धर्मो इति च संदिग्धलेखो दृश्यते ।

  4. Ms. साध्यते ।

  5. Ms. वाक्यन्नाम ।

  6. Ms. भावो तत्र ।

  7. Ms. राज्य ।

  8. Ms. राहुः ।