(६) हेतुसामग्रीवादः
ननु हेतुतैव ग्राह्यतेति न युक्तमेतत् अनेकशक्तित्वाद् भावानां । ततोन्या ग्राह्यश
क्तिर्यापगता विषयान्तरसंचारकालेऽअन्या च जननमात्रशक्तिर्यत्प्रभावादुत्तरज्ञानोदयोर्थविषयः ।
अनेकशक्तिता च भावानामनेककार्यजननादेवावधार्यते । अन्यथा नानेककार्यप्रसवः (।) तदपि
यत् किञ्चिद्यतः ।
प्रकृतिरेषा भावानां कारणपराधीनजन्मनां पर्यनुयोगमर्हति (।) कथमेतदिति ।
स्वकारणादुदयमासादयतां प्रतिनियमेन कस्तस्य निषेद्धा । अन्यथा सापि शक्तिरीदृशी
कुतः(।) इति न पर्यनुयोगान्मुक्तिः । स्वकारणाच्चेत् तत्किमिदानीमनया प्रकृत्यैव परिस
माप्तिरस्तु किमर्थान्तरकल्पनया । ननु स्वकारणाधीना शक्तिरियमिति लोकस्य प्रतीतिः ।
अस्तीयं प्रतीतिर्न्न व्यतिरिवतशक्तिप्रतीतिः । स्वभावभूतधर्मभेदारोपमात्रेण प्रतीतेः । कथमे
तदिति चेत् । शक्तावप्यपरशक्तिप्रत्ययदर्शनात् । तथा हि ।
शक्तियोगात्पदार्थश्चेत् कारणं कार्यजन्मनि ।
तस्मात्कल्पनामात्रमेव शक्तिरन्यापोहेन व्यवस्थाप्यमानत्वात् ।
ननु शक्तिमन्तरेण नानाभूता भावा एकतः कथम्भवन्ति । शक्तिभेदे सति भवन्तीति
युक्तं । अत्राह ।
सामग्रीसम्भवे हि प्रायशः कार्याणां सम्भवः किञ्चिदेकमेकस्मादुत्पत्तिमत् ।
तथानेकमनेकस्मादनेकञ्चैकस्मात् । यादृश्येव यस्य सामग्री तत एव तदेकमनेकम्वा
भवेत् । एष प्रायशः प्रपञ्चः । तथाहि । स्वकारणादेवम्भूतमनेकमेकम्वा भवति ।
येनैकमनेकम्वा कार्य जनयति । न शक्तिभेदः क्वचिदुपयुज्यते । शक्तयोपि तत उपकार
भागिन्यः तस्य ता इति व्यपदेशवत्यः । न ह्यन्यथा शक्तयः । पदार्थान्तरभूता हि तदाभाः
स्युः । पदार्थान्तरत्वे च तथा दर्शनप्रसङ्गः । अथवा न किञ्चिदस्ति यदेकमेकस्मात्साग्र्या
एवानेककार्योदयः । कथन्तर्ह्यनेकमेकस्मादित्युच्यते । सामग्रीद्वयान्तर्भ्तमेकमेकं कार्य
जनयतीति तथा व्यपदेशः । यदा प्रदीप एक एवानेकस्य दर्शनस्य जनकः । अनेकपुरुषानेक
समनन्तरसामग्रीसङ्गतत्वात् । यथा चैकस्यानेकशक्तियोगस्तथानेककार्ययोगोपि तस्मादने
ककार्यत्वमनेकशक्तिताम्विनापि । एवन्तर्हि यथैकमनेककार्य तथैकापि बुद्धिः स्वविषयां च
बुद्धिं परार्थ विषयाञ्च जनयिष्यति (।) तत्र कदाचिद्बुद्धिविषया बुद्धिः कदाचिदर्थविषयेति
विषयान्तरसंचारः । न विशेषाभावादुभयं सर्व्वदा जनयेत् । जन (य) त्येवेति चेत् ।
तन्न यतः । तदा ।
यदि वा द्व्यं पूर्व्वबुद्धिग्राहि रूपाद्यर्थग्राहि चोत्पत्तिमत्तदा पूर्व्वबुद्ध्यर्थस्य परस्य
चार्थस्य प्रतिभासनादभिलापद्व्यं यत् क्रमवदुपलभ्यते तदक्रमं प्रतिभासेत् । नहि बुद्धिरर्थग्रहण
रूपतां विना प्रतिभासते । तद्रूपत्वात्तस्याः । अर्थग्रहणप्रतिभासे चार्थ एव प्रतिभासित
इति पूर्व्वापराभिलापद्व्यं प्रतिभासेत । तथैकमेव द्विद्विरवभासेत । अर्थस्यात्मनस्तद्व्ु
द्धेश्च प्रतिभासनात् । पूर्व्वन्तावत्स्वयं प्रतिभाति पश्चात्तद्व्ुद्धिप्रतिभासने ततो द्विप्रतिभासनं ।
अथार्थप्रतिभासानन्तरं बुद्धिर्न्न गृह्यते । न बुद्धिः प्रत्यक्षेण स्वेन परेण वा गृह्यते । अर्था
पत्त्यापि तर्हि यदि प्रतिभासते । तदापि भासनमात्मतद्विदोरिति स एव प्रसङ्गः । अथ
कालान्तरेर्थापत्तिर्न्न हि तत्सन्ततानेकार्थग्रहणक्रमकाले कश्चिदर्थापत्तिमनुभवति ।
नैतदस्ति ।
सामर्थ्यात्प्रतिपत्तिश्चेत्सर्व्वदा स्यान्न वान्यदा ।
अथ यदा स्वबुद्धीः संकलयति तदा कालान्तरेऽर्थापत्त्युदयः ।
अतीतमर्थदर्शनं कथं ततोऽर्थापत्तिसम्भवः । कालान्तरेपि स्मर्यमाणादर्थापत्तिरिति
चेत् । स्मरणस्यैवार्थापत्त्यावगमो नानुभवस्य । तत्रापि स्यादभिलापद्व्यम् त्रिरवभासनञ्च ।
अथाननुभूतं न स्मर्यते ततोनुभवगतिरिति चेत् । तन्न ।
यदा स्मरामि पूर्व्वसम्वेदनस्येति स्मरणमेव प्रथमम्बुद्धौ प्रवर्त्तते । तदा न पूर्व्वमर्था
पत्तिर्न्नापि पश्चादिति कुतः स्मरणसम्भवः । यदाप्यर्थस्य स्मरणं तदापि स्मरणस्यानुभवस्य
चानुमानमिति स्मरणानुभवार्थाकारयोर्युगपत्प्रतिभासप्रसङ्ग । तथा च स्मरणकालेपि स्पष्टा
र्थाकारवेदनप्रसङ्गः । अथास्पष्टाकारद्व्यवेदनं तदपि न दृष्टमेवेत्यपरिहारः । अथ यस्य
यदेष्यते तदा तस्यार्थापत्तिर्यतः स्मरामि ततोनुभूतं यतः स्मरणं ततोनुभव इति वा । एवन्तहि
यतोनुभवस्ततोनुभव इति स्यात् वाचो युक्तिः । तथा यतः स्मरणन्ततः स्मरणमिति महत्प्र
माणकौशलं । इच्छा वानुभूते जायते । न चानुभवः कदाचिदनुभूत इति कथमिच्छयार्था
पत्तिरुदियात् । तस्मादसदेव बुद्ध्यन्तरेण बुद्धिवेदनम् ।
अथ (।)
विषयान्तरसञ्चरणकाले हि यद्यन्त्यं विषयान्तरसंचारकालात्पूर्व्वविज्ञानं विज्ञान
प्रबन्धस्य । तदा सर्वाननुभूतिः परानुभूतवद् भवेत् । अननुभूतानुभवस्यानुभूतत्वाभावात्प-
रानुभूतवत् । ततोऽन्त्याननुभवात्तत्पूर्व्वकाननुभू तिर्यावदादिभतस्यापि यथा परानुभवेपि तदनु
भवस्यान्येना(न) नुभूतत्वादन्येनाननुभवः तथा स्वयमनुभूतेपि तत्तु पुनरर्थस्य स्वरूपं परापेक्षयापि
तथेति कथमनुभवः ।
ननु परानुभवे स्वयमननुभवात्परस्यानुभवो यथा व्यवस्थाप्यते तथा परेणाननुभवे
स्वस्यानुभव इति व्यवस्थाप्यतां ।
तदसत् । व्यवस्थाप्यतां यदि प्रमाणमस्ति । यथा तु परेणानुभूतं नात्मप्रत्यक्षं न च
परस्येति व्यवस्थापयितुं शक्यम् । तथात्मप्रत्यक्षाभिमतमपि नात्मनः परस्येति वा व्यवस्था
पनामर्हति ।
नन्वर्थः स्वरूपेण प्रतीयते तत्कथमप्रत्यक्षता । नह्यन्यस्मिन्नप्रतीयमानेऽन्यदप्रतीतं नाम ।
सत्त्यं प्रतीयते । स्वयमेव प्रतीयतां । आत्मना प्रतीयते सोपि स्वयमेव प्रतीयतां ।
ततः स्वसम्वेदनमेव । अथात्मा कर्तृतया प्रतीयते (।) न (।) शरीरव्यतिरेकेणात्माभावात् ।
शरीरस्य कर्तृता चेत् । न । शरीरस्यापि कर्मत्वात् । यस्मादसत्स्वसम्वेदनं शरीरादीनां ।
स्वसम्वेदनत्वे वाऽविवाद एव । बुद्धेरसम्वेदनमिति चेत् । आत्मनः स्वसम्वेदने तेनार्थानुभवे
तावता पर्याप्तमिति व्यर्थिका बुद्धिः । तत एवाह ।
आत्मनोनुभूतिरस्तीति कुतः । अन्येनानुभूतौ परात्मासौ न भवतीति कुतः । स्वस
म्वेदनेनानुभवे स्वसम्वेदनसिद्धिरेवेत्यविवाद एव । तस्मादस्वसम्वेदने सर्व्वाननुभूतिप्रसङ्गः ।
ननु चक्षुरादिकेनाननुभूतेपि चक्षुरादिनानुभूतमिति भवति व्यवहारः । तथात्मसम्वेद
नाननुभवेपि किन्नेष्यते ।
अत्रोच्यते ।
व्यक्तिहेतवो हि चक्षुरादयस्तेषामसिद्धावपि नाव्यक्ततार्थस्य व्यक्तिव्यक्तत्वात् ।
अस्मच्चक्षुर्व्यक्तमिति कथमस्मत्सम्वेदनजनकत्वादस्मच्चक्षुरिति व्यपदेशः । सम्वेदनस्य तु
स्वसम्वेदनादेवास्मत्त्वं । तस्यापि सम्वेदनस्यास्वसम्वेदनेनात्मसम्बन्धित्वेन किञ्चित्प्रतिपन्नमिति
स्वरूपमात्रेण व्यक्तत्वे सकलं व्यक्तं जगज्जायेतेत्यतिप्रसंगः ।
ननु यत्र व्यक्तिरुत्पन्ना तद्व्यक्तमिति कथमतिप्रसङ्गः ।
(इति) प्रमाणवर्तिकालङ्कारे प्रत्यक्षपरिच्छेदो द्वितीयः1107 ।। २ ।।