82b2 सामान्यविशेषरूपादपरस्य
प्रतिपत्तिप्रकारस्याभावात् । विषयस्य चैकस्यैव द्वैविध्यं प्रतिपत्तिप्रकारस्य द्वैविध्यात् ।
प्रतिपत्तिभेदश्च प्रमाणभेदः । स एव च विषयभेदः(।) ननु प्रतिपत्तिभेदो विषयभेदः कथं ।
न ह्यन्यस्मिन् भिन्नेऽन्यस्य भेदः । सत्त्यमेतत् ।

तुरगस्य न भेदेस्ति गवादेरुपभिन्नता598 ।
सङ्गत्यभावान्न ज्ञानज्ञेययोरेवमिष्यते 
।। २ ।।
ज्ञानायत्ता पदार्थानां सदासंप्रत्ययस्थितिः ।
ज्ञानान्तरात्स एवार्थोऽर्थान्तरत्वेऽनुमीयते599 ।। ३ ।।

यदा साक्षाज्ज्ञानजननं प्रति शक्तत्वेन प्रतीयते । तदासौ स्वेनरूपेण लक्ष्यमाणत्वात्
स्वलक्षणं यदातु पारम्पर्येंण शक्तत्वात् तस्यैव प्रतीयते । तदा सामान्यरू
पेण लक्षणमिति
सामान्यलक्षणं ।

पारम्पर्येण शक्तिरेवाशक्तिः पर्युदासवृत्त्या न शक्त्यभाव एव । केशादेस्तु तैमिरिको
पलब्धस्य शाब्दाभ्युपलब्धस्य च नार्थतत्त्वं साक्षात् पारम्यर्येण वा शक्तत्वेनाप्रतीतेः ।
अर्थाधिमोक्षाभावात् अधिमोक्षाभाव
त्वबाधकप्रमाणप्रवर्त्तितः । इतश्च प्रमेयद्वैविध्यं ।

  1. ५ T. रूपभिन्नता

  2. ६ T. ज्ञायते