470

स्वदृष्टवचनं । यद्येवं स्वेनैव दृष्टमिति परदृष्टव्यच्छेदादनर्थान्तरमापतितं । न(।) उभयदृष्ट
प्रतिपादनार्थत्वात् । यथावस्थितलक्षणमेतत् । तेन च विप्रतिपत्तिरपि निराकृता ।
अत1117 दर्थमेवेति स्यात् न(।) यदर्थश्चायमारम्भः स च शब्दसमुच्िचत इति युक्तं । न हि
स्वयमप्रतीतं परस्य प्रतीतमिति शक्यं वक्तुं ।

२. अनुमाने नागमप्रामाण्यम्

ननु परस्य प्रतीतं तदस्तु । परेण तु प्रतिपन्नमिति परिज्ञानं नोपयोगि । स्वप्रतीति
मात्रकेण परस्य परिसमाप्तार्थत्वात् । कथन्तर्हि स्वयमज्ञातस्योपन्यासः । परप्रसिद्ध्या चेत् ।
परस्य प्रसिद्धमिति तदेतर्ह्यायातं । ततः स्वयमप्रतीतेः कथमेतत् । नहि परस्य प्रतीति
मर्व्वाग्दर्शी प्रत्यक्षयति । अनुमानमपि स्वप्रतीतिमपेक्षते । तेन परप्रतीतमिति निश्चितं
स्वप्रतीतमपि । अथागमात्परेण प्रतिपन्नं स्वयमपि तत् प्रतिपन्नमेव । किन्तु तस्यागमस्य
वादिनाऽनभ्युपगमान्न स्वप्रतिपन्नमिति व्यपदेशः । तेनागमात् (यत्) परेण प्रतिपन्नं न स्वयन्तदपि
साधनमेव । अत्रोच्यते ।

अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्त्तते ।। २ ।।

स आगमः प्रमाणमप्रमाणम्वा । प्रमाणञ्चेदुभयसिद्धत्वं । अन्यप्रमाणदृष्टवत् ।
अप्रमाणत्वे न कस्य चिदपि । अभ्युपगमात्परस्यैव सिद्धमिति चित् । न(।) अनुमानविषयेऽ
भ्युपगमेनागमः प्रमाणम् । परीक्षितस्याभ्युपगमात् । प्रत्यक्षानुमानाविषये च प्रमाणं न
तद्विषये । सर्वत्र प्रामाण्ये किमनुमानेन वचनमात्रेणार्थसिद्धेः । तथा हि । अचेतना(ः)
सुखादय उत्पत्तेरनित्यत्वाद्वा रूपादिवदिति सांख्यस्य परप्रसिद्धमभिमतं । न स्वयं सांख्यस्य
उत्पत्तिमत्त्वमनित्त्यत्वम्वा प्रसिद्धं । तत्र च यदि वचनप्रामाण्यात्प्रसिद्धिः सांख्यवचनमपि
प्रमाणमेवेति तत एवाचेतनत्वं बुद्धिसुखादीनां प्रसिद्धं किमनुमानेन । अथानित्त्यत्वादिसाधनं
बौद्धं वचस्तदा तेन बुद्ध्यादेः सचेतनत्वं सिद्धमिति नानुमानेन विपर्ययप्रसिद्धिरिति
व्यर्थकमेवानुमानं ।

अथानुमानस्यापि प्रामाण्यात्तद्विपर्ययस्य सिद्धिस्तथा सति न प्रमाणमित्याह ।

बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोऽप्रमाणन्तदा(ऽ)सिद्धं तत्सिद्धमखिलन्ततः ।। ३ ।।

यदैवानुमानेन विपर्ययसाधनारम्भस्तदा तद्वचनमप्रमाणमेव । परीक्षाक्षमत्वात् ।
अभ्युपगमस्य (अपि) शिथिलीभावात् । अभ्युगमकृतप्रमाणभावे हि स आगमस्तस्य शैथिल्ये
तस्य प्रामाण्यमपि तथा भवेत् । ततस्तत्प्रसिद्धहेतुशैथिल्यात्साध्यसिद्धेरपि शैथिल्यं । न खलु
तदधीनसर्व्वात्मकं तन्नानुवर्त्ततेऽतदधीनत्वप्रसङ्गात् । हेतुसिद्धौ प्रमाणं न चेतनत्वस्येति
चेत् । न (।) क्वचिद् व्यभिचारदर्शनेन सर्व्वत्रानाश्वासप्रसङ्गात् ।

  1. १ B अथ त॰ ।