462
अभिलापद्वयं नेष्टं स्याद् दृष्टक्रममक्रमं1104 ।
द्विर्द्विरेकञ्च भासेत भासनादात्मतद्विदोः1105 ।। ५३८ ।।

यदि वा द्व्यं पूर्व्वबुद्धिग्राहि रूपाद्यर्थग्राहि चोत्पत्तिमत्तदा पूर्व्वबुद्ध्यर्थस्य परस्य
चार्थस्य प्रतिभासनादभिलापद्व्यं यत् क्रमवदुपलभ्यते तदक्रमं प्रतिभासेत् । नहि बुद्धिरर्थग्रहण
रूपतां विना प्रतिभासते । तद्रूपत्वात्तस्याः । अर्थग्रहणप्रतिभासे चार्थ एव प्रतिभासित
इति पूर्व्वापराभिलापद्व्यं प्रतिभासेत । तथैकमेव द्विद्विरवभासेत । अर्थस्यात्मनस्तद्व्ु
द्धेश्च प्रतिभासनात् । पूर्व्वन्तावत्स्वयं प्रतिभाति पश्चात्तद्व्ुद्धिप्रतिभासने ततो द्विप्रतिभासनं ।
अथार्थप्रतिभासानन्तरं बुद्धिर्न्न गृह्यते । न बुद्धिः प्रत्यक्षेण स्वेन परेण वा गृह्यते । अर्था
पत्त्यापि तर्हि यदि प्रतिभासते । तदापि भासनमात्मतद्विदोरिति स एव प्रसङ्गः । अथ
कालान्तरेर्थापत्तिर्न्न हि तत्सन्ततानेकार्थग्रहणक्रमकाले कश्चिदर्थापत्तिमनुभवति ।

नैतदस्ति ।

सामर्थ्यात्प्रतिपत्तिश्चेत्सर्व्वदा स्यान्न वान्यदा ।

ततोर्थापत्तिसम्वित्तौ शतकृत्वो हि भासनं ।। ११५८ ।।

अथ यदा स्वबुद्धीः संकलयति तदा कालान्तरेऽर्थापत्त्युदयः ।

तदापि न तदा किञ्चित् दृष्टमस्ति यतो भवेत् । अर्थापत्तिरतीतत्वादर्थापत्तिकृतस्तदा ।। ११५९ ।।

अतीतमर्थदर्शनं कथं ततोऽर्थापत्तिसम्भवः । कालान्तरेपि स्मर्यमाणादर्थापत्तिरिति
चेत् । स्मरणस्यैवार्थापत्त्यावगमो नानुभवस्य । तत्रापि स्यादभिलापद्व्यम् त्रिरवभासनञ्च ।
अथाननुभूतं न स्मर्यते ततोनुभवगतिरिति चेत् । तन्न ।

अनुभूतं मयेत्येव स्मरणस्य प्रवर्त्तने । बुद्धिरासीन्ममेत्येवमर्थापत्तेरसम्भवः ।। ११६० ।।

यदा स्मरामि पूर्व्वसम्वेदनस्येति स्मरणमेव प्रथमम्बुद्धौ प्रवर्त्तते । तदा न पूर्व्वमर्था
पत्तिर्न्नापि पश्चादिति कुतः स्मरणसम्भवः । यदाप्यर्थस्य स्मरणं तदापि स्मरणस्यानुभवस्य
चानुमानमिति स्मरणानुभवार्थाकारयोर्युगपत्प्रतिभासप्रसङ्ग । तथा च स्मरणकालेपि स्पष्टा
र्थाकारवेदनप्रसङ्गः । अथास्पष्टाकारद्व्यवेदनं तदपि न दृष्टमेवेत्यपरिहारः । अथ यस्य
यदेष्यते तदा तस्यार्थापत्तिर्यतः स्मरामि ततोनुभूतं यतः स्मरणं ततोनुभव इति वा । एवन्तहि
यतोनुभवस्ततोनुभव इति स्यात् वाचो युक्तिः । तथा यतः स्मरणन्ततः स्मरणमिति महत्प्र
माणकौशलं । इच्छा वानुभूते जायते । न चानुभवः कदाचिदनुभूत इति कथमिच्छयार्था
पत्तिरुदियात् । तस्मादसदेव बुद्ध्यन्तरेण बुद्धिवेदनम् ।

अथ (।)

विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते ।
परानुभूतिवत्सर्व्वाननुभूतिः प्रसज्यते ।। ५३९ ।।

विषयान्तरसञ्चरणकाले हि यद्यन्त्यं विषयान्तरसंचारकालात्पूर्व्वविज्ञानं विज्ञान
प्रबन्धस्य । तदा सर्वाननुभूतिः परानुभूतवद् भवेत् । अननुभूतानुभवस्यानुभूतत्वाभावात्प-

  1. १ M. पूर्व॰ अभिलाप॰ इति श्लोकार्धयोःस्थानव्यत्ययः

  2. २ M. ॰तद्धियोः