23
गृहाभावविशिष्टो हि तदासौ वचसो गतः ।

पूर्वं नैवागृहीतस्य धर्मिणो201ऽत्र प्रतीतता202

तथा हि बाह्यदेशो वा चैत्रो वागम्यते पुरा ।

जीवतो हि गृहाभावः पक्षधर्मोऽत्र कल्पितः ॥

तत्संवित्तिर्बहिर्भावं वाचो203 बुद्ध्वा हि जायते ।

अग्निमात्रां विना यद्वत् धूमवत्ता204 प्रतीयते ॥

न तद्ग्रहणवेलायामग्न्यधीनं205 हि किंचन ॥

गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।

स मृतेष्वपि दृष्टत्वाद् बहिर्वृत्तेर्न206 साधकः ॥

विद्यमानत्वसंसृष्टगेहाभावधियाऽत्र तु ।

गेहादुत्कालितश्चैत्रो207 विद्यते बहिरेव हि ॥

जीवतस्तु गृहाभावः प्रसिद्धो यदि नेष्यते ।

अर्थापत्तिरपि प्राप्ता न प्रमाणं तथा सति ॥

स्थिते सद्भावविज्ञाने गेहाभावधियात्र तु ।

गेहादुत्कालिता सत्ता बहिरेवेत्यसद्वचः ॥

स्थिते सद्भावविज्ञाने नार्थापत्तेः प्रमाणता ।

जीवतो हि गृहाभावो यावत् सिध्येन्न208 तत्त्वतः ॥

न तावता बहिर्भावः शक्यः कल्पयितुं परैः ।

येनात्र निरपेक्षस्य व्यभिचारो मृतादिना ॥

ननु यो व्यभिचारित्वं निरूप्येच्छति साधनम् ।

तस्यायं व्यभिचारोऽस्तु नानुमामनिच्छतः ॥

यस्य त्वव्यभिचारित्वं साध्यादन्यन्न वाञ्छितम् ॥

जीवतो हि गृहाभावो यस्य सिद्धो न वादिनः ।

तस्य प्रत्य क्षतो गेहे चैत्रार्भावेऽप्यभावतः ॥

ज्ञाने यत् सत्त्वविज्ञानं तदेव न हि स्थितम् ।

सत्त्वविज्ञानमेवात्र स्वस्तिमात्रान्न209 सिध्यति ॥

  1. Ms. धर्मणो ।

  2. Ms. प्रतीयता ।

  3. Ms. वा वाचो ।

  4. Ms. प्रमवत्ता ।

  5. Ms. वेलायामत्याधीन ।

  6. Ms. दृष्टत्वात् बहिर्वृत्तेन साधकः ।

  7. Ms. गेहादुत्कलिततश्चैत्रो ।

  8. Ms. सिद्धेन ।

  9. Ms. मात्रान ।