3
प्रमाणान्तरमनुमानाच्छब्द इत्यन्यथा भण्यते23--।
कृतकत्वादिवत्स्वार्थमन्याऽपोहेन भाषते ।
उत्क्रमे तत्र संबन्धः परलोके न सिध्यति ॥
प्रामाण्यं च विवक्षायामिति पश्चाद्वदिष्यते ।
लौकिको व्यवहारस्तु वाक्यार्थविषयः सदा ॥
तस्मादपोहविषयः कथं नाम ध्वनिर्मतः ।
अथापि पदतद्वाच्यसंबन्धस्य प्रसिद्धता ॥
ततोऽनुमानं संबन्धग्रहणे सति किं न तत् ।
तदयुक्तं पदस्यापि न प्रमाणत्वमिष्यते ॥
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ।
अन्वितार्थाभिधानं च सर्वदा कैश्चिदिष्यते ॥
विपरीतार्थवाच्यत्वे पश्चात् संबन्धिता कुतः ।
उपात्तस्य कुतस्त्यागस्त्यागश्चेत्तद्वृथा पदम् ॥
अनन्वितार्थाभिधायां दशदाडिमवाक्यवत् ।
न नाम व्यवहारः स्यादसंबन्धाददृष्टितः ॥
अथापि पश्चात्संबन्धोऽनन्वितार्थेऽपि विद्यते ।
वाक्यार्थ एव तत्रापि वाक्यस्यास्तु प्रमाणता ॥
संबन्धाग्रहणं तत्र पूर्वमेवोपपादितम् ।
तस्मान्न वाक्यवाक्यार्थेऽनुमानं भवितुं क्षमम् ॥
अथ प्रकरणापेक्षाप्रतिपत्तिरिहान्यथा ।
पदाप्रकरणं नास्ति समप्रकरणे कथम् ॥
एवं शब्दान्तरासङ्गे दोषो वाच्यं प्रमाविदा ।
समानशब्दान्तरतः कथं नियतवेदनम् ॥
न च शब्दार्थसंबन्धस्तदुत्पत्त्यादिलक्षणः ।
वाच्यवाचकसंबन्धस्तत्र केवलमिष्यते ॥