24
गेहाभावाद210सद्भावो नाभावाद्भावसाधनम् ।

अभावं साधयन्नेव स भावं साधयेत् कथम् ॥

प्रत्यक्षं साधयेद्भावं यथा भावं न साधयेत् ।

प्रत्यक्षमनुमानं च न भावे साधनं यथा ॥

विपर्ययस्य नैवात्र साधनत्वं विपर्यये ।

अभावेऽननुमानेन तत्सत्तैव समाश्रिता211

अभावो भाव एवेति बहिर्भावो भवेद् यदि ।

अर्थापत्तेर्न सर्वत्रेत्येव212मन्योन्यसंश्रयः ॥

यावन्नाभावसंकोचस्तावदेषा न वर्त्तते

यावदेषानवर्त्तेताऽभावसंकोचिका कुतः ॥ ?

एतयैव भवेत्स चेत् संदेहोऽपि भवेत्क्वचित् ।

तस्माज्जीवित्व213संसिद्धेरर्थापत्ति प्रसिध्यति ।

अर्थापत्तिप्रसिद्धौ214 वा जीविता215ऽन्योन्यसंश्रयः ॥

पक्षधर्मात्मलाभाय बहिर्भाव प्रवेशितः ।

तद्विशिष्टोऽनुमेयः स्यात् पक्षधर्मान्वयोदितः ॥

पक्षधर्मादिविज्ञानं बहिःसंबोधतो यदि ।

तैश्च तद्बोधनेत्येवमन्योन्याश्रयता भवेत् ॥

अन्यथानुपपत्तौ तु प्रमेयानुप्रवेशिता ।

ताद्रूप्येणैव विज्ञानान्न दोष प्रतिभाति नः ॥

उक्तमत्र यथात्रापि सोऽन्योन्याश्रयसंभवः ।

प्रमेयानुप्रवेशस्तु216 न सिद्धः साधकः कथम् ॥

ताद्रूप्येणैव विज्ञानं किं तद्वचनमात्रकात् ॥

निर्विवेकस्याकल्पापि यदि नाम न217 भासते218

दोषः किं तावता नास्ति तथाचेन्नाजितं जडैः ॥

मद्यमाननं219यस्य दौर्गन्ध्यं प्रतिभासते ।

यदि किं तावता तत्र दौर्गन्ध्यस्य न संभवः ॥

  1. Ms. भावामसद्भावो ।

  2. Ms. सिसाश्रिता ।

  3. Ms. सर्वत्रेत्येन ।

  4. Ms. ज्जीवत्व ।

  5. Ms. प्रसिद्धे ।

  6. Ms. जीवंते ।

  7. Ms. प्रमेयार्थानु प्रवेशस्तु ।

  8. Ms. 8 म ।

  9. Ms. भाषते ।

  10. Ms. मधमानं नमन्य