2
न च दृश्यस्य वस्तुत्वमुपलम्भ9विनाकृतम् ।

उपलम्भे तदेवास्य वस्तुत्वमपरेण किम् ॥

तस्मात्सत्त्वोपलभ्यत्वं प्रत्यक्षाभं10 तदन्यतःथा

प्रत्यक्षपूर्वादेवानुमानात्तत्तत्प्रमाद्वयम् ।

अन्यथा प्रतिपत्तिस्तु न तस्याव्यभिचारिणी ॥

प्रत्यक्षस्मरणाकारव्यतिरिक्ता च11 नास्ति धीः ।

असंबद्धा12 स्मृतिः सर्वा प्रमाणं चेत् प्रमाऽखिला ॥

संबद्धा चेत् तदा दृष्टा तत्र देशे च साऽनुमा ।

सामान्याकारता शब्दादपि सा यदि गम्यते ॥

प्रमाणं13 तदपि प्राप्तमनुमानवदेव हि ।

तथोपमानार्थापत्त्यादि ततोऽ14युक्तं प्रमाद्वयम् ॥

शब्दादेरपि यद्वित्तिः परोक्षार्थस्य विद्यते ।

ततोऽनुमानादेवास्य वित्तिरि15त्यतिसाहसा ॥

तथाहि कुरु किञ्चित् त्वं भावनायांकिञ्चि भावत्त्वं16नायां मतिं17 सदा ।

नवानेन विनार्थेन व्यवहारः प्रसिध्यति ॥

न च वैदिकवाक्यार्थं विना स्वर्गादिसाधनम्

नास्या18प्रमाणता तेन स्वर्गादिफलभागिनः19

अथानुमानतः साध्यः परलोको भवत्यसौ ।

नात्र हेतुः क्वचित्सृष्टः संबन्धग्रहणम् न हि ॥

सिद्धेऽपि वा परे लोके कर्मणां नियमः कुतः ।

तस्मादागम20 एवेष्टः स चेदस्त्वनुमा वृथा ॥

परलोकोऽकृतोऽसिद्धस्तत्संबन्ध21श्च दृक्कृतः ।

तस्मादागमतः22 सर्वं परलोकस्य वेदनम् ॥

उपमानादि सर्वै च नानुमालक्षणान्वितम् ।

ततः प्रमान्तरास्तित्वे कथं द्वे एव ते इति ॥

  1. Ms. उपलम्भं विना कृतम् ।

  2. Ms. प्रत्यक्षाभकारं तदन्यत् ।

  3. Ms. व्यतिरिक्तावनास्ति धीः ।

  4. Ms. असंबन्धा ।

  5. Ms. प्रमाणन्तदपि ।

  6. Ms. ततो युक्तं ।

  7. Ms. रत्यति साहसा ।

  8. Ms. किंचित्संभावनायां ।

  9. Ms. मति ।

  10. Ms. नात्राप्रमाणता ।

  11. Ms. भागिनी ।

  12. Ms. ततस्मागम एवेष्टव्यः ।

  13. Ms. स्तत्संबन्धस्य ।

  14. Ms. तस्मादावगतः ।