463

रानुभूतवत् । ततोऽन्त्याननुभवात्तत्पूर्व्वकाननुभू तिर्यावदादिभतस्यापि यथा परानुभवेपि तदनु
भवस्यान्येना(न) नुभूतत्वादन्येनाननुभवः तथा स्वयमनुभूतेपि तत्तु पुनरर्थस्य स्वरूपं परापेक्षयापि
तथेति कथमनुभवः ।

ननु परानुभवे स्वयमननुभवात्परस्यानुभवो यथा व्यवस्थाप्यते तथा परेणाननुभवे
स्वस्यानुभव इति व्यवस्थाप्यतां ।

तदसत् । व्यवस्थाप्यतां यदि प्रमाणमस्ति । यथा तु परेणानुभूतं नात्मप्रत्यक्षं न च
परस्येति व्यवस्थापयितुं शक्यम् । तथात्मप्रत्यक्षाभिमतमपि नात्मनः परस्येति वा व्यवस्था
पनामर्हति ।

नन्वर्थः स्वरूपेण प्रतीयते तत्कथमप्रत्यक्षता । नह्यन्यस्मिन्नप्रतीयमानेऽन्यदप्रतीतं नाम ।

सत्त्यं प्रतीयते । स्वयमेव प्रतीयतां । आत्मना प्रतीयते सोपि स्वयमेव प्रतीयतां ।
ततः स्वसम्वेदनमेव । अथात्मा कर्तृतया प्रतीयते (।) न (।) शरीरव्यतिरेकेणात्माभावात् ।
शरीरस्य कर्तृता चेत् । न । शरीरस्यापि कर्मत्वात् । यस्मादसत्स्वसम्वेदनं शरीरादीनां ।
स्वसम्वेदनत्वे वाऽविवाद एव । बुद्धेरसम्वेदनमिति चेत् । आत्मनः स्वसम्वेदने तेनार्थानुभवे
तावता पर्याप्तमिति व्यर्थिका बुद्धिः । तत एवाह ।

अत्मानुभूतं प्रत्यक्षं नानुभूतं परैर्यदि ।
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ।। ५४० ।।

आत्मनोनुभूतिरस्तीति कुतः । अन्येनानुभूतौ परात्मासौ न भवतीति कुतः । स्वस
म्वेदनेनानुभवे स्वसम्वेदनसिद्धिरेवेत्यविवाद एव । तस्मादस्वसम्वेदने सर्व्वाननुभूतिप्रसङ्गः ।

ननु चक्षुरादिकेनाननुभूतेपि चक्षुरादिनानुभूतमिति भवति व्यवहारः । तथात्मसम्वेद
नाननुभवेपि किन्नेष्यते ।

अत्रोच्यते ।

व्यक्तिहेत्वप्रसिद्धिः स्यान्न व्यक्तेर्व्यक्ति1106 मिच्छतः ।
व्यक्त्यसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत् ।। ५४१ ।।

व्यक्तिहेतवो हि चक्षुरादयस्तेषामसिद्धावपि नाव्यक्ततार्थस्य व्यक्तिव्यक्तत्वात् ।
अस्मच्चक्षुर्व्यक्तमिति कथमस्मत्सम्वेदनजनकत्वादस्मच्चक्षुरिति व्यपदेशः । सम्वेदनस्य तु
स्वसम्वेदनादेवास्मत्त्वं । तस्यापि सम्वेदनस्यास्वसम्वेदनेनात्मसम्बन्धित्वेन किञ्चित्प्रतिपन्नमिति
स्वरूपमात्रेण व्यक्तत्वे सकलं व्यक्तं जगज्जायेतेत्यतिप्रसंगः ।

ननु यत्र व्यक्तिरुत्पन्ना तद्‪व्यक्तमिति कथमतिप्रसङ्गः ।

व्यक्तेरुदयमात्रेण व्यक्तं यदि तदाखिलं(।) अस्य व्यक्तिरितीदन्तु न सम्बन्धविनाकृतं ।। ११६१ ।।
तस्मात्स्वरूपमात्रेण सर्व्वस्य व्यक्तता भवेत् । अथ तद्रूप एवार्थः स्वसम्वेदनमुच्यतां ।। ११६२ ।।

(इति) प्रमाणवर्तिकालङ्कारे प्रत्यक्षपरिच्छेदो द्वितीयः1107 ।। २ ।।

  1. १ B ब्यक्त

  2. २ T. प्रमाणवार्तिकभाष्ये प्रत्यक्षपरिच्छेदः तृतीयः ।