२. प्रमाणसिद्धि-परिच्छेदः

p3

१. परिच्छेदः

. विधिभावनादि वार्त्तिकं प्रथमम्

१. प्रमाण-लक्षणम्

(१) अविसंवादि ज्ञानं प्रमाणं

नमोबुद्धाय ।

1
प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने ।
कुतर्कसम्भ्रान्तजनानुकम्पया प्रमाणसिद्धिर्विधिवद् विधीयते ।। १ ।।
प्रायः प्रस्तुतवस्तुविस्तरभृतो नेक्ष्यन्त एवोच्चकैर्
व्वक्तारः परमार्थसंग्रहधिया व्याधूतफल्गुक्रमाः ।
तेनास्मिन् विरलक्रमव्यपगमादत्यन्तशुद्धान्धियं
धन्यानां विदधातुमुद्धतधियां धीः सम्विदे धीयते ।। २ ।।

अत्र भगवतो हेतुफलसम्पत्त्या प्रमाणभूतत्वेन स्तोत्राभिधानं शास्त्रादौ शास्त्रार्थत्वात् ।
भगवानेव हि प्रमाणभूतोऽस्मिन् प्रसाध्यते ।

तत्र हेतुराशयप्रयोगसम्पत् सांव्यवहारिकप्रमाणापेक्षया । आशयो जगद्धितैषिता (।)
प्रयोगो जगच्छासनात् शास्तृत्वं (।) फलं स्वपरार्थसम्पत् । स्वार्थसम्पत् सुगतत्वेन त्रिविध
मर्थमुपादाय । प्रशस्तत्वं स्वरूपवत् । अपुनरावृत्त्यर्थं सुनष्टज्वरवत् । निःशेषार्थं सुपूर्ण
घटवत् (।) परार्थसम्पत् जगत्तारणात् तायित्वं । सन्तानार्थञ्चापरिनिर्व्वाणधर्म्मत्वात् ।
एवम्भूतं भगवन्तं प्रणम्य प्रमाणसिद्धिर्विधीयते । प्रमाणाधीनो हि प्रमेयाधिगमो
भगवानेव च प्रमाणं । प्रमाणलक्षणसद्भावात् । प्रमीयतेऽनेनेति प्रमाणम् ।

तत्र सामान्येन प्रमाणलक्षणं निर्दिशति ।

प्रमाणमविसंवादि ज्ञानं;

ज्ञानं प्रमाणन्तत्र सति प्रमितिसिद्धेः । अविसम्वादि2 (।) विसम्वादे सति विपर्ययात्
इन्द्रियार्थसंयोगादयो हि विसम्वादविविक्तज्ञानोपलक्षिता एव तत्त्वं प्रतिलभन्ते । अविसम्वा
दार्थी हि सर्व्वः प्रमाणान्वेषणप्रयुक्तः ।

ननु (अ) विसम्वादित्वं 3 तस्य साधनज्ञानस्य स्वरूपमेव । तस्मिँश्च स्वरूपेण
ज्ञायमाने ज्ञातमेव तदिति किं परीक्ष्यते । अथ न स्वरूपसम्वेदनं (।) तदा प्रमाणमेव
नास्तीत्यापतितं । न चायं पक्षः क्षमो भवतामिति ।

तदसत् । न स्वरूपमेव ज्ञानस्य प्रामाण्यं सम्वादित्वम्वा (।) अपि तु (।)


p4
अर्थक्रियास्थितिः ।
अविसम्वादनं;

न खलु ज्ञानस्वरूपमात्रावगताविदं प्रमाणमिति भवति । किन्तर्हि (।) अर्थस्य
दाहपाकादेः क्रियानिष्पत्तिस्तस्याः स्थितिरविचलनविसम्वादनं व्यवस्था वा । सा चार्थ
क्रिया भाविनी न तत्काले (।) ततस्तत्सम्बन्धो न स्वरूपसम्वेदनमात्रावधृतः ।

ननु तत्सम्बन्धिता स्वरूपमेव (नास्ति ।) तत् कथं न स्वरूपसम्वेदनमात्रावधारणं ।

नैतदस्ति (।)

द्विष्ठसम्बन्धसम्वित्तिर्नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ।। ३ ।।

कथं तर्हि प्रवर्त्तनाकाले तज्ज्ञानं । एतदुत्तरत्र वक्ष्यामः । यद्यर्थक्रियाधिगमे पूर्वकं
प्रमाणं (।) सोप्यर्थक्रियाधिगमः प्रमाणमप्रमाणम्वा । अप्रमाणेनार्थक्रियाधिगमाभावात्
प्रमाणन्तत् । ततस्ततोप्यर्थक्रियाधिगमः परान्वेषणीय इत्यनवस्था ।

नेदं साधीयः ।

उत्तरार्थक्रियाभावात् पूर्वस्य यदि मानता । तदैवार्थाक्रियाभावादुत्तरस्य कथन्न सा ।। ४ ।।

यत्रार्थक्रियास्थितिरपरोपकल्पिता तद् यावत् प्रमाणं (।) यत्र तु स्वतस्तदैवार्थ
क्रियानुभवः (।) तत् सुतरामेव प्रमाणं (।) अर्थक्रियास्थितिरविसम्वादनमिति सामान्ये
नाभिधानात् ।

ननु दाहपाकाद्यर्थक्रियेयं स्वप्नेप्पि सम्भवति पीतस(? श)ङ्खादिज्ञाने च (।) शब्द
विषये तु ज्ञाने न दाहपाकाद्यर्थक्रिया स्वतः परतश्चार्थक्रियाभावात् । तस्मादबाधितो बोधः
प्रमाणमिति युक्तं ।

तदप्ययुक्तं यतः ।

शाब्देप्यभिप्रायनिवेदनाद् (।१)
अविसम्वादनं;

शब्दविषयं ज्ञानं शाब्दं । अपिशब्दादन्यत्रापि । अयमर्थः (।)

स्वरूपबोधमात्रेण4 सर्वं ज्ञानं भवेत् प्रमा । अथावाधितबोधत्वात् स्वप्नादावपि किन्न तत् ।। ५ ।।

बोधमात्रसंगमो हि स्वप्नेतरप्रत्ययसम्भवी समान एव सर्व्वत्र । (स हि) 5
पुरुषार्थस्य साधकः । अथाबाधितबोधत्वं तदपि समानमेव । जाग्रत्प्रत्ययेन बाधमानता चेत् ।
कोयं बाधो नाम ।

परेण विषयाभावज्ञापनं स (यदि) हीष्यते । स्वार्थे प्रवृत्तिमज्ञानमभावं ज्ञापयेत् कथं ।। ६ ।।

न तावज्ज्ञानान्तरेणाभावः स्वप्नज्ञानस्यान्यस्य वा केनचित् क्रियते । तत्काले तस्य
स्वयमेव नाशात् । न चाक्षिनिमीलनान्नष्टे ज्ञाने बाध्यता प्रतीयते । अन्येन नहि ज्ञानेन

5

तस्य विषयापहारोऽसत्ताज्ञापनलक्षणो बाधः । न च स्वविषये प्रवृत्तमन्यविषयपहारं रच
यितुमलं । स्वविषय (ज्ञान) 6 स्वविषयस्य रूपसाधनं हि ज्ञानानां धर्म्मः । परविषयापहरणन्तु
नराधिपधर्म्मः ।

कथन्तर्हि बाध्यबाधकभावः । न कथञ्चित् । अत एवाबाधितत्वं प्रमाणत्वं ।
तस्माद् यत्रार्थक्रिया नास्ति तदप्रमाणं ।

स्वयमन्येन वा यत्र ज्ञायते न क्रियोदयः । तदप्रमाणं न स्वप्नास्वप्नभेदोस्ति तत्त्वतः ।। ७ ।।

व्यवहारमात्रमेवेदं स्वप्नास्वप्नभेदो नाम । तथा प्रमाणाप्रमाणभेद इति हि वक्ष्यते ।
न चासावर्थक्रियास्थितिरविचलितत्वाभावात् । भावनामात्रावसायतार्थक्रिया स्वप्ने । न
तत्र परितोषः । अबाधितत्वे त्वनवस्थैव । प्रथममबाधनं सर्वत्रैव । तदुत्तरकालमबाधने (।)
तत्राप्युत्तरकालमबाधनमिति कुतः ।

बाधकस्य पुरोभावः सर्वविज्ञानसम्भवी । परन्तु बाधकाभाव स्तत्राप्याशंक्यतेन किं ।। ८ ।।

पीतसं (? शं)खादिविज्ञानन्तु 7 न प्रमाणमेव । तथार्थक्रियावाप्तेरभावात् ।
संस्थानमात्रार्थक्रियाप्रसिद्धावन्यदेव ज्ञानं प्रमाणमनुमानं (।) तथा हि (।)

प्रतिभास8 एवम्भूतो यः स न संस्थानवर्जितः । एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ।।

येन न कदाचिद् व्यभिचार उपलब्धः स यथाभिप्रेते विसम्वादाद् विसम्वाद्यत एव ।
यस्तु व्यभिचारसम्वेदी स विचार्य प्रवर्त्तते (।) संस्थानमात्रन्तावत् प्राप्यते । परत्र सन्देहो
विपर्ययो वा (।) ततोऽनुमानं संस्थाने । संशयः परत्रेति प्रत्ययद्वयमेतत् प्रमाणमप्रमाणं च ।

अनेन मणिप्रभायां मणिज्ञानं व्याख्यातं । तथा च वक्ष्यामः ।

अथ केन द्वयमेतदिति प्रतीयते । एतदपि वक्ष्यामः । शब्दविषयन्तु ज्ञानमभिप्राय
निवेदनात् प्रमाणं । अभिप्रेतार्थक्रियास्वरूपनिवेदनमेव सम्वादनं ।

ज्ञेयस्वरूपसंसिद्धिरेव तत्र क्रिया मता । चित्रेपि दृष्टिमात्रेण फलं परिसमाप्तिमत् ।। ९ ।।

न खलु स्वरूपसम्वेदनादपरमत्रार्थक्रियाज्ञानं 9 क्वचिदुपलभ्यते । रूपादयो हि
स्वस्वरूपसम्वेदनपरा एव (।) न तद्विषयः प्रत्ययः परत्र प्रमाणं । तत्स्वरूपः सम्वेदनमात्र
कञ्च सर्व्वत्र ज्ञाने समानमिति न सांव्यवहारिकप्रमाणावतारः ।

ततो भाव्यर्थविषयम्विषयान्तरगोचरं । प्रमाणमध्यारोपेण व्यवहारावबोधकृत् ।। १० ।।

भाव्यर्थविषयान्तरप्राप्त्यर्था हि प्रमाणाप्रमाणान्वेषणापरः10 । यथा च भिन्नो विषय
स्पर्शादिकः11 न रूपादिस्वरूपग्रहणेऽन्तर्याति तथा भाविस्वरूपमपि परमार्थंतः । अध्यारोपेण
तु तदेकता विषयान्तरस्यापि । ततस्तद्‌द्वारेण सम्वादनमुक्तं ज्ञाने12 । यत्र तु तदेवार्थक्रिया
तत्राविवाद एव । तत्र भाविस्वरूपे तत्कारणत्वेनैकतारोपः । परत्र तु स्पर्शादौ तदेकसाम
p6 ग्र्यधीनत्वेनेति न विशेषः । यत्र तु अभिमतार्थक्रिया 13 यथा14 जलग्राहिविज्ञानात् मरीचि
कार्थक्रियावाप्तिस्तदप्रमाणमेव । अत एवाह । शाब्देप्यभिप्रायनिवेदनाद् (।)

अन्यत्रापि चित्रादौ (।) तथा च घटज्ञाने पटप्राप्तौ शुक्तिकायाञ्च रजतज्ञानपरम्प
रायामपि न प्रमाणता (। अ) भिप्रायाविसम्वादाभावात् ।

अभिप्रायाविसम्वादात् प्रमाणं सर्व्वमुच्यते । न सजातिविजातीयविज्ञानोत्पत्तिमात्रतः ।। ११ ।।
बाधकप्रत्यस्यापि15 स्थितेरेवंप्रकारता (।) । तत्त्वतस्तु विजातीयविज्ञानोत्पत्तिमात्रकं ।। १२ ।।
विजातीयविदुत्पत्तिर्यादि बाधकमुच्यते । घटज्ञाने पटज्ञानं बाधकं किन्न युक्तिमत् ।। १३ ।।

नेति प्रत्ययबुद्ध्या चेत् बाधकं किंचिदिष्यते । स एव प्रत्ययोनेति प्रमाणाद भेद 16 आगतः ।। १४ ।।

अभावलक्षणं मानं ततश्चेत्तन्निरूप्यते । किमन्यरूपसम्वित्तिः किमभावस्य तस्य वित् ।। १५ ।।
अन्यरूपस्य वित्तिश्चेदविशेषात् प्रसज्यते । तदभावस्य वित्तौ स्यात् तस्येति न समन्वयः ।। १६ ।।

अभा(वो) हि स्वरूपेण प्रतीयते । स्वरूपञ्चाभावस्य न घटादिसम्बन्धितया
प्रतीयते । प्रतीयमाने हि घटे न तत्सम्बन्धिता (ऽ) भावस्य । तदाऽभावाभावात् ।
नहि जीवत एव देवदत्तस्य मरणं । अप्रतीयमानें (न)तु घटेन सम्बिन्धिता (ऽ) भावस्य न
शक्या ग्रहीतुं ।

अथ कार्यकारणभाववत् प्रतीतिः । कारणे सति पश्चात् कार्यं भवति (।) तदनन्तरं
तस्योपलब्धिक्रमेण स्वरूप-प्रतिपत्तौ कार्यकारणसम्बन्धपरिग्रहः एवं भावे सत्यभावो(ऽ)भावे
च सति भाव इति भवति सम्बन्धप्रतिपत्तिः ।

तदप्यसत् । यतः ।

अत्यन्ताभावसम्बन्धः कस्यचिन्न प्रसिध्यति । न भावे सत्यभावोऽसौ न च तत्र विपर्ययः ।। १७ ।।

किञ्च (।)

कार्यकारणयो रूपं विना तेन प्रतीयते । अभावस्तु विना भावं भवतो न प्रतीयते ।। १८ ।।

देशस्य शून्यता या तु तस्याः सर्वत्र तुल्यता । प्रागभावादिभेदस्य17 तत्रात्यन्तमसम्भवः ।। १९ ।।

यथा च वस्तुनो भेदः प्रत्यक्षेण प्रतीयते । प्रागभावादिभेदोपि प्रतीयते तथा (ऽ) क्षतः ।। २० ।।
अभावेण प्रमाणेन प्रतीतिस्तस्य चेन्मता । कस्याभावःप्रमाणस्य प्रमाणाभावाद्धि(?)वेदने ।। २१ ।।
किन्न भावस्य सर्व्वस्य किन्न सुप्तस्य सर्व्वथा । अभावग्राहिका वित्तिरभावो यदि सम्मतः ।। २२ ।।
भाववित्तिं विनैवासौ कस्यचित् किन्न लक्ष्यते । एषैव तत्र सामग्री यदि नाभावनिश्चयः ।। २३ ।।
वस्तुतो व्यतिरिक्तस्य नाभावस्यास्ति वेदनं । इदन्नास्तीति विज्ञानं वेत्ति तद्व्यतिरेकिता ।। २४ ।।
कुत उत्पद्यतामेतन्नेन्द्रियात् स्मरणम्विना । इन्द्रियस्मृतिसंयोगादभावज्ञानसम्भवे ।। २५ ।।
प्राप्तं प्रत्यक्षमेवेदम(क्ष)भावानुसारतः । अन्यत्र वृत्तमक्षञ्चेन्नान्यविज्ञानकारणं ।। २६ ।।
मानसं नास्तिताज्ञानं कथमस्य प्रमाणता । प्रमाणमविसम्वादादपरं मानमेव तत् ।। २७ ।।
व्यतिरिक्ते हि नाभावे विसम्वादोस्ति कस्य चित् । केवलत्वे विसम्वादस्तत्प्रत्यक्षेण गृह्यते ।। २८ ।।
विना भावमतिं तच्च केवलग्रहणं सदा 18 । पराननुप्रवेशेन प्रतीतिः केवलग्रहः ।। २९ ।।

7

केवलग्रहणेध्यक्षे 19 विसम्वादस्य सम्भवः । ततः प्रत्यक्षमेवेदमन्यथानुपलम्भनं ।। ३० ।।

ननु केवलसम्वित्तिंरभावावित्तितः कुतः । सापि केवलसम्वित्तिं विना नेति समानता ।। ३१ ।।
यथा वा केवलोऽभावो विना भावेन मीयते । तथा भावोपि नैवञ्चेदनवस्थाप्र सज्यते ।। ३२ ।।

अभावप्रतीतिं विना न केवलप्रतीतिरित चेत् । केवलप्रतीतिम्विना नाभावप्रतीति
रिति समानं । अभावो वा केवलः कथमभावान्तरम्विना20 (।) तत्राप्यभावकल्पनेऽनवस्था ।
स एव स्मर्यमाणपदार्थापेक्षोऽनुपलम्भोऽभावसाधनः प्रत्यक्षः प्रत्ययः । अभावव्यहारस्तु
वासनानुरोधात् क्वचिदेव भवति नान्यत्रेति विभागः ।

तस्माद् यथा जाग्रत्प्रत्ययः स्वप्नप्रत्यस्य बाधकस्तथा विपर्ययोऽपि केवलग्रहणादिति
न्याय एषः । तस्माच्छाब्देऽप्यभिप्रायनिवेदनात् प्रामाण्यमिति निराकृतमेतत् (।)

श्रोत्रधीश्चाप्रमाणं स्यादितरा(न)भिसङ्गतेः ।

ननु प्रमाणभूतेन भगवता कोऽर्थः (व्यावहारिक)प्रमाणादेव सर्व्वपुरुषार्थसिद्धेः ।

नैतदस्ति (।)

स्वरूपग्रहणे ध्यक्षमनुमान्यत्र प्र (?) वर्त्तते । वक्ष्यतेदः पुनः पाश्चादपरस्याप्रमाणता ।। ३३ ।।

न तावत् प्रत्यक्षं परलोकादौ प्रवर्त्तते । तस्य स्वरूपमात्रग्रहणादिति प्रतिपादयिष्यते ।
अनुमानन्तु सम्बन्धग्रहणमन्तरेण नास्ति । न च सम्बन्धो व्याप्यसर्वविदा ग्रहीतुं शक्यः ।
स्वरूपसम्वेदननिष्ठेन हि प्रत्यक्षात्मना न सम्बन्धग्रहणम् (।) अनुमानेनैव सम्बन्धग्रहणे
इतरेतराश्रयणदोषः । संव्यवहारमात्रेण तु21 प्रत्यक्षानुमाने प्रमाणं सर्व्वज्ञसाधनानुगुणत्वेनैव
नान्यथेति । पश्चादेतत् प्रतिपादयिष्यते । (१)

ननु यदि नाम प्रमाणं परलोकादौ प्रत्यक्षानुमानलक्षणं न प्रवर्त्तते । तस्य स्वरूप
विषयत्वादन्‌मानस्य च सम्बन्धग्रहणसापेक्षत्वात् । शास्त्रन्तु नैवमिति तत एव समीहितसद्धिः ।
किम्भगवान् प्रमाणभूतः प्रसाध्यते ।

अत्रोच्यते ।

वक्तृव्यापारविषयो योऽर्थौ बुद्धौ प्रकाशते ।
प्रामाण्यन्तत्र शब्दस्य नार्थतत्त्वनिबन्धनं ।। २ ।।

शब्दस्य हि नापौरुषेयतेति पश्चात् प्रतिपादयिष्यते । पौरुषेयता तु स्यात् । तत्र च
वक्तुर्व्यापारो विवक्षा (।) वक्ता विवक्षिता । विवक्षाया विषयो योर्थः श्रोतृबुद्धौ
प्रकशते (।) प्रमाण्यन्तत्रैव शब्दस्य तत्रैव च व्यापारः शब्दस्य (।) अन्यथान्यथा विवक्षित
मन्यथा प्रतिपादयतीत्यप्रेक्षापूर्वकारी स्यात् । तथा च सुतरामेवाप्रामाण्यं (।) स च
विवक्षिता न सर्व्वः सर्ववेदी । अन्यथा परस्परविरुद्धता शास्त्राणां न स्यात् । न च
परस्परविरुद्धोर्थोनुष्ठातुं शक्यः । यथानुष्ठानमात्रार्थसिद्धौ व्यर्थतया प्रमाणमलं शास्त्रस्य ।
स्वमनीषिकानुष्ठानेपि फलसिद्धिप्रसङ्गात् ।

तथा च निर्विवादं स्याद् यथेष्टं संप्रवर्त्ततां । नहि किचिंदनुष्ठानं निष्फलं कस्यचित् क्वचित् ।। ३४ ।।

p8

तस्माद् वक्तृव्यापारविषये22 शब्दस्य प्रामाण्यं नार्थतत्त्वनिबन्धनं । यदि वक्ता न
सर्वज्ञः । अपौरुषेयेपि योर्थो बुद्धौ प्रकाशते यदा स्वयमेवार्थं प्रतिपद्यते । यदा तु व्याख्यातु
स्तदा वक्तृव्यापारविषयो व्याख्यातैव वक्ता । यश्च बुद्धावर्थः प्रतिभाति न स एवार्थः23 ।
अन्यथा सकलसमीहितार्थसिद्धेर्न्न 24 कश्चिदनुष्ठानार्थी भवेत् । अनुष्ठेयतयैव तस्यार्थस्य
प्रतिपादनान्नैवमिति चेत् । स तर्हि तदा स्वरूपेण नास्ति (इति) न तस्य प्रतिपत्तिः ।
अन्यप्रतिपत्तौ सम्बन्धाभावात् सन्देह एव । ततश्च योर्थः प्रतीयते स सिद्ध एव न तदर्थी
प्रवर्त्तते । यदर्थी च न स प्रतिपन्न इति नार्थतत्त्वनिबन्धनं प्रामाण्यं ।

(२) नियोगप्रत्याख्यानम्—

ननु नियोगो (न) वाक्यार्थः । नियुक्तोहमिति प्रतीतेः । ततो नियोगादेव
नासितुं समर्थः ।

कोयन्नियोगो नाम । निशब्दो निःशेषार्थो योगार्थो युक्तिः । निरवशेषो योगो
नियोगः । निरवशेषत्वं अयोगस्य मनागप्यभावात् । अवश्यकर्त्तव्यता हि नियोगः । नियोगप्रा
माणिका हि नियोगप्रतिपत्तिमात्रतः प्रवर्त्तन्ते ।

अत्राह । वक्तृव्यापार25 इत्यादि । अयमर्थः ।

नियोगो भावना धातोरर्थो विधिरितीरिताः । यन्त्रारूढादयो न स्युः स्वभावादर्थसाधनाः ।। ३५ ।।

तस्माद् यो यस्य प्रतिभासते यथाप्रतिभं स वाक्यस्यार्थो न चेदमर्थतत्त्वं26 । यश्च
यथा व्याचष्टे तथा स शब्दो विगुणो न भवति न च तथार्थतत्त्वस्थितिः ।

किञ्च ।

नियुक्तेन निवृत्तिश्चेत्27 सर्व्वस्यातःप्रसज्यते । तत्स्वभावतयाकाशमनाकाशं न कस्यचित् ।। ३६ ।।

स्वभावोऽपि विपर्यासादन्यथा यदि गम्यते । विपर्य्यासाविपर्यासव्यवस्था कः करिष्यति ।। ३७ ।।

यदि विपर्यासान्नियोगपरादपि वचनान्न प्रवर्त्तते । तथा सति विपर्य्यासकल्पना
प्रवर्त्तमानेपि न व्याहन्यते । यथैव हि द्वेषादयं न प्रवर्त्तते विपर्यस्तस्तथा तत्पक्षपातादप
रोपि प्रवर्त्तत इति समानमेतत् ।

न च नियुक्तोहमित्येतत् प्रवर्त्तते । निष्फलनियोगे प्रवृत्तेरभावात् । प्रचण्डप्रभुनियोगे
निष्फलेप्यपायभयात् प्रवर्त्तते । प्रमाणान्तराच्च प्रतिपन्नोऽपायः । अत्र तु न प्रमा
णान्तरं । व्यर्थको नियोगस्तथा चेत् (।) भवतु28 को दोषः । न हि दृष्टेऽनुपपन्नं
नाम । प्रेक्षापूर्वकारी निष्फलनियोगे हि प्रेक्षावत्ता न स्यादित्युपालभ्यते (।) अपौरुषेये तु

कस्योपालम्भः । अपौरुषेये व्यर्थतेयैव न युक्तेति चेत् । नात्र किञ्चित् प्रमाण
मन्यत्रापौरुषेये तथाऽदृष्टेः ।।

यदि च नियोगमात्रात् प्रवर्त्ततेऽपौरुषेयात् स्वर्गकाम इति निष्फलं । जुह्यादिति


009

नियोगमात्रादेव नियोगप्रतिपत्तेः । अथ फलाभिलाषिणः फलोपदर्शनं । फलमेव तर्हि
तस्योपदर्शनीयं किन्नियोगेन (।) स्वयमेव फलाभिलाषात् प्रवर्तिष्यते ।

अपौरुषेयत्वादसम्बद्धतायामपि न चोद्यमेतदिति चेत् । निष्फलचोदनायामपि न
चोद्यमिति व्यर्थको वेदो नायुक्त: । किञ्च (।)

नियुज्यमानविषयनियोक्तृणां यदीष्यते । धर्म्मे नियोगः सर्व्वत्र न शब्दार्थोऽवतिष्ठते ।। ३८ ।।

नियोगो नामायं हि कस्य धर्म इति चिन्त्यतां । न खलु नियोगः पटादिपदार्थवद
परतन्त्रतया प्रतीयते । तत्रानेन नियमे नियोज्यादीनामन्यतमस्य धर्म्मेण भवितव्यमपरप्रकारा
सम्वेदनात् ।

नियोज्यधर्मिभावो हि तस्यानुष्ठेयता कुतः । सिद्धोऽपि यद्यनुष्ठेयो नानुष्ठाविरतिर्भवेत् ।। ३९ ।।

न खलु परिनिष्पन्नमनुष्ठातुं शक्यम् (।) अनुष्ठानं हि तत्र क्रियाविशेषः । स्वरूप
जननम्वा । क्रियाविशेषस्तावदनर्थक एव । परिनिष्पन्नस्य क्रिया किमर्थकारिणी ।
स्वरूपनिष्पादनन्तु परिनिष्पन्नस्येति व्याहतं । न च परिनिष्पन्नस्यापरमपरिनिष्पन्नमास्ते ।
अपरिनिष्पन्नस्य परिनिष्पन्नपदार्थस्वभावत्वायोगात् ।29 यो हि यद्रूपतयोपलभ्यते स
तत्स्वभावः (।) न चानिष्पन्नमुपलब्धुं शक्यं । पश्चादुपलभ्यत इति चेत् । तदयुक्तं यतः ।

तत्स्वभावतया पश्चादुपलब्धुं न शक्यते । वर्तमानस्वरूपस्य ग्रहणेध्यक्षवृत्तितः ।। ४० ।।

न खलु वर्त्तमानरूपोपग्रहप्रवृत्तमध्यक्षं पूर्वापररूपमीक्षितुं क्षमते । तस्मात्—

न पूर्वमेकतावृत्तिर्न 30 पश्चादक्षजन्मनः । ज्ञानस्याक्षानुसरणादध्यक्षमिति मीयते ।। ४१ ।।

तस्मान्नियोज्यपुरुषधर्मे नियोगे न शब्दार्थता ।

विषयधर्मतायामपि विषयस्यापरिनिष्पत्तेः स्वरूपाभावात् कथं शब्दादसौ प्रत्येतुं
शक्यः । न ह्यविद्यमानं शशविषाणादिकं तथा दृश्यतेऽनुष्ठानविषयत्वेन । केनचिद् रूपेण
विद्यमानं केनचिद् रूपेण नेति चेत् । तदसत् ।

येनासौ विद्यते भावस्तेनानुष्ठीयते न सः । विद्यते येन नैवासौ न तेनापि प्रतीयते ।। ४२ ।।
प्रतीयमानता तस्य सिद्धानुष्ठेयता न चेत् । तदेव तस्य स्वं रूपं न नियोगोऽन्यथा भवेत् ।। ४३ ।।
प्रतीयमानतामात्रं सामान्यं सर्व्ववस्तुनः । अनुष्ठेयतयैवास्य नियोगत्वमनन्यथा ।। ४४ ।।
यद्यनुष्ठेयता तत्र प्रतिभाति न चापरा । अनुष्ठानं भवेत् तत्र न तु सामान्यवेदने ।। ४५ ।।
सामान्यवेदने तत्र नानुष्ठेयार्थवेदनं । वाक्यस्य न भवेदर्थो नियोगस्तत्प्रवादिनां ।। ४६ ।।

ननु यागादिविषये नियुक्तोहमिति प्रतीयते । इयमेव च नियोगस्य प्रतीतिः शाब्दाद्
या नियुक्तोहमत्रानेनेति प्रतीतिः । तत्र नियोक्ता शब्दे पुरुषः वेदे प्रमाणाभावात् ।
नियोज्यः पुरुषो यागो विषयः सकलमिदं प्रतीयते । तत्र प्रतीतिर्भाव एव कथं प्रतीयत इति
कोयं पर्य्यनुयोगः ।

तदसत् ।

प्रतीयमानेन विना कस्य तत्र स्वरूपवित् । वेद्यते यत्स्वरूपेण तस्य तद्वेदनं मतं ।। ४७ ।।
010
न च स्वरूपस्याभावे स्वरूपस्यास्ति वेदनं । उपलम्भो यतः सत्ता सास्ति नास्ति नु सा कथं ।। ४८ ।।

न च प्रतीतिमात्रेण31 वस्त्वस्तीति प्रतीयते । परस्परविरुद्धार्था नागमेषु32 भवेदसौ ।। ४९ ।।

वेदादेव प्रतीतिश्चेद्धेतुदोषामलीमसात् । न लोकाननुसारेण वेदाद् बुद्धेरसम्भवात् ।। ५० ।।
यागादेरुपलब्धत्वाल्लोके शब्दार्थसम्भवात् । पृर्व्वदृष्टानुसारेण प्रतीतिर्नार्थसाधिका ।। ५१ ।।
कामशोकभयोन्माददोषोपप्लुतचेतसां । बुद्धिः पूर्व्वानुसारेण न दृष्टेष्टस्य साधिका
 ।। ५२ ।।
लोके च दृश्यते वाक्यपदार्थोपप्लवः क्वचित् । वेदे तदनुसारेणोपप्लवः किमसम्भवी ।। ५३ ।।
न तत्राशयदोषोस्ति कस्यचिन्मूढतादिकः । तत्राप्यप्रतिपत्तिः किन्न दोषः कस्यचिन्मतः ।। ५४ ।।

लोकेक्षाशयदोषेण 33 वस्तुसम्बन्धहानितः । न प्रमाणत्वमेषा च न न वेदेपि किं प्रमा ।। ५५ ।।

लोके वाक्यपदार्थानां विप्लवस्योपलब्धितः । वेदे त एव चेच्छब्दाः किन्न विप्लवसम्भवः ।। ५६ ।।

ननु यदि वेदः सत्त्यार्थो न भवति स्वतस्तदा लोके यागादिपदार्थस्य स्वयमप्रवृत्तेः ।
कथं यागादिक्रिया वृत्त्यनुपलम्भः34 । न हि स्वयं व्युत्पादयितुमिदं शक्यं । ततोऽविसम्वा
दभाग्यर्थप्रतिपादनात् प्रमाणं वेदः । एतत् सर्व्वागमेषु समानं । न हि प्रतिनियतागमा
र्थावान्तरविभागाः सर्व्वागमेष्वपि समुपलब्धाः स्वयमुत्प्रेपेक्ष्य विधातुं शक्याः पुरुषमात्रेण ।
अथवा सा किमशब्दलिङ्गं स्वयं कथञ्चिदनुस्मरतो न भवति बुद्धिर्यथा तथा क्रिया
परिकल्प्यते ।।

सर्व्वागमसमानत्वाद् यागाद्यर्थक्रियात्मनः । न सर्व्वैः करणन्तस्य तुल्यं वेदे पि किन्न तत् ।। ५७ ।।
न चेदादृतता शिष्टैरिंत्यन्योन्यसमाश्रयः । वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रमा ।। ५८ ।।

किञ्च ।

द्विजातयोपि जायन्ते आगमान्तरसङ्गितः । न भवत्येव चेत् तेषां न पापे रमते मतिः ।। ५९ ।।
पापेंतरव्यवस्थेयमायाता मानतः कुतः । पापात्मता (ऽ) द्विजत्वेन पापत्वादद्विजात्मता ।। ६० ।।
किंच द्विजातिता नाम जातिगोत्रक्रियादितः । शक्या ज्ञातुं विवेकान्न द्विजानां शिष्टता कुतः ।। ६१ ।।

न खलु द्विजादिभावः प्रमाणगोचरचारी । स हि जातियोगलक्षणो गोत्रलक्षणः
क्रियासामर्थ्यातिशययोगो वा भवेत् । न तावद् गोत्वादिजातिमिव तज्जातिमाकार
विशेषादेव केचिदवधारयितुमीशते । आकृतिसङ्करस्य दर्शनात् । शूद्राद्यभिमतानामपि
सैवाकृतिरुपलभ्यते । न खलु वाहुलेयाद्याकृतय इव कौण्डिन्यादीनामपि विजातीयाभि
मतव्यक्तिविलक्षणा व्यक्तय उपलभ्यन्ते । अतएव व्यक्तिसङ्करेण सन्देहविषयत्वादुपदेश
सहितं प्रत्यक्षं प्रमाणं ।

परोपदेशप्रामाण्यं प्रत्यक्षार्थे न युक्तिमत् । उपदेशो हि लोकानामन्यथापि प्रवर्त्तते ।। ६२ ।।

यदि खलु बाह्मणत्वादिजातिः प्रत्यक्षेणेक्ष्यते । परोपदेशस्य व्यर्थता । नहि प्रत्यक्षार्थे
परोपदेशो गरीयान् । तथा चेन्न परोपदेशतः सन्देहः स्यात् । अतएव प्रत्यक्षं सहायमपेक्षते ।

उपदेशं विनाध्यक्षं यद्यर्थस्य प्रसाधकं । तदोपदेशसत्त्यत्वं विधातुं नान्यथा क्षमं ।। ६३ ।।

यदा तु पुनः (प्रत्यक्षं) केवलमसमर्थमुपदेशश्च तदा द्वयमसमर्थं पुथक् सहितमपि
तादृशमेवेति । न जातिग्रहणे सामर्थ्यंमासादयेत् । सामग्र्याः सामर्थ्यमिति चेत् । नास्त्येतत् ।


011
कार्यदर्शनतः सर्वा सामग्रीयं प्रतीयते । अंकुरादिवदत्रापि न कार्यं किञ्चिदीक्ष्यते ।। ६४ ।।

न हि घटपटसामग्री शाल्यङ्करेऽन्यत्र वा भवति । अन्वयव्यतिरेकाभ्यां हि जलादीना
मेव तत्त्वोपलब्धेः । न चात्र तथा कार्यं जातिनिश्चयलक्षणमुपलभ्यते । काञ्चनाद्युपदेशस्य
हि यदा सत्त्यताशङ्का तदा प्रत्यक्षदर्शनादसौ निवर्त्तते । नैवं जात्युपदेशस्यासत्त्यता
शङ्का तदा प्रत्यक्षदर्शनादसौ निवर्तते । नैवं जात्युपदेशस्यासत्त्यता शङ्कायां प्रत्यक्षात्
सत्त्यता जातिस्वरूपग्रहणाकारात् । सुवर्ण्णादौ हि रूपविशेषसद्भावादेवं भूतमेव सुवर्ण्ण
भवतीति व्यवहारस्य परिसमाप्तेर्दृष्टस्य न काचित् क्षतिः । अत्र तु पुनरेवंविध
मेव ब्राह्मण्यमिति न पादप्रसारणमात्रं त्राणं । पारमार्थिकपरलोकव्यवहारस्य वाञ्छितत्वात् ।
एक वाक्यतया हि सुवर्ण्णं सत्त्यं भवति न तु ब्राह्मण्यं । किञ्च । तच्छङ्कायां गोत्रो
पदेशान्तरादिनिरूपणमेव क्रियते । नान्य उपायः ।

अथाध्ययनादिना क्रियाविशेषणं ज्ञायते नोपदेशमात्रात् । तदप्यसत् ।

द्विजातित्वे क्रिया साध्या न क्रियातो द्विजातिता ।

संस्कारा अपि नैव स्युर्जाति-निश्चय-वर्जिता ।। ६५ ।।

जातिवर्जितस्य हि न स्वाध्यायाध्ययनसंस्कारादयो द्विजातित्वादिकमादधति ।
सर्व्वस्य तथा द्विजत्वप्रसङ्गात् । अपि च ।

यदि प्रत्यक्षतो जातिर्न प्रतीयते केवलात् । वचनादपि नैवास्याः प्रतीतिरविरौधिनी ।। ६६ ।।

प्रथमं हि प्रवर्त्तमानमध्यक्षं न तावद् द्विजत्वादिविवेकमुपकल्पयितुमलं ततः परमु
पदेशोऽपेक्ष्यते । यदि प्रत्यक्षतो न प्रतीयाद् वचनादपि नैव प्रत्येष्यति । तदपि हि वचनमु
पलम्भमेव ख्यापयति । न खलु पुरुषवचनपरिज्ञानप्रवर्त्तितं निश्चयमुपजनयति । पुरुषो
पर्यनुयुक्तः कथम्भवतेदमज्ञायीति गोत्रसंस्कारादिकमेव परिज्ञानविषयतयोपदिशति । न
जात्युपलम्भं कथयति । सैव जातिरिति चेदुक्तमत्रोत्तरं (।) द्विजातित्वे क्रिया न तु तदेव
द्विजातित्वं ।

अथ गोत्रलक्षणा जातिः । तथा च (।) ब्रह्मणोऽपत्त्यं ब्राह्मण इति हि व्यपदिशन्ति ।

ब्रह्मणोऽपत्त्यतामात्रात् ब्राह्मण्यति प्रसज्यते । न कश्चिदब्राह्मतनोरुत्पन्नः क्वचिदिष्यते ।। ६७ ।।
अन्तरा जातिभदश्चेन्निर्निमित्तः कथम्भवेत् । अन्तराले क्रियाभेदाद् गोत्रेणार्थो न कस्यचित् ।। ६८ ।।
अथ द्विजादिगोत्राणामनादिर्भेद इष्यते । ज्ञायतां स कथन्नाम प्रमाणस्याप्रवृत्तितः ।। ६९ ।।
क्रिया तदपरिज्ञानादक्रियैव प्रसज्यते । अविच्छेदश्च गोत्रस्य प्रत्येंतुं शक्यते न च ।। ७० ।।
अविच्छेदो न नियतः कस्यचिद् गोत्रभाविनः । सूतमागधचण्डालाः कथं सम्भविनोन्यथा ।। ७१ ।।
ज्ञायन्त एव ते तज्ज्ञैरिति चेन्नियमो न हि । अनादिगोत्रपद्धत्यामस्यान्न स्खलनं स्त्रिया ।। ७२ ।।
इति ज्ञातं कथं नाम कामार्त्ता हि सदा स्त्रियः । ब्राह्मणत्वे स्थिते पूर्वं तद्‌गोत्रत्वस्य35 सम्भवः ।। ७३ ।।
तदास्थितेः कथङ्गोत्रं सेयमन्धपरम्परा । अथ शक्तिविशेषेण योगे ब्राह्मण्यमिष्यते ।। ७४ ।।
इदानीन्दृश्यते नैव शक्तेरतिशयः क्वचित् । श्रूयते पूर्वकालश्चेत् सर्वत्रेति वृथा वचः ।। ७५ ।।
सर्वागमप्रसिद्धानां शक्तेरतिशयो महान् । योगिनां गीयते पूर्व्वसिद्धानामविगानतः ।। ७६ ।।
012

तस्मान्न शक्तिविशेषयोगो द्विजातित्वं युक्तं ।

न च वेदवचः किञ्चिद् द्विजातित्वादि प्र36 (?)साधकं ।

व्यक्तेः सामान्यवचनमनुक्तसममेव तत् ।। ७७ ।।

नहि वेदो देवदत्तादीनां ब्राह्मणत्वमुपदिशति । सर्व्वदाऽविद्यमानत्वात् । वेदस्य च
सर्वदा भावात् । अर्थस्याभावकाले वेदोपदेशः कथं सार्थकः । यदा भविष्यति तदा तथैति चेत् ।

अनर्थकः कथं वेदः पश्चादर्थेन सङ्गतः । उदासीनस्वरूपस्य37 तत्र व्यापृतता कथं ।। ७८ ।।

न खलु स्वभावाभावयो38 र्व्वेदस्य विशेष उपलभ्यते । तत्स्वभावत्वे च सर्व्वदा कथ
मयं विभागं प्रतीयात् ।

तस्मान्नेदं ब्राह्मणत्वादिकं प्रत्यक्षादुपदेशादुभयाद् वेदाद वा प्रतीयते । तदप्रतीयमानं
कथमुपयोगीति किन्तेन कर्त्तव्यं । ततः संव्यवहारमात्रप्रसिद्धं ब्राह्मण्यं । ततो ब्राह्मणा अपि
बेदान्नार्थक्रियाक्रमकृत इति कथं व्यवहारसंवादो वेदात् । कस्यचित्तु व्यवहारो वेदविपर्य्यया
दपीति न वेदावेदयोर्विशेषः । तस्मान्नापरीक्षिताद् वेदन्नियोगमात्रादेव प्रवर्त्तनं युक्तं । ततोऽ
प्रवर्त्तकत्वादप्रामाण्यं ।

अथ नियोक्तृधर्मता नियोगस्य । तदयुक्तं ।

नियोक्तुःसिद्धरूपत्वान्नियोगस्यापि सिद्धता । सम्पाद्यो न नियोगः स्यात् सिद्धं सम्पाद्यतां कथं ।। ७९ ।।

न खलु सिद्धमपरनिरपेक्षं कथञ्चित् सम्पादयितुं शक्यं । तथा चेदनुपरतिरेव सम्प
(।) दनाया इति व्यर्थता प्रमाणस्य ।

अथ नियोजकधर्मत्वेपि नियोज्यविषयापेक्षया नियोगस्तथात्वं प्रतिलभते । नियोज्य
रहितः कश्िचन्न नियोगः प्रतीयते । तथा नियोगविषयम्विना नास्ति नियोगता । तथाहि (।)

नियुक्तोहमनेनात्र विषय (ये नियोग) इति प्रतीतिः ।

>यतः (।)

नियोगः प्रेरणारूपो विना न विषयं क्वचित् ।

नियोज्योपि नियोज्यत्वमात्मनः सोऽवगच्छति39 ।। ८० ।।

स च तथाभूतो नियोगः साध्य एव । न खलु स्वाव्यापारसाधनं विना नियोगः
साधित इति भवति । एवन्तर्हि धात्वर्थ नियोगभावनानां परस्परसम्बन्धो नियोगः । स च
प्रतीतिकाले नास्ति । तत् कथं नियोगे वाक्यार्थे निरालम्बनता न भवेत् । न च नियोगः
परस्परसापेक्षधात्वर्थादिव्यतिरेकेणापर उपलभ्यते । सम्बन्धश्च हेतुफलभावेन व्यवस्थितानां
क्रमभाविनां न प्रतिभासगोचरः स्वरूपप्रतिभासस्य विद्यमानविषयत्वात् । पररूपप्रतिभासस्य
चातत्प्रतिभासत्वात् । न खल्वन्यदन्यरूपेण प्रतिभासते । तथा च निरालम्बने कान्यापोह
विषया श्रुतिः । तथा हि । कुरु यागादिकमिति । यागकर्तृकत्वमात्मनः प्रतीतिविषयप्राप्तं
मन्यमा च प्रतीतिकाले तदस्ति । न च


013

शब्दात् प्रागप्रतिपन्नं प्रत्येतुं शक्यं । येन हि प्राग् यागादिक्रियाविष्टो परः प्रतिपन्नः स
एवात्मनः परस्य वा तथाभावमवगच्छति नान्यः । पूर्व्वानुसारेण चेयं प्रतीतिरन्यापोह
विषयतामात्मनो नातिक्रामति । न च प्रत्यक्षतः कर्तृत्वमपि पूर्व प्रतिपन्नं । पौर्व्वा
पर्य्ये प्रत्यक्षस्यावृत्तेः । सांव्यवहारिकप्रत्यक्षापेक्षया तु प्रतीतिरित्युच्यते । सर्व्वथा पूर्व्व
प्रतीत्यनुसरणादात्मनः कर्त्तृत्वप्रतीतिः ।

अथापि न कर्त्तृत्वेनासौ प्रेर्यते किन्त्वधिकारित्वेनैव (।) न ह्यकुर्व्वन् कर्त्ता भवति ।
अधिकारित्वन्तु योग्यतया । तदप्यसत् ।

योग्यताविषये क्वापि विना न विषयेंण सा । विषयात्यक्षतायाञ्च प्रतीता योग्यता कथं ।। ८१ ।।

न खलु योग्यताविषयं स्वव्यापारमजानानस्तद्विषयविशिष्टां योग्यतां स्वरूपतोऽवगच्छति ।
ततः कर्त्तृत्ववदत्रापि दोष एव ।

विचारगोचरातीतो वचारचरितैः कथं । नियोग इष्यते वाक्यस्यार्थ आचार्यमुष्टितः40 ।। ८२ ।।

न खलु विचार्यमाणो नियोगः कश्चिदस्ति । यथा कल्पनमयोगात् ।

शुद्धकार्यस्य किं रूपनियोगः कीर्त्तितः परैः । केवला प्रेरणा कार्यसङ्गनाथ विपर्ययः ।। ८३ ।।
प्राधान्यात् कार्यरूपत्वं नियोगस्य किमिष्यते । किं वा प्रेरकता तस्य प्राधान्यादुच्यते परैः ।। ८४ ।।
कार्यस्य प्रेरणायाश्च सम्बन्धे किन्नियोगता । नियोगः समुदायोथ यद्वा तदुभयात् परः ।। ८५ ।।
यन्त्रारूढस्तथाभीष्टो भोग्यरूपो थवा स किं । पुरुषो वा नियोगःस्यादिति पक्षाः परैः कृताः ।। ८६ ।।

(१) शुद्धकार्यनियोगवादिनां मतं ।41

प्रत्ययार्थों नियोगश्च यतः शुद्धः प्रतीयते । कार्यरूपश्च तेनात्र शुध्दं कार्यमसौ मतः ।। ८७ ।।
विशेषणन्तु यत्तस्य किंचिदन्यत् प्रतीयते । प्रत्ययार्थो न तद् युक्तं धात्वर्थः स्वर्ग्गकामवत् ।। ८८ ।।
प्रेरकत्वन्तु यत् तस्य विशेषणमिहेष्यते । तस्याप्रत्ययवाच्यत्वाच् छब्दे कार्यनियोगता ।। ८९ ।।

(२) शुद्धप्रेरणानियोगवादः ।42

प्रेरणैव नियोगेत्र शुद्धा सर्व्वत्र गम्यते । नाप्रेरितो यतः कश्चिन्नियुक्तं स्वम्प्रबुध्यते ।। ९० ।।

(३) प्रेरणासङ्गतकार्यनियोगपक्षः ।

ममेदं कार्यमित्येवं ज्ञातं पूर्वं यदा भवेत् । स्वसिद्धौ प्रेरकन्तत् स्यादन्यथा तन्न सिध्यति ।। ९१ ।।

(४) कार्यसङ्गतप्रेरणावादिनः प्राहुः ।

प्रेर्यते पुरुषो नैव कार्येणेह विना क्वचित् । ततश्च प्रेरणा प्रोक्ता नियोगः कार्यसङ्गता ।। ९२ ।।

(५) कार्यस्यैवोपचारतः प्रवर्तकत्ववादिनः प्राहुः ।

प्रेरणाविषयः कार्यं न तु तत् प्रेरकं स्वतः । व्यापारस्तु प्रमाणस्य प्रमेय उपचर्यते ।। ९३ ।।

(६) सम्बन्ध एवोभयोर्नियोग इत्यपरे ।

प्रेरणा हि विना कार्य प्रेरिका नैव कस्यचित् । कार्यं वा प्रेरणा योगो नियोगस्तेन सम्मतः ।। ९४ ।।

(७) समुदायवादेप्ययमभिप्रायः ।

014
परस्पराविनाभूतं द्वयमेतत् प्रतीयते । नियोगः समुदायोऽस्मात् कार्यप्रेरणयोर्यतः ।। ९५ ।।

(८) अपरे पुनराहुः । उभयस्वभावनिर्मुक्तो वाक्यार्थः ।

सिद्धमेकं यतो ब्रह्मगतमाम्नायतः सदा । सिद्धत्वेन न तत् कार्यं प्रेरकं कुत एव तत् ।। ९६ ।।

(९) यन्त्रारूढनियोगवादिनां43 मतं ।

कामी यत्रैव यः कश्चिन्नियोगे सति तत्र स । विषयारूढमात्मानं मन्यमानः प्रवर्तते ।। ९७ ।।

(१०) भोग्यरूपनियोगवादिनां प्रवादः ।

ममेदं भोग्यमित्येवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्येव व्यवस्थितं ।। ९८ ।।
स्वामित्वेनाभिमानो हि भोक्तर्यत्र भवेदयं । भोग्यन्तदेव विज्ञेयं तदेव स्वं निरूप्यते ।। ९९ ।।
साध्यरूपतया येन ममेदमिति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं स्वं व्यपदिश्यते ।। १०० ।।

सिद्धरूपं44 हि यद् भोग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान्नियोगता ।। १०१ ।।

(११) पुरुषनियोगवादिनिः ।45

ममेदं कार्यमित्येवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगोस्य च वाच्यता ।। १०२ ।।
कार्यंस्य सिद्धौ जातायां तद्युक्तःपुरुषस्तदा । भवेत् साधित इत्येवं पुमान् वाक्यार्थ उच्यते ।। १०३ ।।

सर्व्वत्र च वाक्यार्थेऽष्ट प्रकारो भेदः ।

प्रमाणं किन्नियोगः स्यात् प्रमेयमथवा पुनः । उभयेन विहीनो वा द्वयरूपोथवा पुनः ।। १०४ ।।
शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ।। १०५ ।।

अत्रोच्यते । सर्व्वमेतदसङ्गतं (।) यतः ।

प्रेरणारहितं कार्यं नियोज्येंन विवर्जितं । नियोगो नैव कस्यापि46 नियोग इति कीर्त्यते ।। १०६ ।।

वृत्तिर्नियोगशब्दस्य शुद्धे कार्ये यदा मता । संज्ञा मात्रान्नियोगत्वं भवत् केन निवार्यते ।। १०७ ।।
यक्तस्तु पुरुषः कार्ये तत्र नैव प्रतीयते । नियोगः स कथन्नाम सिद्धातीतादिबोधवत् ।। १०८ ।।
नियोजकस्य धर्म्मोयं नियोगो लोकसम्मतः । तदेव कार्यमिति चेत् सिद्धत्वान्नास्य साध्यता ।। १०९ ।।
साध्यत्वेन नियोगोयमिति चेद व्यपदिश्यते । विषये तस्य तत्त्वेन उपचारात् प्रकीर्त्तनं ।। ११० ।।
असिद्धस्य च तस्यास्तु कथं प्रेरकरूपता । साध्यत्वेनावबोधोस्य प्रेरकत्वं यदीष्यते ।। १११ ।।
अप्रसिद्धस्य साध्यत्वं बोधः सिद्धात्मकस्य च । परस्परविरूद्धत्वमेकस्य कथमिष्यते ।। ११२ ।।
साध्यरूपतयातस्य प्रतीतिः प्रेरिका यदि । नियोगत्वं प्रतीतेः स्यान्न नियोगस्य तत्त्वतः ।। ११३ ।।

47तथा (।)

नियोगो यदि वाक्यार्थः प्रमाणं किं भविष्यति । मानरूपो नियोगश्चेत् प्रमेयं किं पुनर्भवेते ।। ११४ ।।
नियोगः पुरुषस्येष्टो व्यापारस्तत्त्वतो यदि । व्यापारः पुरुषस्यासौ भावनैवान्यवा (ि)चका ।। ११५ ।।
वाक्यव्यापारपक्षे तु भवेत् सा शब्दभावन । शब्दात्मभावनामाहुरन्यामेव लिङादयः ।। ११६ ।।
शब्दादेव त्वसौ जाताः पुरुषः किं प्रवर्तते । शब्देन प्रेरितोनो चेत् स्वव्यापारे प्रवर्त्तते ।। ११७ ।।
शब्देनाचोदितत्वेऽस्य कथमस्तु प्रवर्त्तनं । शब्देन चोदने तस्य निरालम्बनता धियः ।। ११८ ।।

015

एवं यन्त्रारुढादयोपि वाक्यार्था वाच्यदोषाः । यतः ।

यन्त्रारूढतया भोग्यभोक्‌त्रो (:) सम्बन्ध उच्यते ।

न सम्बन्धोऽस्ति भोग्यत्मारूढश्च न नरस्तदा ।। ११९ ।।
प्रतीतिकाले सर्व्वस्य साध्यत्वेनास्वरूपता । तदेव तस्य रूपञ्चेन्न साध्यत्वस्य हानितः ।। १२० ।।

एवं नियोगः प्रत्याख्यातः ।

(३) भावना-प्रत्यख्यानम्—

भावनेदानीं विचार्यते । भावना हि द्विधा । शब्दभावना अर्थभावना च । यदाह48 (।)

शब्दात्मभावना49 माहुरन्यामेव लिङादयः । इत्यन्त्वन्यैव सर्व्वार्था सर्व्वाख्या तेषु विद्यते ।। १२१ ।।

शब्दभावना शब्दव्यापारः । शब्देन हि पुरुषव्यापारो भाव्यते । पुरुषव्यापारेण
धात्वर्थो धात्वर्थेन च फलं ।

इदं चायुक्तं (।) शब्दव्यापारो हि (न) शब्दवाच्यः । तं प्रति कारकः50 शब्दो न
वाचकः । अप्रतिपादकः (।) तथा हि (।)

शब्दादुच्चरितादात्मा नियुक्तो गम्यते नरैः । भावनातः परः को वा नियोगः परिकल्प्यतां ।। १२२ ।।

शब्दभावनैव खलु नियोग इति शब्दान्तरेणोच्यते ।

तदसत् । यदि शब्दव्यापारः कथमगृहीतसङ्केतो नावगच्छति । स्वभावतो हि
नियोजकत्वे न श(? सं) ङ्केतग्रहणमुपयोगि । सैव सामग्री चेत् । ननु सामग्री यदि
प्रेरणे भावनायां वा व्याप्रियते (। अ) युक्तमेतत् । यावता (।)

श(?सं) ङ्केतग्रहसामग्री व्यापृता (ऽ) र्थस्य वेदने । अर्थप्रतीतौ पुरुषः स्वयमेव प्रवर्त्तते ।। १२३ ।।

इदं कुर्व्विति प्रेरणाध्येषणयोरेव प्रतीतिः । तदप्रतिपत्तौ न नियुक्तत्वप्रतिपत्तिः ।
नियुक्तत्वञ्च नाम कार्ये व्यापारितत्वं । कार्यव्यापृतामवस्थां प्रतिपद्य नियोजको निर्युक्ते ।
सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या । स्वरूपसाक्षात्करणे हि सर्व्वं
तदैव सिद्धमिति न नियोगः स्यात् सफलः ।

यथा प्रयोजकस्तत्र बाध्यमानप्रतीतिकः । प्रयौज्योपि तथैव स्याच्छब्दो बुद्ध्यर्थवाचकः ।। १२४ ।।

यथैव हि प्रयोजकस्य प्रयोज्येन स्वव्यापारशून्यमात्मानं प्रतियता प्रयोजकप्रतीतिर्बा
ध्यमाना निरालम्बना तथा प्रयोज्यप्रतीतिरपि तेनैव स्वव्यापाराविष्टमात्मानप्रतियता
बाध्यते । शब्दात् तस्य सा प्रतीतिरिति चेत् । नास्त्येतत् । सोऽपि शब्दो बुद्ध्यर्थमेव
ख्यापयति । एवं मया प्रतिपादितमेवं मया प्रतिपन्नमिति द्वयोरप्यध्यवसायात् । अथवा
(एवं) तावत् प्रतिपन्नं मयास्य त्वभिप्रायो भवतु मा वा भूत् । तथा भवत्वेवमर्थो मा वा
भूत् मया तावदेवं प्रतिपन्नं । अत एवाह ।

वक्तृव्यापारविषयो यर्थो बुद्धौ प्रकाशते ।
प्रामाण्यन्तत्र शब्दस्य नार्थतत्त्वनिबन्धनं ।। ३ ।।

016

वक्तृव्यापारविषय इति यत्र वक्तास्ति । बुद्धौ प्रकाशते इति यत्र स नास्ति ।
अथवा तदुक्तेरेव तत्र वक्तास्तीति गम्यतां । (य)ज्जातीयो यत इति न्यायात् । अथवा
तदविशेषात् सर्व्वमेवापौरुषेयं । पुरुषकृतेर्व्वाधनान्नैवं चेद् (।) अत्राप्यतीन्द्रियत्वात्
पुरुषकृतेः सा न बाधिकेति कुत एतत् ।

अथवा अपौरुषेयमेव तद्वचनं पुरुषस्य तु मया कृतमेतदिति भ्रान्तिः । तथाहि ।

अत्यन्तनष्टो यो ग्रन्थः प्रतिभात्येव कस्यचित् । मया कृत इति प्राप्ताभिमानस्य क्षतस्मृतेः ।। १२५ ।।

कवयोपि जन्मान्तरानुभूतमेव ग्रन्थं कवित्वेनोत्प्रेक्ष्यन्त इति । कुत एतत् । तथा च
सर्व्वमपौरुषेयं । व्यर्थकत्वमपि तथा भवतीति व्यर्थमपौरुषेयत्वं तत्र ।

समानतत्र वेदेपि तत्रापि व्यर्थतेष्यते51 । अन्यार्थकल्पनायाञ्च समानमुभयं भवेत् ।। १२६ ।।

वेदावेदयोर्व्यर्थता(ऽ)पौरुषेयताकल्पना च समानैव । अन्यार्थकल्पनायां न व्यर्थतेति
चेत् ।

सत्त्यार्थकल्पना तत्र पौरुषेय्येव कल्प्यतां । असत्यार्थावभासस्तु प्रथमो यः स वेदतः ।। १२७ ।।

अत आह । वक्तृव्यापार (विषय) इत्यादि । वेदार्थं प्राथमिकं परित्यज्य योर्थो
बुद्धिव्यापारविषयस्तत्र प्रामाण्यं पुरुषबुद्धेरेव नार्थतत्त्वनिबन्धनं न शब्दस्येति व्यस्तपदसम्बन्धः ।

तथा हि तं परित्यज्य वेदार्थं प्रथमं नरः । प्रमाणशुद्धमन्यार्थं52 कल्पयेत् तन्मतिः प्रमा ।। १२८ ।।

सोपि वेदार्थ एवेति न प्रमाणमिहास्ति वः । वेदाधिपत्यतो जातेरिति चेत् प्रथमो न किं ।। १२९ ।।
तस्यापि च तदर्थत्वे व्यर्थो वेदः कथन्न सः । तथा च सति सन्देहेऽपौरुषेये न मानता ।। १३० ।।

वेदेर्थतत्त्वस्य प्राथमिकस्याभावात् चित्रया यजेत पशुकाम इति व्यर्थकत्वात् । कर्मवै
गुण्यवत् तत्रेति चेत् । न (।) प्रमाणाभावात् । अन्यार्थकल्पना तु पुरुषप्रयत्नाद् भवन्ती
पुरुषकृतैव । तथा चोक्तं । सा किमशब्दलिङ्गा स्वयं कथञ्चिदनुस्मरतो न भवति । सर्व एव च वेदादात्मानं नियुक्तं मन्यते पूर्व्वानुसारेण । नियोगश्च शब्दभावनारूपः (।)
यदि स वाक्यार्थः । तथा सति देवदत्तः पचेदिति कर्त्तुरनभिधानात् कर्त्तृकरणयोस्तृतीये53
ति तृतीया प्राप्नोति । कर्त्रभिधाने तु अनभिहिताधिकारात्54 तिङ्गैवोक्तत्वान्न भवति ।
किंच । पचतीति कर्त्तापि प्रतीयते । व्यापारसामर्थ्यात् कर्त्तृराक्षेपादेवं प्रतीतिरिति
चेत् (।) न (।)

क्रमप्रतीतिरेवं स्यात् प्रथमं भावनागतिः ।

(।) तत्सामर्थ्यात् पुनस्तस्माद् यतः कर्त्ता प्रतीयते ।। १३१ ।।

न च क्रमप्रतीतिरुपलभ्यते । द्विवचनबहुवचने च न प्राप्नुतः एकत्वाद् व्यापारस्य ।

अथ कारकभेदाद् व्यापरभेदो भविष्यतीति चेत् । क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति
महदसमंजसत्वं स्यात्55 (।) तथा हि ।

एकत्वात् कर्म्मणः प्राप्तं क्रियैकत्वं तथा भिदः । कर्त्तुर्भेद इतीत्थञ्च किङ्कर्त्तव्यं विचक्षणैः ।। १३२ ।।

017

ननु धात्वर्थस्याभेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते । स च धात्वर्थो न नियोगः ।
नियोगस्य प्रत्ययार्थत्वात् । स च धात्वर्थातिरिक्तः । कर्त्तृसाध्यस्तस्य कर्त्तृभेदाद् भेद इति
ततः कटं कुरुत इति भवति । धात्वर्थस्तु शुद्धो न कारकभेदाद् भेदी । तदसत् ।

सम्बन्धाद् यदि तद्‌भेदो धात्वर्थस्याप्यसौ भवेत् ।

सोपि निर्वर्त्त्य एव(तिः) तद्‌भेदेनैव भिद्यतां ।। १३३ ।।

अस्माकन्तु ।

विवक्षापरतन्त्रत्वाद् भेदाभेदव्यवस्थितेः । लाभिधानात् कारकस्य सर्वमेतत् समञ्जसं ।। १३४ ।।

क्रिया हि कर्त्तुः कर्मणश्च भेदेन विवक्ष्यते । सा यदि लकारेणाभिधीयते न कर्त्रा
तदा कर्त्तरि तृतीया भवति । यदाभिधीयते तदा प्रथमार्थत्वात् प्रथमा भवति । क्रियते
महात्मना
करोति महात्मे ति ।

यदा भेदविवक्षास्य भावनार्थस्य ज्ञायते । लकारेणाभिधानञ्च तृतीया कर्त्तृरीप्स्यतां ।। १३५ ।।
यदा भेदविवक्षास्य कर्त्ता लेनाभिधीयते । तेनैवोक्तेस्तृतीयास्ति न कत्तुरिति गम्यतां ।। १३६ ।।

यदा तु कर्त्तृव्यापारस्तिपा प्रतिपाद्यते (तदा) स एव च भावना । तथा चाह । भावार्था कर्म्मशब्दाः । भावनं भावो ण्यन्तस्य प्रत्ययः ।56 तथा च सति भावनैवासौ ।
भावना च कर्त्तृव्यापारः (।) स चोदितः कर्त्रा स्वव्यापारे प्रवर्त्तते । नियोगस्य च तच्छेषत्वाद
प्रधानत्वादवाक्यार्थत्वं । नियोगविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्त्तते ।
कथञ्चासौ स्वव्यापारं प्रतिपन्ने (? न्नोत्र) न प्रवर्त्तते । अन्यथा स्वव्यापार एव तस्य57
चोदितो भवेत् । तदेतद सत् ।

व्यापार एष मम किमवश्यामिति मन्यते । फलम्विनैव नैदं चेत् साफल्ये धिगमः58 कुतः ।। १३७ ।।

यद्यवश्यमेष मम व्यापार इति मतिस्तदयुक्तं । न हि फलमपश्यन्ममेदं कर्त्तव्यमिति
कश्चित् प्रत्येति । सफलत्वे प्रवर्त्तते । सफलत्वं नावगम्यत इति प्रतिपादितं । किंच ।

यजते पचतीत्यत्र भावना न प्रतीयते । यज्यर्थादतिरेकेण तस्या वाक्यार्थता कुतः ।। १३८ ।।
पाकं करोति यागञ्च यदि भेदः प्रतीयते । एवं सत्यनवस्था स्यादसमञ्चसताकरी ।। १३९ ।।

करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्व्वर्त्तयति । व्यपदेशा एते
यथाकथंचिद् भेदपुरस्सरा (: ।) नैतेभ्योस्ति पदार्थतत्त्वव्यवस्था । शिलापुत्रकस्य शरीरमिति
न भेदव्यवहारा भेदमन्तरेणापि दृश्यन्ते ।59

यथा द्विजस्य व्यापारो याग इत्यपि गीयते । ततः परा पुनर्दृष्टा करोतीति नहि क्रिया ।। १४० ।।
यजि क्रियापि द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतिः ।। १४१ ।।

ननु च किं करोति देवदत्तः पचति यजतीति प्रश्नोत्तरदर्शनात् । करोतीति निश्चिते
सति यज्यादिषु सन्देहादन्यत्त्वं प्रसिद्धमेव । तथा चाह । न च शरीरमेव बुद्धिस्तत्सिद्धावपि
बुद्धिविकल्पे संशयात् । तदेतदयुक्तं ।


018
करोत्यर्थयजत्यर्थौ विभिन्नौ यदि तत्त्वतः । अन्यत् संदिग्धमन्यस्य कथने दुर्घटः क्रमः ।। १४२ ।।

यदि हि करोति क्रिया अन्या यज्यादिकायाः । तदा करोतीति निश्चिते कथमन्यत्र
संदेहे प्रश्नः । अनिश्चित एव प्रश्नस्य युक्तत्वात् । सामान्यरूपोथ करोत्यर्थो विशेषरूपो
यज्यादिरिति चेत् ।

सामान्येन विशेषेण विना किंचित् प्रतीयते । सामान्याक्षिप्यमाणस्य नहि नामाप्रतीतता ।। १४३ ।।

केवलसामान्यप्रतीतौ हि विशेषांशे संदेह इत्युक्तं ।

अथ सामान्येन विशेष आक्षिप्यते । तथा सति सोपि प्रतीत एव कथं संशयः । नहि
प्रतीतत्वादपर आक्षेपः ।

अथ प्रतीत एवासौ तथापि प्रतीतता विशेषरूपेण नास्ति सामान्येनाक्षेपात् ।

ननु तदेव सामान्यमाक्षेपकं तदेवाक्षेप्यमिति कथमेतत् । न च सामान्यादपरं सामान्य
ताक्षेप्यं । तथा सति ततोप्यपरं ततोप्यपरमित्यनवस्था ।

ननु सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयो युक्त एव । न (।)
अनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अन्यथोपलब्धिलक्षणप्राप्तानुप
लम्भादभावो नानुपलब्भिमात्रात् । तथाप्यनुपलब्धेरेव संशयो व्यर्थमेतत् सामान्यप्रत्यक्षादिति ।

यदि सामान्यप्रत्यक्षतायामपि उपलब्भिलक्षणप्राप्तानुपलब्धिर्न सामान्यसंशयः ।
आत्मोपलम्भलक्षणप्राप्तानुपलब्धिरेव न सम्भ(व)ति सामान्यप्रत्यक्षतायाम् (।) एवन्तर्हि
सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं । विशेषस्मृतिरिति च व्यर्थं ।
नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः । उभयांशावलम्वि (स्मृति) रूपत्वादस्य । दृश्यते
(कान्य) कुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः (।) तदेव
यज्यादिकमनियमेन प्रतीयमानं सामान्यतो दृष्टादनुमानात् सामान्यं । आह चात्र60 ।

अतद्रूपपरावृत्तवस्तुमात्र प्रसाधनात् । सामान्यविषयप्रोक्तं लिङ्गं भेदा प्रतिष्ठितेः ।। १४४ ।।

भेदानवधारणमात्रमेव सामान्यपरिच्छेदः । क्वचिद् बुद्धिरेव तदाकारविविक्ता भावा
भावसाधारणत्वात् संशयहेतुः । तथा61 तथाभूतानुपलब्धिरेव संशयहेतुः । बुद्धिरूपा उप
लभ्यमानपदार्थरूपा वा ।

ननु समानाकारानुभवाभावे दृश्यते संशयः स्थाणुर्वा पुरुषो वेति । ऊर्ध्वतासामा
न्यमुपलभ्यते ।62 यद्यस्ति तदा द्वयाकारा बुद्धि63 रुपलभ्यते ।

न भेदाद् भिन्नमस्त्यत्र सामान्यं बुद्धिभेदतः । बुद्‌धयाकारस्य भदेन पदार्थस्य विभिन्नता ।। १४५ ।।

अथोपलभ्यत एव पुरुषस्थाणुस्वरूपपरिहारेण दूरदेशमूर्ध्वतामात्रमन्यथा स्थाणु
पुरुषाकारान्तर्ग्गतानुभवे न तत्र64 सन्देह उत्पद्येत । तस्मात् तत्परिहारेणावभासनमेव
तद्‌व्यतिरेक एतावन्मात्रलक्षणत्वाद् व्यतिरेकस्य । (।)


019

तन्न युक्तं ।

तन्मात्रव्यतिरेकश्चेत्65 किन्नादूरेवभासनं । दूरेवभासमानस्य सन्निधानेतिभासनं ।। १४६ ।।

यत् खलु दूरदेशनिवेशिदशायामवभासते । तत्सन्निधानविधानाधीनं सुतरामव
भासवत्66 । पदार्थान्तरत्वे च सामान्यस्य तदेव प्रतिभासने । कथम(न्यत्र) त्रास्पष्ट
प्रतिभासव्यवहारः । न खलु नीलपदार्थप्रतिभासनेऽस्पष्टशुक्लप्रतिभासव्यवहारः ।

ननु भवत्पक्षेपि केयमस्पष्टता नाम । अस्पष्टप्रतिभासता नाम 67 (।) अस्पष्टप्रति
भासता हि कदाचिदप्रतिभासता कदाचिदन्यप्रतिभासता (।) कदाचित्तु तत्प्रतिभासतेति68 ।

तस्यैव प्रतिभासश्चेदस्पष्टप्रतिभासता । अस्पष्टता कथं नाम स्वरूपेणावभासने ।। १४७ ।।

अन्यस्य प्रतिभासोपि तस्यैवास्पष्टता कुतः ।

अप्रतिभासं विना भावः कथं स्यात् प्रतिभासने ।। १४८ ।।
बुद्धिरेव तथा भूता यद्यस्पष्टावभासिता । बुद्धिस्वरूपनिर्भासेनार्थस्यास्पष्टभासिता ।। १४९ ।।

तदेतदसत् ।

बुद्धिरेवातदाकारा तत उपद्यते यदा ।तदा (ऽ) स्पष्टप्रतीभासव्यवहारो जगन्मतः ।। १५० ।।

अथ तदेव सामान्यन्तथा सति वर्ण्णसंस्थानप्रतिभासनं न स्यात् (।) न खलु सामान्यं
वर्ण्णसंस्थानवद् द्रव्याश्रितत्वात् तयोः । अथ द्रव्यगतं वर्ण्णसंस्थानं तथा सति ततोत्पन्न
सामान्यमनवभासनात् । वर्ण्णसंस्थानयोरेव प्रतिभासनं, तयोश्च साधारणत्वात् स्थाणुपुरुषयोः
सन्देह इति युक्तं ।

तदप्यसत् । यतः ।

स वर्ण्णोन्येन रूपेण संस्थानं कथमन्यथा । तत्प्रतीयत इत्थञ्च भ्रान्ता बुद्धिः प्रतीयते ।। १५१ ।।

यदि वर्ण्णसंस्थानमन्यथा प्रतिभाति भ्रान्तिरेव सा (।) कथं सामान्यप्रत्यक्षता ।
अथावयवी तत्र प्रतिभाति न सामान्यं नापि वर्ण्णसंस्थानमिति चेत् ।

संस्थानवर्ण्णरूपाभ्यां व्यतिरेकावभासनं । कुतो द्रव्यस्य किन्तस्मादपरं प्रतिभासते ।। १५२ ।।

श्यामतादि रूपं हि वर्ण्णादिकमवभासते । न च तत्रान्यदेव द्रव्यमवभासते । तद्व्य
तिरेकेणापरस्य द्रव्यस्याप्रतिभासनात् । तदेव द्रव्यमिति चेत् (।) न (।) गुणत्वात्
संस्थानवर्ण्णयोः ।

अथ वर्ण्णसंस्थानवद् द्रव्यम् (।) न (।) तद्‌व्यतिरकेणान्यथा प्रतिभासनाभावात् ।
न खलु स्पष्टास्पष्टवण्णसंस्थानव्यतिरेकेणापरं द्रव्यमुपलभ्यते । अस्पष्टवर्णसंस्थानस्य च
तदपरसामग्रीप्रभवज्ञानेन बाध्यमानत्वात् । नेदमेवम्भूतमिति स्पष्टाकारप्रत्ययोदये सति
भवतीति । तदनुपलब्धिरेव च तद्विपर्ययोपलब्धिरूपा69 बाधकं । नेदमिति (कल्पना)
प्रत्ययस्यानुत्पत्तेर्न्नैवमिति चेत् । न (।) उत्पद्यत एव सोपि नेदमिति प्रत्ययः । तथा हि ।
तद्वर्ण्णंमेतत्संस्थानं न भवतीति तद्‌व्यतिरिक्तसंस्थानबाधकमुपज्ञायत एव ज्ञानं । व्यतिरिक्तस्य
020 न बाधकमिति चेत् । यत एवाव्यतिरिक्तसंस्थानबाधकमत एव व्यतिरेकि संस्थानं
भविष्यति ।

तदसत् ।

यादृशस्य प्रतीतिः प्राग् बाधनं तादृशस्य चेत् । अन्यथा न प्रतीतिश्च70 किमन्यदवशिष्यते ।। १५३ ।।

यादृशं संस्थानं द्रव्यं वा वर्ण्णाव्यतिरिक्तं प्रतिपन्नं (।) यदि तादृशस्य बाधा किमपर
मवशिष्यते । न खलु योगविभागो विद्यते । येन तत्रैकस्य बाधनमपरस्य नेति व्यवस्था
विभागः ।

अथापि स्यात् ।

तस्य वर्ण्णस्य न प्राप्तिः संस्थानद्रव्ययोस्तदा ।

ततः प्राप्तेः परं द्रव्यन्तच्च प्रागिति वित्तिमत् ।। १५४ ।।

यच्च पूर्वोत्तरभावेन वेद्यते यच्च न तथा (।) तयोर्विरुद्धधर्म्माध्यासयोगो न71 युक्तः ।
प्रभेदो हि सकल एवमेव साधनीयो परस्य भेदसाधनस्याभावात् ।

तदसत् ।

तदन्यद् यदि तत्त्वेन प्रत्यक्षे किन्न भासते । पूर्व्वे परे वा उभयोर्दृश्यते सम्भवः कदा ।। १५५ ।।

यदि तत् परमार्थतो भिन्नं वर्ण्णसंस्थानं द्रव्यात् संस्थानं वा वर्ण्णात् कथं पूर्व्वत्र परत्र
वा प्रत्यक्षे न प्रतिभाति । प्रत्येकमप्रतिभासने समुदायस्य तद्व्यतिरिक्तस्याभावात् तत्र
प्रतिभासनमिति महन्मोहसामर्थ्यं । न च द्वयोः समवधानमिति कुतः समुदायः । अनु
सन्धानश्च न प्रत्यक्षादिति । तदभावादनुमानमपि नास्तीति कुतो व्यतिरेकप्रतीतिः ।

तस्मान्न साधारणं नाम किञ्चित् । सर्वस्य स्वात्मनि व्यवस्थितत्वात् विशेषतैव ।
तस्मान्न क्रिया करोतीति साधारणरूपा यजनादिक्रिया विशेषाणां (सामान्यम् ।) (।)
ततो न भावना कत्तव्यापाररूपा तद्व्यतिरेकेणाविभावनात् । न च धात्वर्थो पि द्रव्यव्यति
रेकेणास्ति । द्रव्यमेव पूर्वापरीभूतमन्वयव्यतिरेकेण कल्पितव्यतिरेकिस्वभावमभेदेपि भेद
वदुपचर्य क्रियातो भिन्नं क्रिया च ततो भिन्नेति व्यवहारमात्रमेतत् । नेयं वस्तुतत्त्वव्यवस्थितिः ।
स्वव्यापारधात्वर्थौ च नियोगकाले भाविनौ प्रतीयेते । ततः कथन्तदालम्बना प्रतीतिः
पूर्व्ववासनाबलादुपजायमाना न निरालम्बनेत्युक्तं ।

8b थापि स्यात् (।) प्रत्यक्षस्य हि वर्त्तमानविष(य)त्वाद् भाविभूतविषये नालम्बनत्वं
शब्दस्य तु तद्विषयत्वेपि न तत्त्वं । तदाह चोदने72त्यादि ।

तदसत् ।

अदृश्यमानः सोप्यास्तीत्येतद् व्यवसितं कथं । अनुमाने तु सम्बन्ध इति तत्र तथा स्थितिः ।। १५६ ।।

सर्व्वा हि परोक्षविषया प्रतीतिरर्थसम्बन्धादेवाविसम्वादिनी यथा अनुमानप्रतीतिः ।
न हि यो येनासम्बद्धस्तद््भावे तस्य भावनियमः । निरालम्बना तु त
त्स्वरूपाभावादेव । न
ह्यविद्यमानस्य स्वरूपग्रहणमित्युक्तं । न च भाविना सह सम्बन्धनियमः । अनुमाने तु


021

कारणात् कार्य/?/ प्रतीयते । तथा परम दर्शनात् । न च फलकारणताग्निहोत्रादेरुपलब्धा ।
नापि तदकरणे प्रत्यवा यनिश्चयः73 ।

अथात्मनः सामर्थ्यमवगच्छन् यागकरणतामात्मनः74 प्रतिपद्यमानो यागे75 प्रवर्त्तिष्यते ।

कारणत्वं यदा (स्वर्गे) तस्य न प्रतिपद्यते । यागस्य देशितोप्येष कस्मात् तत्र प्रवर्त्तते ।। १५७ ।।

अत एव भावनानियोगधात्वर्थानां परस्परसम्बन्धः फलाभिसम्बन्धो वा विधिर्वाक्यार्थ76
इति न युक्तं । सर्व्वस्य भावित्वेन ज्ञानेनाग्रहणान्निरालम्बनतैव बुद्धेः । अतो दृश्यविक
ल्प्यार्थैकीकरणात् प्रवर्त्तते । स एव चान्यापोह इति । न कश्चित् प्रेक्षापूर्वक री वेदात्
प्रवर्त्तत इत्यलमति
प्रसङ्गेन ।

तस्माद् (।) वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशतेऽध्यारोपितः । प्रामाण्यन्तत्र
शब्दस्य नार्थतत्त्वनिबन्धनं ।
(२।२)

न खल्वध्यारोपेण सत्त्यार्थविषयेण भवितव्यं प्रतिबन्धमन्तरेणेति व्यवस्थितमेतत् ।

प्रथम77वार्त्तिकालङ्कारे विधिभावनादि वार्त्तिकं प्रथमं ।। २ ।।

२. प्रमाणसिद्धिवार्त्तिकं द्वितीयम्

१. व्यवहारिकत्वेन प्रमाणता—

यदि तर्हि अर्थक्रियास्थितिरविसम्बादनं (। अथ)78 प्रत्यभिज्ञादिप्रत्ययादपि
एवायमि
त्यादि ज्ञात्वा प्रवर्त्तमानोऽविसम्वादभागिति प्रमाणं स्यात् ।

तत्रापूर्व्वार्थविज्ञानं निश्चितं बाधवर्जितं ।
अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ।। १५८ ।।

अवयव्यादिविषयत्वं सम्वादकत्वात् प्रमाणमिति । अथालोचनाज्ञानसामर्थ्यादसौ
विकल्प उत्पद्यमानो न79 प्रमाणँ । अवयविनि चावयवविज्ञानसामर्थ्यात् (।) तथा सति
तदप्यालोचनाज्ञानं चक्षुःसन्निकर्षादि(सामर्थ्यादि)80ति न स्यात् प्रमाणं । तत्र यदि कारण
परम्परान्विष्यते चक्षुरादीनां प्रसङ्गः । अथानन्तरं विकल्पस्यैव प्रामाण्यप्रसङ्गः ।।

अत्रोच्यते ।

गृहीतग्रहणान्नेष्टं सांवृतं धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि ।। ३ ।।

स एवायमिति प्रत्यय उत्पद्यमानो नैकत्वे प्रमाणं । (अपूर्वस्य)81 एकत्वस्याग्रहणात् ।
दृष्टस्यैव तस्य प्रतिपत्तेः । एकत्वं हि पूर्वेण सह गृह्यमाणमेकतां विवादविषयतां स्वीकरोति ।
वर्त्तमानता११मात्रस्यैकत्वे सिद्धसाधनमेव । तच्च पूर्व्वं पूर्व्वप्रत्येन गृहीतत्वान्नापरं (।)
पूर्वप्रत्ययेन चासौ त्रुट्यदवस्थ एवापूर्व्वतया च गृह्यते । ततः पुनरनुसन्धीयमानं यथाभूतं

82
022

गृहीतं तथा भतमेव वानुसन्धातव्यं (।) गृहीतत्वेन च ग्रहणे स्मरणमेतदिति गृहीतग्राहि
त्वादप्रमाणमपरस्मरणवत् । संवादस्त्वर्थक्रियाकरणात् । न चैकत्वसाध्यार्थक्रिया । वस्तु
सामर्थ्यमात्रादुत्पत्तेः ।

तस्मात् स एवायमिति प्रत्यद्वयमेवैतत् । अथैकता प्रतीयते पूर्व्वेण सह (अपरस्य)
तदयुक्तं ।

पूर्व्वमध्यक्षतोऽवित्तौ तेनैकत्वेस्ति न प्रमा ।
एकत्वमप्रतीतेन प्रतीतमिति साहसं ।। १५९ ।।
तेन सांवृतमेकत्वं पू9a र्व्वपूर्व्वविकल्पतः ।
प्रामाण्यं प्रत्ययस्यास्य सांवृतस्य न विद्यते ।। १६० ।।
घटादिविषयो योपि प्रत्ययः सरसादिके ।
तत्प्रत्ययैर्गृहीतेर्थे समुदायविकल्पनात् ।। १६१ ।।
समुदायात् परस्त्वेको नैव केनचिदीक्ष्यते ।
अनादिवासनादार्ढ्यात् परस्याग्रहवैशसं ।। १६२ ।।

कथन्तर्हि धियः प्रामाण्यं यदि पूर्व्वापरादिकस्य (नैका)83 प्रतिपत्तिः ।

अत्रोच्यते । हेयोपादेयविषये प्रवर्त्तकं हि प्रमाणमुच्यते । तत्र च प्रवर्त्तने धीरेव
प्रधानं (।) यद्यपि नाम भाव्यर्थो न प्रतिपन्नस्तथापि तत्र प्रवर्त्तनात् प्रमाणं । यथानुमानस्या
ग्रहणेपि (प्रामाण्यम्) । न ह्यनुमानेन वस्तुस्वरूपस्वीकार इति प्रतिपादयिष्यते । न च चक्षु
रादिकात् प्रवर्त्तते ज्ञानमन्तरेण विकल्पमन्तरेणापि बुद्ध्याभ्यासात्84 प्रवर्त्तते । ततो हेयोपा
देयविषये धीरेव पूर्व्विका प्रवर्त्तनात् प्रमाणं न विकल्पादयः । यत्र तु नाभ्यासस्तत्रानुमानमेव
प्रत्यभिज्ञानादयोऽतो नातिप्रसङ्गः ।

एवान्तावत् फलार्थितां व्यवहारिकत्वेन प्रमाणत्वं प्रतिपादितं ।

२—अधिगमफलविषयविभागकारितया प्रमाणता—

इदानीमधिगमफलविषयविभागकारितया प्रतिपाद्यते ।

विषयाकारभेदाच्च धियोधिगम भेदतः ।

अपि च । धिय एव प्रामाण्यं नान्यस्य (।) यतः । विषयाकारभेदादधिगमस्य
प्रमाणफलस्य भेदः ।85 न प्रवर्त्तनात् प्रमाणं अपि तु प्रतिपत्तिकरणात् । प्रतिपत्तौ हि ज्ञातायाँ
प्रवर्त्ततां वा न वा (।) तथाप्यर्थतथाभावव्यस्थानात् प्रमाणं (।) व्यवस्थापितेर्थे यदि
न प्रवर्त्तते । नायं प्रमाणस्य दोषः । प्रापकत्वात् प्रमाणमिति चेत् । न (।) प्रापणयोग्यत्वात्
प्रमाणस्य । तदेव प्राप्तावसत्यां कथं ज्ञायते । रूपविशेषदर्शनात् । अव्यभिचारिणो रूपस्य
कथं परिच्छित्तिः ।

समाप्तस्तर्हि वाह्यार्थव्यवहारः । अव्यभिचारित्वाज्ज्ञाने86 हि स्वरूपसम्वेदनमात्रमेव
परिस्फुटं । तथा च कुतो वाह्यार्थपरसन्तानादिप्रतीतिः । एतच्चोत्तरत्र वक्ष्यमः । विषयाकार
इवाकारोऽस्य विषयाकारं ज्ञानं (।) तस्य भेदो विषयाकारभेदः । विषये वा87 आकारभेदो
बिषयाकारभेदः । आकरणमाकारः । उल्लेख इत्यर्थः । विषयसदृशता विषयोन्मुखता
च (।) तद्भेदाद् धियोऽधिगमभेदः नीलस्य संवित्तिस्तदाकारस्य चेति । अर्थाधिगमश्च


023

प्रमाणफलं स्वरूपाधिगमो वा । तथा चाह । प्रमाणाधीनो हि प्रमेयाधिगमः । स च
विषयाकार आत्मभूतो ज्ञानस्य (।) ततो ज्ञानमेव प्रमाणं ।

ननु यथाकारो ज्ञानात्मभूतस्तथाधिगमोपि । ततो ज्ञानमेव फलमिति प्राप्तं ।

सत्त्यमेतत् ।

प्रमाणतः फलन्नान्यत् प्रमाणं न फलात् परं । एवं प्रकारा सर्व्वा च क्रियाकारकयोः स्थितिः ।। १६३ ।।

एतच्चोत्तरत्र प्रतिपादयष्यते ।

यथा चक्षुरादयो न भवन्ति प्रमाणन्तथाऽऽकारोपि मा भूत् । यथा कारका अपि
संवेदनस्य चक्षुरादयो न प्रमाणन्तथाकारोपीति88 (।) आह ।

भावादेवास्य तद्भावे,

तद्भावे आकारभावे । अस्याधिगमस्य फलस्य भावादेव (।) न खलु चक्षुरादिभावेस्य
फलस्य भाव एव । आकारस्य तु भावे भाव एवाव्यतिरेकादिति साधकतमत्वं । साधकतमञ्च करणं89 । अव्यवधाने च साधकतमत्वमिति प्रतिपादयिष्यते ।

कथन्तर्हि चक्षुषा पश्यति रूपमिति । कारणे कार्य्योपचारादेवमुच्यते । चौरैग्रामो
दग्ध
इति यथा । तस्मात् ज्ञानमेव प्रमाणं ।

ननु प्रापकमेतज्ज्ञानमिति कथं ज्ञातव्यं । न तावत् प्रत्यक्षतः । न खलु स्वसंवेदन
प्रत्यक्षं प्रमाणाप्रमाणविभागमुपदर्शयति । सर्व्वज्ञानेषु स्वसंवेदनस्य भावात् । न च
तदुत्पत्तिकाल एव संवादीतरज्ञानविभागसंवेदने प्रवर्त्तमानः कश्चिद् विप्रलभ्यते । नापि
सन्देहवान् स्यात् ।

अथाबाधितत्वलक्षणं प्रामाण्यं स्वत एव प्रसिध्यति (।) तदर्थापत्त्या प्रसाध्यमानं परो
क्षज्ञानवादिनां कथं स्वतः सिद्ध्यति । यथार्थापत्त्या ज्ञानसत्त्ता सिद्ध्यति । तस्यार्थापत्त्या
ज्ञानस्य नापरेण प्रामाण्यं ज्ञायते । स्वत एव तु प्रमाणता । अप्रामाण्यन्तु बाधकज्ञानात्(।)
बाधकज्ञानस्य च स्वत एव प्रामाण्यं ।

किञ्च । कारणादुत्पद्यते (वि) ज्ञानं, प्रामाण्यन्तु तस्य स्वत एव । तदप्यपवादेन
बाधकज्ञानेनाबाधितत्वलक्षणमपोद्यते ।

अत्रोच्यते ।

यदि स्वतः प्रमाणत्वं निजकारणभावतः । तथोत्पन्नस्य तस्यान्यैर्ब्बाधकैर्नान्यथा क्रिया ।। १६४ ।।
अथात्मा ज्ञानरूपत्वात्90 प्रमाणं स्वत उच्यते । बाधकानां सहस्रेपितस्याप्यस्ति न विक्रिया ।। १६५ ।।
दुष्टकारणसद्भावादप्रामाण्यं भवेद् यदि । गुणवत्कारणासङ्गात् प्रामाण्यं न किमिप्यते ।। १६६ ।।
दोषाभावत एवास्य प्रामाण्यं यदि सम्मतं । अप्रामाण्यं गुणाभावात् कस्मादस्य न गम्यते ।। १६७ ।।
न च प्रमाणेतरतः कश्चिदात्मेक्ष्यते परः । प्रमाणत्वाप्रमाणत्वं येन तस्यान्यतो भवेत् ।। १६८ ।।

91 024
बोधात्मकः स चेदिष्टः स्वापावस्थागमादिषु92 । स्वसंवेदनभावोस्य कदाचिन्नापगच्छति ।। १६९ ।।
न वेद्यते तदा किञ्चिदात्मास्तीति कथम्मतः । बोधेतरव्यवस्था तु दूराद् दूरतरं गता ।। १७० ।।
तस्मादुत्पद्यते ज्ञानं प्रमाणमितरत् तथा । कारणादेव तद्भूतं न स्वतस्तस्य मानता ।। १७१ ।।
समानाकारसद्भावान्न तु तत्त्वेन निश्चयः । अबाधितत्वं सर्व्वस्य प्रथमन्तेन न प्रमा ।। १७२ ।।

पश्चाद् बाधस्तु93 सन्दिग्धो निश्चयस्तस्य सोन्यतः । प्रत्यक्षतोऽनुमानाद्वा प्रमाणमपरं न हि ।। १७३ ।।

संवादप्रत्ययः सोन्यविषये यदि वर्त्तते । तेन पूर्वस्य मानत्वमतीतस्येक्ष्यते कथं ।। १७४ ।।

साधनप्रत्ययस्यापि सन्देहविषयत्वतः । साधनत्वं कथन्तस्य प्रमाणत्वाप्रती(ति)94 तः ।। १७५ ।।

बोधात्मकत्वान्मानं चेत् प्रसक्ता सर्व्वमानता । अबाधितार्थबोधोपि प्रथमन्न प्रसिध्यति ।। १७६ ।।
अथार्थकारितां ज्ञात्वा तदर्थस्य प्रमात्ववित् । प्रमाणं प्रागसिद्धं यत् तस्य वित्तिः कथन्ततः ।। १७७ ।।

यदि प्रमाणं प्राक्सिद्धं क्रिया (स्यात्) तस्य योगवित् ।

अर्थक्रियातस्तज्ज्ञानं प्रमाणमिति गृह्यते ।। १७८ ।।
यत्रैवार्थक्रिया तत्र प्रमाणमथ तन्मतं । अर्थक्रियादयो दृष्टास्ते(ऽ)प्रमाणाद् मतादपि ।। १७९ ।।
ततो नार्थक्रिया सा चेदन्यतोपि कथम्मता । ततः कदाचिदप्राप्तेः सान्यत्रापि समीक्ष्यते ।। १८० ।।
यतो न प्राप्तिसंदेहः तत् प्रमाणम्मतं यदि । सन्देहस्य निवृत्तिर्हि समानाकारतः कुतः ।। १८१ ।।
अभ्यासाल्लक्ष्यते पश्चादाकारः सविलक्षणः । ततः प्राप्त्यविनाभाव एष सोन्योन्यसंश्रयः ।। १८२ ।।
तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणाद् व्यवहारश्चेदनुमानात् तथा सति ।। १८३ ।।
तच्चानुमानमध्यक्षादध्यक्षमनुमानतः । इतरेतराश्रयादेव नास्त्यन्यतरसंस्थितिः ।। १८४ ।।

स्वभावालम्बनाकारपरिच्छेदि हि प्रत्यक्षं तृणस्यापि न कुव्जीकरणे समर्थं ।95

न पूर्व्वापरयोस्तेन सम्बन्धः परिगृ्ह्यते । देशकालान्तरव्याप्त्या सङ्गतिर्योग उच्यते ।। १८५ ।।
देशकालान्तरव्याप्तेरध्यक्षं ग्रहणे क्षमं । यदि सर्व्वस्य सर्व्वार्थं दर्शितैव प्रसज्यते ।। १८६ ।।
सहभावस्तयोर्व्याप्त्या न तस्मादनुमोदयः । कादाचित्कतया तस्य सर्व्वत्रास्त्वनुमाथवा ।। १८७ ।।
इदानीमेवमाकारमेतदस्तीति वेद्यतां । अप्यक्षतो न देशाद्यन्तरस्थग्रहणन्ततः ।। १८८ ।।
अगृहीते च देशादौ तद्व्याप्तिर्गृह्यते कथं । तस्याग्रहे नानुमानं चैतदत्यन्तसाहसं ।। १८९ ।।
अनुमानान्तराक्षेपादनवस्थावतारतः । प्रकृता(ऽ)प्रतिपत्तिःस्यात् तस्य तस्येत्यपेक्षणात् ।। १९० ।।
तस्मात् स्वतः प्रमाणत्वमुत्सर्ग्गेण व्यवस्थितं । बाधकारणदुष्टत्वज्ञानाभ्यान्तदपोद्यते ।। १९१ ।।
प्रमाणमविसंवादाद् बाधकं चेन्न विद्यते । प्रमाणमेव तद् व्यक्तं96 तद्धि बाधकतोन्यथा97 ।। १९२ ।।

अत्रोच्यते ।

बाधकाभावमात्रेण न प्रमाणत्वनिश्चयः । प्राप्तिकाले च यो बाधः तस्याभावः पुरः कुतः ।। १९३ ।।

प्रमाणाज्ज्ञायतां प्राप्तेः प्राप्ता सा(ऽ)३र्थक्रियास्थितिः ।

सा च स्वरूपसंवेद्यज्ञानात् पश्चाद् विभाव्यते ।। १९४ ।।
प्राक् तु तत्रानुमानस्य प्रवृत्तिर्भाववस्तुनि । ततोनवस्था सैव स्यात् प्रमाणत्वगतिः कुतः ।। १९५ ।।
न प्रत्यक्षानुमानाभ्यामपरं मानमिष्यते ।। १९६ ।।

025

अत्रोच्यते ।

स्वरूपस्य स्वतो गतिः ।। (४)
प्रामाण्यं व्यवहारेण;

स्वतो हि स्वरूपस्यैव गतिर्न्न पररूपस्य ( । ) साक्षाद् गतिर्हि प्रत्यक्षं साक्षात्करणं च
स्वरूपस्य न पररूपस्य प्राप्तिकालविशेषणस्य । प्रमाणता च प्राप्यपदार्थाव्यभिचारिता ।
न च प्राप्यपदार्थाग्रहणे तत्सम्बन्धग्रहणं । न च तथानवसीयमानं प्रमाणमित्यवसितं भवति ।
पुरोवर्त्तिरूपासङ्गिता नु सर्व्वज्ञानानामविशिष्टा । न च यो भाविरूपसम्बन्धपरिग्रहः । नापि
भाविनार्थक्रियाज्ञानेन पूर्व्वरूपसम्बन्धपरिग्रहः । (ततः स्वरूपसंवेदनात्मत्वान्न प्रत्येकं सम्बन्ध
परिग्रहः) नापि समुदायसम्भवः । क्रमेण साधनार्थक्रियाग्रहणयोर्भावात् । तदुत्तरकाल
भावि तु स्मरणं यथानुभवं प्रवर्त्तमानमसंबद्धमेव द्वयं विकल्पयति । यथानुभवपरित्यागात्तु
तदुपप्लुतमेवेति न ततः सम्बन्धप्रतिपत्तिः । ततस्तत्सम्बन्धाग्रहणात् पश्चादपि दृष्ट
साधर्म्यात् कथं प्रतिपत्तिरनुमानादिति न प्रामाण्यप्रतिपत्त्युपाय इति स्वरूपस्यैव स्वतो
गतिर्न
प्रामाण्यस्य ।

अथ प्रमाण्यं स्वरूपमेव भावप्रत्ययवाच्यस्य ततोऽव्यतिरेकात्98 । तदयुक्तं ।

ज्ञानस्वरूपं प्रामाण्यं प्राप्यरूपसमन्वयि । स्वरूपमात्रग्रहणे तदग्राह्यमितीरितं ।। १९७ ।।

नहि ज्ञानस्वरूपमेव प्रामाण्यं प्राप्यरूपसम्बन्धेन तत्त्वव्यवस्थापनात् । तस्य चाग्रहण
मिति प्रतिपादितमेव । ततोऽप्रवृत्तिनिवृत्तिकं स्वस्वरूपसंवेदनमात्रमेव न भदेवादावतारः ।
तस्मान्न प्रेक्षावद्भिः क्वचित् प्रवर्त्तितव्यं नं निवर्त्तितव्यं वा कुतश्चित् ।

कथन्तर्हि प्रामाण्यमप्रमाणतो निवृत्तं व्यवस्थाप्यते । प्रामाण्यं व्यवहारेण । सांव्यव
हारिकमेतदिति प्रतिपादितं । संव्यवहारश्च विचार्यंमाणो विशीर्यत एव ।99 तत्र यद्येतावता
परितोषः तदा न किंचित् कर्त्तव्यमिति मुक्तिरेव संसारात् तस्यात्यन्तमभावात् । अथ
व्यवहारप्रसिद्धः संसारः । तथा सति प्रमाणेतरविभागोप्यस्त्येवेति न प्रमाणत्वप्रतिपादनाय
यत्न आस्थेयः ।

किञ्च । सांव्यवहारिकं प्रामाण्यं प्रतिपादयता परमार्थत एकमेव स्वसंवेदनं प्रत्यक्ष
मित्युक्तं भवति 100 ।

तथा हि यदि मानत्वमध्यक्षादनुमानतः । सिद्धिमृच्छति सन्देहं101 व्यवहारपदं वृथा ।। १९८ ।।

यदि प्रत्क्षतोऽनुमानतो वा परिस्फुटा प्रमाणत्वसिद्धिः किमर्थमुच्यते व्यवहारेणेति ।
तस्माद् व्यवहारमात्रप्रसिद्धानुमानाश्रयेण प्रसिद्धं सम्बन्धमाश्रित्य तदेतदर्थक्रियासाधनमिति
दर्शनेन स्पृश्यादिसाधनस्य प्रतिपत्तौ प्रवर्त्तते । पश्चादभ्यासानुमानमन्तरेणापि प्रतिभास
मात्रादेव वृत्तिरिति प्रत्यक्षमपि प्रवर्त्तकत्वात् प्रमाणम् (।) अत उच्यते प्रामाण्यं व्य
वहारेणे
ति ।


026

ननु दर्शनेन रूपमेवोपलभ्यते न स्पृश्यं । तथा वर्त्तमानमेव न भावि प्राप्यं ।
तथा स्वदृश्यत्यमेव न परदृश्यत्वमपि (तत्) कथमन्यदर्शनेन्यप्राप्त्या प्रमाणं । उक्तमत्र स्वरूपस्य स्वतो गतिरिति ।

किञ्च ।

व्यवहारत एकत्वात् प्रमाणत्वव्यवस्थितिः । देशाद्यभेदादेकत्वं द्रव्यस्य व्यपदिश्यते ।। १९९ ।।

उक्तमेतत् (।) प्रामाण्यं व्यवहारेणेति । ततो व्यवहारप्रसिद्धमवयविन एकत्वं समाश्रित्य यदेव दृष्टं तदेव प्राप्तमिति व्यवसायात् प्रमाणताव्यवहारः । स चैकत्वाध्यव
सायो देशकालाद्यभेदात् । तदभेदोपि तत्सामर्थ्यस्य सामग्रीजननात् । एवं भाविभूतयोरपि
तदेकसन्तानपतितत्वेन समानार्थक्रियातश्चैकत्वाभिमानः ।

नन्वर्थक्रियाप्रापकत्वात् प्रमाणं । प्रामाण्यञ्च किमर्थक्रियाज्ञापकमथ कारकं (।)
न तावत् कारकात् प्रमाणं करणं हि तदा स्यात् ।

अथ ज्ञापकत्वात् प्रमाणमुच्यते । तदप्ययुक्तं ।

ज्ञापकं न तदर्थस्य क्रियासंदेहभावतः । कादाचित्कार्थक्रियेति तस्या ज्ञापकता कुतः ।। २०० ।।

साधनज्ञानमन्तरेणापि अर्थक्रियोपलब्धा (।) तत् कथं तत्कारणमर्थक्रियायाः ।
तदन्तरेणापि भाविना तत्कारणं स्यात् कार्यस्य । नापि ज्ञापकं दृष्टेप्यर्थो कदाचिदर्थंक्रिया
ऽभावात् । न च तज्ज्ञानमप्रमाणमर्थाशून्यत्वात् । अतः कारकत्वज्ञापकत्वाभावे कथं
प्रमाणं प्रापकमर्थक्रियायाः ।

अत्रोच्यते ।

उपेये नाम सन्देहस्तावता न प्रमा न सा । निश्चितत्वादुपायस्य प्रमासौ किन्न तावता ।। २०१ ।।

न खलूपेयसन्देहपरिजिहीर्षा । सर्व्वत्रोपायनिश्चयमात्रेण वृत्तेः । तत उपायनिश्चये
सति कृषीवलादिवत् प्रामाणिकाः प्रवर्त्तन्तां ।

तदसत् । यतः (।)

उपेयार्थितया सर्व्वः प्रवर्त्तननिवर्त्तने । करोति पुरुषस्तस्य सन्देहश्चेत् कथं प्रमा ।। २०२ ।।

यदर्थमिष्यते प्रमाणन्तत्रोपेये सन्देहात् प्रमाणमिति कैषा वाचोयुक्तिः ।

ननु प्रमाणेनार्थो ज्ञापयितव्यो नत्वर्थक्रिया कर्त्तव्या । अर्थक्रिया हि कुतश्चित् सामग्री
विशेषात् पश्चाद् भवन्ती कथं ज्ञापयितुं शक्या ।

तदप्यसत् ।

यदर्थ एष प्रारम्भस्तदनिष्पत्तिरेव चेत् । असिद्धःसाध्यसम्बन्धः कथं साधक उच्यतां ।। २०३ ।।
102 103 104 105 106 107 108 109027

अमुतः110 प्रमाणादभिमतार्थसिद्धिमासादयेयमिति प्रमाणतान्वेषणपरः प्रेक्षावान् नान्यथा ।
व्यसनमेव त्वन्यथा भवेत् । अर्थश्च प्रकाशितो यदि नार्थक्रियाकारी कुतस्तस्यानर्थात्
तैमिरिकोपलब्धकेशादेर्विशेषः ।

अथ कदाचित् तत्रार्थक्रिया भवति न तैमिरिकादौ111 । एवन्तर्हि तदर्थी कथं प्रवर्त्तते ।
न खलु सन्देहात् प्रवर्त्तमानः प्रमाणात् प्रवृत्तो भवति । प्रमाणं हि निश्चायकं न सन्देहकृत् ।
अर्थक्रियाकारिणि निश्चयश्चेत् । अर्थक्रियानिश्चये कथं तथा112 निश्चयः । अथ तेन
प्रमाणेनार्थसाधनवस्तु दर्शितं । अर्थक्रिया तु यदि कुतश्चित वैकल्यान्न भवति । न
प्रमाणस्यासौ दोषः ।

तदप्ययुक्तं ।

अज्ञापकत्वं मानस्य न दोषो यदि दृश्यते । न तस्यास्त्यपरो दोष इति सर्व्वं प्रमा भवेत् ।। २०४ ।।

प्रमीयते येन परिच्छिद्यते समीहितोर्थस्तत् प्रमाणं । न चाज्ञापकस्य परिच्छेदशक्ति
रित्यप्रमाणं । तस्मादन्यथा प्रतिपद्यते ।

अर्थक्रियास्वरूपस्य निश्चितस्यावबोधनात् । ज्ञानं प्रमाणं तदात्म्ये तदुत्पत्तिप्रभावतः ।। २०५ ।।

यत् खल्वर्थक्रियाज्ञानं तदर्थक्रियात्मत्वादर्थक्रियाङ्गमयति । तदर्थक्रियायान्तदेव साधन
ज्ञानं । पूर्व्वकन्तु साधनज्ञानं यदि स्थिरतयाऽसाववधृतोर्थस्तदा । पूर्व्वको हि स्वभावो
भाविनं प्राप्तिकालेऽवश्यं भावयतीति113 तत्प्राप्तिः । तत उत्तरः स्वभावः पूर्व्वकस्य स्वभाव
एव वस्तुतः । ततस्तत्रापि तादात्म्यमेव ।

अथवा तदवश्यम्भावि कार्य कारणमेव तेन व्याप्तत्वात् कारणस्य । यच्च व्यति
रिक्तं व्यापकं तत् कारणमेव तेन विना तदभावात् । अनुत्पन्नं कथं कारणं । उत्पन्नमपि
कथमिति समानो दोषः ।

नन्वस्मिन् सतीदं भवति । अस्योत्पादादिदमुत्पद्यते । एतदत्र व्याप्रियते । एतदनेन
क्रियत इति कार्यकारणभावमवगच्छन्ति लौकिकाः । न च भाविनः सत्ता नाप्युत्पादो न च
व्यापारो नापि कारणं114 तेनाविद्यमानत्वात् तदानीं ।

अत्रोच्यते ।

सत्तोत्पादादयो भावस्वभावत्वान्न परात्मकाः115 ।

अस्मिन् सतीति नैवास्मादपरार्थस्य सम्भवः ।। २०६ ।।

उत्पादो हि न सत्तास्वभावादपरः । कारणान्तरभाविनी चेत् सत्तोत्पादः किमन
न्तरभाविन्येव सत्तोत्पादः । एवं चेत् सुप्तस्य चिरमुत्थितस्य ये विकल्पास्तेषां पूर्व्वाभ्यासा
दुत्पादो न स्यात् । अनन्तरभावित्वाभावात् । शरीरादि च कारणं नेति प्रतिपादयिष्यामः ।
न च व्यापारः परः स्वभावात् स्वरूपमिति प्राप्तं । न च कार्यकाले स्वरूपं कालस्य116


117
028

पूर्व्वकस्याविनाभावितामात्रन्तु भाविन्यपि विद्यतेऽवश्यम्भाविकार्यंस्य । कारणस्यापि (।)
ततो भाव्यपि कारणं ।

अथ दृष्टं यत् तत्र व्यापकं सत्‌कारणन्तथा पूर्व्वभावि तदेव कारणं न भावीति
चेत । (न ।)118

न. दृष्टस्य स्वरूपेण व्यापकत्वं प्रतीयते । आरोपितेन रूपेण भाविनोपि भवेदिदं ।। २०७ ।।

दृश्यमानं हि न तावता व्यापकं व्याप्यस्य तदानीमप्रतीतेः । यदा च व्याप्यप्रतीति
स्तदा तद्भाविभूतरूपेण व्यापकमन्यथा भाविरूपाग्रहणे व्यापिता न स्यात् ।

अथ येन रूपेण पूर्वभावित्वेन तद् दृष्टं तेनैव तस्य रूपेण व्यापकता प्रतीयते न
भाविरूपेण ।

तदसत् ।

भाविरूपाप्रतीतौ न व्यापकत्वं प्रतीयते ।

प्रादेशिकी नहि व्याप्तिः119 (स्यात्) व्याप्तिः सा तथा भवेत् ।। २०८ ।।

तथा व्यापिताभावात् ।120 भूतभविष्यत्कालव्यापित्वेन हि प्रतीयमानं कारणं
नान्यथा । सा च व्याप्तिः पूर्वं दृष्टस्य द्रक्ष्यमाणस्यापि समाना । द्रक्ष्यमाणस्य कथं
कारणत्वं दृष्टस्यापि तदानीमसत्त्वात् कथमिति न प्रश्नावतारः । सत्त्वाच्चेत्
द्रक्ष्यमाणस्यापि सा । तदा नेत्येतत् समानमुभयत्रापि । पूर्व्वता चेत्(।)कः पूर्व्वापरयोः
स्वभावे विशेषः । द्वयमप्यारोपिताकारेण गृह्यते नापरेणेति न भेदः ।

अथैकं पूर्व्वरूपतया दृष्टमारोप्यते । अपरन्तु द्रक्ष्यमाणतया पररूपतया च (।)
तेन नास्ति द्वयोरपि कारणतेति ।

अन्योन्यमविनाभावो द्वयोरपि तयोः समः । अवान्तरविशेषस्तु121 तत्र न क्वोपयोगवान् ।। २०९ ।।

येन विना यन्न भवति तत् तस्य कारणं व्यतिरिक्तत्वे सति । यथा122 च कारणस्य पूर्व्वं
भावं विना न भवति कार्यन्तथावश्यंभावि कार्यं123 कारणं कार्यस्य परभावं विना नेति समानं
कार्यकारणभावनिबन्धनमिति124 द्वयोरपि परस्परं कार्यकारणभावः ।

समानत्वान्निमित्तस्य कार्यकारणता द्वयोः । व्यापित्वव्यतिरेकस्य परलोकानुमाप्यतः ।। २१० ।।

न खलु व्यापितां व्यतिरेकस्य व्युदस्यापरमत्र जगति निबन्धमुपलमामहे । तेन द्वयोरपि
कार्यावश्यम्भाविकार्यकारणयोः परस्परं कार्यकारणभाव इति युक्तं पश्यामः (।) तस्मात् ।

कारणं यदि तज्ज्ञानं स्वभावो वार्थजन्मनः । कार्यं वा सर्वंथा तेन ज्ञाप्यतेऽर्थक्रियोदयः ।। २११ ।।

यदि साधनज्ञानमर्थक्रियायाः कारणं यदि स्वभावो यदि कार्यं सर्व्वथा तेन सम्बन्ध
सम्भवाज् ज्ञाप्यते । एतच्च व्यापितादात्म्यं कार्यकारणभावश्च व्यवहारप्रसिद्ध इति व्यवहारेण
प्रामाण्यं ज्ञायत इति ।

ननु यावत् प्रत्यक्षं न भवति सम्बन्धसाधकं न तावदनुमानं । प्रत्यक्षेण हि सम्बन्ध-


029

ग्रहणेऽनुमानं प्रामाण्यं साधयति । प्रमाणं सत् प्रत्यक्षं सम्बन्धग्रहणे समर्थमिती तरेत
राश्रयदोषः (न) ।125

अथ नानुमानेन प्रामाण्यं साध्यतेऽपि त्वर्थक्रियानुभवेन । स च स्वसंवेदनप्रत्यक्ष
प्रसिद्धः । तत्र नार्थक्रियाज्ञानं प्रत्यक्षं सत् प्रमाणतां पूर्व्वस्य गृह्णाति । नापि लिङ्गभूतं
सदनुमापयति । प्रत्यक्षेण प्रामाण्यस्य ग्रहणाभावाद् अतीतत्वाच्च तद्व्यक्तेः । नहि व्यक्तिं
विना सामान्यं मानत्वं प्रत्येतुं शक्यमभावात् सामान्यस्य । तस्मात् प्रमाणतायां संदेहमात्रं
स चार्थक्रियासम्बन्धः सन्दिग्धः । अर्थक्रियानिर्भासात् तत्र संदेहो व्यावर्त्तत एव ।

तदप्यसत् यतः ।126

संदेहमात्रव्यावृत्त्या न हि कश्चित् प्रवर्त्तते । प्रत्यक्षानिश्चयाद् वापि दृश्यते वृत्तिरर्थिनां ।। २१२ ।।
स एवार्थक्रियाभासः प्रत्यक्षमिति चेन्मतं । प्रत्यक्षादेव मानत्वप्रतिपत्तिरितीष्यताम् ।। २१३ ।।
प्रत्यक्षादनुमानाद्वा संदेहोपि निवर्त्तते । विरुद्धस्योपलब्धेर्न विनान्यस्य निवर्त्तनं127 ।। २१४ ।।
यदि प्रत्यक्षभावात् सा तदा नाम निवर्त्तयेत् (।) संदेहं तदभावोस्तु तदैव कथमन्यदा ।। २१५ ।।
तत्संदेहनिवृत्या च नास्त्येवात्र प्रयोजनं । प्रवर्त्तनार्थं सेष्येत प्रवृत्तिः सा च साधिता ।। २१६ ।।
सर्व्वंस्य चार्थसम्बन्धो न ज्ञानस्याक्षवीक्षितः । सामान्येन च सम्बन्धमनुमानं व्यवस्यति ।। २१७ ।।
न चापरा प्रमास्तीति कुतः संदेहविच्छिदः । तत उक्तं
प्रामाण्यं व्यवहारेणे
ति ।। २१८ ।।

यदि तर्हि व्यवहारेण128 प्रामाण्यं प्रमाणलक्षणशास्त्रं तर्हि किमर्थं । शास्त्रं हि निदृ
(? र्दृ)129 ष्टमपि न वचनमात्रात् तथा भवति (।) अपि तु व्यवहाराविसंवादेन । स चेदस्ति
व्यर्थकं शास्त्रमित्याह ।

शास्त्रं मोहनिवर्त्तनं ।

यदि व्यवहारतः प्रमाणस्वरूपमवगम्यते । कस्मात् परस्परविरोधीनि लक्षण
शास्त्राणि (।) ततो व्यवहारेपि विमतिरेव व्यवहारिणां । तथाहि ।

न सर्व्वो व्यवहारेण प्रामाण्यमवगच्छति । प्रमाणलक्षन्तेन परस्परविरोधवत् ।। २१९ ।।
प्रत्यक्षादिप्रमाणेन परलोको न गम्यते । आगमादपरः प्राहेत्यतो न व्यवहारतः ।। २२० ।।

तस्माद् (।)

व्यवहारपरामर्शाच्छास्त्रं मोहनिवर्त्तनं । पूर्व्वापरस्यास्मरणं शास्त्रेणानेन वार्यते ।। २२१ ।।

अतएव शास्त्रेणैव सर्व्वज्ञोक्तेन मोहो निवर्त्तते नान्येनेत्यनेन प्रकारेण सर्व्वज्ञवचनमेव
प्रमाणमिति परमार्थतः130 सर्व्वज्ञज्ञानमेव प्रमाणं131 नापरमिति परमार्थः ।

अन्यस्य न प्रमाणत्वं प्रमेयाव्याप्तिसम्भवात् । अव्यापिता न कार्यादिसम्बन्धस्य परिग्रहः ।। २२२ ।।

कार्यकारणभावो ह्यतीतानागतवर्त्तमानकालदेशव्यापिसाहचर्यरूपो न खलु सर्व्वज्ञ
ज्ञानस्य132 विषयः । वर्तमानसन्निहितदेशमात्रग्रहणात्133 प्रत्यक्षस्यानुमानस्य (तत्र) चानव
तारात् । सर्व्वंज्ञत्वं कथं ज्ञायते शास्त्रकारस्य चैतदुत्तरत्र वक्षयामः ।


030

(२) अज्ञातार्थप्रकाशकं प्रमाणं—

अज्ञातार्थप्रकाशो वा;

अथवेदं प्रमाणलक्षणं (।) प्रकाश्यतेऽनेनेति प्रकाशः । अज्ञातस्यार्थस्य प्रकाशकं ज्ञानं
प्रमाणं । सांवृतन्तु ज्ञानमज्ञातस्यार्थस्य (न)प्रकाशकः । नहि (तेन)134 कश्चिदज्ञातोर्थः
प्रकाश्यते । ग्रहीतानामेव रूपादीनामनेन पृथग्‌विकल्पनात् । प्रतीत्य परामर्शात् तु तदैक
मिति व्यवह्रियते ।

ननु यद्यविसंवादनमन्तरेणाज्ञातप्रकाशनं प्रमाणं (।) द्विचन्द्राद्याकारस्यपि प्रमाणता
प्रसङगः । न (।) अर्थग्रहणादसौ हि नार्थः । नन्वर्थत्वमविसंवादे (न) च ज्ञायते ।
ततश्चाविसंवादि ज्ञानमिति तदेव लक्षणमिति कथं लक्षणान्तरं । न (।) सामर्थ्याक्षिप्तस्या
लक्षणत्वात्135 ।

उक्तसामर्थ्यतो यस्य प्रतीतिस्तन्न लक्षणं । तथान्यस्यापि वस्तुत्वप्रभृते136 र्लक्षणार्थता ।। २२३ ।।

लक्षणं हि यदुपात्तं साक्षात् तदेव । येन तु तल्लक्षणं साध्यते । तदपि सम्भवित्व
मात्रेण न लक्षणम् (।) अन्यथा वस्तुत्वादिकमपि भवेत् ।

अथापि स्यात् (।) न वस्तुत्वं तत्रोपयोगि साक्षादन्यथा वा । अविसंवादस्तूपयोग्य
र्थत्वज्ञापने ।

सत्त्यमेतत् । तथापि अज्ञानार्थग्रहणेन गृहीतग्राहि प्रत्ययः शक्यः परिहर्त्तुं नाविसंवादि
ग्रहणेन । तत्राप्यविसंवादग्रहणात् । न चाविसंवादेनार्थत्वगतिः137 (।) अविसंवादेपि
संवृतिसतामर्थत्वस्यासिद्धेः । कथन्तर्ह्यर्थत्वगतिः । परामर्शादिति मन्तव्यं ।

अथवार्थशब्देनात्र परमार्थ उच्यते । अज्ञातार्थप्रकाश इति परमार्थप्रकाश इत्यर्थः ।
परमार्थश्चाद्वैतरूपता (।) तत्प्रकाशनमेव प्रमाणं । तथा च प्रत्ययादिस्वरूपस्य स्वतो
गतिरिति । उक्तञ्च (।) प्रामाण्यं व्यवहारेणे ति ।

तत्र पारमार्थिकप्रमाणलक्षणमेतत् (।) पूर्वं तु सांव्यवहारिकस्य । यद्यज्ञातार्थप्रकाशकं
प्रमाणं सामान्यार्थोप्यज्ञात एव प्रथमभाविना स्वलक्षणज्ञानेन तदुत्तरालभाविना प्रकाश्यते ।
तथा सम्बन्धादिरपीति तस्यापि प्रामाण्यं प्रसज्यते । न च गृहीतग्राहित्वात् स्मृतिरेवैषा ।
अगृहीते स्मरणाभावात् ।

न स्वलक्षणविज्ञानं सामान्यं गृह्णदीष्यते । ग्रहणादगृहीतस्य प्राप्ता सामान्यवित्प्रमा ।। २२४ ।।

तदेवाह ।

स्वरूपाधिगतेः परं ।। ५ ।।
प्राप्तं सामान्यविज्ञानं;

प्रमाणमिति सम्बन्धार्थः । स्वसंवेदनेन च सामान्यं ज्ञानात्मभूतं प्रतीयत इत्यत्रा-


031

विवाद एव । ततो यदि परभूतं ज्ञानात् सामान्यमर्थाभूतं138 (।) सर्व्वथा तज्ज्ञानं प्राप्तं ।
(न ।)139 अत्रोच्यते (।)


अविज्ञाते स्वलक्षणे ।
यज्ज्ञानमित्यभिप्रायात् स्वलक्षणविचारतः ।। ६ ।।

सत्यप्यगृहीतग्रहणे सामा/?/न्यज्ञानस्य न प्रमाणता । किङ कारणम् (।) अविज्ञाते
स्वलक्षणे
(।) यज्ज्ञानं तदेव प्रमाणमभिप्रेतं न सामान्येपि । अज्ञातसामान्यज्ञानं न
प्रमाणम् (।) अपि त्वज्ञातस्वलक्षणज्ञानं । कुत एतत् (।) स्वलक्षणविचारतः । अस्ति
नास्तीति वा व्यवस्थापनार्थं प्रमाणं प्रेक्षावतापेक्ष्यते । स चास्तिनास्तीति वा विचारः
स्वलक्षणस्यैव न सामान्यस्य तत्र पुरुषाणामनादरात् । यत्र च विचारणा तत्र तदुत्तरकालं
तत्स्वभावं वा प्रपद्यते प्रमाणमिति न सामान्ये वृत्तिः प्रमाणस्येति न तत्र प्रमाणं ।

अथ सामान्यानवबोधे कथं तदेवेदमिति ज्ञात्वा प्रवर्तते (।) न (।) सामान्यानवबोधेप्य
त्यन्ताभ्यासात् प्रवर्त्तनात् । अथ तत्रापि सामान्यमेव प्रवर्त्तकं (।)अज्ञातस्य प्रवर्त्तकत्वाज्ञानात् ।
ज्ञानेपि तस्य यदि स्वलक्षणं न ज्ञायते न प्रवर्त्तते । स्वलक्षणज्ञाने तु सामान्यापरिच्छेदेप्य
भ्यासात् । ततस्तत्राप्रवर्त्तकत्वात् दुन्मुखत्वाभावाच्च न सामान्ये ज्ञानं प्रमाणं ।

भवतु वा प्रवर्त्तकत्वं । तथापि तदुन्मुखत्वाभावान्न तत्र प्रमाणं । स्वसंवेदनेन तु
ग्रहणे स्वलक्षणमेव तदिति स्वलक्षणविषयमेव प्रमाणं । यदा तु पुनरद्वैतं तदा न सामान्यं (।)
तत्र च स्वलक्षप्रतिपत्तेरूर्ध्वं अन्यद्वेति व्यपदेशः ।

140 अवित् । न विद्यते विदस्येति अवित् । क्व(।) ज्ञाते स्वलक्षणे तज्ज्ञानमिति । न खलु पूर्वोत्तरभावे प्रमाणं येन स्वलक्षणज्ञानादुत्तरकालमेतदिति विलक्षणता 141 वा प्रतीयते ।

स्वलक्षणमेवात्र सर्व्वत्र ज्ञाने प्रतीयते । न च भेद इति ।

किमर्थन्तर्हि प्रत्यक्षानुमानभेदो बाह्यविज्ञानभेदश्च भगवता निर्द्दिष्टः । संक्लेशव्य
वदाने चेत्याह । अभिप्रायात् अविसंवादाच्च । विनेयज्ञानाभिप्रायात् तमपेक्ष्य142 स्वसंवेद
नमेवैकं प्रत्यक्षं प्रमाणं नापरं । प्रपञ्चविनेयानुरोधात् । यथा यथा विनेयानां तत्त्वमार्गा
नुप्रवेशः सम्भवी तथा तथा भगवतो देशनेति न विरोधः । कुत एतत् स्वलक्षणविचारतः ।
विचार्यमाणं हि सकलमेव विशीर्यते । नाद्वैतादपरन्तत्त्वमस्ति । तदेव क्रमेण भगवता
विचार्यते । अक्रमेण विचारयितुमशक्यत्वात् ।

(३) भगवतः प्रमाण्यम्

अथ बहिर्विपरिवर्तमानस्य कथं स्वसंवेदनता143 नैतदस्ति ।

बहिरन्तरिति ज्ञानं देशकालाद्यपेक्षणात् । स्वरूपव्यतिरेकेण देशकालवसङ्गतौ ।। २२५ ।।

एतच्च पश्चाद् दर्शयिष्यते ।

144
032

भगवतस्तर्हि कथं प्रामाण्यं (।) प्रत्यक्षानुमयोर्हि व्यवहारमात्रेण प्रामाण्यं । न
भगवतः (।) तद्धि परं प्रमाणं ।

अत्रोच्यते ।

तद्वत् प्रमाणं भगवान्;

तथागतो हि भगवान् । तद्वानिति कृत्वा प्रत्यक्षरूप एव भगवान् प्रमाणं पश्चात्
प्रतिपादयिष्यते ।

कुत एतत् प्रतीयते । तदाह ।

अभूतविनिवृत्तये ।
भूतोक्तिः साधनापेक्षा ततो युक्ता प्रमाणता ।। ७ ।।

भ्रान्तिनिवृत्त्यर्थं । यतस्तस्य भगवतो भूतोक्तिस्ततः स एव सर्व्वज्ञो नापरस्तथा च
प्रमाणं । आह च । साधनापेक्षा ततो युक्ता प्रमाणता । भगवत एव न वेदस्य ।
वेदस्य हि न किञ्चिदर्थसम्बन्धे प्रमाणं । अस्य तु भूतोक्तिरेव प्रमाणं प्रमाणविषये ।
अन्यत्र तु वक्ष्यामः ।

अथवा परमार्थतस्तद्वदद्वैतावबोधादेव प्रमाणं भगवानपि न सर्व्वार्थपरिज्ञानतः ।
सर्व्वार्थपरिज्ञानन्तु लोकव्यवहारेण सांवृतमेव । तथा चोक्तं अद्वयं यानमुत्तमं ।145

३. ईश्वरनिषेध-वार्त्तिकं तृतीयम्

१ ईश्वरादेरप्रमाण्यम्

(१) नित्यानित्ययोरप्रमाणता

ननु यदि प्रत्यक्षानुमानयोरप्रमाणत्वात् सर्व्वज्ञ एव प्रमाणं तदा नित्य एवेश्वरादिको
ज्ञाता प्रमाणं । वेदो वा नित्यः प्रमाणं (।) ततः किमन्यान्वेषणेनेत्याह ।

नित्त्यं प्रमाणन्नैवास्ति प्रामाण्याद् वस्तुसङ्गतेः ।
ज्ञेयानित्त्यतया तस्या अध्रौव्यात् क्रमजन्मनः ।। ८ ।।

नित्त्यादुत्पत्तिविश्लेषादपेक्षाया अयोगः । न खलु सदा स्थायि नित्यं प्रमाणमस्ति
प्रमाणाभावात् । किञ्च (।) वस्तुसतो गतिः प्रमाणं न यस्य कस्य चित् । न च वस्तु
सर्व्वदा विद्यते । येन गतेः सर्व्वदा भावः । ततो ज्ञेयानित्यतया तस्या अपि अध्रौव्यं ।

ननु ज्ञेयानित्त्यतया ज्ञानमनित्त्यमिति कुतः । ज्ञेयरूपे व्यापारो वा प्रमाणत्वं ज्ञेय
रूपादुत्पत्तिस्तत्स्वभावता वेति न पक्षान्तरसम्भवः । अत्र व्यापृतस्याव्यापृतस्य वा यदि न
विशेषः कथं व्यापारेतरविवेकः ।

अथ दर्प्पणस्थानीयं तद् यो य एवार्थः सन्निहितः स एव प्रतिभाती (ति) चेत् ।
अर्थं एव तर्हि स्वसामग्रीतस्तथा भवति न ज्ञातुर्व्यापारः ।

033

अथ निश्चलोन्मिषितलोचनोपि समापततोर्थान् क्रमेण पश्यति (।) न कदाचिदपरापर
विलक्षणव्यापाररूपता परोपलक्ष्यते, तथा तस्यापि ।

अत्रोच्यते ।

व्यापारश्चक्षुषस्तत्राप्यन्वयव्यतिरेकतः । नान्वयव्यतिरेकित्वं स्थाणोर्नित्यस्य विद्यते ।। २२६ ।।

तस्मादर्थ एवायम्भूतो नास्य ग्रहणे व्यापारः कस्यचिदिति कथं प्रमाणं ।

अथ सोऽर्थो भवतु प्रमाणं146 स तु तत्सम्बन्धीति तेन ज्ञात उच्यते । नैतदुपपन्नं यतः ।

सम्बन्धोन्वयपूर्व्वेण व्यतिरेकेण सिध्यति । नित्त्यस्याव्यतिरेकस्य कुतः सम्बन्धसम्भवः ।। २२७ ।।

न खलु नित्त्यमव्यतिरेकं क्वचिदुपयोगीति शक्यं विज्ञातुं ।

अथ तेन दर्शनादुपयोगः । नतु तदेवेदं परिचोदितं कथन्तेनेति147 । तस्मिन् सति
तथाभूतमिति तेनेत्युच्यते आकाशादिष्वपि तदिति कथं स एव द्रष्टा । आकाशस्य तदर्थ
निर्देशाभावात् स एव द्रष्टा नाकाशादिः ।

निर्देशो वचनं तस्मादेतदेव कुतो म/?/तं । सर्व्वथा (ऽ) 148 व्यतिरेके च कारणत्वं न बुध्यते ।। २२८ ।।
अतीतानागतो योर्थः स कथं प्रतिभासते । अतीतत्वेन विज्ञानमित्यतीतं कथम्भवेत् ।। २२९ ।।
न च दर्पणसंक्रान्तिरतीतादेः कथन्न च । प्रतिभासस्तथाभूतो दर्प्पणे सति सम्भवी ।। २३० ।।
प्रतिभासो न नित्यस्य कार्यामित्युदितं पुरः149 । आकाशादेरपि प्राप्तं तदर्थग्रहणन्न किं ।। २३१ ।।
सर्व्वार्थदर्शने तस्य वचसोऽर्थः क उच्यते । तदनन्तरभावित्वं नियतं चेन्न गम्यते ।। २३२ ।।
सर्व्वार्थदर्शनायातः शब्दः सर्व्वस्य वाचकः । विवक्षानियमो नाम न नित्त्यस्योपपत्तिमान् ।। २३३ ।।
विवक्षास्ताः पृथग्भूता दर्शनानि तथा पृथक् । कनैकता भवद् द्रष्टु: प्रमाणं स च वः कथं ।। २३४ ।।
विवक्षितस्य दृश्यस्य स एव ग्राहको यदि । विवक्षिततदन्यस्य कथमेकत उद्‌ग्रहः ।। २३५ ।।
प्रत्यक्षानुमयोरेवमेकता केन नोच्यते । परमार्थत एकत्वं तयोरपि मतं यदि ।। २३६ ।।
क्रमेण युगपद् वापि न भेदोस्ति तयोरपि । क्रमेणैवेकरूपत्वं प्रमाणेन प्रतीयते ।। २३७ ।।
तेनान्येन च यद् वस्तु ज्ञात्रैकत्वे न मीयते । तदेकमिति किं सत्त्यमसत्त्यत्वे वृथा वचः ।। २३८ ।।
अथापि स स्वयं ज्ञात्रा सर्व्वथात्मावगम्यते । केनैष गम्यतामेवमिति वाङ्‌मात्रमेव सः ।। २३९ ।।
न स्वसंवेदनादन्यदिति पूर्व्वं प्रसाधितं । ततो न परमार्थोसावीश्वरो नापि संवृतिः ।। २४० ।।

अथापि स्याद् (।) यद्यपि ज्ञानं ज्ञेयानित्त्यतया व नित्त्यं यस्तु ज्ञाता स नित्त्यः ।
न चान्यस्यानित्त्यत्वेन्यस्यापि तदिति युक्तमुच्यते । क्रमजन्मनो ज्ञानस्य ज्ञेयानित्यत्वेन (।)

नित्यादुत्पत्तिविश्लेषात्;

नित्त्यादुत्पत्तेरयोगात् । नित्त्यं व्यापि चाकाशकल्पं न कस्यचित् कारणमिति प्रति
पादितं । तेनैव च स्वरूपेण यदि जनयति सर्व्वदा जनयेद् विशेषाभावात् (।) विशेषे
चानित्त्यत्वं ।


150 034

अथाविशेषेपि सहकारिभावाभ्यां कार्यस्य क्रम इति चेत् । (न ।) 151 अपेक्षाया उपयोगात् ।
यदि सहकारिणामेवान्वयव्यतिरेकित्वं तेषामेव कारणत्वन्न तु तस्य । तस्यापि तदपेक्षया
कारणत्वमिति न युक्तं । अपेक्षमाणस्य तदितरावस्थयोर्व्विशेषाभावात् । अपेक्षकत्वं न
प्रतीयते स्वयमपरेण वेति वचनमात्राद् यदि परमेतत् प्रत्येयं । अत एवाह ।

अपेक्षाया अयोगतः ।

नित्त्यं हि सदैकरूपमपेक्ष्यमाणेनोपकर्त्तुं न शक्यं । न हि तत्रानुपकारिणस्तेनापेक्ष्यतां ।
एवन्तर्हि अनित्त्यं भविष्यति प्रमाणं न तु दानादिसाधनापेक्षं (।) वैराग्यैश्व (र्य) योगस्य
पूर्व्वपूर्व्वसजातिकारणादुत्पत्तेर्न तत् कदाचिदन्यथाभूतं सदन्यथोत्पत्तिमत् ।

अत्रोच्यते ।

कथञ्चिन्नोपकार्यत्वादनित्त्येव्यप्रमाणता ।। (९)

अनित्त्येपीश्वरे नास्ति प्रमाणता (।) न तत् प्रमाणं । कुत एतत् । कथञ्चिन्नो
पकार्यत्वात्
 । यो हि कथञ्चित् केनचिदुपक्रियते उपहन्यते वा (।) तस्य रागाद्यनुभवे
रागादिप्रतिपक्षावबोधादिसम्भवे तद्देशना (।) सत्त्वस्नेहेन करुणया च देशनासम्भवात्
प्रमाणन्तद् भवति लोकस्य । न स्वरूपसत्तामात्रात् । न च तस्येयं व्युत्पत्तिः । न ह्यखण्डितः 152
पण्डितो भवति ।

अथ स्वभावासिद्धिन्तस्य सकलपरिज्ञानं । अयुक्तमेतत् । रागादीनाम(न)नुभवे कथं
संसारप्रपंच153स्वलक्षणावबोधः । अनुभवे संसार्येवासाविति कथं प्रमाणता । न रागाद्यव
बोधादेव रागादिप्रपंचप्रतिपक्षदेशना रागादियोग एव सर्व्वज्ञता अविनाशिताऽतुलशक्तियो
गश्चेति स एव प्रमाणं ।

तदप्ययुक्तं ।

रागादिप्रतिपक्षस्य देशानाव्यर्थता भवेत् । रागादियोगेपि यदि भवेदैश्वर्थमच्युतं ।। २४१ ।।

अथ वस्तुवृत्तमेतन्न रागादियोगितामैश्वर्यसम्भवस्ततस्तत्प्रतिपक्षदेशनेति ।

यद्येवं भावनाभावाद् वैराग्यादेरसम्भवः । आकस्मिकन्तस्य कुतस्तदैश्वर्यादि सिध्यतु ।। २४२ ।।

न हि यद्वैराग्यादिप्रतिपक्षभावनातो भवतीति ज्ञायते तदन्यथापि भवतीति ज्ञायते ।

किंच ।

वरप्रदानशक्तिः सा विद्यते तस्य नेदृशी । येनानुष्ठानरहितो ददात्यैश्वर्यमर्थिनि ।। २४३ ।।
अथ नास्त्येव सा शक्तिस्तस्यान्यापि कथम्भवेत् । अनुग्रहीतुं शक्तेति प्राप्ता तत्राप्रमाणता ।। २४४ ।।

अयमप्यर्थः (।) अनित्येप्यप्रमाणता न विद्यते प्रमाणमस्मिन्नित्यप्रमाणन्तस्य भावोऽ
प्रमाणता । न तत्र प्रमाणमस्तीति यावत् ।

अथाराधनक्रमेण रागाद्युपशमप्रकारेणानुग्रहकार्यसौ धर्म्मोपदेशेनानुग्रहस्यान्यथा
कर्त्तुमशक्यत्वात् (।)

तदसत् यतः ।

तदुक्तानुष्ठितौ लोकानुग्रहः केन गम्यते । तदुक्तागममात्रा (च्चे)देवमन्योन्यसंश्रयः ।। २४५ ।।
035
आगमोसौ तदुक्तत्वादागमाच्च तदुक्तत्ा । अन्योन्याश्रयतस्तत्र कथमेकतरस्थितिः ।। २४६ ।।

किंच ।

ईदृशी (तस्य)154 सा शक्तिः कारणात् कुत आगता ।

स्वभाव एष तस्येति कुत एतत् प्रतीयतां ।। २४७ ।।

नन्वीदृशी तस्य (शक्तिः)#pva_35-1 सर्वदर्शनानुग्राहकरूपा कुतः कारणादागता । अत्र
वस्तुस्वभावैरुत्तरं वाच्यं यत एवं भवन्तीति चेत् । तथा हि ।

इदमेवं न चेत्येतत् कस्य पर्यनुयोज्यतां । अग्निर्दहति नाकाशं कोत्र पर्यनुयोज्यतां ।। २४८ ।।

तदेतदसदत्यन्तं ।

स्वभावेध्यक्षतः सिद्धे परैः पर्यनुयुज्यते । तत्रोत्तरमिदं वाच्यं न दृष्टेनुपपन्नता ।। २४९ ।।

न त्वदृश्ये (।) तथा हि । अत्र वस्तु स्वभावैरुत्तरं वाच्यमिति कोऽर्थः प्रत्यक्षादि
प्रमाणसिद्धमेतत् । कथमेतदिति न पर्यनुयोगस्य विषयः । यथा प्रत्यक्षेणोपलब्धो वह्निर्दाह्यं
दहन न पर्यनुयोज्यते कथन्दहतीति । यदि भूतत्वेन व्योमापि दहेत् । अथ स्वभावात्
प्रतिनियतात् तदेश्वरोपि सकलगुणहेतुविकलो गुणवानिति समानं । न समानं (।) दृष्टत्वा
दग्नेरपरस्य च विपर्ययादिति नेदमुत्तरं । अन्यथा यत्किकिंचदात्माभिमतविधाव (न्य)#pva_35-1 निरुत्तरस्तत्र कृतं (? तः तदुत्तरं वस्तुस्वभा)#pva_35-1 वैरिह वाच्यम् (।) इत्थं तथोत्तरं स्याद्
विजयी समस्तः । तस्मादनित्त्येपि(।) अपिशब्दान्नित्त्येप्यप्रमाणतेति सूक्तं ।

(२) ईश्वरदूषणम्

नन्वस्ति155 प्रमाणं ।

स्थित्वा प्रवृत्तिं संस्थानविशेषार्थक्रियादयः । कार्यात्मानः कथं कार्यात् कारणस्याप्रसिद्धता ।। २५० ।।

अन्यथान्यस्यापि करणस्यानुमानं न स्यात । तथा हि । यद् वस्तु स्थित्वा स्थित्वा
प्रवर्त्ततेऽभिमतसाधनाय तद् बुद्धिमत्कारणाधिष्ठानाद् (।) यथा वास्यादि द्वैधीकरणादौ (।)
न खलु वास्यादयः स्वयमेव प्रवर्त्तन्ते । प्रवर्त्तने वा सदा प्रवर्त्तनं भवेत् । स्थित्वा च
प्रवर्त्तनम (भिमतं) प्रेक्षावता केनचित् प्रवर्त्तकेन भवितव्यं । यथायत्नं (सं) स्थानविशेष
पारिमाण्डत्यादियोगि तच्चेतनावदुत्पादितं तद् यथा घटादिकं । तथा यदर्थक्रियाकारि
तच्चेतनावत्पदार्थप्रेरितं, तद् यथा घटादयः । अत्राह ।

स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरसिद्धिर्व्वा दृष्टान्ते संशयोथवा ।। (१०)

य एते कार्यहेतुत्वेनाभिमताः स्थित्वा प्रवृत्त्यादयो नैते सम्यग्घेतवः । यत एषु सत्स्व
पीष्टस्यैव सिद्धिः सिद्धसाधनं । न च सिद्धः पक्षो भवतीति ।156 असिद्धस्य पक्षत्वात्
यत्र हि विवादस्तत्साधनाय साधनोपन्यासो युक्तः । कर्म्मलक्षणचेतनाधिष्ठितं च सकलमिष्यते ।
यतः (।)


036

कर्म्मजं लोकवैचित्र्यं चेतना मानसं च तत् ।157

ननु कर्म्मजमेवेति न साध्यते (।) कर्म्मव्यतिरिक्तेश्वरचेतनाधिष्ठितत्वस्य158 साधनात् ।
तथा चाह । तच्चेश्वरचोदनाभिव्यक्ताद् धर्म्मादेव ।159 न चेश्वरचोदनाधिष्ठित160 कर्म्मपूर्व
कत्वसाधने सिद्धसाधनं ।

नैतदस्ति । कर्म्मं चेच्चेतनारूपमस्ति161 तदा परचेतनासाधनं व्यर्थं । तत् किलाचेतनं
तत् प्रवर्त्तितुमशक्तं । इदन्तदिति निरूप्य प्रवृत्तिदर्शनात् । ततः स्वयं वा निरूप्य प्रवर्ति
तव्यं निरूपकप्रेरणया गत्यन्तराभावात् । तत्राचेतनानां स्वयं निरूपणाभावात् । परनि
रूपणमपि यदि न स्यादप्रवर्त्तनमेव प्रसक्तं । तस्मात् प्रेरकेन चेतनावतान्येन भवितव्य
मित्यभिप्रायः । तत्र (।)

चेतना कर्म्मरूपैव प्रवृत्तेर्यदि कारणं । निरूपणेपि न परं तन्निरूपणमिष्यते ।। २५१ ।।

तथा चासिद्धो दृष्टान्तः ।

चेतनावत्कृतत्वेपि नेश्वरेण घटादयः । कृताः प्रयोजनाभावादन्यथेशोपि सेश्वरः ।। २५२ ।।

स्वस्यामर्थंक्रियायामित्यनवस्था (प्रवर्त्तते)162

अथ प्रवर्त्तते सोपि कुलालादिः प्रवर्त्तितः (।) अज्ञानादीश्वरस्तज्ज्ञो न सोन्येन प्रवर्त्तितः ।। २५३ ।।
अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग्गं वा श्वभ्रमेव वा ।। २५४ ।।

अज्ञो हि चेतनावानपि निरूपणासमर्थं: । स घटादिवदपरेण निरूपणासमर्थत्वादपरेण
प्रेर्यते नेश्वरस्तस्य निरूपणासमर्थत्वादिति नानवस्था ।

तदप्यसत् ।

कर्त्तृत्वसिद्धौ सर्व्वज्ञत्वसिद्धिः पुनस्ततः163 (।) कर्त्तृत्वमित्यवस्थायामत्रान्योन्याश्रयो महान् ।। २५५ ।।

यदि हि सर्व्वस्य कर्त्तासाविति प्रसिध्यति परमेश्वरस्तदास्य स्यात् सर्व्वज्ञता नान्यथा ।
सर्व्वज्ञतायाञ्च प्रेरकत्वमन्यथा तस्याप्यपरः प्रेरक इति सैवानवस्था ।

किञ्च । यद्यसौ सर्व्वज्ञः किमज्ञं जनमसद्व्यवहारे164 प्रवर्त्तयति । विवेकवन्तो हि
सदुपदेशदायिनो दृष्टाः । स तु विपर्ययप्रवृत्तमपि जनं जनयति । तत् कथं प्रमाणं ।

अथोपदेशमसौ सन्तमेव करोति तेन प्रमाणम् (।) अधर्म्मकारिणन्तु फलमसदनु
भावयति । तत उचितफलदायी165 विवेकवानेव ।

तदप्यसत् । यस्मात् ।

अधर्म्मकरणेप्येष वर्त्तयत्येव जन्मिनः । अयुक्तं कारयित्वासौ कथं युक्ते प्रवर्त्तयेत् ।। २५६ ।।

प्रथमन्तावत् पाप एव प्रवर्त्तयति (।) ततस्तद्‌व्यावर्त्तनाय धर्म्म इति केयं प्रेक्षापूर्वं
कारितेश्वरस्य । तदिदमायातं प्रक्षाल्यपरित्यक्ष्यामीति ।


037

अथ पापे प्रवर्त्तयति तत्कर्म्माधिष्ठित एवासौ तथा सति प्रेक्षाक्रियाहानिः । तदपि
कर्म्म कस्मात् कारयतीति समानः प्रसंगः ।

अथाधर्म्ममसौ न कारयति । अधर्म्मकारिणन्तु तत्फलमनुभावयति । तदम्येश्वरवत् ।

तदप्यसारं ।

अशक्त्यान्येश्वराः पापप्रतिषेधं न कुर्व्वते । स त्वत्यन्तमशक्तेभ्यो व्यावृत्तमतिरिष्यते ।। २५७ ।।

अथाशक्त एवासौ तथा सति (।)

नेश्वरेण कृतं सर्व्वमिति वक्तव्यमुच्चकैः । पापवत् स्वार्थकारित्वाद्धर्म्मादिरपि किन्ततः ।। २५८ ।।

किञ्च ।

अधर्म्मस्य फलं भुंक्ते लोकः किं नेश्वराद् विना ।

विनापि यदि कस्तस्य कारणत्वं प्रकल्पयेत् ।। २५९ ।।
अथ तस्माद् विनाऽधर्म्मंफलं भुंक्ते न कश्चन । प्रेक्षावान् कथमेतस्मिन् प्रवर्त्तेत निरर्थके ।। २६० ।।
क्रिडार्था तस्य वृत्तिश्चेत् प्रेक्षापूर्वक्रिया कुतः । एकस्य क्षणिका तृप्तिरन्यः प्राणौर्वियुज्यते ।। २६१ ।।

किञ्च ।

शास्त्रान्तराणि सर्व्वाणि यदीश्वरविकल्पतः । सत्त्यासत्त्योपदेशस्य प्रमाणं दानतः कथं ।। २६२ ।।

सकलशास्त्रलक्षणपरस्परविरोधबाधितसत्त्यासत्त्योपदाना(? देशा)166 दसौ प्रमाणमिति
महदद्भूतं प्रामाणिकत्वञ्च ।

अथ न सकलशास्त्रार्थक्रिया तदा शास्त्रान्तरवदेव नेश्वरेण सर्व्वं व्यधायि ।

अथ धर्माधर्म्मप्रेरितोसौ सकलमेव करोति नान्यथा पदार्थसम्भवः । तथा सति
सर्व्व एवात्मा प्राकृतजनानां धर्म्माधर्म्मादि167 प्रेरणादेव करिष्यतीति व्यर्थमीश्वरकल्पनं ।

सर्व्वस्य168 कर्त्ता नात्मा चेत् सर्व्वस्येति यदीष्यते ।

तस्य सर्व्वस्य कर्त्तृत्वं क्वोपयोगं प्रयास्यति ।। २६३ ।।
सर्व्वैरेवात्मभिः सर्व्वकरणे किं प्रहीयते । तथा बहुभिरेकस्य बहूनां चैकतः क्रिया ।। २६४ ।।
अथैक एव सर्व्वस्य कारकः कश्चिदिष्यते । सर्व्वज्ञतान्यथा न स्यादिति नान्यस्य कर्त्तृता ।। २६५ ।।

प्रधानभूतः कर्त्तासौवरप्राप्तिः ततोर्थिनां । न हि सर्व्वज्ञतामात्रादस(?श)169 क्तः सेव्यते परैः ।। २६६ ।।

तदप्यसत् ।

अर्थानर्थक्रियाशक्तो गुडगोरसकारकः170 । सर्व्वज्ञोपि न सेव्यत्वं प्रयात्यनुपकारतः ।। २६७ ।।
सर्व्वज्ञत्वे प्रसिद्धे च शक्तत्वे सर्वकारकः । सर्व्वकारकतायाश्च तस्य सर्व्वंज्ञता पुनः ।। २६८ ।।
असर्व्वज्ञस्य कर्त्तृत्वे दर्शने सर्व्ववित् कथं । तस्माद् दृष्टान्ततः सिध्येत् तथा चेत् प्रेक्षताक्षतिः ।। २६९ ।।

न चाज्ञता171 कुलालादेः स्वकार्य्येस्ति वृथेश्वरः । कर्म्मंसामर्थ्यसिद्धौ च नोपयोगः कथं क्रिया ।। २७० ।।

जानानोपि कुलालादिः प्रेर्यमाणो यदि क्षमः172 । ईश्वरोपि तथान्येन प्रेर्यः स्यादविशेषतः ।। २७१ ।।

038
अथ सर्व्वज्ञतासिद्धिमात्मनोभिलषन्नसौ173 । सर्व्वस्य प्रेरको जातस्तदेतत् केन गम्यतां ।। २७२ ।।

किञ्च ।

स्वयं निरूप्य यः कर्त्ता तत्राकारक ईश्वरः । ईश्वरादेव सर्व्वस्य बुद्धिरित्यप्रमाणकं ।। २७३ ।।
हेतुत्वमुपदेशादेरुपदेष्टुस्तदन्यतः । उपदेश इत्यनादित्वात् समाप्तं सर्व्वमीहितं ।। २७४ ।।

तस्मात् स्थित्वा174 प्रवृत्तानामीश्वरप्रेरणं कुतः । प्रधानपुरुषादीनान्नातः कर्त्तृत्वनिश्चयः ।। २७५ ।।

संस्थानसङ्गतत्वादिति175 चायमप्यहेतुः । न हि संस्थानं सकलमेव पुरुषपूर्व्वकं
दृष्टं (।) बीजादिकारणविशेषमात्रेणापि तस्य दृष्टेः । वृक्षादिसंस्थानवत् । तत्र यथा (।)

वृक्षादीनां हि संस्थानमचिद्धेतुसमन्वयि । तथा घटादि तद्वत् स्यात् प्रधानाद्यप्रवर्त्तितं ।। २७६ ।।
यथा हि बीजमुत्पन्नं वृक्षतो वृक्षकारणं । तथा घटोपि मृत्पिण्डाद् घटादेरप्रवर्त्तितात् ।। २७७ ।।
कुलालादिः पुनस्तस्य साक्षी सततमिष्यते । शरीरवर्ण्णसंस्थानमन्यतस्तादृगुद्भवात् ।। २७८ ।।

न कुलालादिस्तस्य संस्थानादेर्जनकः । न खलु बीजविजातीयं संस्थानमुत्पादयितुं
वृक्षस्य सुशिक्षितोपि चेतनावान् समर्थः ।

ननु(न) 176 मृत्पिण्डस्य संस्थानं कुलाल उत्पादयन्नुपलभ्यते । न (।) मृत्पिण्डस्यापि
तादृशत्वात् । तादृग्‌वर्ण्णसंस्थान (रूप) एव मृत्पिण्डः । यथा वटबीजं वटवृक्षवर्ण्ण
संस्थानवत् । तदपि कथमिति चेत् । अत्रोच्यते ।

वर्ण्णसंस्थानरूपत्वं बीजे यदि न शक्तितः । कार्ये कुतस्तदायातं बीजहेतोरभावतः ।। २७९ ।।
ईश्वरस्तस्य कर्त्ता चेद् बीजात् किन्न तदन्यतः । इति पूर्व्वं प्रतिक्षिप्तं हेतुस्तस्येश्वरः कथं ।। २८० ।।

बीजकारणं हि वृक्षस्तदानीं बीजकालकार्ये177 नास्ति । ततो न तस्य संस्थाकारणत्वं ।
नापीश्वरस्य । विजातीयवृक्षकारणवीजादसंभावादीश्वरस्य तत्कारणत्वे किमिति न विजातीय
बीजादपि तद् वृक्षसंस्थानं । तस्माच्छक्तिरूपेण विद्यमानमेव वृक्षबीजे वृक्षसंस्थानमाविर्भवति ।
यथान्धकारव्यवस्थितो बालदारकः178 प्रदीपात् । तथा मृत्पिण्डादपि संस्थानमाविर्भंवति
कुलालात् । कुलालस्यापि घटादिविधाने संस्थानं शक्तिरूपेण संस्थितं संस्थानादेव । ततः
कुलालादिः पुरुषः साक्षिभूत एवोपभोक्ता । न तस्य व्यापारः कश्चित् । तदपुभोगेच्छया
तथा तथा शक्तिरूपस्य प्रधानस्य प्रवृत्तेः । तथा चाह ।

पुरुषोपभोगसिध्यर्थं प्रधानस्य प्रवर्त्तनं । सामाजिकार्थसिद्ध्यर्थं नटरङ्गक्रिया यथा ।। २८१ ।।

ततश्च बुद्धिमत्कारणविपर्ययस्य प्रसिद्धिः । अथ प्रतिपुरुषमात्मनां भेदादपरेण
रागादिरहितेनात्मना सर्व्वेषामीश्वरेण भवितव्यं । अन्यथा प्रतिनियतवर्ण्णंसंस्थानादयः संसारि
पुरुषाणां केनोपदर्शिताः । यत्रोपभोगेच्छ्या प्रधानस्य प्रवृत्तिः । उक्तमत्र ।

यथा सामाजिकानामनाद्युपदेशदर्शनाद् दिदृक्षा विनिवृत्यर्थं नटस्य नाटकप्रयोगः तथा
संसारिपुरुषाणमपि ।

क्षीरस्य कथमज्ञात्वा वत्सवृद्ध्यै179 प्रवर्त्तनं । तथेदमपि किं नेष्टं प्रधानस्य प्रवर्त्तनं ।। २८२ ।।

039

तस्मात् पर्यंवसाने सुखाद्यर्थितरूपतादर्शनात् सुखादिरूपेण सकलस्य कारणेन
भवितव्यं । तावता परिसमाप्तमिति नेश्वरसिद्धिः । (अ) 180 युक्तञ्चैंतत् ।

अप्रेक्षापूर्वकत्वस्य पदार्थेषूपलब्धितः181 । अचेतनत्वन्तद्धेंतोरिति युक्तिविदां नयः ।। २८३ ।।
अप्रेक्षावत्पदार्थानां कारणं न न युक्तिमत् । छागादीनां पुरीषादेर्वर्त्तुलीकरणेन किं ।। २८४ ।।

२—प्रधानकारणतानिरासः—

प्रधानमेव तर्हि कारणं भविष्यतीति सांख्याः :

अत्रेदमुच्यते ।

अन्वयश्चेत् सुखादीनां वस्तुत्वाच्चेतनत्वतः । पुरुषाणां ततस्तत्त्वं कारणं न किमिष्यते ।। २८५ ।।

नतु वर्ण्णादि संस्थानं प्रधानस्यास्ति भाविकं । वर्ण्णादि182 कार्यकरणं प्रधानस्य मतं कथं ।। २८६ ।।

अथापि शक्तिरूपेण सर्व्वमत्रोपगम्यते । सर्व्वशक्त्यात्मकं वस्तु प्रधानमिति कथ्यते ।। २८७ ।।
तस्यादृष्टस्य तादृक् च कारणत्वानुमानवत्183 । कार्य हि कार्यान्तरतः कार्यत्वादन्यकार्यवत् ।। २८८ ।।

न खलु कारणमकारणमुपलभ्यते । तत उपलब्धरूपानुसरणेनैव कारणकल्पना ।

अथ भेदानामन्वयादन्वयिना केनचित् तद्‌रूपेण कारणेन भवितव्यं । कारणस्य तु न
केनचिदन्वय इति कथमन्वयस्यापरं कारणं । घटशरावादीनां हि भेदे मृद्‌रूपान्वयादेक
मृत्पिण्डपूर्व्वंकता । न तु मृत्पिण्डस्यापरमृत्पिण्डपूर्व्वकतैकत्वान्मृत्पिण्डस्य । मृत्पिण्डदण्डा
दीनामप्यपरमेकं यावदेकमेवान्ते(न्वयि)184 ।

तदप्यसत् । उक्तं185 सत्त्वादीनां पुरुषाणाञ्चापरं कारणं प्राप्तं (।) भवतु तर्ह्येकमेव
किमपि कारणं (।)

तदप्यसत् ।

त्रिगुणादिरूपता तस्य प्रधानस्य न सिध्यति । वस्तुत्वेनान्वयाद् वस्तु कारणं किमपीक्ष्यतां ।। २८९ ।।

वस्तु वस्त्वित्यन्वयात् कार्याणां वस्तुरूपता कारणस्य । न च मृदादिरूपादपरा
वस्तुरूपता । ततोमृदादिरूपतैव कारणस्य प्राप्ता । तथा सति सर्व्वात्मकं प्रधानमिति प्राप्तं ।

नैतदस्ति ।

कारणानुगतं कार्यं स्वरूपेण न सर्व्वथा । अन्यथाभूतवह्नयादेर्धूमादिर्दृश्यतेन्यथा ।। २९० ।।

कारणं हि तत् तस्य यद्यदन्वयव्यतिरेकावनुवर्त्तते न तु तद्रूपं । तथा च वह्नेर्धूमो
मेघादिभ्यो जलमिति186 । तत्र नास्ति सरूपतेति न कार्यकारणभावः स्यात् ।

अथ तत्राप्यस्ति सरूपं किमपि कारणं तथाभूतकार्यत्वादेवानुमीयतां । अनुमीयतां
यदि सारूप्येण कार्यकारणभावस्य प्रतिबन्धोस्ति । न चास्ति व्याप्तेरभावात् । येन
व्यभिचारस्तस्यापि पक्षीकरणमिति चेत् (।) एवन्तर्हि न किञ्िचदनैकान्तिकं नाम स्यात् ।
येन येन व्यभिचारस्तमेव पक्षीकुर्यादिति । तस्मादनवस्थाप्रसङ्गादसदेतत् ।


187 188
040

३. न कर्मकारणता

अथाप्युच्यते189 (।)

कर्म्मणां परिणामोयमिति सिद्धमिदं कुतः ।
अन्वयव्यतिरेकित्वं कर्म्मंणोपि न विद्यते190 ।। २९१ ।।

न खलु कर्म्मापि शुभाशुभादिकमस्य जगतो वैचित्र्यस्य कारणमिति ज्ञायते । आस्ता
न्तावदेतदित्यन्यदुच्यते । यदुक्तं रागादिमानपि सकलशक्तियुक्तो भविष्यति । ततः क्रीडाद्यर्थं
जगद्वैचित्र्यकरणं ।

तत्रोच्यते ।

अज्ञानां रागिणां क्रीडारसः शुद्धात्मनां नहि ।
किचिंन्मात्रविशुद्ध्यापि नार्यः क्रीडासु वर्त्तते ।। २९२ ।।
नरकादिभयादन्यो नार्यः क्रीडासु वर्त्तते । तस्य त्वेतद् भयं नास्ति कस्मात् ताभ्यो निवर्त्तते ।। २९३ ।।
रागादिभ्यो यदा दुःखं नरकादिषु वर्त्तते । तस्य तन्नास्ति केनेदं भवतः सुहृदोच्यते ।। २९४ ।।

भावनातः समुद्‌भूता वासीचन्दनकल्पना । नरकादिभयं दुःखन्न191 बाधत इति स्थितिः ।। २९५ ।।

एवमेव तदुद्‌भूतमिति युक्तमिदन्न च ।
स्वाभाविकत्वे तत्तस्य जगत् स्वाभाविकं भवेत् ।। २९६ ।।

तस्यैवैकस्य तदिदं व्यक्तमीश्वर192 चेष्टितं ।

किंच ।

ईश्वरादीश्वरत्वस्य प्राप्तिस्तस्यापि सान्यतः ।
तदन्यस्यापि सान्यस्मान्न स्वाभाविक ईश्वरः ।। २९७ ।।
उत्कर्षोस्ति गुणानां चेत् शक्रब्रह्मत्वसम्भवे । ईश्वरत्वमपि प्राप्तं नास्ति नित्त्येश्वरस्थितिः ।। २९८ ।।
अथैतदपि नास्त्येव संसारी नेश्वरस्ततः । अत्र यस्य प्रतिक्षेपस्तस्यान्यत्रापि का क्षमा ।। २९९ ।।

यो हि ग्राममेव मुष्णाति साधुजनसमवाये तस्यारण्ये त्राणासम्भविनि का क्षमा ।
तथा यस्तारतम्यसम्भविन्यामवस्थायां तदनुगमने प्रकर्षसम्भवं प्रत्याचक्षीत । तस्य निरनुगमे
वस्तुनि न प्रतिक्षेप इति क एवं प्रत्येति । तस्मात् ।

संस्थानसङ्गमाद् भावाः कृता कर्त्रेति सिध्यति । अहेतुगुणयुक्तस्य कुत एव तु सिद्धता ।। ३०० ।।

४. न परमाण्‌वादिकारणता

गुणतारतम्यदर्शंनाद (भि) 193 योगविशेषात् सामर्थ्यसम्भवः प्रागसमर्थानामपि पक्षादिति194
युक्तमेतत् । अत्यन्तविलक्षणस्य तु स्वभावसिद्धसामर्थ्यात्मनोनुगमरहितस्य साधनासम्भव एव ।

किंच ।

संस्थानं हि नामेदं वस्तुवृत्तेन सिद्धिमत् । भ्रान्तिमात्रस्य सद्भावात् परमाणव एव ते ।। ३०१ ।।

न खलु परमाणुभ्यो व्यतिरिच्यमानशरीरं195 द्रव्याश्रितमस्ति । परमाणव एव
केवलास्ततो वैधर्म्येण परमाणव इति कथमुच्यते ।


041

अथ लोकप्रतीतिमात्रव्यवस्थापितं तदुपादीयते । तदप्ययुक्तं । कल्पनारचितमात्रस्या
साधनत्वात् । अथ परमाणव एव तेन रूपेणोच्यन्ते(।) तथा सति परमाणवोपि कार्या एव(।)
ततः कार्यंत्वादेवेत्ययमेव हेतुरुपन्यासार्हः । अथ तत्राभूत196 भ्रान्तिजनकाः परमाणव एव
तथोच्यन्ते । एवन्तर्हि (।)

परमाणवः स्वरूपेणाव(?)भासन्ते यदि भावतः । ईश्वरस्य कथं बुद्धिः संस्थानकरणं मम ।। ३०२ ।।
निरूप्य करणन्तस्य यदि नास्तीति भण्यते । सर्व्वज्ञता कथन्तस्य निरूप्य करणे सति ।। ३०३ ।।
परोपगमनेनाथ संस्थानस्य निरूपणं । स्वयमप्रतिपन्नस्य परोपगमनं कुतः ।। ३०४ ।।
अथावयविसद्भावादिदमुत्तरमुच्यते । निरूपयिष्यते पश्चादेतदत्यन्तदुर्घटं ।। ३०५ ।।

अथवा दृष्टान्ते संशयः । तेनैवेश्वरेण संशयोऽनैकान्तिकता संस्थानस्य(ा/?/) 197 सिद्ध
त्वात् । स्वरूपमेवार्थक्रियाकारिहेतुत्वेनोपादीयते । तच्च तथा स्वरूपमीश्वरस्यापीति
तेनैव(ा) नैकान्तः । न हि स ईश्वरः स्थित्वा स्थित्वा प्रवर्त्तते अर्थक्रियाकारी वान्येन
प्रेर्यमाणः । अथासौ स्वयमेव शक्तस्ततः परेण न प्रेर्यते । कुलालादयोपि यत्र शक्ताः
परेण प्रेर्यन्त इत्ययुक्तमेव । तेऽसमर्था एवेति चेत् । दृष्टस्य समर्थत्वेन कथमसामर्थ्यं (।)
तस्यापि तर्हि दृष्टस्यानुमानेन समर्थतास्ति । अनुमानेनापरानुमाने न कुलालस्य सामर्थ्यं
केवलस्येति चेदीश्वरस्य अपरेश्वरानुमानमित्यनवस्था ।

किंच ।

संस्थानं परमाणूनां नास्तीत्येतत् कुतो मतं । तत्त्वादेवेति चेदेतत् कुतस्तत्त्वं प्रतीयतां ।। ३०६ ।।

नहि परमाणूनां परमाणुत्वमेवंविधमवगतं येन संस्थानाभावः ।

अथैवमुच्यते । यत् स्थूलं तदवयवोपचयपूर्व्वकं यथानेकविन्दुसमाहाररूपो जल
संघातः198 ।द्व्यणुकपर्यन्तं च स्थूलन्ततोनेकसंघातरूपमिति परमाणुसिद्धिः ।

तदप्यसत् ।

अष्टाणुकात् परं रूपमस्तीति कुतो गतिः ।199 एतदष्टाणुकं रूपमन्यथा वेति का प्रमा ।। ३०७ ।।

दृष्टत्वे परमाणूनां तत्संख्या स्याद् विनिश्चिता । अथ स्थूलं तदत्यन्तं तेन तद् द्व्यणुकं/?/न हि ।। ३०८ ।।

द्व्यणुकादि यदा(ऽ)200 दृष्टं किमपेक्ष्यास्य पीनता । अनुमीयमानापेक्षा चेदनवस्था प्रसज्यते ।। ३०९ ।।

अनुमीयमानसापेक्षा सर्व्वस्य स्थूलता भवेत् । अथापि दृश्यं यद् रूपं पर्यन्तेणुरसौ मतः ।। ३१० ।।
वर्त्तुलत्वादिसंस्थानं तस्य किं नोपलभ्यते । परमाणुर्न सिद्धश्चत् कुतोवयविसम्भवः ।। ३११ ।।
सिद्धिश्चेद् परमाणूनां कुतोवयविसम्भवः । एकदेशेन संसर्ग्गः परमाणुरसौ कथं ।। ३१२ ।।
एकदेशेन संसर्ग्गे सर्व्वस्यैवोपलभ्यते । ततः संसग्गसद्भावात् नाणुः स्थूलपदार्थवत् ।। ३१३ ।।

अथापि स्यात् (।) द्वयोःपरमाण्वोः संयोग उपजायते पदार्थान्तरं न तु संस्पर्शः सर्व्वा
त्मनैकदेशेन वा ।

तदप्यसत् ।

असंसर्ग्गेपि संयोगो यदि कुतः201 स एव सः । कथमेकघनाकाराः परमाणुषु संविदः ।। ३१४ ।।

042

अथान्योवयवी202 तत्र तत्रैकाकारता धियां । नित्त्यत्वात् परमाणूनां सान्तराणां दृशिर्भवेत् ।। ३१५ ।।

यदि नामास्मदादीनामदृश्याः परमाणवः । ईश्वरस्याक्षदृश्यत्वन्तेषां नैव(हि) सम्भवि ।। ३१६ ।।
अथद्वयमसौ पश्येत् समवायः कथम्भवेत् । भ्रान्ततैव जनस्य स्यात् तथा सत्यन्यथेक्षणात् ।। ३१७ ।।

अवयवसंयोगपूर्व्वकञ्च स्थूलमिति कुत एतत् । यदि नाम मृत्पिण्डादावुपलब्ध
मङकुरादौ तु नोपलभ्यत एव । तथा हि203 ।

वटस्य बीजमत्यल्पं तत्कार्यंमतिपीवरं । तत्रावयवसंयोगः प्रागभावे कथं भवेत् ।। ३१८ ।।

विद्यमानानामेवावयवानां संयोग इति समयः । न च स्थूलरूपकाण्डादेः प्राक्
तदवयवानामुपलम्भस्ततः कथं संयोगः । कुतश्चावयवीति सकलमन्धकारनर्त्तनं ।

अथाकाशदेशव्यापितः परमाणवो दृष्टसहायाः सञ्चीयन्ते ।

तदयुक्तं ।

सञ्चीयन्ते स्थिताः सन्तः किमपूर्व्वोदयस्ततः । कारणादिति सर्व्वेषामत्र संदेह एव नः ।। ३१९ ।।
अथादृष्टोपि दृष्टान्तादस्तीत्येव प्रतीयते । प्रदीपदृष्टान्तबलात् सांख्यदर्शनमागतं ।। ३२० ।।
तत एवेश्वरः कर्त्तेत्येतद् दूरतरं गतं । व्यञ्जकश्च प्रदीपादिरचेतनतया गतः ।। ३२१ ।।
अचेतनाद् व्यक्तिरिति कथमीश्वरसाधनं । चेतनाधिष्ठितः सोपीत्यत्र प्राक्‌कृतमुत्तरं ।। ३२२ ।।
तस्माद् यतो यतो यद् यत् तत्तदस्तु ततस्ततः । किञ्चिच्चेतनतःकिञ्चिदन्यतश्चेति निश्चयः ।। ३२३ ।।
पीतमप्यन्यथा शुक्लं वस्तुत्वादन्यशुक्लवत् । प्रत्यक्षबाधतो नेति सोत्र नेति कुतो मतिः ।। ३२४ ।।
मम नास्तीति नैवासौ तवादृष्टिर्नहि प्रमा । तवादृष्टिः प्रमाणञ्चेदीश्वरो नेति गम्यतां ।। ३२५ ।।

तवाप्रमा सा दृष्टिश्चेदीश्वरो नेति गम्यतां ।

अपि च(।) न कार्यमित्येव संस्थानमित्येव वस्त्वित्येवाभिमतकारणमनुमापयति । न
खलु पुरुषेच्छया हेतवः साध्यसाधनाय प्रवर्त्तन्ते । अन्यथेश्वरविपर्ययोपि स्यात् तस्यापि
सिद्धिप्रसङगात् । ततः204 न किञ्चित् कस्यचिन्न सिध्येत । अपि तु यादृशाद् यथा यदुपलभ्यते
तादृशमेवानुमापयतीत्याह ।

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि तद् युक्तं तस्माद् यदनुमीयते ।। ११ ।।

यादृगधिष्ठातुर्भावाभावादनुवृत्तिकारि दृष्टं । यादृशो वाधिष्ठातुर्भावाभावानु
वर्त्तमानं यदुपलब्धं तादृशात्तु तदेवानुमीयत इति युक्तं । सन्निवेशादि205 (।) सन्निवेशो वस्तुत्वं
स्थित्वा प्रवृत्तिर्व्वा (।) यादृशी यादृशादुपलब्धा तादृश्यास्तादृगधिष्ठात्रनुमानमुपपन्नं
नान्यथेत्याह ।

वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिवद्‌धुताशने ।। १२ ।।

यदि हि संस्थानभेदं परित्यज्य संस्थानशब्दमात्रवाच्यं कर्त्तृविशेषानुगमं निरस्य
हेतुरुपादीयते वस्तुत्वमात्रं वा तदा युक्तानुमितिः । स्यात्पाण्डुद्रव्यादिव वह्नौ । तत्र हि


043

पाण्डुविशेषोवधारणीयो यो धूमगतः । धूमादेव तदनुमानं तर्हि किं पाण्डुतया ।

अत्रोच्यते ।

विशिष्टमेव पाण्डुत्वं धूम इत्यभिधीयते । व्यतिरिक्तन्न धूमत्वे पाण्डुत्वस्य विशेषणं ।। ३२६ ।।

धूमगतपाण्डुत्वादिति कोथं‌/?/ । अग्न्यन्वयव्यतिरेकानु206 विधानमेव कथमवगन्तव्यम्
(।) अत्रापि धूमत्वमग्न्यविनाभावीति कार्यकारणभावस्य ग्रहणेनानुमा भवेत्(।) तथा च
सुतरामीशो न सिद्धिमधिगच्छतीति लाभमिच्छतो मूलस्यापि नाशः । तस्माद् वस्तुभेदे दृष्टान्ते
यो दृष्टो वस्तुभेदः संस्थानविशेषे घटादौ पुरुषाधिष्ठानविशेषस्तस्य शब्दसाम्यादभेदवतो207
युक्तानुमितिः । तथेश्वरस्यापीत्येकान्त एषः ।

अथापि स्याद्(।) यदि पाण्डुत्वाद् विशेषरहितादनुमानं प्रवर्त्तयेमहि ततः प्रत्यक्षबाधा
स्यात् न सर्व्वस्य तु पाण्डुतायामग्निसंसर्ग्गः प्रत्यक्षतो विपर्ययस्य दर्शनात् । ईश्वरानुमाने तु
बाधेत तदनुमानं ।

नैतदस्ति ।

न न बाध्यत इत्येवमनुमानं प्रवर्त्तते । सम्बन्धदर्शनात् तस्य प्रवर्त्तनमितीरितं ।। ३२७ ।।
अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ।। १३ ।।

न खलु वल्मीकस्य कुम्भकारकरणेनुमाने बाधकमस्ति । न न दर्शनमेव बाधकं (।)
यदि कुम्भकारः कर्त्ता भवेदुपलभ्येत । ईश्वरेपि किमनुपलम्भः(।) नन्वेवमदृष्टं कर्म्मापि न
कल्पनीयं । तत्किमिदानीं शुषिरमित्येव जानुप्रवेशः । अथ कर्म्मापि परिकल्प्यापर ईशः
परिकल्प्यते । ततस्ततोऽन्योपीत्येवमनवस्था । किञ्च

कुम्भकारोपि तत्कार्ये किमदृष्टो न कल्प्यते । कष्टकल्पनमेतत् किमीश्वरेपि न सम्भवि ।। ३२८ ।।

अथ दण्डमृत्पिण्डचक्रकरप्रक्रमानुगमो न वल्मीक उपलभ्यते । यदि तर्हि महतीयं
भवतः सूक्ष्मेक्षिका । तदा पर्व्वतादिष्वप्यनियतसंस्थानेषु (न)208 प्रेक्षावद्‌वृत्तिरुपलभ्यते
इत्येषामपि क्रिया न किमर्द्धजरतीयमालम्बते ।

अथ पृथिवीधारणमात्रकरणे पर्व्वतादेरुपयोगः । किन्तत्र पर्व्वतादिषु घटितसंस्थाने
नेति । एबं तद्धि ।

उपयोगं विना भूभृत् संस्थानं क्रियतेऽन्यथा । किं वा न पुरुषस्तत्र हेतुस्तेन विरूपता ।। ३२९ ।।

किमुपयोगाभावात् पुरुषकर्त्तृत्वेपि संस्थानमतिशोभनं न जायते पुरुषो वा न कर्त्तेति
संदेह एव ।

नन्वेष दोषः कार्यसमः । तथा हि । प्रयत्नकार्यानेकत्वात् कार्यसमः ।209 प्रयत्ना
नान्तरीयकत्वात् कार्यः शब्द इति(।) प्रयत्नान्तरं व्यक्तिरपि दृष्टा इति न कार्यः शब्द इति ।
तथात्रापि संस्थानमत्यकार्यमपि दृष्टमिति ।


044

तदप्यसत् ।210

साध्येनानुगमात् कार्ये सामान्येनापि साधने ।
सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ।। १४ ।।

साध्येन हि कार्यत्वादिना सामान्येनापि साधने साधनविषये (उक्तो) 211 यो दोषः स
कार्यसमो मतः । कार्यसमजातिरूपः । कीदृशो दोषः (।) भेदोक्तिदोषः । भेदस्योक्ति
रुपक्षेपः । कार्यत्वन्नाम किमभिव्यक्तिगतमुपादीयते किं वोत्पत्तिगतमिति । सम्बन्धि
भेदाद् यो भेदोक्तिदोषः स कार्यसमः (।) तत्रापि यद्यनैकान्तिकमुद्भावयति । प्रयत्नादावरण
विगमादित्येवमपि न विरोधीति । न जात्युत्तरं । किन्तु सामान्येनापि212 साधनं भवति ।
यतोभिव्यक्तिरपि नित्त्यस्य विरुद्धैव । ततो जात्युत्तरमन्यथा नैकान्तिकोद्भावनं सत्त्यमेव भवेत् ।

अथात्रोत्तरं । कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ।213 प्रयत्नकार्यान्य
त्वोपपत्तेः स्यादेत (त्) सत्त्वंशब्दे स्यात् । अनुपलब्धिकारणस्य व्यवधानादेरुपपत्ते (:)
न च शब्दस्य व्यवधानादिकारणोपपत्तिः (।) तेन नास्य प्रयत्नानन्तरमभिव्यक्तिः । यत्र
प्रयत्नानन्तरमभिव्यक्तिस्तत्रानुपलब्धिकारणमुपयुज्यते व्यवधानं (।) व्यवधानापोहाच्चार्थस्योप
लब्धिरूपतद्विलक्षणाभि214 व्यक्तिर्भवति ।

अत्रोच्यते ।

शब्दस्यापि न सेत्ये(त)त् कथं कस्मात् प्रतीयते ।

यद्यभिव्यक्तिसम्बन्धो नित्त्यस्याप्युपपत्तिभाक् ।। ३३० ।।

अथापि स्यात् ।

शब्दस्यानुपलब्धत्वे व्यवधानादिकारणं । घटादीनामिव व्यक्तं नेक्ष्यतेऽतः प्रयत्नजाः ।। ३३१ ।।

तदप्यसत् ।

व्यवधानादयः सन्ति शब्दस्येंत्यपि कल्प्यतां । प्रत्यभिज्ञायमानत्वाच्छब्दस्य न विनाशिता ।। ३३२ ।।

घटादयोपि प्रागुपलब्धा व्यवधानावस्थायां न विनष्टा इति व्यवधानापगमे प्रत्यभिज्ञा
नादेव प्रतीयंते । शब्दोपि प्रत्यभिज्ञानात् तथैव युक्तः । अथान्येनोपलम्भादेवं प्रतीतिर्न
प्रत्यभिज्ञानात् स्वयं साक्षादिति महती तत्त्वदृष्टिः ।

किंच ।

परेणापि प्रतीतं तत् प्रत्यभिज्ञानतोन्यतः । न गम्यते कथन्तस्य परस्मादपि नित्त्यता ।। ३३३ ।।

तस्मादत्र प्रागुक्त एव परिहारः । सामान्येनापि साधने सम्बन्धीत्यादि ।215

अथवा ।

कार्यत्वान्यत्वलेशेन यत्साध्यासिद्धिदर्शनं ।
तत् कार्यसममेतत् तु त्रिधा वक्‌त्रभिसन्धितः(।)
216 ।। ३३४ ।।

045

इति आचार्यप्रणीतं कार्यसमलक्षणमाश्रित्येदमुक्तं । अक्षपादलक्षणन्त्वयुक्त
मेघेति प्रतिपादितं217 विकल्पसमं तु साधर्म्येपि विशेषोक्तिर्व्विकल्पसमं218 । तद्यथा पूर्व्ववद्
घटसाधर्म्येणानित्यत्वे कृते सत्याह । सत्येतस्मिन् साधर्म्ये कार्यत्वचाक्षुषत्वादिना घट
एवानित्यो नान्यः ।

ननु (अत्रापि)219 कार्यत्वसंस्थानत्वादिसामान्येन साधनं भवति । विशेष
सम्बन्धिद्वारपरिकल्पने कार्यसमप्रथ(? वचन)220 तैव घटपर्व्वतादिसंस्थानपरिकल्पनात् ।

तदसत्त्यं ।

संस्थानादेर्न सामान्यं बुद्धिपूर्व्वक्रियोद्भवः । अन्यत्राप्यस्य दृष्टत्वाद् वृक्षादाविति वर्ण्णतं ।। ३३५ ।।
प्रतिबद्धविशेषस्य त्यागाद् यत् साधनं क्वचित् । तदत्यन्तमसम्बद्धमनित्त्ये काककार्ष् ण्यवत् ।। ३३६ ।।

अत्राह परः । यदि नाम बुद्धिपूर्व्वक्रियान्वयो न दृष्टः (।)स एव साधनं संस्थाना
विर्माभूत् । शब्दवाच्यतान्वयस्तु संस्थानं संस्थानमित्यादिर्भविष्यति । ततस्तदभिन्नलक्षण
त्वादेककार्यत्वसिद्धिः ।

असदेतद् (।) यतः ।

कल्पनामात्ररचितादर्थासत्तिविवर्जितात् । धर्म्मात् तत्सम्भविन्यर्थे यत्र तत्र समीहितात् ।। ३३७ ।।
जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् ।
न युक्तं साधनं गोत्वाच्छशादीनां विषाणवत् ।। (१५)

शशादिविलक्षणो हि जात्यन्तरे प्रसिद्धो विषाणसम्बन्धः (।) स किं गौरिति वजना
भेदमात्रादनुमीयते ।

अर्थाभेदेपि पाण्डुत्वान्नानुमानमितीरितं । किं पुनर्यत्र नार्थोपि शब्दमात्रं परं समं ।। ३३८ ।।

अर्थस्य तावत् सम्भवति समीहितसाध्यप्रतिबद्धता । तस्यापि सूक्ष्मेक्षिकावद्भिरसा
धकतोच्यते । किं पुनः शब्दसमानताया यस्याः साध्यसम्बन्धगन्धोपि विदूरीकृतः (।) यतः ।

विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ।
तद्भावादर्थसिद्धौ तु सर्व्वं सर्व्वस्य सिध्यति ।।(१६)

कुत्र चैते शब्दा न सन्ति विवक्षायाः सर्व्वत्राप्रतिघातात् । ततश्चेदर्थः साध्यः
सिध्यति । न कश्चिदर्थसिद्धिवैधुर्यमासादयेत् । तस्मादसत्परोगतं221 ।


046
एतेन कापिलादीनामचेतन्यादि चिन्तितं ।
अनित्त्यादेश्च चैतन्यं मरणात् त्वगपोहतः ।। (१७)

कापिलादीनामप्यचैतन्यमितरद् वा यतः सिद्धिसौधशेखरीभवति । तदर्थत्वाभावा
च्छव्दमात्रसाम्यरचितमेव । तथा हि ।

अनित्यत्वं न साँख्यस्य प्रसिद्धं वस्तुवृत्तितः । तस्याव्यक्तिः पदार्थानां न निरन्वयनाशिता ।। ३३९ ।।

न खलु सत222 एवानभिव्यक्तिरनित्यता बौद्धस्य प्रसिद्धा । का तर्हि(।) निरन्वय
नाशिता ।

ननु (न)223 तिरोभावो विनष्टानभिव्यक्योस्तुल्य एव । कोयं तिरोभावः (।)
अदृश्यात्मता ।224 ननु शशविषाणादीनाञ्च प्रधानानामनित्यप्राप्तिः । विद्यमानस्याप्य
नित्त्यतेति चेत् । दृश्यात्मनायां प्रधानादीनामपि स्यात् । दृश्यस्यादृश्यात्मताप्राप्तावनित्यतेति
चेत् । केयं दृश्यता नाम । यद्यर्थस्वरूपं कथं दृश्यस्यादृश्यता(।) तत्परित्यागे वस्तुरूपमेव
नास्ति । अथ वस्तुनोन्यद् दृश्यात्मत्वं तथा तर्हि तस्याभावः कथं न निरन्वयविनाशः । न
चान्यस्याभावेऽन्यस्य तिरोधानं । तस्य वा सर्व्वदा प्रधानतुल्यत्वान्नानित्यत्वं । तस्माच्छब्द
परिकल्पनामात्रमेव साधनात्केनोपादीयते । तथा मरणत्वात् त्वगपोहतः(।) सर्व्वत्वगपहरणे
मरणादिति मरणशब्दप्रवृत्तिमात्रकमेव ।

विज्ञानादिनिरोधो हि मरणं बौद्धबोधतः । असिद्धं यस्य तरुषु विज्ञानं तन्मतिस्तथा ।। ३४० ।।

यस्य बौद्धस्य तरुषु विजानसन्देहस्तदादिनिरोधरूपमरणमसंदिग्धमिति कः प्रत्येति ।
विज्ञानस्य निरोधो विज्ञानाभावे नास्ति तथायुषः ।

आयुर्जीवितमाधार ऊष्मविज्ञानयोर्हि यः 225 इति वचनात् । कथं हि मरणमम्युपपन्न
चैतन्यमभ्युपेयात् । तस्माच्छोषमयं226 मरणमाह । तच्च नैकान्तसाधनं विज्ञानस्य कर्द्दमा
दिष्वपि दर्शनात् । मरणशब्दवृत्तेस्तदपि सिद्धमेवेति चेत् । उक्तमत्र(।) विवक्षापरतन्त्र
त्वादि
ति । अथार्थदर्शनायातात्र विवक्षा ततोयमदोषः ।

मरणसिद्धौ तच्छब्दः प्रतिबद्धः प्रसिध्यति । प्रतिबन्धे च शब्दस्य ततो मरणसिद्धता ।। ३४१ ।।

शब्दाद् विज्ञानादिनिरोधलक्षणमरणसिद्धिः तथाभूतमरणदर्शनायातत्वे । तया भूतमरण
दर्शनायातत्वञ्च मरणसिद्धावितीतरेतराश्रयदोषः

अथ नित्त्यः शब्दार्थसम्बन्धः । तथा सति वागादीनामपि विषाणिता । अथान्य एव
वागादिषु गोशब्दः स न प्रतिबद्ध एव विषाणविषाणित्वे227 मरणशब्दो हि तर्हि नापर इति
किमत्र भवतः प्रमाणं । तन्नानित्यत्वादिसाधनस्य साधनं(।) तथा स्थित्वा प्रवृत्तादेरिति न
साध्यसिद्धिः ।228

यदि तर्हि विशेषपरिकल्पनेन साधनस्यासाधनता (।) संस्थानादेर (नित्यादेश्च । अ) न्यस्यापि कृतकत्वादेरसाधनमेव परवाद्यपेक्षया सर्व्वमेवाप्रसिद्धं विकल्पनेन च ।229 तथाहि ।


047
आकाशगुणः शब्दधर्म्मोऽसिद्धः परंप्रति । साध्यदृष्टान्तधर्म्मस्य परस्परमसिद्धता ।। ३४२ ।।

तदप्यसत् ।

आगमाद् व्योमधर्म्मत्वं वाचकं नैव कस्यचित् । विशेषकल्पनायान्तु हेतुरेव विहीयते ।। ३४३ ।।

तस्माद्(।)

वस्तुस्वरूपेऽसिद्धेयं न्यायः सिद्धे विशेषणं ।
अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ।। १८ ।।

आगमप्रसिद्धो हि शब्दस्याकाशगुणत्वेऽसिद्धोपि शब्दः स्वरूपेण धर्म्मितया प्रसिद्ध एव
(इति)230 धर्म्मासिद्धेः । तथा विशेषपरिकल्पनायामपि न हेतुरसिद्धधर्म्मिसम्बन्धो नैकान्ति
कोवाऽसाधारणतया । धर्म्मी हि प्रमाणसिद्ध इति न विशेषणाप्रसिद्धावसिद्धः । नापि
विशेषपरिकल्पना क्वाप्युपयोगिनीति । न हि तत्रावश्यं विशेषपरिग्रहः । तथा हि ।

अनित्यताकार्यतयोः सामान्यमुपयोगवत । विशेषस्य प्रसिद्धिस्तु न केनचिदपीष्यते ।। ३४४ ।।
हेत्वनन्तरभावित्वं तदन्तरनाशिता । न शब्दघटयोरस्ति विशेषणसमन्विता ।। ३४५ ।।

न खलु पूर्व्वापरस्वरूपविविक्तायाः क्वाप्यस्ति विशेषः । न चैव देशस्तं231 विशेषी
करोति । तदेकपरामर्शविषयत्वात् । तदसत् विकल्पनं । संस्थानादि तु तत्प्रतिबद्धम
सिद्धमेव । शेषः प्रागेवोक्तः । संस्थानशब्दमात्रकन्त्वसाधकमेव । यतः ।

असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिध्यति ।
औलूक्यस्य यथा बौद्धेनोक्तं मौर्त्त्यादि साधनं ।। १६ ।।

मूर्त्तत्वादनित्याः परमाणव इति वैशेषिकं प्रति बौद्धेन साधनमुक्तं । न चात्र शब्दः
परस्पराभिमते विषये प्रसिद्धः । असर्व्वगतद्रव्यपरिमाणस्य मूर्त्तिशब्दवाच्यत्चात् । स्पर्श
योगश्च मूर्त्तिरिति सौगताः । तदयमेव शब्दः परस्पराभिमते विषये यदि नाम न सिद्धस्त
अापि/?/ तदभिमतस्यार्थस्योभयोरपि सिद्धत्वादसिद्धावपि शब्दस्य सिद्धे वस्तुनि बौद्धस्याभिमते
द्वयोरपि सिध्यत्यभिमतः साध्योर्थः ।

ननु यथा वस्तुनो(ऽ)व्यभिचारित्वे सिद्धत्वे वा सिध्यति साध्यं(।) तथा शब्देप्येवमेव
कोनयोर्व्विशेषः । न(।)

तस्यैव व्यभिचारादौ शब्देप्यव्यभिचारिणी ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ।। २० ।।

न हि यथा शब्दासिद्धावपि वस्तुबलात् साध्यसिद्धिः(।) तथा वस्त्वसिद्धावपि शब्द
बलात् साध्यसिद्धिः(।) अपि तु तस्यैव वस्तुनो व्यभिचारोऽसिद्धौ विरोधे च दोषवत् साधनं
ज्ञेयमव्यभिचारिण्यपि शब्दे । न तावद् वस्तुनो व्यभिचारादौ शब्दस्याव्यभिचारिता सम्भवति ।

अभ्युपगम्यापि तूच्यते । भवत्वव्याभिचारी शब्दस्तथापि दोषवत् साधनं । कुतो वस्तुनो
वस्तु सिध्यति न शब्दात् ।

ननु यदि(न)232 साध्याव्यभिचारी शब्दस्तथा सति शब्दात् साध्यसिद्धिः । अथ ततः 048 साध्यसिद्धिः कथमव्यभिचारी शब्दः । एतदनेन दर्शयति । वस्तुप्रतिपादनद्वारेण शब्दः
साध्यसिद्धावुपयोगी233 न तु साक्षात्(।) ततः शब्दस्याव्यभिचारवाञ्छायामपि नार्थपरित्यागात्
साध्यसाधने सामर्थ्यं(।) तस्मादर्थगतैव चिन्तोपयोगवती । वस्तुव्यभिचारेतरनिरूपणन्तु
पश्चाद् भविष्यति ।234 तस्मान्नार्थरूपो हेतुरस्ति यत ईश्वरसिद्धिरतोऽनित्यत्वेप्यप्रमाणतेतिसिद्धं ।

तथा नित्त्येपि ।

न चाकाशादीनामीश्वरस्य च नित्यतया (कारणत्वा) कारणत्वविभागः । तथा हि ।

यथा तत् कारणं वस्तु तथैव तदकारणं ।
यदा तत् कारणं केन मतं नेष्टमकारणं ।। २२ ।।

व्यापि त्वैकत्वादयो235 धर्म्मा यथेश्वरस्य तथाकाशादीनामपि (।) ततः समानत्वेपीश्वरः
कारणमकारणमाकाशादिकमिति कुतो विभागः । अथ तस्य ज्ञानेन चिकीर्षालक्षणेन सम्बन्धा
देवमुच्यते । तदप्यसत् । तत्रापि समानत्वात् । किंच ।

चिकीर्षामात्रकेणैव न कारणमितीक्ष्यते । काकतालीयमेतत् किमथवा कारणन्तथा ।। ३४६ ।।

यदि कर्म्मादिनि...करणं236 कारणम्भवेत् । अन्यथा कारणं सर्व्वं सर्व्वस्य न किमिष्तते ।। ३४७ ।।

अथवा यदा सर्गात् प्राक् तदकारणं । तथा सर्ग्गावस्थायामविशेषाभावादकारणमेव
(।) सकलरागादि (निर्) मुक्तस्यौदासीन्यमेव युक्तं । लोककर्म्माधिपत्यादौदासीन्यं न
लभत एवेति चेत् । (न ।)

अन्यकर्म्मपरतन्त्रतयाऽसावीश्वरः कथमीश्वर एव ।

तत्कृपाक्रमतोऽथ विशेषो नारकादिरचनादकृपः किं ।। ३४८ ।।

कर्म्मैव लोकस्य तथेति तत्कृद् अशक्तिरस्मिन्निति नार्यतास्य ।

आर्यस्य कर्त्तुं यदि साधु (? ध्व) शक्तिरसाधुकृत्यं किमसौ विधाता ।। ३४९ ।।
उपेक्षैव साधूनां युक्ताऽसाधौ क्रियाक्रमे । न क्षतक्षारनिक्षेपः साधूनां साधु चेष्टितं ।। ३५० ।।

अथैवम्भूत एवायं क्रमस्तमेवासौ प्रकाशयति चेष्टते च तत्करणाय । एवम्भूत एव
मम स्वभावः । न निवारयितुं मया शक्यः । तत्र लोकैर्यथायोगं विहर्त्तव्यं ।

आत्मन्यपि वशी नासाविति स स्फुटमीश्वरः ।

स्वकर्म्मोचितचेष्टस्य न लोकस्य किमीशता ।। ३५१ ।।
ईश्वरत्वेरितः सोपि यद्यन्योन्यसंश्रयः । एकस्यापि न सद्भावस्तथा सत्युपपत्तिमान् ।। ३५२ ।।

ईश्वरस्य यदि नास्ति न शक्तिः साधु कर्म्मविधिरेव जनः स्यात् ।

स स्वतन्त्रचरितो237 यदि लोकः कर्म्मवाद इह शस्त उदग्रः ।। ३५३ ।।

अथापि स्याद्(।) ईश्वरस्यापि कदाचिद् कारणत्वम्भविष्यति यद्यपि नामास्मदादि
भिरत्त्वदर्शिभिर्न ज्ञायते । एवन्तर्हि ।

तत्त्वदर्श्येव तद्वित्त्यै238 ज्ञावव्यस्तस्यचापरः । ज्ञाता स्यादनवस्थानादनेकेश्वरसम्भवः ।। ३५४ ।।

अस्मदादिभिस्तु (।)


049
शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे ।
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ।। (२३)

अथ स्थाणोर्नास्ति व्यापार इत्यकारणत्वमसम्बन्धात् । स्थाणोरपि कदाचिदस्ति
व्यापारः । स त्वस्माभिर्नोपलक्ष्यतेऽतत्वदर्शनैः ।

अनुपलक्षणादेव तर्हि नास्ति स्थाणोर्व्यापारः । एवन्तर्हि (।)

स्वभावभेदेन विना व्यापारोपि न युज्यते ।
नित्त्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं ।। (२४)

नित्यस्य प्रबन्धनित्यतवान्यथा वा स्वभावभेदेन विना कार्यस्येश्वरस्य व्यापारोप्युपल
क्षितः कथं युक्तः । ईश्वरस्यापीत्यपि शब्दो भिन्नक्रमः । यथा कुलालादिकृतो विशेषः(।)

तथेश्वरकृतोपि स्यात् सामर्थ्यपरिकल्पना । नित्यस्य चाव्यतिरेकित्वात् सामर्थ्यं दुरन्वयं ।। ३५५ ।।

सदा स्थानव्यापकत्वेन व्यतिरेकाभावतः ।

येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने ।
तद्धेतुत्वेन हेतूनां सर्व्वेषामनवस्थितिः ।। (२५)

दृष्टकुलालादिषु कर्म्मणि च सति भवत्येव समीहितं । तथाप्यन्यस्य तत्र कल्पन
सर्व्वेषामेककार्याणां हेतूनामनवस्थितिः पर्यवसानं न स्यात् ।

न खलु निरनुगमकल्पनावतारानुगतौ तदपरो व्याघातः । अथवा अनवस्थितस्य
चिरन्तनस्य239 तस्यैव स्थितिर्हेतूनामेवमपि स एव हेतुरिति व्यर्थकमपरं कर्मेति स्यात् ।

यथा तर्हि पृथिवी कारणमङकुरादेः सदा स्थायिनी तथेश्वरोपीति । न च पृथिव्या
दीनामादिरुपलभ्यते ।

अत्र परिहारः ।

स्वभावपरिणामेन हेतुरंकुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ।। (२६)

सीरव्यापारादिविशेषविकृतिसमन्वयानुगमो हि दृश्यते यवादिप्रसवानामिति पृथिव्यादि
कारणत्वपरिकल्पना ।

पुनरपि चोद्यपरिहारौ ।

यथा विशेषेण विना विषयेन्द्रियसंहतिः ।
बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ।। २७ ।।
पृथक्‌पृथगशक्तानां सन्तानातिशयेऽसति ।
संहतावप्यसामर्थ्यं स्यात् सिद्धोतिशयस्ततः ।। २८ ।।

चक्षुरादौ हि कारणत्वं कार्यरूपविशेषादवसीयते । कार्यं हि विज्ञानं रूपग्रहणप्रतिनियतं
रूपाकारं बोधरूपन्तदेषां परस्परपरिहारेणोपयोगाद् भेदस्य सम्भवात् कार्यस्य विज्ञानस्य कारणं 240 050 चक्षुरादयः । यत एते पृथक् पृथगशक्ता विज्ञानाकारसमुदाये न चक्षुषो बोधरूपता । न
रूपाद् रूपग्रहणप्रतिनियमो न मनस्कारदितरत् । एकैकस्मादेवमदर्शनात् ।241

अथ स्याद्(।) यथा चक्षुषि उन्मिषिते परापररूप(ोप)ढौकने परापररूपदर्शनं न च
तदा चक्षुषो विशेषः । तथा रूपे स्थित एवापरापरचक्षुर्विज्ञानभाव(:) तथेश्वरेपि सदा
समानतया व्यवस्थिते परापरभावोत्पत्तिरिति नाकारणभावः । उक्तमत्र(।)आकाशादीनामपि
कारणभाव इत्यतिप्रसङ्गः ।242

विशेषाच्चक्षुषो रूपविशेषादपि विद्यते । विज्ञानस्य विशिष्टत्वं रूपादेर्हेतुता ततः ।। ३५६ ।।
रूपविशेषाद् विपरिस्फुरताकारादिलक्षणात् । सौमनस्यादियोगि विज्ञानमुपजायते ।। ३५७ ।।

५. हेतुसंहतौ कारणता

तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः ।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः ।। २९ ।।

तथा चक्षुषोर्ध्वनिमीलनादिविशेषादस्पष्टतादिविशेषः । स तत्प्रतिबद्धस्तस्य कार्यतां
कारणस्योपकल्पयति । नैवमीश्वरकारणत्वकल्पने हेतुरिति (।) ततः (।) पृथक्‌पृथगशक्तानां
सन्तानातिशयेऽसति
सन्तानातिशयाभावे (।) संहतावप्यसामर्थ्य स एव स्वभावः कारण
विपरीतः कारणं भवेत् कथमिति किमत्रोत्तरं । रूपादीनान्तु कारणत्वोपकल्पने निमित्त
मुक्तमिति न दोषः ।

४. भगवत्प्रामाण्यवार्त्तिकं चतुर्थम्

१. ज्ञानवत्त्वात् भगवान् प्रमाणम्

यदि तर्हीश्वरस्य परिज्ञानादिहेतुर्नास्ति ज्ञापक(:) कारको वा नापरत्रापि स
स्यात् । यतः ।

प्रामाण्यं च परोक्षार्थज्ञानं तत्साधनस्य च ।
अभावान्, नास्त्यनुष्ठानमिति केचित् प्रचक्षते ।। ३० ।।

यस्तावदसर्व्वज्ञ एव सर्व्वज्ञो भवति (।)तस्य परोक्षार्थपरिज्ञाने को हेतुः । न खल्वीदृशं
किमपि कारणमुपलक्षितं 243 यतोनुष्ठानात् सर्व्ववेदनं भवति । मन्त्रतन्त्रादयस्तु प्रायशः
सकलसमयसम्भविनः । नापि तन्निश्चये हेतुरस्ति । एकदेशसंवादः सकलवचनानामेव ।
न च परोक्षाणां साक्षात्करणसम्भवः सकलार्थानामिन्द्रियज्ञानस्य सन्निहिताविषयस्य दर्शनात् ।

इन्द्रियार्थाविशेषेपि यदि सर्व्वविदुद्भवः । सर्व्वज्ञ एव सर्व्वः स्यादिन्द्रियार्थाविशषतः ।। ३५८ ।।
अशुच्यादिरसंवादसङ्गमश्चानिवारितः । प्राप्यकारीन्द्रियत्वे च सर्व्ववित् कथमुच्यते ।। ३५९ ।।

051
मनोविज्ञानमप्यस्य नेन्द्रियाननुसारतः । स्वतन्त्रन्तु मनोज्ञानं नैव केनचिदीक्ष्यते ।। ३६० ।।

अभ्यासात् स्पष्टता तस्य न सर्व्वविषया भवेत् ।

अ(।)244 गामयाश्रितत्वेप्यभ्रान्ततापि प्रसज्यते ।। ३६१ ।।
अनुमानप्रसिद्धे तु वस्तु सर्व्वं न लभ्यते । ततो न सर्व्वविषया भावना सर्व्ववित् कथं ।। ३६२ ।।
शास्त्राद्यभ्यासतः शास्त्रप्रभृत्येवावगच्छतु । साकल्यवेद(न)न्तस्य कुत एवागमिष्यति ।। ३६३ ।।
सर्व्वं वेत्तीति विज्ञानं तज्ज्ञेयावेदने कुतः । तज्ज्ञेयवेदनेपि स्यात् स एव खलु सर्व्ववित् ।। ३६४ ।।
रागादिरहितो यश्च विकल्परहितस्तथा । देशना तत्कृतेत्येतत् तु याचितकमण्डनं ।। ३६५ ।।
भूतं भवद्भविष्यच्चानाद्यन्तं कः पृथक् क्रमात् । प्रत्येकं शक्नुयाद् बोद्ध्ुं वस्तु कल्पान्तरैरपि ।। ३६६ ।।
एकदेशपरिज्ञानं कस्य नाम न विद्यते । न ह्येकं नास्ति सत्त्यार्थं पुरुषे बहुकल्पके ।। ३६७ ।।

यश्चातिशयवान् दृष्टः स तावन्मात्रसंस्थितेः ।

किंचिन्मात्रान्तरज्ञः स्यान्नातीवातीन्द्रियार्थवित् ।। ३६८ ।।
न चैकदेशतत्त्वज्ञः सर्व्वज्ञ उपपत्तिमान् । काकतालीयमेतत् स्यादपरभ्रमकारकं ।। ३६९ ।।
युगपत् सर्व्वविज्ञाने (ऽ) नादिसंसारता कथं । यस्मिन् परिसमाप्तिज्ञः स एवात्रादिरुच्यते ।। ३७० ।।

अत्रोच्यते । न परःप्रमाणं सर्व्वं वेत्तीतीष्यते । अपि तु विप्रलम्भनकारी न
भवति अस्तु समीहितसम्पादनसमर्थः(।) किङ्कारणं ।

ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशंकिभिः ।। (३१)

न खल्वन्यदनुष्ठातुमीहितमन्यत्र ज्ञानमुपदेष्टुरन्विष्यते । तद्विनिश्चयेपि समीहित
विप्रलम्भनसम्भवात् । अथ तत्रापि तस्य ज्ञानमस्त्येवेति निश्चयः । न सर्व्वत्र ज्ञानं ज्ञाना
सम्भवात् । तस्मात् तदेव तेन ज्ञातव्यन्तच्चेज्ज्ञातमिति ज्ञायते । अतोऽज्ञैरज्ञोपदेशकारणे
विप्रलम्भनशङ्किभिस्तद्विषयज्ञानज्ञाने प्रमाणमेवासौ । अन्यत्रापि तस्य ज्ञानं सम्भावनोयं(।)
यो हि प्रधानपुरुषार्थज्ञः प्रमाणपरिशुद्धसकलतत्त्वज्ञश्च स एव प्रमाणं । तावतैवासावुपास्य (:) ।
परिशिष्टन्तु सकलमेव समानं सर्व्वोपास्यानां (।) तच्च कस्य सम्भाव्यते । येनोपदिष्टं ।
ये तु प्रमाणदृष्टं प्रधानपुरुषार्थञ्च न वदविदन्ति245 । अयमेव विदन्तिन ते प्रमाणं । तत्राप्य
परिज्ञानसम्भवात् । कथमुपदेश इति चेत् । अनादिपरम्परातो नास्तिक्योपपदेशवत् ।

२. हेयोपादेयवेदकत्वात् भगवान् प्रमाणम्

अथ सर्व्वापरिज्ञाने सर्व्वत्र शङ्कोत्पत्तेरपरिज्ञानमपरस्यापीति सम्भाव्यते । ततश्च
सर्व्वज्ञानमसम्भावयन् कथमत्रापि सम्भावयेत् परिज्ञानं । उपदेशस्तु पारंपर्योपदेशादिति ।

तदसत् ।

अप्रमाणे स्फुटा वस्तुन्युपदेशपरम्परा । प्रामाणिके त्वसम्भाव्या सोपदेशपरम्परा ।। ३७१ ।।

नित्यत्वादौ हि प्रमाणासम्भविनि नोपदेशपरम्परातोन्या गतिः । प्रमाणेन चेद् वस्तु
परिच्छिन्नं कथ तत्राज्ञानाशङ्का (।) भवतु वा तथापि तत्र प्रवर्त्तनमवश्यम्भावि प्रमाणेन
निश्चयात् । अथ प्रमाणदृष्टेप्यनिश्चयः साक्षात्करणे ।

052

तदेतदायातं ।

सूक्ष्मेक्षिकेदृशी जाता प्रमाणाद् दृष्टदर्श्यपि । शंक्यते येन तीर्थ्येषु कथा कैव भविष्यति ।। ३७२ ।।

प्रमाणदृष्टस्य कथनमस्ति तथागतस्य भगवतः । तत्रापि यस्य शङ्का तस्य तीर्थेषु
का गणना येषु परिज्ञानाननुगम एव । तस्मात् प्रामाणिकार्थकथनात्246 प्रमाणमेव भगवान् ।

स्वर्ग्गापवर्ग्ग मार्गस्य प्रमाणं वेदको नरः । अन्यस्याप्यपरिज्ञाने संभवेदपि तस्य तत् ।। ३७३ ।।
तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यतां ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।। (३२)

यतः ।

धर्म्मज्ञत्वनिषेधस्तु केवलोत्र निषिध्यते । सर्व्वमन्यन्निषेधंस्तु परः केन(नि) वार्यंते ।। ३७४ ।।

ननु यद्येकदेशपरिज्ञानसंवादात्247 तथागतः सर्व्ववेदीति सम्भाव्यते । आग्निर्हिमस्ये त्यादि संवादादपरोपीत्यनवस्थैव स्यात् । न चैवम् (।)अनुष्ठानस्य परस्परविरोधेनासम्भवात् ।

तदप्यसत्त्यं ।

हेयोपादेयतत्त्वस्य हान्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्व्वस्य वेदकः ।। ३३ ।।

यस्मान्न सर्व्वस्यैव देशस्यापुरुषार्थलक्षणस्य वेदक इति तावता (सर्वः)248 सर्व्ववेद्यसौ भवति
पुरुषार्थलववेदनं हि न कस्यचिदसम्भवि । तत्र हेयोपादेयतत्वं दुःखनिरोधसत्ये । अभ्यु
पायतत्त्वं तयोरेव दुःखनिरोधसत्त्ययोः कारणं समुदयमार्गसत्त्ये । ततश्चतुरार्यसत्त्यलक्षणस्य
हेयोपादेय249तत्त्वस्य वेदको यः प्रमाणसिद्धस्य वेदयिता स प्रमाणमिति यावत् । स्वर्ग्ग
मार्ग्गस्य च प्रमाणपरिच्छेदसम्भविनः । अन्यत् तु स्त्रीशूद्रविस्मापनं सुगतवचसि नासम्भवि ।
तस्मात् प्रधानपुरुषार्थवेदक एव प्रमाणमन्यस्यायोगात् ।

तस्माद् ।

दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ।। ३४ ।।

न हि दूरदर्शनमस्तीत्येव सर्व्ववेदनं सम्भाव्यते । यदि त्वेवं भवेद् गृध्रादीनामपि तदित्येत
गृध्रान् दूरश्रुतींश्च वराहादीनुपासनया स्वीकुर्म्म इति सकलन्यायमार्ग्गपरित्याग एव जातः ।

३. कारुणिकत्वाद् भगवान् प्रमाणम्

(१) जन्मान्तरसिद्धिः—

अथ किं सकलार्थज्ञानमसम्भवि निरर्थकंश्चैकान्तेन येन प्रधानपुरुषार्थज्ञानेमवास्य मृग्यते ।

नैतदस्ति (।)

सर्व्वं जानातु सर्व्वस्य वेदको न निषिध्यते । नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते ।। ३७५ ।।

053

न खलु सर्व्वज्ञः सर्व्वज्ञं जानात्युपायाभावात् । तथा हि ।

जानाति सर्व्वमित्येषा तज्ज्ञेयज्ञानतो मतिः । तदेकदेशविज्ञानं तज्ज्ञस्यैवोपजायते ।। ३७६ ।।

वृक्षादयोपि स्त्रीशूद्रज्ञानसाधारणाः परेण ज्ञायन्ते न वेति तज्ज्ञानादेव मतिः ।
स्वयम/?/विज्ञाते तु ज्ञातमनेनेति नोपायः समस्ति । ये तु महान्तो दूरदर्शनगतयस्तेषामेकदेश
परिज्ञानपूर्व्विका सकलज्ञतासम्भावना तेषामपि तदपरेण तत्त्वसम्भावना ।।

ननूभयलक्षणस्यापि प्रमाणस्य कुतः साधनं को वा हेतुरित्याह ।

साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात्

तस्य प्रामाण्यस्य साधनं कुतो भवति । करुणाभ्यासात् । सा च करुणा बुर्द्धे
र्देहसंश्रयात्
 । बुद्धेर्यो देहस्तदाश्रयात् सा करुणा(ऽ)भ्यासपरिकरा परां प्रकर्षगतिमासादयति ।

यदि नाम करुणा तथापि ततः प्रामाण्यमिति कुतोस्य सम्भवः । अस्ति सम्भवो यतः ।

दुःखहेतोस्तथा दुःखाद् वियोगेच्छा परस्य या । सा कृपा तद्वतस्तेन तदुपायार्जने मतिः ।। ३७७ ।।

अवश्यं हि परदुःखवियोगेच्छावतस्तदुपायपर्येषणमिति पश्चात् प्रतिपादयिष्यते ।

अथवा साधनं करुणा (।) करुणावान् हि परोपकारविरहितो न भवति । ततः परार्थ
देशनया प्रमाणं (।) करुणावानुपाये प्रवर्त्तते । तदुपायश्च स्वप्रामाण्यसाधनं (।)

सैव करुणा सर्व्वत्राणेच्छालक्षणा कुतो भवतीत्याह । करुणाऽभ्यासात् । करुणा हि
दुःखाभ्यासादुदासीनशत्रुपक्षयोरपि प्रवर्त्तते । ततः सकलत्राणमसर्व्वज्ञत्वे न सम्भवतीति
तदुपायाभ्यासः समासाद्यते ।

ननु स्वबुद्धिर्देहाश्रिता बुद्धिमतां करुणापि बुद्धिरेव । ततः सापि शरीराश्रितैव (।)
ततः शरीरस्य भस्मीभावादावसिद्धोभ्यासः । यदि हि जन्मान्तरसम्भवस्तदानेकजन्माभ्या
सोपचयात् समीहितसमापत्तिः । तथा हि ।

देहात्मिका देहकार्या देहस्य च गुणो मतिः । मतत्रयमिहाश्रित्य नास्त्यभ्यासस्य सम्भवः ।। ३७८ ।।

तदाह । बुद्धेर्देहसंश्रयाद् (।)

असिद्धोभ्यास इति चेन्नाश्रयप्रतिषेधतः ।।(३५)

पूर्व्वान्वयबुद्धिरहितस्य केवलस्य देहस्याश्रयणस्य प्रतिषेधात् । न खलु कार्यत्वे गुणत्वेऽ
न्यथा वा भवत्याश्रयभावो देहस्य केवलस्य ।

(न देहाद्याश्रिता बुद्धिः)

ननु देहाश्रिता बुद्धिरुपलभ्यते देहकार्या मातापितृदेहाश्रयणदर्शनात् । तथा हि ।
तद्‌रूपाचारचेतःपाटवादयो मातापित्रन्वयिनो जन्यशरीरमहाभूताश्रया तच्चित्रादय इव (।)
चित्रकररूपविज्ञानाद्यन्वयिनः250 कुडयाश्रिताश्चित्रकरकार्यरूपाः(।) ततो न चित्रं कुडयविरहित
मवतिष्ठते कुड्यान्तरं वा संक्रामत्यागतं वा कुंड्यान्तरात् । आम्रफलादिपाकजरूपवद्
वा । कार्यं वा धूमो न धूमध्वजान्तरादागच्छति (।) नापि धूमध्वजान्तरं251 प्रयाति । मदशक्तिस्तु 054 मद्याश्रिता कषायादिरससंपर्कादपूर्व्वा प्रादुर्भवति । विलीयमाना न मद्यान्तरमवलम्बते ।
तथेन्द्रियचेतनाविशेषाः । तथा चाह । पृथिव्यापस्तेजोवायुरिति तत्त्वानि । पृथिव्यादीन्येव
तत्त्वानि तत्त्वान्येव पृथिव्यादीनि । नाकाशादीनि न क्षणिकत्वादीनि । तथा तत्त्वान्येव न
विज्ञानमात्रं नापि सकलमेव शून्यं । सर्व्वत्र प्रमाणाभावात् । तत्समुदाये विषयेन्द्रिय
(शरीर) संज्ञा । महाभूतानामेवापरिमितः परिणतिविशेष (संभूत) समुदायः शरादिव्यपदे
शविषयः252 (।) तेभ्यः शरीरेन्द्रियविषयेभ्यश्चैतन्यं253 । यथा किण्वादिभ्यो मदशक्तिः (।) तस्मान्मदशक्तिवद् विज्ञानं । न परलोकादागच्छत् प्रतिसन्धिमत् । मदशक्तिवदिति चोपलक्षणं
चित्रवद् धूमवदिति च । न खल्वेते सञ्चारिणो दृष्टाः ।

तदसत् ।

रूपादिव्यतिरेकेण कुतो भूतोपलम्भनं । तानि पञ्च ततः संख्यावधारणमयुक्तिमत् ।। ३७९ ।।

रूपशब्दगन्धरसस्पर्शाः पञ्चमहाभूतानि । तत्समुदाये पृथिव्यादिसंज्ञा । पृथिव्यादी
नामन्यथोपलम्भनाभावात् ।

अथ रसस्य स्पृश्यतैवेति चतुःपरिमाणता254 । तथापि पृथिव्यादीनीति न युक्तं
रूपादीन्यभिधेयं स्यात् । क्षणिकत्वादयः पश्चाद् भविष्यन्ति साध्या इति न तत्प्रतिक्षेपः ।

किञ्च ।

दृश्यं दृश्यमिति ह्येवं सर्व्वमेकं प्रसज्यते । प्रकारभेदे तु पुनरनन्तत्वं प्रसज्यते ।। ३८० ।।
तस्मात् पंचाश्रयग्राह्यं पञ्चधा व्यपदिश्यतां । तस्यावान्तरभेदस्तु पञ्चत्वानुपरोधकृत् ।। ३८१ ।।
यच्चोक्तं सर्व्वशून्यत्वे प्रमाणं चेन्न शून्यता(।)शून्यता चेत् प्रमा नास्ति तदिदं व्याहतं द्वयं ।। ३८२ ।।
प्रतिपादयिष्यते पश्चाद् यादृशी सर्वशून्यता । तत्र यादृक् प्रमाणं च त्वरात्र क्वोपयोगिनी ।। ३८३ ।।
(क) भूतचैतन्यमतनिरासः

ननु255 मातापितृशरीराद्यन्वय व्यतिरेकानुविधायीनीन्द्रियादीनि शरीरमहाभूतस्वभावत्वात्
तदाश्रितान्येव नान्यथोपलभ्यन्ते परलोकादागतत्वेन (।) तत् कथं परलोकास्तित्ववादः
साधीयान् ।

तदप्यसत्त्यं । यतः256 (।)

प्राणापानेन्द्रियधियां देहादेव न केवलात् ।
स्वजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ।। (३६)

अतिप्रसङ्गात्;

प्राणादयो हि स्वभावविशेषाच्चपलतादिकृतात् स्वजातिनिरपेक्षा न युक्ताः । चपलता
दयश्चात्माभ्यासान्वयिनो न मातापित्रभ्यासान्वयिनः । अन्यथा मातापितृस्वभावो न
स्यादसत्संपर्क्कादिना । तस्मात् स्वजातिनिरपेक्षान्मातापितृदेहमात्रादेव न भावः । यदि तु
मातापितृस्वभावेऽभिलाषादयः प्रागासन् । तदा मातापित्रादिशरीरमपि कारणमिति युक्तं ।257


258 055

अथाभ्युपगम्यते जन्मपरिग्रहः परलोकनिरपेक्ष एव (।) तदा जन्मपरिग्रहेऽभ्युपगम्यमानेऽ
तिप्रसङ्गः । सर्व्व एव कार्यकारणभावो विशीर्येत । स चानुमानपरिच्छेदादवधार्यः ।

अभ्यासपूर्व्वकाः सर्व्वे प्राणापानादयो यदि । स्वाभ्यासरहिताश्च स्युः कथन्नाम निराश्रयाः ।। ३८४ ।।

एष हि कार्यस्य धर्म्मो यत् कारणमपहायान्यथा न भवनं । अन्यथा स तस्य न जन्यः ।
अन्वयव्यतिरेकाभ्यां जन्यजनकभावः । तस्मात् समानजातीयाभ्यासम्भविचक्षुरादिपूर्व्वका
एव चक्षुरादयः ।

ननु (।)

धूमो धूमान्तरोत्पन्नो न धूमादेव सर्व्वथा । शाल्कादपि शालूकः कथम्भवति गोमयात् ।। ३८५ ।।

तथा (।)

चित्रं चित्रकराज्जातं पतत्रिष्वपि किन्तथा ।

भ्यासाद् (हि) विशेषो यः सोन्ययापि भविष्यति ।। ३८६ ।।

तदप्यसत् ।

धूमो धूमाद् यथाभूतः सोन्यतोपि न ज्ञायते ।

अभ्यासात्तु विशेषो यः स जन्मादौ तथा स्थितिः ।। ३८७ ।।

य एव विशेषः श्रुताभ्यासादिजन्मकः स एव तथाभूत इह जन्माभ्यासव्यतिरेकेपि दृश्यते
(।) न च तस्याभ्याससङ्गमो बाध्यते । अतीताभ्यसस्यान्यत्रापि तदानीमुपलब्धुमशक्यत्वात् ।
ग्रामान्तरादागताभ्यासवत् । तत एव नापारलौकिकाभ्यासपूर्व्वकत्वमपि साधयतीति कारणेन
सह कार्यस्य प्रतिबन्धात् । अदृष्टकारणस्यापि तत्कार्यत्वात् । देशान्तराभ्यासपूर्व्वकत्वमपि
साधयतीति । कारणेन सह कार्यस्य प्रतिबन्धात् । अदृष्टकारणस्यापि तत्कार्यत्वात् । देशान्त
राभ्यासपूर्व्वकपरिज्ञानवत् । तदत्र तौतोपाख्यानमायातं ।

कश्चित् तौतः किलान्येन पृष्टः कथय सम्भवं ।

मातुर्दीर्घविषाणस्य वृषभस्य कथं स्थितिः ।। ३८८ ।।
स प्राह कुक्षेर्जायन्ते259 न मातुर्महिषा अमी । हट्टागतानामेषान्तु मूल्येन क्रयमात्रकं ।। ३८९ ।।

तथाभूतमेवेदं लोकायतमतं ।

अथवा (।) अतिप्रसङ्गादिति यदि जन्मान्तरादागतिमन्तरेण तेभ्य एव महाभूतेभ्यश्चैतन्यं
कार्यमुद्भवति (किन्न सकलप्राणिमयम्भवति । परिणतिविशेषसद्भावादिति) चेत् । स एव
परिणतिविशेषः कस्मान्नेति समानः पर्यनुयोगः ।

अथानादिः परिणतिः परम्पराविशेषो वानुपलक्ष्यमाणः260 कश्चिदस्ति यतः केचित्
प्राणिनो नान्ये । तदप्ययुक्तं ।

यदि परिणतेर्विशेषस्स दृश्यते नेति कल्पना कैषा ।

दर्शनयोग्यमदृश्यं सद्‌व्यवहारस्य नो विषयः ।। ३९० ।।

यदि स परिणतिविशेषो भवेदुपलभ्येत । अथ कार्यदर्शनादेव कल्प्यते तथा सति 056 दृष्ट एवाभ्यासः कल्पनीयः अदृष्टकल्पनागौरवात् । ततः साधूक्तं (।) समानजातीयभाव
पूर्व्वकाः261 प्राणादयः ।

भवतु कार्यात् कारणानां सिद्धिः पूर्व्वजन्मभाविनां परजन्मिनान्तु कथमनुमानं (।) तदाह ।

यद् दृष्टं प्रतिसन्धानशक्तिमत् (।)
किमासीत् तस्य यन्नास्ति पश्चाद् येन न सन्धिमत् ।। (३७)

पूर्घ्वंपूर्व्वस्य हि प्रतिसन्धानं निश्चितं अनुऽमानानुमितानुमादिभिः ।

ननु चापलादिकमचापलत्वात् तदभ्यासतो भवति अस्पन्दमन्दतादिलक्षणात् । सा तु
महाभूममात्रकादेव । ततस्ततोपि भावे धूममद्धूमान्तरभावेपि न सर्व्वदा प्रबन्ध एव262 । तत
उच्छेदोपि धूमवदेवेति नानन्ततापि प्राणिनां अपूर्व्वसत्त्वप्रादुर्भावश्च दोषाः । (तदपि नास्ति ।)263

मन्दप्रवृत्त्यभ्यासेन मन्दताप्यस्ति जन्मिनां । ततस्तपूर्विका सापात्यनादिभवचक्रकं ।। ३९१ ।।

न खलु प्राणिनां स्वभावत एव मन्दतादयः प्रकाराः (:।) अपि तु समानजातीयाभ्या
सात् । यथैव चपलादयस्तदभ्यासतस्तथा मन्दता(द्य)पि कौसीद्याभ्यासादिति सिद्धमना
दित्वं संसारस्य । स्वापाद्यभ्यासतो हि मन्थरता चक्षुरादीनां ततश्चपलचक्षुरादिकः सुप्त
प्रवुद्धश्चपलचक्षुरादिना युज्यतेऽन्योन्येनेति । ततो जन्मादावपि264 सुप्तप्रबोधवदेवाभिमुखी
भूतवासनाप्रबोधस्य चक्षुरादियोगः । कथमन्यशरीरगतं चक्षुरन्यशरीरे प्रतिसन्धीयते । कथं
द्रव्यान्तरगता शक्तिरन्यत्र सञ्चारिणी ।

मन्त्रतन्त्रादिसामर्थ्याद् गुडादौ विषशक्तयः । तथैव कर्म्मसामर्थ्यादन्यदेहेक्षशक्तयः ।। ३९२ ।।
यथा स्वप्नान्तिकः कायस्त्रासलंघनधावनैः । जाग्रद्देहविकाराय (तथा) 265 जन्मान्तरेष्वपि ।। ३९३ ।।
अथासौ सत्त्यताहीनः सुतरामेव शोभनं । असत्त्योपि विकराय यत्र सत्त्ये तु का कथा ।। ३९४ ।।
व्यवहारमात्रकमिदं सत्त्यतासत्त्यतेति च । स्वरूपसाक्षात्करणे सत्त्यतादीति दुर्घटं ।। ३९५ ।।

तस्माद् यत् प्रतिसन्घानशक्तिमत् पूर्व्वंपूर्व्वमुपलब्धं तस्य किमासीदधिकं यत् पश्चा
न्नास्ति तदभावात् पश्चादसन्धिमत् । कारणवैकल्ये हि कार्यस्याभावः सकले तु कलावति
कारणे कार्यमनुत्पत्तिमदिति व्याहतं ।

ननु क इवात्र व्याघातः । नन्वयमेव266 यः कार्यकारणभावाभावः ।

सर्व्वावस्थासमानेपि कारणे यद्यकार्यता । स्वतंत्रं कार्यमेवं स्यान्न कार्यन्तत्तथा सति ।। ३९६ ।।

कारणपरतन्त्रं हि कार्यं तत्समर्थं कारणं हठादेव जनयति । तथाप्यभावे न कार्यम्भवेत् ।

अथ तदभावे न भवतीति कार्यं तदभावे न भवतीति कुतः । ननु तद्भावेऽवश्यं भवती
त्येतदपि कुतः । त(था) 267त्त्वेन परिच्छेदात् तदभावे न भवतीत्येतदपि परिच्छिद्यत एव ।
सर्व्वदेति कुत इति समानमुभयत्र । तस्माद् यथा दृश्यते तथाभ्युपगन्तव्यं । उभयञ्च दृश्यते


057

तद्भावेवश्यं भवत्यसाकल्येन भवत्येवेति तदुभयमङ्गीकर्त्तव्यं । एवमदृष्टो268 न कार्यंकारणभाव
इति चेत् ।

व्याप्त्या न व्यतिरेकस्य नान्वयस्यास्ति दर्शनं । कार्यकारणभावस्य कथमस्यास्ति दर्शनं ।। ३९७ ।।

यदि व्याप्त्या न दर्शनमिति न कार्यंकारणभावसिद्धिः । एवन्तर्हि न कस्यचिदन्वय
व्यतिरिक्तस्य 269 दर्शनमित्युक्तमेतत् (।) स्वरूपस्य स्वतो गतिरिति ।

न परलोको नेहलोको न परलोकबाधनं न270 संदेहो न महाभूतपरिणतिरित्यादि विज्ञाप्तिमात्रकमेव । अथापि व्यवहारादेतत् । एवं परलोकोपीति ।

यद्यद्वैतेन तोषोस्ति मुक्त एवासि सर्व्वथा । वर्तते व्यवहारश्चेत् परलोकोपि चिन्त्यतां ।। ३९८ ।।

सत्युपल्पवे वरमेवमुपल्पवः प्रशमस्य स्वर्गाद्यनुकूलत्वात् । रागाद्युपल्पवो हि सकल
समीहित271 सज्जनत्वादिभावहानिमेव विधत्ते । तथा हि । चक्षुरादिरागादिभेदाः सकला
एवानादिवासनाबलावलम्बिनो विज्ञप्तिमात्रतो न भिद्यन्ते । ततश्चक्षुरादिविकलस्यापि
जन्मान्तरे पुनरविकलचक्षुरादिता । ततो जन्मपरम्परास्वयमेव प्रकारो नादिता च संसारस्य ।
यावच्च नोपल्पवप्रशमस्तावती तस्यानन्ततापि (।) सत्यतायामपि चक्षुरादीनां बाह्यर्थंत्वेवा
नादिरसौ स्वभाव इति संसारानाद्यनन्त (त) ।।

(न महाभूतोद्भवा बुद्धिः)

ननु महाभूतविशेषः कठिनत्वादय उपलभ्यन्त एव । ततस्तद्विशेषान्महाभूतोद्भवत्वेपि
नातिप्रसङ्ग इति । ततः कठिनत्वादिविशेष एव बीजात्मकस्तत एव प्राणिसम्भव इति ।
उक्तमत्र कार्यकारणभाव एव न स्यादि ति ।

अपि च ।

न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः ।
संस्वेदजाद्या जायन्ते सर्व्वबीजात्मकं ततः ।। (३८)

न खलु कठिनत्वादिविशेषविभागेन प्राणिविभागोत्पत्तिः सर्व्व (त्र) 272 प्राणिदर्शनात् ।
संस्वेदजादयोपि हि प्राणिनो न खलु विभागेन न दृश्यन्ते । ततः कठिनत्वादिकृतो न
विभागः । कर्मैव चेतनालक्षणं यदि परमवशिष्यते । अथकाष्ठा273 द्यन्वयिनी प्राणिजाति
रुपलभ्यत इति वदेत् । तदा समानजातीयं सर्व्वं तद्रूपप्राणिमयं भवेद् (।) यत्परिम्ना274 व्यवस्थापितामम्भो भवति । तत् सकलं तद्रूपप्राणिमयं भवेत् (।) कुतो वर्ण्णसंस्थान
वैलक्ष्यण्यं प्राणिनां ।

तथा हि रक्तशिरसः पीतकायादयः परे ।

जलादिपाणिनो दृष्टाः स आकारः कुतो भवेत् ।। ३९९ ।।

तद्‌रूप बीजात् कमलादिभेदः किंदृष्ट दृष्टो (ऽ) नियतः कदाचित् ।

न प्राणिभेदो नियतोस्ति बीजात् सन्त्यत्र कर्माणि नियामकानि ।। ४०० ।।

058
तत्स्वजात्यनपेक्षाणामक्षादीनां समुद्भवे ।
परिणामो यथैकस्य स्यात् सर्व्वस्याविशेषतः ।। ३९ ।।

275 अपि च (।) मनोविज्ञानाश्रितानीन्द्रियाणि स्वकार्यकारीणि न तु मनोविज्ञानमेव
तदाश्रितं । ततो मनोविज्ञानादेवेन्द्रियाणां सम्भवो न भूजलादिभ्य इति दर्शयति । प्रत्येकमित्यादि276 ।

अथवा मनोविज्ञानं न तावन्न तत्समुदायरूपशरीरादुत्पत्तिमत् । प्राणापानादयस्तु
महाभूतपरिणतिस्वभावा एव मातापितृबीजमात्रकात् । मनोविज्ञानञ्च संसारि नेन्द्रियादयः ।
यतः (।)

छेदसन्धानवैराग्यहानिच्युत्युपपत्तयः । मनोविज्ञान ऐवष्टा उपेक्षायां च्युतोद्भवौ ।। ४०१ ।।

(इत्युक्तम् ।)277 ततो मनसः संसारित्वं न भूताश्रितत्वं । यतः ।

प्रत्येकमुपघातेपि नेन्द्रियाणां मनो मतेः ।
उपघातोस्ति भङ्गेस्याः तेषां भङ्गश्च दृश्यते ।। (४०)

मनोमतेर्हि भङ्गे भयशोकहर्षक्रोधादिना चक्षुरादिविकारदर्शनाच्चक्षुरादीनि मनोविज्ञा
नाश्रितानि (।) ततो जन्मादावपि तदाश्रितान्येवेति भवान्तरप्रसिद्धिः । न चैवं मनो
विज्ञानं शरीराश्रितं । मनोविज्ञानविकार्यपंचेन्द्रियसमुदायकार्याश्रितत्वात् ।

ननु यदि नाम चक्षुरादीनि मनोविज्ञानविकार्याणि । तत एव तूत्पत्तिरिति कुतः(।)
न ह्यग्नेर्विकारमासादयद् घटादि वस्तु वह्नेरेवोत्पद्यते ।

अत्रोच्यते ।

घटादिरन्यथा दृष्टस्ततो न तत एव सः । नान्यथा तु पुनर्दृष्टमिन्द्रियन्तद्विकारतः ।। ४०२ ।।

प्रासादादिलक्षणलक्षितं हि सकलमेवेन्द्रियमुपलभ्यते । न तु घटादिकमग्निकृत
विकारमेव । ततो न घटादिर्दृष्टान्तः ।

अथ यद्यपि नामेदानीं मनोविज्ञानमाश्रयो दृष्टोन्यदापि तथैवेति कुतः । तदेतदसत् ।

वह्नेर्यद्यपि धूमो दृश्यते तत एव सः । अन्यदापीति नाध्यक्षं प्रमाणमिह कस्य चित् ।। ४०३ ।।

तस्माद् (।)

यथा धूमेग्निपूर्व्वत्वगतिस्तत्प्रत्यभिज्ञया (।) तथा मनोविकार्यत्वगतिर्जन्मादिभाविनी ।। ४०४ ।।

जन्मादौ चक्षुरादीनि चापलादियोगिमनोनुरूपविकार्यतया प्रत्यभिज्ञायमानानि तथैव
तानीत्यवगमो युक्तः । यथा सकृदग्निपूर्व्वकः क्वापि तत्प्रसवो दृष्टः प्रदेशान्तरे तत्पूर्व्वक
तयैव प्रत्यभिज्ञायमानोस्ति278 ।

पुत्रादीन्द्रियवैकल्येप्यस्ति मानसविक्रिया । तदाश्रितं मनः प्राप्तं नियमो नोभयोरपि ।। ४०५ ।।

यदि सर्व्वत्र पुत्रादिचक्षुरादिविकारे न विक्रियेति नियमाभावात् पुत्रादिचक्षुरादीनीति
नाश्रयः । स एव नियमाभावो दृष्ट उभयोरपि । नात्मचक्षुरादिविकारेपि विकारो मनसः


059

कस्यचिदिति न तान्यपि नाश्रय इतीन्द्रियाणां नाश्रयत्वं । एवन्तर्हि मनोविज्ञानमिन्द्रिया
णामाश्रय इन्द्रियाणि तु न मनस इत्यनाश्रितं मनः प्रसक्तं । षण्णामपि चक्षुरादिविज्ञानाना
माश्रयेण केनचिद् भवितव्यं ।

इन्द्रियं मनसोज्ञानात् तस्माच्चस्ति मनोमतिः ।

ततस्तत्राऽपि स्याच्चेत्यनाद्यनन्त भवस्थितिः ।। ४०६ ।।

यदि मनोमतिरपीन्द्रियविकारतो न विकार्या एवम् ।

नेत्रादिनाशेऽनेकत्र मनो दैन्यादि दृश्यते । तत्राश्रितं कुतस्तेन नेहाशोभनमूह्यते ।। ४०७ ।।

नैतदस्ति । नावश्यमाश्रयः सर्व्वस्य कश्चिदिति नियमोस्ति ।

अथ निर्बन्धस्तदप्युच्यते ।

तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः ।
कश्चिन्निमित्तमक्षाणान्तस्मादक्षाणि बुद्धितः ।। (४१)

तस्माद् बुद्धेः स्थित्याश्रयो यः स निमित्तमक्षाणां चेतनालक्षणकर्म्मसञ्ज्ञितः । स
एव तर्हि चक्षुरादीन्द्रियं समाश्रित इति तदाह । स च बुद्धिमेव समाश्रितो नेन्द्रियाणि ।
न हीन्द्रियाणि तस्याश्रयः । चेतना कर्म चेतयित्वा वाक्कर्म्मेति वचनात् । चेतना चेदं
चेदं चेत्येवमात्मिका । सा च पूर्व्वानुसन्धानरूपा279 बुद्धिमेवाश्रित्य भवति न कायाश्रिता ।
सा च काचिदेवेन्द्रियाणां स्वाश्रयो280 न सर्व्वा आरूप्यधाताविन्द्रियाणामभावात् । शरीर
सतृष्णेन हि कर्म्मणा शरीरेन्द्रियाणां जननं । तत्राभिरतियोगात् । तुष्णाविषये हि
लब्धेभिरतिरुत्पद्यत इति (।) तस्मादक्षाणि बुद्धितो न त्वक्षेभ्यो बुद्धिरित्युपसंहारः ।
तस्मान्मनस एव कारणत्वमिति मनसा पूर्व्वपूर्व्वजन्माक्षेपः ।

यदि तर्हि मनोमतेरहमित्येवमात्मकल्पनारूपाया इदानीन्तनं जन्म परत्र तर्हि जन्मनि
कः संप्रत्ययहेतुः कथं वा कायाश्रितं मन उक्तमित्याह ।

यादृश्याक्षेपिका सासात् पश्चादप्यस्तु तादृशो ।
तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मनः ।। (४२)

यादृश्यात्मग्रहस्तासां मनोबुद्धिरनादिजन्मप्रबन्धस्याक्षेपिका संसारिणा281 मासीत् (।)
तादृशी पश्चादप्याक्षेपिका भवतु । नान्यथा तया भाव्यमिति । स एव पश्चादपि जन्मपरिग्रहः ।
यो हि यत्करणस्वभावाविशिष्टस्वभावः स करोत्येव तत् (।) तद् यथा धूमजननस्वभावा
विशिष्ट एवापरः सार्न्द्रेन्धनादिसङ्गतः कृशानुः । अन्यथा न कार्यकारणभावो न व्यवहार
इत्यनीहं जगत् स्यात् ।

(ख) विज्ञानसिद्धिः

अथ मनसोपि कायाश्रितत्वं282 प्रतिपादितं भगवता अन्योन्यानुविधायित्वं कायचित्त
060 योरपि वदता । अत्र परिहारः । कायविज्ञानैरुपक्रियमाणत्वादुक्तं कायाश्रितत्वं मनसो
भगवता । न तु साक्षात् कायस्तस्याश्रयः चक्षुरादिविज्ञानानामिव चक्षुरादीनि । तस्मादह
ङकारलक्षणं283 मनो न चक्षुरादीन्द्रियाश्रितं न देहाश्रितं (।) समानजातीयमनःसमाश्रितत्वमेवास्य
युक्तं । आरूप्यधातावपि तस्य भावात् तस्य च सम्भवप्रतिपादनात् ।

मा भूद् वाक्षैर्व्विना बुद्धिस्तथापि न परलोकाभावः अन्योन्याश्रयस्य भावात् (।) तदाह ।

यद्यप्यक्षैर्व्बिना बुद्धिर्न तान्यपि तया विना ।
तथाप्यन्योन्यहेतुत्वं ततोप्यन्योन्यहेतुके ।। (४३)

यथैव हि भवतोभ्युपगमः शरीरमन्तरेण न बुद्धिरिन्द्रियात्मकं तथा दर्शनादिति । तथा
तान्यपीन्द्रियाणि न मनोबुद्धिं विना इत्यभ्युपगम्यताम् (।) अभ्युपगमनिबन्धनस्य तथा दर्शनस्य
समानत्वात् । तथा सत्यन्योन्यहेतुकत्वं प्रसक्तमुभयसन्तानस्य परस्परमुपकारात् ।
अन्योन्यहेतुकयोश्च सामग्री सामग्र्‌यन्तरादुत्पत्तिमती । ततोपि सामग्रीतः पूर्व्वके परे च
कायमनसी अन्योन्यहेतुके मध्यावस्थावदिति ज्ञातव्यं ।

यदि च काय एवाश्रयो मनोबुद्धिर्नं 284 सा कायस्य । ततः कायाद् बुद्धिर्भंवन्ती
क्रमवतोऽक्रमाद् वा भवेत् प्रकारान्तराभावात् ।

तत्र न तावदक्रमाद् यतः ।

नाक्रमात् क्रमिणो भावो नाप्यपेक्षा (ऽ) विशेषिणः ।
क्रमाद्भवन्ती धीः कायात् क्रमन्तस्यापि शंसति ।। (४४)

इयं हि मनोबुद्धिः क्रमवती । अन्यथाहमिति स्वाकारस्य ग्रहणेतीतवर्त्तमानानागत
सकलस्वस्वभावग्रहणमिति सकलजन्मग्रहणप्रसङ्गः ।

अथावस्थानामग्रहणे न पूर्वापरव्याप्तिप्रतीतिः ।

अवस्था (ऽ) 285 ग्रहणेऽवस्थातृप्रतीतिः कथं भवेत् ।

व्याप्याप्रतीतावन्यस्य व्यापकत्वाप्रतीतितः ।। ४०८ ।।

यदि हि व्यापिन्यवस्था286 न प्रतीयते । व्याप्याप्रतीतेः कथमसौ व्यापकस्तथा प्रतिपन्नो
भवति । न हि तेन रूपेणाप्रतीयमानोपि तथा भवति । प्रतीतिरेव हि तत्त्वमन्यत्त्वं वा
व्यवस्थापयति । व्यापकत्वञ्चेदस्य न प्रतीयते । तदा तदन्येन रूपेण प्रतीयत इत्यापन्नं (।)
ततः कालान्तरस्थायितास्य नास्तीति (न) कालान्तरता प्रतीत्यन्तरस्य (।) ततः क्रमवती
प्रतीतिः । ततो नाक्रमात् क्रमिणो भावः ।

ननु यदि नामाक्रमं कारणं तथा भूतेनैव कार्येणापि भवितव्यमिति कुतः । न हि
कारणादभिन्नमेव कार्यं । विलक्षणस्यापि दर्शनात् ।

अत्रोच्यते ।

अक्रमाद् यदि कार्यं स्यात् तदैव सकलं भवेत् ।

अन्यदा तु स नास्त्येव तदा परिसमाप्तितः ।। ४०९ ।।

061

एवं हि तत्कार्यंकारि यदि287 कार्यकाले गृह्येत । न ह्यप्रतीयमानं तदा तस्य कारणं ।
प्रतीतिश्चेत् तदा एकत्वाद् विनाशावधि प्रतीतिरिति तदैव विनष्टः स्यात् । एवं हि तस्या
कमता । ततो विनष्टादपरं कार्यंन्न भवेदेव । भवद् वा न तत् कार्यं । अथ क्रमेण
प्रतीयमानं क्रमवतः कारणं । तथा सति नाक्रमं । न हि नीलतया प्रतीयमानमनीलं । अथवा(।)

नोच्यते कारणात् कार्यन्तद्रूप288 मुपजायते । अन्वयव्यतिरेकाभ्यां कार्यकारणतेति तु ।। ४१० ।।

कारणविलक्षणमपि कार्यं कार्यमेव । अन्वयव्यतिरेकानुविधानलक्षणत्वात् कार्यकारण
लक्षणतायाः289 । यत्र त्वन्वयव्यतिरेकौ न भवतः तन्न कार्यं कारणञ्च । यच्च तथाभूत
एव कारणे न भवति न290 तस्य कारणानुविधायिता ।

ननु नतु तद्भावेनोत्पद्यते इत्येव तद्भावे तु भवत्यवश्यमिति291 क्वोपयोगोस्य ।

तद्भावेपि न भावश्चेदभावे (ऽ)292 भाविता कुतः ।

तदभावप्रयुक्तोस्य सोऽभाव इति तत्कुतः ।। ४११ ।।

यद्यसौ समर्थोपि कारणे न भवति (।) कारणमेव तस्य तन्न स्यात् । कुतो वैत
दवगम्यते तदभावप्रयुक्तोऽस्याभाव इति । यथैव तदवस्थ एव कारणे (सति) स्वयमेव
न भवति । तथा तदभावेपि स्वयमेव न भविष्यति स्वातन्त्र्यात् (।) तस्यापरतन्त्रत्वे
कारणस्य (सति) सामर्थ्येऽवश्यमेव भवेदिति ।

अभावो हि पदार्थानां स्वयमेव भवेदपि । भावस्तु परतन्त्रत्वात् कथं हेतोर्भवेन्न सः ।। ४१२ ।।

अभावो हि निर्हेतुकत्वात् स्वयमेव भवतीति युक्तं । भावस्तु हेतुपरतन्त्र/?/त्वात् समर्थ
हेतौ न भवतीति न युक्तमेतत् ।

ननु कार्याभावः स्वतन्त्रत्वात् कारणे सत्यंपि च (? न)293 भवतीति युक्तमेवैतत् ।
एवं तर्हि तदभावेऽभाव इति न कारणाभावप्रयुक्तोऽभाव इति कथं भवेत् कार्यमस्य । ततः
स्वयमेव न भवेत् । यश्च स्वयमेव294 न भवति नास/?/ नियम्यते तेन (।) ततो/?/ यथा स्वयं
न भवति तथा भवदपि (।) तता न काय । यदा तु कारणे सति भवे/?/दे/?/व तदा स्वरस
निरोधेपि अपरापरक्षगा/?/त्पत्तस्तदभाव एव सन्तानाच्छद इति कारणप्रतिबद्धत्व । तस्मान्ना
क्रमात् क्रमिणा भावः ।

अथाक्रमादपि सहकारिणं क्रमिणमपेक्षमाणात् क्रमवत् कार्यमिति । तदपि नास्ति ।
नास्त्यपेक्षा(ऽ) विशेषिणो/?/ऽनाधेयविशेषस्य क्वचिद् दिशेषलाभाय नापेक्षा । न तस्य
विशेषोस्तीति । विशेषे वा (ऽ) नित्यताव्यतिरिक्तविशेषाभ्युपगमे च तद्विशेषापेक्षं कार्यन्तत
एव भवन्न ततो नित्यात् । तस्यासौ विशेष इति चेत् । न (।) विशेष इति विशेषकरत्वं


062

विशेषप्रत्ययकरत्वं वा । न विशेषकरत्वं तस्याविशेषात् । विशेषाद् विशेष इति तदेवा
नित्यत्वं व्यतिरेके पूर्व्वकः प्रसङ्ग इति

अथ विशेषप्रत्ययहेतुत्वं । तदप्ययुक्तं ।

नैवाभावे (विशेषस्य) विशेषप्रत्ययोदयः । तथा चेद् भ्रान्तिरेवेयमिति व्यर्थः परिश्रमः ।। ४१३ ।।

अविशेषप्रतीतौ हि स नित्य इति गम्यते ।

विशेषे (ऽ)295 /?/ भ्रान्ततायाञ्च नित्यतायां प्रमा कुतः ।। ४१४ ।।

अविशेषप्रतीतिश्चेदपेक्ष्यत्वे296 कथं भवेत् । औदासीन्यं यतस्तस्य विशेषोपि न विद्यते ।। ४१५ ।।

विशेषसम्भवे तस्य तत्रापेक्षेति युक्तिमत् । एतदर्थमपै/?/क्षेति व्यवहारोस्ति लौकिकः ।। ४१६ ।।

तस्मान्नास्त्यपेक्षा (ऽ) विशेषिण इति युक्तं ।

कायात् क्रमाद् भवन्ती धीः क्रमं कायस्य बोधयेत् ।

अन्यथा यत्कृतस्तस्याः क्रमो हेतुरसौ स्फुटः ।। ४१७ ।।

पूर्व्वपूर्व्वानुभवतः सा मनोधीः प्रवर्त्तते ।

सोपि पूर्व्वत एवेति सो पीत्य297 स्यानवस्थितिः ।। ४१८ ।।

अथ पूर्व्वपूर्व्वबुद्धिसापेक्षः कायः क्रमेण बुद्धिं जनयति । तथा सति कायस्य विशेषेण
भवितव्यं । ततः कायस्य बुद्धिसहितस्य पूर्व्वः पूर्व्वस्तथाभूत एव कायो हेतुरिति प्राप्तः ।

तथा सति (।)

प्रतिक्षणमपूर्वस्य पूर्व्वः पूर्व्वः क्षणो भवेत् ।
तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्व्वदा ।। (४५)

य एव खलु बुद्धिसहकारी देहः परस्य पूर्व्वः पूर्व्व उपलब्धो हेतुः स एव सर्व्वदा
मध्यावस्थावज्जन्ममरणयोरपि हेतुरिति सिद्धं । अन्यथा व्याप्तेरप्रतिपत्तेर्हेतुरेव कश्चित्
कस्यचिन्न भवेदुपायान्तराभावात् ।

तस्मात् सकृत् ततो दृष्टस्तत एवान्यदापि सः । कार्यंकारणभावोयमेवमेव प्रसिध्यति ।। ४१९ ।।

न च कार्यकारणभावो298 नाभ्युपगम्यते व्यवहारिभिरिति प्रतिपादितमेतत् पुरस्तादिति
विरम्यते ।

ननु यथा मध्यावस्थायां सविज्ञानककायपूर्व्वकत्वेन कायस्योपलव्धेः पूर्व्वंकोपि जन्मा
दिकायो विज्ञानसहितकायपूर्व्वक इति जन्मान्तरविज्ञानादेव299 विज्ञानमैहिकादपि300 भावि
जन्मविज्ञानमिति परलोकप्रसिद्धिः । तथा हेत्वन्तराद् विपर्ययोपीति परपक्षप्रसिद्धिः ।
तथा हि ।


063
यद् यन्मरणविज्ञानं न तज्जन्मान्तरानुगं । तच्चित्तत्वाद् यथा वीतदोषस्य मृतिवेदनं301 ।। ४२० ।।

यन्मरणविज्ञानं तच्चित्तान्तरं न प्रतिसन्धत्ते यथा वीतरागमरणचित्तं । मरणचित्तं च
जमान्तरप्रतिसन्धानकारितयेष्टं पृथग्‌जनचित्तमिति न प्रतिसन्धिरस्ति ।

अथायं हेतुरेव न भवति विपर्ययेण प्रतिबन्धात् । विपर्ययोपि तर्हि न हेतुरनेन
प्रतिबन्धादिति समानं । न समानं । यतो यो येन विरुद्धः स तदभावं साधयेत् । यो येन
सम्बद्धः स तद्भावं (।) न च मरणचित्तस्य प्रतिसन्धानविरोधः ।

यतः ।

चित्तान्तरस्य सन्धाने को विरोधोन्त्यचेतसः ।
तद्वदप्यर्हतश्चित्तमसन्धानं कुतो मतं ।। (४६)

अन्त्यचेतसो हि चित्तान्तरप्रतिसन्धानेऽसत्त्वेन साध्ये को विरोधः तेन सह तद्विषये
(न)302 वा येन तस्याभावः साध्यते303 । को विरोधः (।) न कश्चित्(।)304 न सहानवस्थान
लक्षणः परस्परपरिहारलक्षणो वा । मरणचित्तत्वागमे प्रतिसन्धानविपर्ययस्याद्ृष्टेः । अत
एव तत्परिहारेणावस्थानस्यादृष्टिः । अदृश्यत्वाज्जन्मान्तरप्रतिसन्धानस्य । ततो मरणचित्तत्वं
न प्रतिसन्धानविरुद्धमुभयरूपस्यापि विरोधस्यादृष्टेः । ततः प्रतिसन्धानाभावं न साधयति ।305
कार्यत्वन्तु प्रतिसन्धानाभावविरुद्धं (।) ततस्तदभावसाधनाय समर्थमिति विपर्ययात् प्रतिसन्धान
प्रसिद्धिः (।) न च परस्परविरुद्धार्थाव्यभिचारिणावैकत्र स्त इति प्रतिपादयिष्यते ।

नन्वत्र परस्परपरिहारस्थितिलक्षणो विरोधोस्त्येव कथं विरोधाभावः । यतः ।

अर्हन्मरणचित्तस्य प्रतिसान्धिर्न विद्यते । प्रदीपस्येव निर्वाणं विमोक्षस्तस्य चेतसः ।। ४२१ ।।

प्रदीपस्येव हि निर्व्वाणमर्हत्सम्मतपुरुषमरणचित्तस्य (।) ततस्तत्परिहारेण व्यवस्थितं
मरणचित्तमिति प्रतीतेर्विरोधप्रसिद्धिरिति विरोधाभावो न प्रसिद्धः ।306

तदप्यसम्बद्धं । तदपि नामार्हतश्चित्तं कुतः प्रमाणादसन्धानं मतं भवतां (।)नात्र
भवतां प्रमाणमस्ति तद्वाधनायैव भवतामुद्यमात् । यद्यर्हन्नह्यभ्युपगम्यते । ततस्तस्य क्लेशवि
संयोगकृतमसन्धानं नान्यथा । स च क्लेशविसंयोगः पृथग्जनानां नास्तीति कुतो(ऽ)307
प्रतिसन्धानमरणचित्तत्वेपि308 । न हि मरणचित्तत्वं प्रतिसन्धानविरोधि क्लेशविसंयोगस्य
प्रतिसन्धानेन विरोधाभ्युपगमात् । स च नाभ्युपगतः ।

ननु च सिद्धान्तादेव गम्यते विरोधः । न (।) सिद्धान्तस्यार्हन्मरणचित्त एव विरोध
प्रतिपादनाय वृत्तेः ।

सिद्धान्तो हि न सर्व्वस्य विरोधस्य विधायकः ।

मृते चित्तस्य सन्धानं क्व चित्तेनोपपादितं ।। ४२२ ।।

309 064
अथ प्रमाणतः सिद्धिः प्रतिसन्धेर्न विद्यते । तेन तत्राप्रमाणत्वाद् विरोधस्यास्ति सम्भवः ।। ४२३ ।।

तद्रप्यसत् । यदि सिद्धान्तः प्रमाणबाधितस्तदाऽप्रमाणमेव । कुतस्ततः समीहितसिद्धिः ।

असिद्धार्थः प्रमाणेन किं सिद्धान्तोनुगम्यते ।
हेतोर्वेकल्यतस्तच्चेत् किन्तदेवात्र नोदितम् ।। (४७)

यदि न प्रमाणमेव सिद्धान्तस्तदा ततो न विरोधसिद्धिः प्रतिसन्धानेन मरणचित्तस्य (।)
किमसावनुगम्यतेनुवर्त्यते (वा)310 । न खलु (अ) प्रमाणमनुवर्त्त्यमानमपि प्रमाणं भवति ।
प्रमाणं चेत् सर्व्वत्र311 प्रमाणमिति विपर्य्ययासिद्धिः । क्वचित् प्रमाणं क्वचिदप्रमाणमिति
चेत् । न (।) इच्छाया उभयोरपि वादिप्रतिवादिनोः समानत्वात् । अथाहेतुर्वैकल्यादिति312
हेतुर्व्विरोधस्य साधको न सिद्धान्तः । हेतोर्वैकल्यतस्तदसन्धानं यदि । तदेव (हेतु)313 वैकल्यं
कस्मान्नोदितं नोक्तं हेतुत्वेन (।) किं मरणचित्तत्वादनैकान्तिको हेतुरुयन्यस्तः । अथवा हेतो
र्वैकल्यतस्तच्चेत् ।
हेतोः शरीरादिलक्षणस्य मरणावस्थायां वैकल्यं यदि हेतुत्वे तु किमत्राधि
कमुक्तं । अयमपि हेत्वाभास एव(।) पूर्व्वकोऽनैकान्तिकः । अयं पुनरसिद्धः । यतस्तदेवात्र
हेतुवैकल्यं न र्विद्यते । अथवा किं तदेवात्र नोदितं । नो इति प्र/?/बोधे । अमानोनाः
प्रतिषेधवाचका
इति । किं नोदितं न दितं (।) दितं खण्डितं खण्डितमेवेत्यर्थः । वैकल्यमेवासि
द्धमविकलस्य पूर्व्वकस्य मनसो हेतुत्वात् । यथा चैतत् तथा प्रतिपादितं ।

अथापि स्यात् (।) नायमसिद्धो हेतुर्हेतुल्यवैकल्यलक्षणः । तथा हि (।) सेन्द्रियः
कायोऽनिन्द्रियो वा केशनखाग्रादिलक्षणो मनोविज्ञानस्याश्रयः । तथा हि कायादेवोत्पद्यते हृदयलक्षणात् अन्यतो वा ।

तदयुक्तं । कायस्य द्वयी गतिः सेन्द्रियोऽनिन्द्रियो वा प्रत्येकं हेतुरन्यथा वा । न
तावत्सेन्द्रियः ।

तद्धीवद् ग्रहणप्राप्ते मनोज्ञानं314 न सेन्द्रियात् ।
ज्ञानोत्पादनसामर्थ्यभेदान्न315 सकलादपि ।। (४८)
अचेतनत्वान्नान्यस्माद्धेत्वभेदात् सहस्थितिः ।
अक्षवद् रूपरसवदर्थद्वारेण विक्रिया ।। (४९)

न तावत् प्रत्येकं सेन्द्रियः काय आश्रयः316 । सहेन्द्रियशक्तिभिर्व्वर्त्तत इति सेन्द्रियः ।
इन्द्रियरूप एव शक्तिशक्तिमतोरभेदात् (।) ततश्च प्रत्येकमिन्द्रियेभ्य एव, मनोविज्ञान
मुत्पद्यत इति पक्षः (।) तदाह । मनोज्ञानं न सेन्द्रियान्नेन्द्रियेभ्यः प्रत्येकं भवति (।)
तद्धीवदिन्द्रियबुद्धिवत् प्रतिविषयं ग्रहणस्य प्राप्तेः । चक्षुरिन्द्रियानुसारि हि मनो नियमे
नापरेन्द्रियानुसारि मनः स्वभावमन्यथा तद्धेतोरतत्स्वभावत्वे स कुतः स्वभावस्तस्येत्यहेतुकः
स्यात् ।


065

नन्वेकमपि कारणं तदतत्स्वभावकार्यजननस्वभावमुपलभ्यते । यथा वन्हिर्धूमजनन
स्वभावः । सामग्रीभेदश्च विद्यते रूपसामग्रीसमवधाने चक्षुश्च चक्षुर्विज्ञानं जनयति ।
रूपविरहे मनोविज्ञानमिति । एवं श्रोत्रादिषु वाच्यं ।

तदसत् ।

अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते । तद्वयापारी न तत्रेति कथमक्षभवं भवेत् ।। ४२४ ।।

तद्धीवद् ग्रहणप्राप्तेरिति । अस्यायमर्थः । अक्षबुद्धिर्हि तद्वयापारमनुसरन्ती
प्राहिकाऽथस्येति तथा व्यपदिश्यते । यदि मनोबुद्धेरपि तत्त्वं । सापि तद्धीवद् ग्राहिणी
स्यात् तद्वयापारानुसरणेन । अन्यथा कथं तथा व्यपदिश्यते । तद्व्यापारानुसारणञ्च
नोपलभ्यते तज्जत्वेन च प्रतिपत्तिरिति व्याहतं । इन्द्रियाच्चासन्निहितेप्यर्थे पुरो व्यवस्थि
तार्थनिरूपणाकारचक्षुर्विज्ञानविज्ञानं तिमिरोपहतकेशकलापालोचनाकारवत् । मनोविज्ञा
नन्तु निमीलितलोचनस्याप्युपजायते कथं तत्रेन्द्रियव्यापारः । यद्विकारे च न विकारः कथन्त
दिन्द्रियजं । तत्र तद्धीवद्‌ग्रहणप्राप्तेरिति तद्विकारेण विकारिविज्ञानप्राप्तेरित्यर्थः । ग्रहणं
विज्ञानमेव । अथ तद्विकारेण न विकारः तदा न तज्जता । समुदायादपि नोत्पद्यत
इत्ययमेव परिहारः ।

परिहारान्तरमाह । ज्ञानोत्पादनसामर्थ्यभेदात् । ज्ञानोत्पादनं प्रति भिन्नमेव सामर्थ्यं
पृथग्भूतमन्यानपेक्ष्यमेव दृश्यते । न (।) परस्परापेक्ष्यम् (।) अन्यथा समुदायस्यका
भावेप्यभावादङ्कुर इव क्षित्यादिवैकल्ये न स्यात् । भवति च चक्षुरादिविकलानामपि मनो
विज्ञानन्तन्न समुदायप्रतिबद्धं मनः । अपिशब्देन पूर्व्वको हेतुः समुच्चितः ।

अचेतनत्वादन्यस्मादपि नोत्पद्यतेऽनिन्द्रियात् । नन्वचेतनत्वादिति कोऽर्थः । यदी
न्द्रियविज्ञानविरहादिति (।) तदिष्यत एव (।) कथमयं हेतुर्यदि नामेन्द्रियज्ञानं ततो न
भवति । मनोविज्ञानन्तु कस्मान्न भवति । अथ मनोविज्ञानाभावादचेतनत्वं तदेव विचार्य
माणमिति प्रतिज्ञार्थैकदेशो हेतुः ।

अत्रोच्यते ।

चेतयन्तो न दृश्यन्ते यदा केशनखादयः । तदा तेभ्यो मनोज्ञानं भवतीति कथं स्थितिः ।। ४२५ ।।

यथा हि चेतनतः स्पर्शादय उपलभ्यन्ते तद्विज्ञानैर्न तथा मनोविज्ञानेन केशनखादयः ।
तत्परिबद्धत्वे तदभावे मनोविज्ञा/?/नं न यस्यात् तदुपघाते चोपहतं भवेत् । यदि न काय
आश्रयस्तदा सहस्थितिः कथं । तदाह । हेतोः कर्म्मसंज्ञितस्य सहस्थितिनियमका
रिणोऽभेदात् सामर्थ्यस्य तथा व्यवस्थितत्वात्
 । अक्षवद्रूपरसवत् । यक्षाक्षाणां रूपरस
योश्च परस्परमनाश्रित्वेपि कञ्चित् कालं सहस्थितिनियमः । न हि सहस्थितावाश्रया
श्रयिभाव एव कारणं ।

ननु तद्विकारविकारित्वादाश्रयाश्चक्षुरादय श्चक्षुर्विज्ञानादीनां । तथा शरीरविका
रात् विश्लेषादि नाम न स्तिमितादिलक्षणो विकार इत्याश्रयाश्रयिभावः ।

तदप्यसद् (।) अर्थस्य ग्राह्यस्य द्वारेण विक्रिया । पीडामसहमानस्य तद्भावनया
तन्मनसिकारेण विक्रिया । आलम्बमाना हि शस्त्रप्रहारादयो मनसा मनसः पीडाकारिणो 066 नाश्रयभूताः । आलम्बनञ्च बाह्यमपि विकारकारि । न च तस्याश्रयभावः । तदभावेप्या
रोपमात्रात् पीडोत्पत्तेः ।

तस्मादारोपिताकारमन्तर्व्वाह्यञ्च वेद्यते । मनसा तद्विकारेण विक्रिया मानसस्य सा ।। ४२६ ।।

न चाश्रयालम्बनयोरेकता । ततस्तदाश्रयो न काय इति । न क्लिष्टं मनः कायाश्रितं
ततः । यश्च तस्याश्रयः स पश्चादावेदयिष्यते । पूर्व्वापरसमारोपमात्रमालम्बनं परं मनसो
नान्यदस्तीति निरालम्बनाश्रयः ।

अपि च ।

नोपकारक इत्येव हेतुस्तस्य निवर्त्तकः । विशिष्टमेव हेतुत्वं कार्यस्य विनिवर्त्तकं ।। ४२७ ।।

कोऽसौ विशिष्टो हेतुर्यस्य निवर्त्तकत्वं । तदाह ।

सत्तोपकारिणी यस्य नित्यन्तदनुबन्धतः ।
स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ।। (५०)

स हि हेतुर्निर्वर्त्तको यस्य सत्तोपकारिणी (।) नित्त्यं तदनुबन्धतः । तदनुबन्धेनेति ।
अनुबन्धोनुवर्त्तनं । सदानुवर्त्तनादुपकारिणी यस्य सत्ता । यस्य तु कदाचिदुपकारसामर्थ्यन्तद
भावेपि कदाचिदुपकारोऽन्यतोपि भवति विशेषलक्षणः(।)स नित्यमनुवर्त्तको न भवतीति न तन्नि
वृत्यापि तन्निवृत्तिः । देहस्य च सत्ता न सर्व्वदोपकारिणी पूर्व्वचित्तमात्रविकारेपि कदाचिद्
विकारदृष्टेः । ततो देहाभावेपि कदाचिच्चित्तविकारविहितविकारत्वात् तदुपस्तम्भादास्त एव
चित्तसन्ततिरिति संभाव्यते । न च देहः सदोपकारितया कारणमिति प्रसिद्धः । तथा हि ।

स्वयं परेण वा देहो हेतुर्ग्गम्येत केनचित् । उत्पन्नेनान्यथा वापि वेदनेनेति कल्पनाः ।। ४२८ ।।

न तावदनुत्पन्नं वेदनं जानात्यहमतो भविष्यामि भवामि (अ) भूवं वेति । उत्पन्नस्य तु
वेदनस्याहमिति । स्वरूपमालम्बमानस्यान्यद् वा तदधिगतिरेव । कुतः पुनरन्यस्यावगतिरिद
ममुत उत्पन्नमिति । न खल्वन्यदालम्बमानमन्यदवगच्छति । चक्षुरादिविज्ञानानामपि तर्हि
सैव कल्पनेति कुतश्चक्षुरादिकारणत्वमतिः । न । तेषामन्वयव्यतिरेकगतिसम्भवात् ।
तथा हि ।

चक्षुरुन्मीलयन्नेव नरः प्रत्यवगच्छति । रूपदर्शनमुत्पन्नं गम्यते तदनन्तरं ।। ४२९ ।।
जन्मादि देहोभिमुखो हेतुत्वेन न गम्यते । ज्ञानस्य प्रागभावे हि ज्ञातृत्वस्य विवोधकः ।। ४३० ।।
परेणास्य प्रतीतिश्चेत् प्रागभावगतिः कुतः । अदृश्यानुपलम्भो हि नाभावस्य प्रसाधकः ।। ४३१ ।।
सुप्तस्यापि प्रबोधोस्ति प्राग्‌ज्ञानानुपलम्भने । न तत्र स्वप्नविज्ञानप्रागभावगतिः सती ।। ४३२ ।।

अथास्य स्यात् स्वसंविर्त्तिर्यदि प्राग् विद्यते मतिः (।)

प्रसुप्तावस्थायां नास्त्येव स्मृतेरभावात् ।

प्रबुद्धस्य यतो दृष्टा स्वप्नसंवेदने स्मृतिः ।

तदसत् ।

अभावः प्रतिपत्तेः किं किंवा सदपि विस्मृतं । जाग्रता हि कृतं स्वप्ने स्मर्यते नैव केनचित् ।। ४३३ ।।

न खलु स्वप्नसंवेदनं जाग्रद्विज्ञानान्तरमिति केनचित् प्रतीयते । तथापि तत् तत एव ।

067

अथ प्रबोधे सति तस्य प्रतीतिः । तस्यापि प्रबोधे न प्रतीयते इति कुत एतत् ।
तस्मादप्रतीतिरेव देहस्य सदोपकारित्वेन ततोस्य निवर्त्तने विज्ञानं निवर्त्तत इति न गतिः ।

(i) भूतात्मवादनिरासः

अथ गोमयादुत्पद्यते शालूकः । न च तस्य सत्तोपकारिणी नित्यं तदनुबन्धेन ।
तथापि गोमयाभावे प्रथमभाव एव शालूकस्य ।

तदपि यत्किञ्चित् । यतः (।)

गोमयात् प्रथमोत्पत्तिर्यादृशी तादृशी पुनः । तदभावे न दृष्टैव ज्ञानस्य तु विपर्ययः ।। ४३४ ।।

यादृशो हि गोमयादुत्पद्यमानो दृष्टः शालूकः स किं तादृश एवान्यदाप्युपलभ्यते ।
मनोविज्ञानन्तु तथा भूतमेवादौ पश्चाच्चेति न तेनैकान्तिकता ।

(ii) अस्मिन् सतीदमित्यस्य व्याख्या—

ननु अस्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते इत्येतदेव हेतुलक्षणं भगवतोक्तं ।
न तु सदानुवर्त्तकमपरं विचारितं । भगवानेव च परमार्थतः कार्यकारणभावे पारमार्थिकं
प्रमाणं व्याप्यन्वयव्यतिरेकग्रहणादिति प्रतिपादितं । न च सम्भव्युपकारवानर्थो नोच्यते
भगवता । तत् कथमेतत् ।

नैष दोषः । तस्मादेवास्माभिरुक्तात् सदोपकारित्वेन सप्तमी(।) तस्मादेव पञ्चमी
उत्पादादिति चोच्यते । अस्मिन् सतीदं भवति इति सदानुवर्त्तनमाह । सतीति निमित्त
सप्तमी(।) अन्यथा तदभावेपि भवने न तन्निमित्तकोस्य भावः । पञ्चम्यपादानेऽपादानता च
जनिकर्त्तुः प्रभव317 इति । प्रभवश्च निमित्तमेव ।

अथवान्यथा व्याख्यायतेस्माभिः । यदि विज्ञानपूर्व्वकं विज्ञानन्तथापि जन्मादिविज्ञानात्
पूर्व्वकजन्मविज्ञानमिति प्रतीयतां । तस्य तत्कार्यत्वात् । भाविजन्मविज्ञानन्तु कुतोनुमीयते ।
अथ समर्थकारणदर्शनात् कार्यानुमानं । तत् तर्हि हेत्वन्तरं प्रसक्तं कारणलक्षणं । अथ
कार्ये सन्देहात् योग्यतानुमा नं न भाविपरलोकानिश्चये व्यर्थता योग्यतानुमानस्य । भाविपर
लोकानुमाने हि धर्म्मादिषु प्रवर्त्तनप्रयासः सफलः ।

अत्रोच्यते । कारणमेव भाविजन्मविज्ञानं कार्यमपि तत् । यतः (।)

सत्तोपकारिणी यस्य नित्यन्तदनुबन्धतः (।)

स हेतुः । यस्य हि सत्तोपकारिणी नित्त्यं तदनुबन्धतः । व्यापित्वेन व्यापकं व्यतिरेके
सति कारणं । अर्थान्तरे गम्ये कार्यमेव हेतुर्यदर्थान्तरस्य गमकं तद् व्यापकस्यैव । अन्यथा
व्यभिचारित्वा(द)गमकता स्यात् । यच्च यमन्तरेण न भवति तत् तस्य कारणं । कारणं
कथं कार्यमिति चेत् । न (।) तस्य कार्यत्वात् । तथा हि ।

विकाराश्चेतनादीनामुदयादेः प्रसाधकाः । तद्विकारतयेक्ष्यन्ते तच्च कार्यत्वमुच्यते ।। ४३५ ।।
068

अयं विकार एव न स्यात् । यद्यभ्युदयेन न भवितव्यं तत्कृतोयं विकार इति
सकललोकव्यवहारः । एतावतैवान्यत्रापि कार्यत्वं भावि कथं कारणं । तदव्यभिचारादेव ।

ननु य उपकारी स कारणं कथं च भाव्यविद्यमानमुपकारि । अतीतं तर्हि कारणन्न
प्राप्नोति ।

तदप्यसत् (।) नोपकारीति न । तदुत्पत्तिकाले विद्यमानत्वात् । कोयमुत्पत्तिकालः ।
यदि कार्यात् प्राक् कथमविद्यमानस्योपकारकः । अत एव कारणमविद्यमानकरणात् ।
अविद्यमानस्यं करणमिति कोर्थः । तदनन्तरभाविनी तस्य सत्ता । तदेतदानन्तर्यमुभया
पेक्षयापि समानं । यथैव भूतापेक्षया तथा भाव्यपेक्षयापि । न चानन्तर्यमेव तत्त्वे निबंधनं ।
व्यवहितस्यापि कारणत्वात् ।

तथाहि ।

गाढ़सुप्तस्य विज्ञानं प्रबोधे पूर्व्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्चितं ।। ४३६ ।।

न खलु तत्र शरीरं कारणं पूर्व्वसंस्कारानुवर्त्तने न तस्य दृष्टेः । तादृश एव हि शरीरे
न्यथा चान्यथा पूर्व्वविज्ञानानुरूप्येणोत्पत्तेः ।

तस्मादन्वयव्यतिरेकानुविधायित्वं निबन्धनं । कार्यकारणभावस्य तद्भाविन्यपि विद्यते ।। ४३७ ।।

यदेव यदन्वयव्यतिरेकानुविधायि तदेव तस्य कारणमपरस्तु विशेषो व्यर्थः ।

अथापि स्यात । अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यत इति कार्यकारण
भावलक्षणं । न चात्रान्वयव्यतिरेकमात्रमनेन कथ्यते । यतः ।

सप्तम्या पूर्व्वभावस्य पंचम्या च निदर्शनं । परभावः प्रथमया ततोपि च निदर्श्यते ।। ४३८ ।।

नहि तदन्वयव्यतिरेकानुविधानमात्रमत्रोपदर्शितं । पूर्व्वापरभावोपदर्शनस्य परि
स्फुटत्वात् ।

तदप्यसत्त्यं । सप्तमी तस्मादादुत्पादादिति चोच्यते । न खलु सप्तम्या पूर्व्वभावस्यो
पदर्शनं पञ्चम्या वा । निमित्तत्वमात्रत्वस्योपदर्शनात् । एतन्निमित्तकोयमित्यर्थः । यदभावे
च न भवति यः स एव भवंस्तन्निमित्तकोयमित्यर्थः ।

ननु सतीति कथं भावी व्यपदिश्यते । तस्याविद्यमानत्वादेवं व्यपदेशानुपपत्तेः । तथा
नोत्पादोनुत्पन्नस्य ।

नन्वतीतस्यापि कथं सत्ता येनासौ सतीति व्यपदिश्यते । विनष्टस्य च कथमुत्पादः ।
आसीदिति चेत् । अन्यस्यापि भविष्यति । कः प्रागभावप्रध्वंसाभावयोर्विशषः । अथवा
अस्मिन् सतीदं भवतीति यस्य च भावेन भावलक्षणमित्यनेन सप्तमी । ततः सतीत्यनेन
निमित्तभावमात्रं लक्ष्यते । न तु तदा सत्त्वं तदभावेन च भावलक्षणं (।) भावेन च भावो भाविनापि
लक्ष्यत एव मृत्युप्रयुक्तमरिष्टमिति । लोके व्यवहारः । यदि मृत्युर्ना भविष्यन्न भवेदेवं भूतम
रिष्टमिति । न चोत्पादादिति कालविभागः । न खलु विभक्तयः कालविशेषविधायिन्यः
कारकत्वमात्रप्रतिपादने सामर्थ्यात् । कारकत्वमेवासतः कथमिति चेत् । कथमंकुरो जायते ।
घटं करोतीति कर्तृकर्म्मभावः । बुद्धिस्थतया कारकत्वे नात्र तस्य काकैर्भक्षणं ।

069
(iii) कारणव्याख्या—

अथ यस्योपलम्भपूर्व्विका यस्योपलब्धिस्तत् कारणं ।

तदप्यसत् ।

यस्योपलब्धिः प्रथमं तत् तस्य यदि कारणं । न खलान्तर्गतं बीजं हेतुः स्यादंकुरोदये ।। ४३९ ।।

अथ तज्जातीयस्य प्रथममुपलब्धिरिति तथोच्यते । कथमनुपलब्धस्य कारणत्वं (।) न
ह्यन्यस्योपलब्धावन्यस्योपलभ्यमानता । उपचरमात्रन्तु स्यात् । तस्मादुपलब्ध्या सत्तोप
लक्ष्यते । तथा च स एवार्थः । अस्मिन् सतीति निमित्तभावः सत्तायाः । स चाव्य
भिचारविषयत्वमेव । यस्य तु प्रागुपलब्धिरिति तु सर्व्वस्य तु पूर्व्वभाविनः कारणत्वप्रसङ्गः ।
अव्यभिचारविषयत्वे तदेव कारणत्वं ।

अथाव्यभिचारविषयत्वे सति पूर्व्वाभावस्तदपि यत् किञ्चित् ।

तद्भावभावितामात्राद् यदि कारणकार्यता । को विरोधस्तदा पूर्व्वपरभावः किमर्थकः ।। ४४० ।।

पूर्वपरभावस्य हि क्वोपयोगो न चानुपयोगवदपेक्ष्यते ।

अथापि स्यात् ।

पूर्व्वत्वे कारणस्येष्टे उपादानं तदर्थिनां । परत्वे(चा)नुमानं यत् सामर्थ्यात् तद् भविष्यति ।। ४४१ ।।

पूर्व्वं हि कारणं कार्यार्थिनोप्यादातुं शक्यं । ततः कारणस्य पूर्व्वभाव इष्यते । तद्यथा
भाविपरलोकसाधनाय तत्प्राग्भाविवर्त्तमानेह लोकोपादानं (।)

तदपि न युक्तं कारणत्वमपि तस्यास्त्येव न हि प्राग्भाविनः कारणत्वं न विद्यते ।
कार्यत्वमपि तु तस्य भाव्यव्यभिचारापेक्षया भवतीति भण्यते । यच्च कारणत्वे सत्युपादानं
तत् कार्यत्वे भविष्यति । को हि विशेष उपादानेऽव्यभिचारमात्रेणोपादानमियता किन्न पर्याप्तं ।

यच्चोक्तं (।) समर्थकारणादेवानुमानं किन्तत्र कार्यत्वेन ।

तदसत् ।

को हि हस्तगतं द्रव्यं पादगामि करिष्यति । परशुच्छेद्यतां को वा नखच्छेद्ये सहिष्यते ।। ४४२ ।।

को हि हस्तगतं पादगतं कुर्य्यात् । नखच्छेद्ये वा कुठारच्छेद्यतां प्रतीक्षेत ।

कार्यत्वेनैव मुख्येन गमकत्वे क्रमाद् ऋजोः । यत्नसाध्यकारणत्वे गमकत्वमनर्थकं ।। ४४३ ।।

तस्मादनागतस्यापि कारणत्वमव्यभिचारादिति युक्तमेतत् ।

उक्तन्तावदर्थद्वारेण विक्रिया देहान्न चक्षुरादिवदाश्रयत्वद्वारिका । अभ्युपगम्येदानी
मुच्यते (।)

अस्तूपकारको वापि कदाचिच्चितसन्ततेः ।
वह्न्यादिवद् घटादीनां विनिवृत्तिर्न तावता ।। (५१)

कदाचिदाश्रयत्वेनोपकारकत्वेपि देहस्य तावता न देहनिवृत्तौ विनिवृत्तिश्चित्तसन्ततेः ।
नोपकारक इत्येव निवर्त्तको भवत्युपकार्यस्य न वह्न्यादेरासादितोपकारकविशेषस्य घटादेर्व-070 ह्न्याद़िनिवृत्तौ नियमेन निवृत्तिः सुवर्ण्णादेर्वा द्रवता लक्षणविशेषासादनेपि चित्रभानोर्न
तन्निवृत्तौ निवृत्तिः ।

यदि नाम स एव विशेषो द्रवतादिलक्षणो निवर्त्तंते सुवर्ण्णं तु तदवस्थमेव । यस्य
चित्तं कारणं चेतसस्तस्य देहस्य तदवस्थस्य भावेपि तद्वैगुण्यान्निवृत्तिः

केवलदेहकारणत्वे बाधकमुक्तं । अपरमप्युच्यते ।

अनिवृत्तिप्रसङ्गश्च देहे तिष्ठति चेतसः ।
तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत् ।। (५२)

देहाभावे भस्मावस्थायां भवतु निवृत्तिः कारणाभावात् । देहेतु तथा भूत एव
तिष्ठति न निवृत्तियोगः । अन्यथापि च (।) सर्व्वावस्थानुयायित्वाच्च ।

अथ प्राणापानकार्यतापि तस्य ततस्तद्वैकल्यात् निवृत्तिरिति (।)

तदप्ययुक्तं । प्राणापानौ चित्तादेव न ततश्चित्तमिति न परिहारः । कुत एत
दिति चेत् (।) तदत्र भावभावात् । चित्ते सति तयोर्भाव इति न विपर्ययः । वश्यत्वाच्च
प्राणापानाभ्यां न तत् । यदि चित्तकारणं प्राणपानौ तदा तद्वशौ न स्यातामुपलभ्यते च
चित्तवश्यता तयोः । यदि चान्यत उत्पन्नो तदा तत एव तदुत्पत्तिरिति चित्तमकिञ्चित्कर
मेव स्यात् । न खल्वन्याधीनमन्येन वशयितुं शक्यं । तयोः स्वकारणाधीनयोश्चित्तं परि
च्छेदकमेव केवलं भवेत् । अथ चित्तसहकारि तयोः कारणं तौ जनयेत् । चित्तमपि
तर्हि तयोः कारणमिति न ताभ्यामुत्पद्यते । अथान्यतोपि मूलत उत्पन्नौ प्राणापानौ चित्तेन
नियम्येते यथा स्वामिना भृत्यः । तदसत् ।

भृत्यस्यान्यत उत्पत्तिर्दृश्यते न पुनस्तयोः । न चित्तमन्तरेणास्ति तयोरुत्पत्तिरन्यतः ।। ४४४ ।।

न हि प्राणापानौ चित्तमन्तरेण दृश्येते भृत्यवद् (।) अतो नान्यतः कारणादिति चित्त
मेव कारणमिति न ताभ्यान्तत् ।

अथापि स्यात् । स्वापावस्थायां प्राणापानयोर्भावात् न चित्तकारणत्वमनयोः (।)
न हि तत्र तथाभाव एव हि । अनन्यहेतुतामेव दर्शयति ।

प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः ।
निर्ह्रासातिशयापत्तिर्निर्ह्रासातिशयात् तयोः ।। (५३)

यदि प्राणापानकार्यं चैतन्यं तदा प्रेरणाकर्षणे वायोः प्रयत्नेन विना स्यातां । न चैवं
प्रेरणाकर्षणरूपत्वात् तयोः । अथ प्रेरणाकर्षणमेव तयोश्चित्ताधीनं न स्वरूपं न स्वरूपमन्यतः
कारणादिति ततश्चित्तं ततः प्रेरणाकर्षणे ।

तदप्यसत् ।

मृतस्यापि स वायुश्चेच्चेतना किं निवर्त्तते । स चेदकारणन्तस्याः कायः कारणमागतः ।। ४४५ ।।

यदि स्थिरो वायुर्न कारणं चेतनायाः । अनिवृत्तिरेव प्रसक्ता चेतसः । अथापि
कारणं तथापि मृतस्यापि स्थिरता वायोरस्तीति । प्राणापानौ च कार्यरूपाविति न तदभावा
न्निवृ(त्ति) श्चेतस इति अनिवृत्तिप्रसङ्गः । प्राणापाननिर्ह्रासातिशयाभ्याञ्च चेतसो निर्ह्रा-

071

सातिशयौ प्राप्नुतः । तत्कार्यत्वादवश्यं कारणे परिहीयमाणेऽतिबर्द्धमाने वा कार्यस्य हानिरुपचयश्च
भवत्यन्यथा कारणन्तदिति न स्यात् ।

तुल्यः प्रसङ्गोपि तयोर्न तुल्यं चित्तकारणे ।
स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ।।(५४)

भवेतां वा प्राणापानौ चेतसः कारणन्तथापि देहे तिष्ठति चेतसोऽनिवृत्तिप्रसङ्गः ।
तयोरपि प्राणपानयोरनिवृत्तेः । तयोरपि देहकार्यत्वादनिवृत्तिरेव । तदनिवृत्तेश्चेतसोप्य
निवृत्तिरिति ।

स्यादेतत्(।) चेतः कारणेपि चेतस्ययमेव प्रसङ्गः ।

अनिवृत्तिप्रसङगश्च चित्ते तिष्ठति चेतसः । चेतसो न च पूर्व्वस्य तत्पूर्व्वेष्टौ निवर्त्तनं ।। ४४६ ।।

अत्रोच्यते(।) न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यतः कारणमिष्यते । अन्यदपि तद्देहसतृष्णकर्म्मसंज्ञितं कारणमिष्यते ।

नहि पूर्व्वचित्तसत्तामात्रकादेव चित्तमुत्पद्यते । तदपरस्यापि संस्कारबीजसंज्ञितस्या
विद्यादिरूपस्य कारणत्वात् तस्य पूर्व्वचित्तप्रबोधने तत्र चित्तोत्पत्तिरन्यत्र वा चित्रत्वाद्
वासनाभेदानां प्रबोधकानाञ्च । तद्यथा । न सिद्धसम्बन्धमात्रादेव नानाप्रकारस्वप्नदर्शनं ।
समानेपि हि सिद्धसमागमे कदाचिदेव किंचित् स्वप्नदर्शनं भवति वासनाप्रबोधचित्रत्वात ।
वोसनाप्रबोधचित्रत्वाद्धि निवृत्तिर्त तु देहमात्रकारणत्वेप्येवमवे दृष्टत्वादिति कुत एतत् ।

चित्तस्य वासनादृष्टेरन्यथोनुपपत्तितः । स्वप्नविज्ञानवत् सर्व्वं वासनाबोधकारणं ।। ४४७ ।।

यदि देहसिद्धमात्रमेव कारणं सर्व्वेषां सर्व्वदा समानं स्वप्नदर्शनं प्रसक्तं । कस्यचित्तु
किंचिदुपलभ्यत इति वासनासङ्गमकृतमेव तदिति युक्तं । वासनानामनेकाकारत्वात् । ततः
सकलमेव चित्तं तत्र देहेऽन्यत्र च वासनाप्रबोधविहितव्यतिकरं नान्यथा संभावनीयं ।

(iv)वासनाबलादुत्पत्तिः

अथ वासनाबलादुत्पत्तिमासादयदसत्यमेव स्वप्नवत् । तदप्यसत्त्यं ।

वासनावलभावेपि प्रपश्चः सुरतादिकः । नासत्यः स्वार्थनिष्पत्तेः सत्यार्थक्रियाकृतां ।। ४४८ ।।

वासनाबलमवलम्व्यमाना हि सुरतादिव्यवहाराः समीहितार्थक्रियाकरणप्रवणप्रवर्त्तनाः
किमसत्यताव्यतिकरव्यस्तात्मानः ।

अथ वासनान्वयिनोपि सुरतादिव्यवहाराः सत्यस्त्र्यादिसमन्वयिन इति नासत्त्याः
जन्मादिव्यवहारा अपि तथेति समानं । तेषामपि तत्र सत्त्यशरीरान्तरोत्सङ्गोपादानतेति
नासत्त्यता(।)तथा हि(।)शुकशोणितोपजनितं शरीरान्तरमुपादाय जन्म प्रवर्त्तते वासनाबलभावेपि ।
कथं शरीरान्तरसंचरणमुपलभ्यतामन्तरेण । वृद्धादिशरीरावस्थासंचरणवत् ।

एकोपादानभावेन तदेकत्वव्यवस्थितेः(।) शरीरान्तरसञ्चारो न भवत्येव तादृशः ।। ४४९ ।।

एकशुक्रशोणितोपादानमेव शरीरं तदिति न शरीरान्तरसंचारः । पश्वादिशरीरन्तु
शुक्रशोणितान्तरादुत्पन्नं शरीरान्तरं । तथाभूते च न संचारो दृष्टस्तत् कथं सम्भाव्यते ।

न शरीरान्तरत्वस्य तथापि व्यतिरेकिता । विलक्षणत्वं तत्त्वस्य निवर्त्तकमितिष्यते ।। ४५० ।।
072

बालादिभावेन हि कुमारादिशरीरं न तदेकमिति शक्यं वक्तुं । तत्र संचारो दृष्ट
एव । तत्सहचारितयोत्पत्तिरेव तत्र संचारः । वासनावलाच्च तथोत्पत्तिरित्यविरोधः ।

अथ विलक्षणशरीरान्तरसंचारो न दृष्टः । तदपि स्वप्नान्तिकशरीरसंचारदर्शनादनै
कान्तिकं । तस्यालीकत्वादसंचार एवासाविति चेत्(।)न(।) दृश्यमानस्यालीकत्वायोगात् ।
यथैव हि तस्यासत्त्यत्वं तथा तत्र सञ्चारोपि । किमिदमसत्त्यत्वं नाम(।)बाध्यमानत्वं
जाग्रत्प्रत्ययेनेति चेत् । यदा स प्रत्ययस्तदा स न बाध्यते । अन्यदातु वाध्यत इत्ययुक्तं ।
तदैव जाग्रतानोपलभ्यत इति चेत् । तेनापि जाग्रत्प्रत्ययोपलब्धो नोपलभ्य इति समानो
बाध्यबाधकभावः । अथ प्रबोधे नोपलभ्यते । प्रबोधाप्रबोधयोः कथं विवेकः । प्रबुद्धोहमिति
प्रत्ययोत्पत्तेः प्रबुद्धोहमिति प्रत्ययः स्वप्नेपि भवतीति कथन्ततो विवेकः । तस्मात् समाने
उपलम्भे नाभावोऽसत्त्यता वा युक्ता ।

अथ वासनादौर्वल्यादचिरस्थायिताऽसाधारणोपलम्भो दौर्बल्यलक्षपोऽसत्त्यत्वं ।

यत्र तर्हि वासानादाढ्‌र्यं तत्र विपर्यंय इति सत्त्यता संचारस्य । साधारणोपलम्भे च ।

तथा हि वासनादार्ढ्यान्न परोऽसत्त्यतोदयः । वासनादार्ढ्यमात्रेण सत्यता जाग्रतो विदां ।। ४५१ ।।

यत्र वासनादाढर्यं स जाग्रत्प्रत्ययः । सत्यश्च साधारणोपलम्भश्च । स्वरूपेण तु
तदस्त्येव ततः सिद्धः सञ्चारः । दार्ढ्याभावात्तु झटिति विघटनं । यत्र च देवतादेशो
द्वयोरपि स्वप्नदर्शिनोः प्रतिभासते तत्र कथमसत्त्यता ।

अथ तदा सत्यतैव तथा सति न स्वप्नार्थस्य सकलस्यासत्यता । तथा सति(।)

सञ्चारस्य प्रसिद्धत्वाद् विशेषपरिकल्पनात् । विकल्पसममेवं हि जात्युत्तरमिदं स्फुटं ।। ४५२ ।।

अथवा जन्मादौ चित्तसंस्कारफलस्य पाटवस्योपलम्भान्मरणान्तरं संचार इति प्रतीतं ।

शरीराग्रहरूपस्य चेतसः सम्भवो यदा । जन्मादौ देहिनां दृष्टः किन्न देहान्तरागतिः ।। ४५३ ।।

अयन्तावज्जन्मादावन्यदा च शरीराग्रहादिरूपञ्चेतसः स्वभावस्तारतम्ययोगी सकल
जन्मिनां पूर्व्वाभ्यासतारतम्यफलतयोपलभ्यमानो न पूर्व्वकशरीराग्रहाभ्याससंस्कृतचित्तमन्तरेण
भवतीति(।) तत्सामर्थ्यादेव शरीरान्तरादिह शरीरे संचरणमिति प्रतीयतां । नान्यथानुमावृत्तिः ।

अथ प्रत्यक्षं संचारे नास्ति तत्कथमनुमात् प्रतीतिः । अयमप्यदोषो यतः(।)

अनुमेयेस्ति नाध्यक्षमिति कैवात्र दुष्टता । अध्यक्षस्यानुमानस्य विषयो विषयो न हि ।। ४५४ ।।

परस्परविषयपरिहारेण हि प्रवर्त्तनमध्यक्षानुमानयोरिष्यत एव । कथं स एव दोषः ।

अथ तज्जातीये वृत्तिमन्तरेणाध्यक्षस्य कथमनुमानं । स चापि न दोषः ।

आग्रहरतावदभ्यासात् प्रवृत्त उपलभ्यते । शरीरेन्यत्र वाध्यक्षात् तत एवानुमा न किं ।। ४५५ ।

तदेतदुच्यते(।) कथन्तज्जातीये प्रत्यक्षमन्तरेणानुमानमध्यक्षपूर्व्वकत्वादनुमानस्य । तत्रायं
परिहारः । यदि नाम न दृष्टोध्यक्षतः संचारः संचारानुरूपन्तु फलमुपलभ्यत एव ।
ग्रामान्तसंचारवत् । तद्यथा ग्रामन्तराद् देशान्तराद् वागतः पूर्व्वाभिरतिविषयसजातीय
एवोपकरणादौ रममाण उपलब्धः । यदि नामापरस्तथाभूतो ग्रामान्तरादागच्छन्नोपलब्ध
स्तथापि तथाभूतदेशादागतिरस्योपलभ्यत एवानुमानात् । एवमुपकरणादिविशेषाभिरसादेव

073

लोकादागतिरप्यनुमीयतां ग्रामान्तरादागतौ प्रत्यक्षवृत्तिमात्रेणानुमानवृत्तेः । न हि धूमादनु
मीयमानेग्नौ विशेषयोगिनि प्रत्यक्षवृत्तिः । अग्निमात्रप्रवृत्तिरिति चेत् । इहापि देशादि
संचारे वृत्तिरिति समानमेतत् ।

अथापि स्याद्(।) देशान्तरादिसंचारस्तेनैव शरीरेण दृष्टः शरीरमत्यजतः । यथा
च स्वप्नशरीरसंचारोऽसत्त्यस्तथेहापि जन्मादौ शरीरापरित्यागासत्त्यते स्यातामित्यसमंजसं ।
तथा हि ।

शरीरान्तरसञ्चारत्यागौ सत्यसमागमौ । स्यातां यदि ततः सत्त्यं परलोकप्रसाधनं ।। ४५६ ।।

यथा चात्यन्तविच्छेदः स्वप्ने स्वप्नोपलम्भने ।

तथैव मरणात पूर्व्वं पश्चात् यदि किं कृता ।। ४५७ ।।

यथैव खलु देशान्तरसंचारः शरीरमन्तरेण तथा जन्मान्तरसंचारोपि यदि भवेद् विपरीत
साधनमायातं । तथा स्वप्नसंचारो सत्त्यशरीरान्वयी दृष्ट इति परलोकसंचारोपि तथा भवेदसत्त्य
एव परः पूर्व्वश्च लोक इतीष्टमेव नास्तिकानां ।

किंच(।) यथा स्वापावस्थायामस्वप्नदर्शिनो विच्छेद एव विज्ञानस्याव्यक्तविज्ञानता वा
(।) तथा यदि परलोकोपि किं तादृशेनेति न विनष्टा दृष्टिर्नास्तिकानां किं कृतं परलोक
वादिनां स्यात् । अत्रैतदुच्यते ।

तेनैव हि शरीरेण सञ्चारोध्यक्षबाधितः । परित्यागः शरीरस्य पूर्व्वकस्यान्यदर्शनं ।। ४५८ ।।
स्वप्नसंवेदेनं सर्व्वं सत्त्यविज्ञानजन्मनः । स्वप्नाच्च सत्त्यविज्ञानमिति कैव विरोधिता ।। ४५९ ।।
प्रबोधसङ्गतः सर्वो विच्छेद उपलभ्यते । मरणादपि विच्छेदः सत्त्यताबोधसङ्गतः ।। ४६० ।।
318

उक्तमेतद्(।) विज्ञानं शरीरेस्मिन् पूर्व्वशरीरसङगतविज्ञानाभ्यासफलत्वेनोपलभ्यमानं
नियमेन शरीरपरित्यागमन्तरेण न भवतीति कथं शरीरपरित्यागः । दृष्ट एव पूर्व्वशरीर
परित्यागः । एतच्छरीरोपलम्भ एव पूर्व्वशरीरपरित्यागोपलम्भ इति पूर्व्वशरीरस्याप्रसिद्धौ कथं
पूर्व्वशरीरपरित्यागप्रसिद्धिरिति चेत् ।

न शरीराद्यभिरतिः शरीररतिपूर्व्विका । यदा प्रसिद्धा तत्पूर्व्वशरीरं सिद्धमेव नः ।। ४६१ ।।

विशिष्टपूर्व्वाभिरतिसाधनादेव पूर्व्वशरीरप्रसिद्धिः । न च तदेवेदानीं शरीरमुप
लभ्यते । न चातीतमनुपलभ्यमानं तदापि न भवति । ततः पूर्व्वशरीरापरित्याग
इत्यध्यक्षबाधितमेतत् ।

यदपि चोक्तं । यथा स्वप्नादिहागमनमसत्त्यात् तथा परलोकादप्यसत्त्यादेव । तथा
चातो गमनं स्वप्नशरीरेऽसत्त्ये तथा परलोकेपीत्यसत्त्यता परलोकस्य ।

एतदप्यसत्त्यं । स्वप्नासत्त्यता हि सत्त्यतान्वयिनी । सत्त्यप्रत्ययस्य च निमित्तमिति स
तथाभूतोऽन्तराभव इति वक्ष्यामः । अथवा(।)

सकलः प्रत्ययः स्वप्नान्न विशेषतया स्थितः ।

यदि पश्चाद् वदिष्यामः प्रस्तावोस्य स एव हि ।। ४६२ ।।

नहि स्वप्नप्रत्ययस्यापरस्य च कश्चिद् विशेष इति वक्ष्यते । ततः स्वप्नशरीरवदेव
परलोकशरीरेपि सञ्चार इति सिद्धमतोन्यत आगतस्य यदि नाम वासनाबलविशेषतः सप्रति-074 घेतरत्वादिविशेषः । सन्तानहानिस्तु न दृष्टैव ततोनुपरतसन्तानतैव प्राणिनामिति सिद्धः
परलोकः(।) मरणादयस्तु स्थित्यावेधकस्य वासनालक्षणस्य चित्रत्वान्नानिवृत्तिप्रसङ्गश्िचत्ते
तिष्ठति चेतसस्तादृशस्य चित्तस्यैवाभावात्

चार्व्वाकस्यापि तर्हि परिहारोस्त्येव तादृशस्य देहस्याभावात् । अत आह ।

न दोषैर्विगुणो देहो हेतुर्व्वर्त्यादिवद् यदि ।
मृते समीकृते दोषे पुनरुज्जीवनं भवेत् ।।(५५)

दोषैर्हि वातपित्तादिभिर्व्विगुणो देहस्तादृशो त भवत्येव यादृशादुत्पत्तिमच्चित्तं ।
ततस्तादृशस्य देहस्याभावादनिवृत्तिप्रसङगः ।

नैतदस्ति । यद्येवं स्यात् । मृतस्य सतः समीभवन्ति दोषास्तत आरोग्यलाभाद्
देहस्य पुनरुज्जीवनं भवेत् । तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यय इति वचनात् ।

अथ समीकरणं दोषाणां कुतो ज्ञायते । ज्वरादिविकारदर्शनात्(।) अविकारकारिणो
हि दोषा न मरणमादधति । सर्व्वदा मरणप्रसङ्गात् । अन्यथा न देहः कारणं भवेत् तस्य
चेतसस्तद्विकारभावाभावाननुविधानात् । एवं हि देहकारणता विज्ञायते यदि पुनरुज्जी
वनं भवेत् ।

चित्तकारणतायां हि चेतसो न निवर्त्तनं । चेतसो विगुणत्वे हि गृहेप्यपुनरागतिः ।। ४६३ ।।
देहकारणतायान्तु वैगुण्ये विनिवर्त्तते । देहस्तादृश एवासावहेतुश्चेतसः कथं ।। ४६४ ।।

देहस्य हि कारणत्वे देह एव तथाभूतो भवति कारणमन्यदा नेति न युक्तं तादृश
एव वैगुण्ये म्रियते कश्चिदपरो नेति कथमयं विभागः (।) चित्तकारणत्वे पुनश्चित्तवैगु
ण्यावैगुण्ये मरणेतरत्वकारणमिति विभागो नानुपपन्नः ।

दोषस्योपशमेप्यस्ति मरणं कस्यचित् पुनः । जीवनं दोषदुष्टत्वेप्येतन्न स्याद् व्यवस्थितं ।। ४६५ ।।

न खल्वसमञ्चसवृत्ति कार्यम्भवति । तेन न देहकार्यं विज्ञानं देहकार्यत्वे पुनरुज्जी
वनप्रसङ्गात् ।

ननु वैगुण्यकारिणि निवृत्तेपि न तत्कृतस्य वैगुण्यस्यावश्यं निवृत्तिः । न खल्वग्नि
निवृत्तावपि काष्ठेग्निकृतो विकारः क्वचिन्निवृत्तो दृष्टः । अतः (।)

निवृत्तेप्यनले काष्ठविकाराविनिवृत्तिवत् ।
तस्यानिवृत्तिरिति चेत् न चिकित्साप्रयोगतः ।।(५६)

यथा दहननिवृत्तावपि न काष्ठविकारनिवृत्तिस्तथा दोषकृतोपि मरणविकारो न
निवर्त्तिष्यते । ततो न पुनरुज्जीवनप्रसङ्गः । तदाह । चिकित्साप्रवर्तनात् । निवर्त्य
विकारत्वे हि दोषाणां तन्निवर्तनाय चिकित्सा साफल्यमासादयेत् ।

ननु दोषकृतो विकारः । स्वल्पोपि निवर्त्यते एव मरणविकारात् प्राक् मरणविकारन्तु
न निवर्त्तिष्यते । ततो दोषानिवर्त्यानिवर्त्यविकारा इति नायं दोषः ।

नेदमुत्तरं यतः ।

अपुनर्भावतः किञ्चिद्विकारजननं क्वचित् ।
किञ्चिद्विपर्ययादग्निर्यथा काष्ठसुवर्ण्णयोः ।। ५७ ।।
075
आद्यस्यान्योप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः ।
विकारः स्यात्पुनर्भावस्तस्य हेम्नि खरत्ववत् ।। ५८ ।।

अस्यायमर्थः । क्वचित्किञ्चिदपुनर्भावविकारारम्भकमेव यथा वह्निः काष्ठे ।
किञ्चिद्विपर्ययादेव यथा स एव सुवर्ण्णो न पुनरेकमेकत्रैव तथा चाविकारकारि । अत्रा
न्यस्य विकारकारिणो विकार्यस्य वायोर्विकारः । सोन्योप्यसंहार्यः । श्यामतामात्रमपि
काष्ठेऽग्निकृतमसंहार्यमभिद्रवतापि तु सुवर्ण्णेग्निनिवृत्तौ पुनरन्यथा भवति । ततोल्प
विकारस्य दोषकृतस्य निवृर्त्यत्वान्महतोपि मरणलक्षणस्य निवृत्तिरिति प्राप्तं । ततः पुनरु
ज्जीवनप्रसङ्गः । तथा हि निद्राकृतोपि चेतनाविरतिलक्षणो विकारो निद्राभावे निवर्तते ।
अथ तत्र नास्त्येव निवृत्तिरित्युच्यते । तत्प्रत्युच्यते ।

असम्वेदनरूपं हि न सम्वेदनमिष्यते । तथापि यदि तद्भावो मृतस्याप्यस्तु वेदनं ।। ४६६ ।।
नहि सम्वेदनाभावे विशेषो मृतसुप्तयोः । आश्वासादि पुनः सर्व्वं यथा तदपि चिन्तितं ।। ४६७ ।।

सम्वेदनाभाव एव सुप्तमृतयोर्नापरो विशेषः । ततः सुप्तस्य प्रबोध इव मृतस्यापि
प्रहारौषधप्रयोगादिनोज्जीवनं प्रसक्तं ।

अथ प्रसुप्तस्य सम्वेदनाभाव एव नास्ति मृतस्य तु स इति विशेषः । न (।) असम्वेदन
स्योभयत्र समानत्वाद् (।) अथासम्वेदनेपि शक्तिरूपेण तदास्त इत्युच्यते । केयं शक्तिरिति
निर्दिश्यतां । यदि सम्वेदनमेव शक्तिस्तथा सम्वेदनमेवास्ति कथमसम्वेदनं । तच्चास्ति
तच्च नास्तीति विरुद्धं । अथ सम्वेदनादन्या शक्तिः सा तर्हि शरीरमेव ततः शरीरे तिष्ठति
चैतन्यजनके शक्तिसद्भावादनिवृत्तिरेव तस्य । अथ जनकस्य शरीरस्य विनाशः परस्य
चाजनकस्योत्पत्तिरिति न चैतन्यं । किमिदमजनकत्वं । (।) सम्वेदनरहित्वमिति चेत् ।
सुप्तस्यापि तदस्तीति । सुप्तस्यापि सम्वेदनं न भवेत् प्रबोधावस्थायां । अथ तत्राश्वासा
दयः सन्ति ततो नाजनकत्वं देहस्य (।) तदैव तर्हि सुप्तावस्थायामुत्पत्तिरित्यसुप्त एव
भवेत् ।

अथ निद्रापरिणतिसहायादाश्वासादेश्चैतन्यमुत्पद्यते । केयं निद्रा नाम (।) सम्वेद
नाभाव इति चेत् । मृतस्यापि सोस्तीति पुनः सम्वेदनं स्यात्तत्परिणामे । अथाश्वासाभा
वात्सहकारिवैकल्यात्केवलाद्देहादनुत्पत्तिरिति वदेत् । मूर्च्छादिविकारेपि नाश्वासादय इति
न संवेदनं भवेत् । तस्मादाश्वासादेर्न सम्वेदनकारणत्वं न चाश्वासादीनां कारणत्वमिति
निवेदितं प्राक् । किञ्च ।

निद्राव्यपगमे पूर्व्वज्ञानसंस्कारतो धियः । तथा विधाः संभवन्ति ततो देहो न कारणं ।। ४६८ ।।

समाने हि शरीरसम्भवे पूर्व्वसंस्कारानुरूपा एव बुद्धयो दृश्यन्ते । ततो न देहः
कारणमाश्वासादयो वा ।

अथ संस्कारसहायाद्देहादुत्पत्तिरित्युच्यते तदसत्

संस्कारः सहकारी स्यात्तदाऽसन्निति दुर्घटं ।। ४६९ ।।

न ह्यविद्यमानो विद्यमानस्य सहकारी । न च प्रबोधावस्थायां देहस्येव चेतसोपि
पूर्व्वकस्य विद्यमानता । न चाविद्यमानः सहकारी सहकरणाभावात् । नहि 076 विद्यमानेतरयोः सहभावः । तस्मात्पूर्व्वकमेव चेतस्तत्र कारणं न देहः । कथन्तर्हि प्रहारादयः
प्रबोधकाः (।) नेदमुत्तरं319 (।)

नावश्यं जातबोधत्बं प्रहारादेव जायत्ते । प्रहारमन्तरेणापि प्रबोध उपलभ्यते ।। ४७० ।।

नहि प्रहारादेरेव बोधः स्वयमपि प्रबोधात् । ननु प्रबोधानन्तरं दृष्टपदार्थसम्बन्धेन
विकल्प उत्पद्यते । ततो दर्शनपूर्व्वविज्ञानयोः कथं सहकारित्वं । नैतदपि साधु । यतः(।)

नात्रापि नियमो दृष्टः प्रत्यासत्तिप्रबोधने । तात्पर्येण यदाक्षिप्य प्रसुप्तस्तत्र बोधतः ।। ४७१ ।।

यदेव तात्पर्येणाक्षिप्य प्रसुप्तस्तदनुरूप एव वासनाप्रबोधोस्य भवति । न तु प्रबोधे
सति यदुपलभ्यते तत्सम्बन्धेन प्रत्यासन्न एव प्रबोधो दृश्यते । यश्च यथाभ्यासवाँस्तस्य
तथाभूत एव प्रबोधो नान्यत्र । प्रबोधश्चान्तरस्पर्शविज्ञानादिकमेव । यथा च यस्याभ्यासस्त
दनुरूपमेव कार्य320 सुखसंवेदनं । तथाहि ।

भयधैर्यादिसंस्कारा द्रवशस्त्रग्रहादयः । प्रबोधरूपा जायन्ते प्राणिनां सुखसम्विदः ।। ४७२ ।।

भयभावनाभवननिवेशिनां पलायनसुखादिसम्वेदनरूप एव प्रबोधोन्यथा तु दुःखा
सिका । रौद्रात्मनान्तु परोपद्रवाभिरतीनां परापकरणकारिणां (श) स्त्रादि321 ग्रहणरूपसुखादि
सम्वेदनरूपः । ततो न देह आश्वा(सा)दयो वा विज्ञानकारणं । पूर्व्वकमेव विज्ञानं
कारणन्तच्च यदि देहादुत्पन्नं तदा अनिवृत्तिप्रसङ्गात्तु स एव दोषः । तथा पूर्व्वविज्ञानान्व
यिता न स्यादेव । अथ दोषविगुणत्वादकारणं । वैगुण्याभावे पुनः कारणम्भवेत् ।
अपुनर्भाविविकारारम्भकत्वे स्वल्पोपि तत्कृतो विकारो न निवृर्त्यः/?/ स्याद्दौर्व्बल्यादिकः ।
मन्दविज्ञान322प्रवर्त्तनलक्षणश्च मूर्च्छादिविच्छेदलक्षणो वा । अपुनर्भाविविकारारम्भकस्य
स्वल्पोप्यनिवर्त्यः । प्रत्यानेयस्तु यत्कृतेः (।) विकारः स पुनर्भावस्तस्य हेम्नि खरत्ववत् ।
हेम्नो हि खरत्वं गतमपि विकारहेत्वपगमे पुनः प्रत्यागच्छति । तथा महानपि विज्ञानविच्छेद
विकारो मरणलक्षणो निवर्त्यंत इति पुनरुज्जीवेत ।

ननु चिकित्साप्रयोगात् प्रत्यानेयत्वविकारमसाध्यव्याधिमावाच्चाप्रत्यानेयविकारत्वं
चेत्युभयथाभावाददोषः (।) परिहारमाह ।

दुर्लभत्वात्समाधातुरसाध्यं किञ्चिदीरितं ।
आयुःक्षयाद्वा दोषे तु केवले नास्त्यसाध्यता ।। ५६ ।।

सुसाध्यता हि दोषकृतविकारनिवर्तनं समर्थस्यौषधस्य वैद्यस्य चाऽभावादसाध्यं कथितं
किञ्चिन्न तु महाभूतोद्भवचैतन्यवादिमतेस्तीति दुर्लभत्वादेव समाधातुरपुनरुज्जीवनं ।

दुर्लभत्वं समाधातुर्विकारस्यानिवर्त्तने । पुनरुज्जीवनाहेतुर्निवृत्तौ व्यर्थता पुनः ।। ४७३ ।।

तस्माद्विकारविनिवृत्तौ भवेदेव पुनरुज्जीवनप्रसङ्गः ।

ननु परस्याप्यसाध्यत्वमस्त्येव । अत्रोत्तरं । मम त्वसाध्यं युक्तं तदाह । आयुः
क्षयादसाध्यता ब्याधेस्तथाहि । तथाभूतेनैव व्याधिना कश्चिन्िम्रयतेऽपरो नेति दृश्यते ।


077

उपलक्षणमायुः । कर्म्मक्षयाद्वा । कर्म्मजो हि व्याधिः श्वित्रादिरसाध्यो भवति । कर्म्मण
स्तादृशस्य भावात् । तस्मात् कर्म्माधिपत्यमेव परिहारहेतुरित्याह । केवले तु दोषविकार
कारिणि नास्ति व्याधेरसाध्यता । तस्मात् (।)

मृते विषादिसंहारात् तद्दंशच्छेदतोपि वा ।
विकारहेतोर्विगमे स नोच्छ्रवसिति किं पुनः ।। ६० ।।

मृतस्य हि यदा विषादिसंहारो मन्त्रादिना । स्वयमेव च दंशदेशोपसंहारात्तदङ्ग
च्छेदतः । विकारहेतोश्च विगमो ज्वरादेर्यंदा भवति तदोज्जीवनप्रसङ्ग इति स्थितमेतत् ।

अपि च । नानुपादानकारणनिवृत्तौ निवृत्तिः । न च देह उपादानकारणं (।) यदि
च स्यात् तदविकारेण न विक्रियेत । यतः (।)

उपादानाविकारेण नोपादेयस्य विकिया ।
कर्त्तुं/?/ शक्या विकारेण मृदः कुण्डादिनो यथा ।। ६१ ।।

उपादानस्य हि देहस्याविकारेणोपादेयस्य विज्ञानस्य विक्रिया न शक्या स्यात् ।
मृदो विकारमन्तरेण न कुण्डादेर्विकार उपलब्धः । एष एवोपादानस्य धर्मो यस्तद्विकारेणैव
विकारः । बहुष्वपि कारणेषु किञ्चिदेव कस्यचिदुपादानं न कारणमात्रकं । देहस्य च
कारणत्वेपि न तद्विकारेणैव विकारस्तदविकारेपि भयशोकादिना चित्तस्य पूर्व्वकस्य विकार
मात्रेण विकारस्तद्विकारे चावश्यं विकारात् ।

ननूदकविकारेपि भवति विकारोऽङ्कुरस्य न च तदुपादानं । न सन्तानकारणस्यो
पादानकारणत्वात् । वीजञ्च सन्तानकारणं नोदकमुदकस्यावस्थाविशेषकारणत्वात् ।
नोदकात्सन्तानसम्भवः । उदकस्य यवादिसाधारणत्वात् । न चोदकनिवृत्तौ शालि 323
सन्ताननिवृत्तिः । उदकाभावेपि शालिसन्तानस्याव्यावृत्तेः । अङ्कुराद्यवस्था तु तस्योदका
त्तस्याश्च तन्निवृत्तौ निवृत्तिरतोऽस्या उपादानकारणमेव उदकं उदकादेश्च शालिबीजविकार
द्वारेणैवोत्तरोत्तराङ्कुरादिविकारः । तस्माद् देहाविकारेपि विक्रियमाणत्वाद्विज्ञानस्य
नोपादानकारणमस्य देहः । तदेवाह ।

अविकृत्य हि यद्वस्तु यः पदार्थो विकार्यते ।
उपादानं न तत्तस्य युक्तं गोगवयादिवत् ।। ६२ ।।

अविकृत्य च देहम्विक्रियते विज्ञानमिति न देह उपादानमस्य ततो न देहनिवृत्तावस्य
निवृत्तिः । गोगवयादिवदेव तद्‌विकारेण विकारात् । भवतु गोर्गवयः कथञ्चिदवस्था
विशेषस्य कारणन्तन्निवृत्तौ च स एवावस्थाविशेषो मा भूत्पुनः सन्तानस्य निवृत्तिः । भवतु
गोगवयोरनुपादानोपादेयभावेनानिवर्त्यनिवर्तकत्वं कायचेतसोः किमायातं । न ह्यन्यस्य
गुणदोषेणान्यगुणदोषोऽनुपादानत्वे सहावस्थानं च न स्यान्नियमेन शाल्यादिसन्तानोदकवत् ।
अत्रोच्यते ।

078
चेतः शरीरयोरेघं तद्भेतोः कार्यजन्मनः ।
सहकारात्सहस्थानमग्निताम्र/?/द्रवत्ववत् ।। ६३ ।।

न ह्यन्यतात्र प्रसिद्धा यतश्चेतःशरीरयोरप्येवमनुपादानोपादेप्यभावो गोगवययोरिव
कथञ्चिदुपकारित्वमात्रं । नावश्यं शरीरविकारेणैव विकारश्चेतसः । ततोनुपादानकारणत्वा
त्कार्यस्य324 न निवृत्तावपि चेतसो निवृत्तिः ।

अवस्थाकारणं वस्तु नैवोपादानकारणं । अवस्थाकृन्निवृत्तौ हि सैवावस्था निवर्ततां ।। ४७४ ।।
सन्तानकारणं यत्तु तदुपादानकारणं । तन्निवृत्तौ भवेदस्य सन्तानस्य निवर्तनं ।। ४७५ ।।
अग्नेर्निवृत्तौ ताम्रस्य द्रवतैव निवर्तते । चेतसः सह कायेन तावत्कालमवस्थितिः ।। ४७६ ।।
अन्योन्यसहकारित्वादग्निताम्रद्रवत्ववत् । तयोर्हेत्वोर्न कार्यन्तु चित्तन्तिष्ठति हेमवत् ।। ४७७ ।।

यथैवाग्निसहकारिणः सुवर्ण्णंस्य325 द्रवतोपादानत्वन्ततोग्निताम्रद्रत्वयोः सहावस्थानं
तथा चित्तमपि शरीरनियतं शरीरसहकारिचित्तादुपजायते । शरीरहेतोरपि कललादेः शरीरं
चित्तसहकारिण एव भवति । ततः सहस्थानं कर्यजन्मनः । एतदुक्तं भवति ।

अन्योन्यसहकारित्वादेकसामग्रयसम्भवे326 । सहकार्यद्वयस्यापि स्थानं नानुपपत्तिमत् ।। ४७८ ।।

शरीरहेतोः कललादिसंज्ञितस्य चित्तसहकारित्वाच्चित्तस्यापि देहसहकारित्वेन सह
स्थानं कार्यजन्मनः कायचेतोलक्षणस्य वह्निताम्रद्रवत्ववत् । निवृत्ते तु शरीरे शरीरान्तर
विशिष्टमशरीरम्वा चित्तमिति न तस्य निवृत्तिः । सुवर्ण्णसन्तानवत् ।

अथापि स्यात् । यथोदकादेर्व्रीहिसन्तानस्य विशेषः स नोद327कनिवृत्तौ निवर्त्तते ।
अग्न्यादेरुपहतोपादानस्य सन्तानस्यैव निवृत्तिः । तथा चेतस उपादानस्य केनचिदुपहतस्य न
सन्तानकारणत्वमिति न सन्तानस्य निवृत्तिः स्यादिति । यथा च शालूकस्य विजातीयाद्
गोमयादुत्पत्तिस्तथा शरीरादेव प्रथममुत्पत्तिः । अत्रोच्यते ।।

ब्रीह्यादीनामुपादानमग्न्यादेरुपघातवत् । उपादानन्तु विज्ञानं केनचिन्नोपहन्यते ।। ४७९ ।।
शरीरात्प्रथमोत्पत्तिर्न विज्ञानस्य दृश्यते । उपादानोपघातेन विना न च निवर्तनं ।। ४८० ।।

नाग्न्यादेरिव ब्रीहिसन्तानोपादानस्योपघतो विज्ञानोपादानस्य । विज्ञानमेव विज्ञा
स्योपादानं । न च तस्य दाहादयः सम्भवन्ति ।। मिद्धादेरुपघात इति चेत् । न(।) मिद्धा
देस्तावत्कालिकोपघातहेतुत्वात् ।।

पूर्व्वंसंस्कारसापेक्षं ज्ञानं व्यवहितादपि । विज्ञानाज्जायते तस्य न विच्छेदोस्ति मिद्धतः ।। ४८१ ।।

न खलु मिद्धमुपादानं विज्ञानस्योपहन्तुं समर्थं (।)

विच्छिन्नादपि विज्ञानादुत्पादस्योपलब्धितः । विच्छेदे मरणे मिद्धे न विशेषव्यवस्थितिः ।। ४८२ ।।

अथ कदाचिद्विच्छेद एव भवेत्तदसत् ।।

उपलब्धो न विच्छेदः प्रबोधेन विना कुतः । स्वयं परेण वा तस्य कुतः कल्पनमीदृशं ।। ४८३ ।।

079

न तावत्स्वयमुपलभ्यते विच्छेदो ज्ञानस्यानस्य हि विच्छेदो ज्ञानेनोपलभ्यते । ज्ञानस्य तु
विच्छेदो न केनचित् । ज्ञानाभावेनेति चेत । ज्ञनाभावोऽसिद्धः कथमभावं साधयेत् ।
सिद्धश्चेत्सैव सिद्धिर्ज्ञानमिति कथं ज्ञानस्य विच्छेदः ।।

सर्वदापि हि विच्छेदोऽज्ञायमानः सदा भवेत् । अभावः परलोकस्य स एवेति दुरुत्तरं ।। ४८४ ।।

तदप्यसत् ।

पूर्व्वसंस्कारसापेक्षप्रबोधस्योपलब्धितः । सविज्ञानस्य विच्छेदः केवलो नोपलभ्यते ।। ४८५ ।।

जन्मादौ प्रबोधे च विज्ञानं पूर्व्वंसंस्कारानुगतमेवोपलब्धमिति न पूर्व्वापरयोः
कोट्योर्विच्छेदोपलब्धिः । परेण तु परस्य विज्ञानविच्छेदो नोपलभ्यत एव । उपलब्धिलक्षण
प्राप्त्यभावात् । न च वीतरागतया शैथिल्यसम्भवे विच्छेदः ।

स्वार्थे निस्पृहता नाम विरागस्येति संमतं । परार्थनिःस्पहस्त्वस्ति निर्दोषोपि न सङगतः ।। ४८६ ।।

न खलु परार्थनिस्पृहतया निर्दोषता लभ्यते । स एव हि तस्य दोषो यदकृपत्वं
नाम । अथवा वीतरागतायाँ328 विच्छेद इष्यते एव कैश्चिदिति न दोषः । तस्मान्न दानोपघा
तेन विज्ञानस्य निवृत्तिः । शरीरस्यानुपादानात् । चित्तस्योपहन्तुमशक्यत्वात् ।

स्यादेतद् (।) यदि नामोपादाननिवृत्त्या न निवृत्तिर्विज्ञानस्याश्रयनिवृत्या
निवृत्तिरनिवारितैव । देहस्य चाश्रयत्वं प्रतीयते ततः कुड्यादिनिवृत्ताविव चित्तस्य निवृत्ति
रिति न परलोकसिद्धिः ।

तदप्यसन्न सञ्चारश्चित्रादेरुपलभ्यते । तत आधारनाशे स्यान्नाशश्चित्रादिवस्तुनः ।। ४८७ ।।

चित्रादयोहि पटादिषु329 नाधारान्तरादागता इति प्रतीयन्ते । विज्ञानन्तु जन्मादौ प्रबो
धावस्थायां च जन्मान्तरशरीरसहचारिसंस्कारानुगतं स्वप्नान्तिकशरीरसञ्चारा330 नुगतञ्चेति
न चित्रवत् प्रतिनियताधारं । प्रतिनियताधारत्वे हि तदाधारविनाशे विनाशः । अपि
चाश्रयत्वमपि नास्त्येव देहस्यान्यस्य वा क्वचिदिति कथं तद्विनाशे विनाशः (।)

चित्रादयस्तु कुड्याद्यव्यतिरिक्ता एव । ततः स्वविनाशेनैव विनश्यन्ति नाधार
विनाशात् ।

मा भूदव्यतिरेके आश्रयाश्रयिभावो व्यतिरेके कायचेतसोर्भविष्यतीति चेत् ।
नैतदस्ति ।

अनाश्रयात्सदसतोर्नाश्रय(ः) स्थितिकारणं ।
सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः ।। ६४ ।।
व्यतिरेकेपि तद्धेत्तुस्तेन भावस्य किं कृतं ।।

असतस्तावदाश्रयो नास्ति (।) नहि खरविषाणस्य कश्चिदाश्रयः केवलमसत्‌कारणादुत्पत्ति
मीहते । ततोऽसतः कारणमेव सम्भवति नाश्रयः । ततोपि नाश्रयः सतः सर्व्वनिराशं
सत्त्वात् । सतोपि स्थितिकारणादाश्रय इत्यपि न सङगतं । स्थितेः स्थातुरव्यतिरेकात् ।
स्थितिकरणे स एव कृतः स्यात् । न च सत उत्पादनं । उत्पन्नस्य पुनरुत्पादायोगात् । 080 अथोत्पन्नस्यापि किञ्चिदनुत्पन्नमस्ति तत्करणादाश्रयः । सर्व्वात्मनोत्पादे कारणमुच्यते ।
कस्यचिद्धर्म्मस्योत्पादे आधारादिः । न च स्थितिरव्यतिरिक्ता स्वरूपात्पततोपि स्थित्यभावे
स्वरूपसद्भावात् । यदि तु पुनरव्यतिरिक्ता स्थितिः स्यात् । स्थितेरव्यतिरिक्तः स स्यात् ।
सर्व्वदा स्थितिर्भवेत् । स्वरूपे सति निवर्तमानविरुद्धधर्म्माध्यासाद् व्यतिरिक्ता भवेदिति युक्तं ।

तदसत् । व्यतिरेके सति तद्धेतुरेवासौ स्थितिहेतुरेवासौ नाधारः । भावस्याधार
इति चेन् न भावेऽकिञ्चित्करत्वात् । भावस्य स्थितिकरणादाधार इति चेत् । किमसौ
स्थितिरुत्पन्ना सती स्थाप्यस्य भवत्यथान्यथा । उत्पत्तेः प्राग्न भावस्याभावादेव । तत उत्पन्ना
न्यस्माद् व्यतिरिक्ता कथं भावस्य तादात्म्यतदुत्पत्तिसम्बन्धाभावात् तत्समवेतोत्पद्यत
इति चेत् । तत्समवेतेति कोर्थः । तत्र स्थितेरिति स्थितेरप्यपरास्थितिरित्यनवस्था ।
व्यतिरिक्ता सती व्यतिरिक्तत्वेन कस्मान्न प्रतीयते । समवायसम्बन्धादिति चेत् । भवतु
समवायस्तथापि यस्य यद्रूपन्तेनैव तत्प्रतीयतां । कथमन्यथा प्रतीतिः । संसर्ग्गाच्चेत् ।
कोयं संसर्ग्गो नाम । यदि सर्व्वात्मना संसर्ग्गो न व्यतिरेकः । अथैकदेशेन संसर्ग्गः संयोग
समवाययोः को विशेषः । युतायुतसिद्धित्वमिति चेत् । वृक्षाद्यवयवानामपि समवायप्रसङ्गः ।
इह बुद्धिनिबन्धनत्वे सतीति चेत् । न (।) संयोग एव प्रसङ्गात् । मस्तके शृङ्गमिति
प्रतीतेः । अथ स्वसमवाय्यवयवसमवेतत्वमयुतसिद्धिर्विपर्ययाद्युतसिद्धिः । तथापि भेद
प्रतीत्या न समवायः । न च निरवयवस्य वस्तुनोऽवयवेन संसर्ग्गः । अवयवेन संसर्ग्गे भेद
प्रतीतिप्रसङ्गः । अन्वितानन्वितत्त्वेन भेद इति न साम्प्रतं । प्रत्यक्षेणान्वयस्याप्रतीतेः ।
प्रत्क्षाभावे च नानुमानमिति नान्वयप्रतीतिः । तस्मात्सहकारिकारणविशेषाद्विशिष्टं एव
पदार्थ उत्पद्यते । न स्थितिर्नामेति स्थितं । तथा च कार्यकारणभावविशेष एवाश्रयाश्रयि
भावः । न चोपादानकारणं देह इति तन्निवृत्तौ न निवृत्तिः । यदि चाश्रयो देहः स्थिति
करणात्तदाश्रयस्य स्थितिरस्ति न तस्य विनाश इति (।)

अविनाशप्रसङ्गः स नाशहेतोर्म्मतो यदि ।
तुल्यः प्रसङ्गस्तत्रापि किं पुनः स्थितिहेतुना ।। ६५ ।।

नहि स्थापके सति विनाशसम्भवः ।

(अहेतुकोविनाशः)—अथापि स्यान्न स्थापके सति नाशो यदि नाशहेतुर्न स्यान्नाशहेतुभा
वाद्विनाश इति न विनाशप्रसङ्ग इत्याह । नाशहेतोः स नाश इति चेत् । न (।) तुल्यस्तत्रापि
प्रसङ्गः । तत्रापि नाशे तुल्य एव प्रसङ्गो न नाशो नामान्य एव कश्चिद्भावात् ।

व्यतिरेके च तद्धेतुस्तेन भावस्य किं कृतं ।। ४८८ ।।

नहि व्यतिरिक्तनाशकरणे स नष्टो नाम । ततश्च न नाशहेतुः किञ्चित्करोति ।
ततोऽनाशात् स्वयमेवास्त इति किं स्थितिहेतुना । नाकिञ्चित्करः स्थितिहेतुः । अथवा
यदि नाशहेतोर्नाशः । यावन्नास्ति नाशहेतुस्तावत्स्वयमेवास्त इति किं स्थितिहेतुना ।

अनाशकागमात्स्थानं ततश्चेद्वस्तुधर्मता ।
नाशस्य ; सत्यबाधो साविति किं स्थितिहेतुना ।। ६६ ।।

स्थापकमन्तरेण नाशो नाशकमन्तरेणापि स्यात् । स्थापके तु नाशके सति नश्यति ।
न नाशहेतुम्विना । ततः स्थितिकरणान् नाशकात्प्राक् स्थापक इति न व्यर्थता । नन्वेव-

081

महेतुको विंनाशः प्रसक्त इति स्वहेतोरेव तथाभूतो भाव इति वस्तुधर्म्मता नाशस्य । सति
विद्यमाने पदार्थेऽबाधोऽसौ । न केनचिद्वस्तुस्वभावोन्यथा कर्त्तव्य इति किं स्थितिहेतुना ।

अथ स्थितिहेतुमन्तरेण विनश्यति । स्थितिहेतौ च सति विनाशप्रतिबन्धः । ननु
सोपि विनाशप्रतिबन्धोन्य एव विनाशात् । ततश्च न विनाशस्य किञ्चिदिति विनश्येदेव
कथं स्थितिः । अथ प्रतिक्षणं विनश्वरः स्थापकादन्यथा भवति । तस्यापि विनाशोऽहेतुक
इति स एव प्रतिक्षणविनाशः । स चान्यथा स्थापकादुत्पन्न इति कारणमेवासाविति न
स्थापकः । अथवा यदि स्थापकात्स्थानमानाशकागमादनाशः । एवं सत्यनाश उत्पन्न इति ।
अबाधोसाविति किं पुन(:)स्थितिहेतुना । अथ स्थापकसत्ताकाल एवानाशस्तथा सति
प्रतिक्षणमपरापरो नाशः स्थापकात् । स्थापकस्य च किंकृतं स्थानं । स्वहेतुकृतं चेत्
स्थाप्यस्यापि तथा भविष्यतीति किं स्थापकेन । अथ कस्यचित्स्थापकात्स्थानं कस्यचित्स्वय
मेवेति विभागः । एवन्तर्हि विज्ञानस्यापि स्वयमेव स्थितिरिति किन्नेष्यते ।

अथापि स्याद् (।) दृश्यते जलाधारो331 भूप्रदेशः । न च दृष्टं विकल्पनं तेनापि बाध्यते । तेनानाश्रयात्सदसतोरिति व्यर्था वाचोयुक्तिर्दृष्टबाधनात् । अत्राप्याह ।

यथा जलादेराधार इति चेत्तुल्यमत्र च ।। ६७ ।।
प्रतिक्षणविनाशे हि भावानां भावसन्ततेः ।
तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ।। ६८ ।।
स्यादाधारो जलादीनाङ्गमनप्रतिबन्धतः ।
अगतीनां किमाधारैर्गुणसामान्यकर्म्मणां ।। ६६ ।।

जलादेरप्याधाराभावो भूतलादीनां सदसत्त्वपक्षयोर्युक्त एवेत्यदृष्टो दृष्टान्तः । ननु
दृष्टत्वादाधारभावस्य कथमदृष्टः । अदृष्ट एव दृष्टाभिमानो भवतः(।) क्रियां प्रति य
आधारो धारणात्कर्त्तृकर्म्मणोरिति न्यायः । धारणादाधारः । धारणञ्च पततः ।
यश्च पतति न तस्य धारणं । यस्य च धारणं न तस्य पतनोपलम्भः । पतनापतनयोः
परस्परविरोधात् । पूर्व्वं पतनं पश्चादपतनमिति चेत् । न तर्हि यस्य पतनं तस्य धारणं
प्रत्यक्षेणैकत्वाप्रतिपत्तेः । नैकोवस्थाता पतनेतरव्याप्युपलब्धः । अव्यापी च कथमवस्थाताऽ
द्याप्यवतिष्ठत इति हि ग्रहणेऽवस्थाता तथा गृहीतो भवति । क्रमेण व्यापी गृह्यत इति
चेत् । कः क्रमार्थ इति चिन्त्यं । भावाभावयोरेव क्रमव्यपदेशः । स च भिन्नकालयो
र्भावाभावौ च ग्राह्यस्य ग्राहकस्य वा ग्राह्यस्य भावाभावसङ्गमेनैकत्वं । ग्राहकस्य क्रमवत्त्वे ग्राह्य
स्यापि तदिति न ग्राह्यावस्थातुरेकता । ततः किञ्चिद् गृहीतातींतं किञ्चिद् गृह्यते किञ्चिद
नागतग्रहणमिति विकल्पगोचर एव क्रमः । कुतः प्रत्यक्षता क्रमस्य । येनोपलम्भादुच्यत आधाराधे
यभाव इति । ततश्च नाश्रयात्सदसतोरित्ययमेवार्थः । न दृश्यत एवाधाराधेयभाव इति
ततः कल्पनैवेयमाधाराधेयभावस्येति कथन्तर्हि तद्दर्शनमन्तरेणाधाराधेयकल्पनापि । न
भवितव्यमेव । तर्हि विपरीतकल्पनयेत्यायातं । किञ्चि(।)प्रतिक्षणविनाशिनां भावानाम
परापरदेशोत्पादवतामुपादानदेशोत्पत्तिराधारसमागमकृता । अतस्तथोत्पत्तेः स भूतला
दिराश्रयो हेतुत्वात् । हेतोरेव विशिष्टावस्थाया आधार उच्यते पूर्व्वापरयोरेकत्वमारोप्य ।

332 082

एकत्वारोपे हि सति नोत्पादं प्रतिपद्यते । पूर्व्वस्य कारणञ्चारोपयतीत्यनादिवासनासामर्थ्ये
मिथ्याविकल्पोऽतएव पूर्वपूर्व्ववासनाप्रवृत्तत्त्वादनादिसन्तानतया परलोकस्य प्रतिष्ठितिरितीष्ट
मापतितं । तथा हि ।

मानसी कल्पना सर्व्वा पूर्व्वहेतुसमुद्भवा । निरालम्बनभावेन मरीच्यान्तोयकल्पवत् ।। ४८९ ।।

पूर्व्वापरयोरेकत्वकल्पना नालम्बनभावान्वयिनी । एकत्वस्याभावात् । अनेकस्मादेव
वस्तुनो भविष्यति । तत्कार्यत्वस्यादृष्टेः । तदसत् । नहि मरीच्यान्तोयकल्पना तावन्मात्र
निबन्धना पूर्व्वजलदर्शनसंस्कारादुत्पत्तेः । न च पूर्व्वमप्येकत्वमुपलब्धमतो जन्मान्तरेपि
सैकत्वकल्पना जन्मान्तरैकत्वग्रहणपूर्व्विका सापि तथेत्यनादिकल्पना परस्परेत्यनादिप्राणि
संन्तानसिद्धिः । एवमात्मादिग्रहयोगिनी बुद्धिरनादिसन्ताना तथा भवन्ती परतोपि न
विच्छिद्यत इत्यनाद्यनन्तः संसारः । अपि च ।

स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्ग्गुणसामान्यकर्म्मणां ।।

जलादीनां हि गमनविबन्धहेतुराधातुराधार इति युक्तमगतीनान्तु निष्क्रियाणां गुण
सामान्यकर्म्मंणां किमाधारैः । चैतन्यञ्च सामान्यं गुणः कर्म्म वान्यथा । सर्व्वथा निष्क्रि
यमिति नाधारेणास्य प्रयोजनमतो नाधेयस्य चेतसो नाधारविनाशेन विनाशः । सहस्थानमात्र
कमेव तस्य । यथा च सहस्थानं तथा प्राक् प्रतिपादितं ।

ननु यथा गुणः समवेतो गतिमत्त्वाभावेपि तथा चेतसोपि समवेतत्वं । न च गुणस्य
समवेतस्य समवायिकारणमन्तरेण स्थानं(।)तद्विनाशे विनाश एवेति चेत् । न (।)गमनादिप्रति
बन्धमन्तरेणाधाराधेयभावो नाधाराधेयभावमन्तरेण समवायो यतो युतसिद्धानामाधार्या
धारभूतानामिह बुद्धिनिबन्धनः समवाय इति बचनात् । एतदेवाह ।

एतेन समवायश्च समवायि च कारणं ।
व्यवस्थितत्वं जात्यादेर्न्निरस्तमनपाश्रयात् ।। ७० ।।

समवेतत्वेपि जातेर्नाधारभूतव्यक्तिमन्तरेणाभावः । नित्यत्वाज्जातेर्नाधाराभावेऽभाव
इति चेत् । चेतसोपि कारणान्तरप्रतिबद्धत्वादिति समानं । न चाधाराधेयभाव इति ।
एतेनैवाधाराधेयभावप्रतिक्षेपेण प्रतिक्षेपात् समवायः प्रतिक्षिप्तः समवायि कारणञ्च
प्रतिक्षिप्तं । यदि कारणन्तत् नाधाराधेयभावः । अथ न कारणन्तदा समवायिकारणता
नास्ति । व्यवस्थितत्वञ्च जात्यादेः कारणत्वमन्तरेणापि यद्युच्यते । तदपि प्रतिक्षिप्तं ।

अथवा समवेतत्वेपि व्यवस्थित्वं तत्रैव व्यवस्थितत्वं प्रतिक्षिप्तं । नहि जातिर्व्यक्ति
समाश्रितत्वेपि तत्रैव व्यवस्थिता व्यक्त्यन्तरेप्यनुगतत्वात् । एवमाश्रितत्वेपि चैतन्यं
शरीराभावेपि शरीरान्तरानुगतं भविष्यतीति न परलोकासिद्धिः । एकशरीराभावेपि तथाभूत
बुद्ध्युपादानो न विरुध्यते । व्यक्त्यन्तरेप्यन्वयि बुद्धिवत् । तस्मान्न कार्यकारणभावमन्तरेण
कश्चिदाश्रयाश्रयिभावः ।

परतो भावनाशश्चेत् तस्य किं स्थितिहेतुना ।
स विनश्येद्विनाप्यन्यैर्न्न शक्ताः स्थितिहेतवः ।। ७१ ।।
स्थितिमान्साश्रयः सर्व्यः सर्व्वोत्पत्तौ च साश्रयः ।
तस्मात्सर्व्वस्य भावस्य न विनाशः कदाचन ।। ७२ ।।
083
स्वयं विनश्र्वरात्मा चेत्तस्य कः स्थापकः परः ।
स्वयं न नश्र्वरात्मा चेत्तस्य कः स्थापकः परः ।। ७३ ।।

—इति सङ्ग्रहश्लोकाः ।

ननु दीपप्रभयोराधाराधेयतामन्तरेणापि दृष्ट आश्रयाश्रयिभावः । नहि प्रभायाः
पतनधर्म्मता । अस्ति च दीपस्याश्रयभावस्तन्निवृत्तौ च प्रभाया निवृत्तिः । न चासौ प्रभा
प्रदीपान्तरं संङ्क्रामति तदन्यद्वा । तद्यथा । प्रदीपप्रभा प्रदीपत्रिनाशे विनश्यति देशान्त
रगतापि एवं शरीराश्रितं विज्ञानं शरीरनिवृत्तौ निवर्तिष्यते विषयगतमपि । न च
विषयगतिरपि परमार्थतस्तदाकारतामात्रमेव तत्र मनोविज्ञाने दृश्यते ।

अत्रोच्यते ।

तद्विकारविकारित्वादाश्रयांश्रयिभावो दीपप्रभयोर्नैवं शरीरचेतसोरपि तु बुद्धिप्रज्ञादीनां ।

तथाहि ।

वुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि ।
प्रज्ञादेर्भवतो देहनिर्ह्रासातिशयौ विना ।। ७४ ।।
इदं दीपप्रभादीनामाश्रितानां न विद्यते ।
स्यात्ततोपि विशेषोस्य न चित्तेनुपकारिणि ।। ७५ ।।

बुद्धेर्विशिष्टसंस्कारवशाद्विशिष्यमाणाः प्रज्ञादयो बोधविशेषा विवर्त्तन्ते । देहसंस्कार
विशेषमन्तरेणापि ततो बुद्धिरेव पूर्विका बुद्धेराश्रयो न देहः । ततो न दीपप्रभादृष्टान्तः ।

ननु च दीपप्रभापि सर्प्पादिभिर्व्विकृता क्रियत एव । न प्रदीपस्यैव स विकारो
मन्दच्छायालक्षणः । तेन दूरदेशवर्त्तिनी दीपप्रभान्यथा भवति । न तु शरीरविकारो
बुद्धिव्यापारभेदसमये । ननु देहविशेषादपि विशेषो दृश्यत एव । ततो देहस्योपादानभाव
आश्रयभावो वा (।)

तत्राह । चित्तोपकारद्वारेणैव तत्रापि देहस्य विकारविकारित्वं । यत्र च देहपुष्टौ
रसायनादेः प्रज्ञादेर्विशेषः । तत्र देहस्य सुखस्पर्शरूपस्योत्पत्तेरव्याकुले मनसि यथाभूत
संस्कारप्रबोधात्कस्यचित् क्वचित्प्रज्ञाविशेषः । अन्यथा सर्व्वस्य सर्वंत्र प्रज्ञासमानताप्रसङ्गः ।

यथा क्षुदुपघाते न व्याध्या व्याकुलतोदयः ।
तन्निवृत्तौ यथाभ्यस्तव्याख्यैवास्य प्रवर्तते ।। ४९० ।।
333
रसायनस्य साम्यात्त तृप्तेश्च न भवेदपि । यथाभ्यस्तानुसन्धानं सर्व्वव्याख्यादयोसत्वतः ।। ४९१ ।।
तेन जन्मान्तराभ्यस्तं येन शास्त्रं यदेव हि । प्रज्ञाप्रबोधस्तत्रैव शास्त्रे तस्येति निर्ण्णयः ।। ४९२ ।।
सर्व्वाभ्यासस्तु यस्यास्ति तस्य प्रज्ञाविशेषतः । अन्यथा सर्व्ववेदी स्याद्रसायनविधानतः ।। ४९३ ।।
अध्यक्षस्मरणे मुक्त्वा न बुद्धिरपरा क्वचित् । प्रज्ञामेधादिभेदोपि स्मृतेरेव प्रबोधतः ।। ४९४ ।।
यथाभूतस्मृतिः प्रज्ञा दौ(ः)प्रज्ञन्तद्विपर्ययः । मेधापि स्मृतिरेवैष तत्र भेदः प्रदर्श्यते ।। ४९५ ।।
अत्यन्तविस्मृतो योर्थः पूर्व्वसंस्कारमात्रतः । तथैवाभ्युद्यते येन स प्राज्ञ इति कीर्त्यते ।। ४९६ ।।
स्मरणानुगमेनैव येन संप्रतिपद्यते । स मेधावीति कथितः प्रज्ञानाभ्यासवर्ज़नात् ।। ४९७ ।।

तथा (।)

पृथक् पृथग् गृहीतानां मेधा प्रोक्ता तथा स्मृतिः ।

अन्योन्ययोजने तु स्यात् प्रज्ञा सैव विशेषतः ।। ४९८ ।।
084
न चानभ्यासतः काचिद्योजना नाम दृश्यते । तज्जातीयार्थतस्तेन प्रागभ्यासोनुमीयते ।। ४९९ ।।

ननु रागोपि बुद्धिविशेष एव । न बुद्धेरन्योन्यत्त्वे प्रज्ञादेरप्यन्यत्त्वप्रसङ्गः । रागा
दयश्च देहस्य पुष्ट्‌यादेजर्यान्ते । ततो बुद्धिरपि देहादिति प्राप्तमन्यथा तदनुविधानाभावः ।
नैतदस्ति ।

रागादिबृद्धिः पुष्ट्यादेः कदाचित्सुखदुःखजा ।
तयोस्तु धातुसाम्यादेरन्तरर्थस्य सन्निधेः ।। ७६ ।।

रागादिबुद्धिर्या पुष्ट्‌यादेः सा न सर्व्वंदापि तु कदाचिदेव यदाभ्यासजोऽयोनिशोमनस्कार
सम्मुखीभावः । यस्य तु पुनरशुभावासनासमागमस्तस्य स एव प्रत्युत रागस्तनूभवति ।
यापि रागादिबृद्धिः334 सुखदुःखजा सुखितायां वेदनायां रागोनुशेते दुःखितायां द्वेष इति ।
सुखितस्य स एव पूर्व्वकोऽयोनिशोमनस्कारप्रबोध इति । दुःखितायान्तु द्वेषः कथमिति चेत् ।
दुःखितस्य सकलमेवासह्यमतस्तत्परित्यागात्मको द्वेष एव । न चात्र नियमः । दुःखितेपि
मनसि प्रतिसंख्यानवतः स्वदुःखानुमानात् कृपैव । रागोपि भवत्येव तत्प्रतीकारहेतौ । तयोरेव
तर्हि सुखदुःखयोर्बुद्धिस्वभावयोर्यथा देहादुत्पत्ति335 र्बुद्धेरपि तथैवेति प्रकृतविरोधः । नैतदस्ति ।
अन्तरर्थस्य धातुसाम्यलक्षणस्य336 सन्निधेर्विषयद्वारेणैव सुखमुत्पद्यते नाश्रयद्वारेण । नाश्रयभूतो
देहः सुखदुःखे जनयति । अपितु विषयभूतः । विषयस्य च सुखादिहेतुत्वेन देह आश्रयस्तयोः ।
विषयस्य बाह्यस्यान्तरस्य च समानत्वात् । ततो बाह्यस्याप्याश्रयत्वप्रसङ्गो न चेष्यते ।
यथाहि आन्तरोपि धातुसाम्यादिरर्थंविशेषो नालम्ब्यते प्रियदर्शनादिना तदा तदाश्रयत्वमेव
सुखदुःखयोः । न च विषय आश्रयो न च तन्निवृत्या निवृत्तिः । यथान्तरविषये सुखम्भवति ।
तत्परित्यज्य बहिर्विषयसञ्चारवत् तथा शरीरान्तरेपि परलोकादौ ।

एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः ।
विकारयति धीरेवाभ्यन्तरर्थविशेषजा ।। ७७ ।।

तत्रापि रसायनादेरन्तरर्थसन्निधौ सुखादिबुद्धिरुत्पत्तिमिती । ततः स्मृतिभ्रंशादयः ।
न तु देहविकारो यः सन्निपातकृतः । तत आश्रयभूतात् यथाऽनालम्ब्यमानादपि चक्षुरादे
स्तद्विज्ञानमुपजायते । तद्विकारेण च विकारः । न तथा रसायनादिविकृतदेहादविज्ञाय
मानस्य कारणत्वे सर्व्वकारणत्वप्रसङ्गः । चक्षुरादीनां त्वन्वयव्यतिरेकाभ्यां तद्विकारविकाराच्चा
श्रयभावः । नैवं देहस्य । तदभावेपि बाह्यसन्निधानेपि सुखादिभावात् । स्मृतिभ्रङ्शो हि
बाह्यराक्षसादिरूपदर्शनेपि भावी ।

एतदेव दर्शयति ।

शार्दृलशोणितादीनां सन्तानातिशये क्वचित् ।
मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा ।। ७८ ।।

शार्दूल इति श्रवणादपि कस्यचिन्मोहोन्यो वा भवति भावः । तथा शोणितदर्शनात् ।
न चासावाश्रयस्तन्निवृत्तौ वा निवृत्तिर्बुद्धेः । एवमान्तरस्यार्थस्यालम्बनस्य सन्निधेरुत्पादात्सन्नि
पाताद्यवस्थायां स्मृतिभ्रंशादिभाव इति न देहाश्रया बुद्धिः । आलम्बनमेव देहः सुखादीनां ।
ततस्तेपि तन्निवृत्या न निवर्त्तंन्ते । आलम्बनान्तरे भावात् ।


085
तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते ।
तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितं ।। ७६ ।।

चित्तस्यैव संस्कारं नियमेनानुवर्तते चित्तं न शरीरस्य । शरीरस्याश्रयत्वादृष्टेः ।
अन्यचेतस्कस्य तु नान्यत्र चित्तमुदेतीति चित्तमेवाश्रितं चित्तं । तथा हि ।

संस्कारस्य बलीयस्त्वाद् व्याक्षेपस्य निवर्तनं । व्याक्षेपस्य बलीयस्त्वे संस्कारः स्यात्पराङ्‌मुखः ।। ५०० ।।

यदा बलीयानत्यन्तं भवति संस्कारस्तदा व्याक्षेपेपि न व्याकुलता चेतसो यदा तु
बलीयान् भवति व्याकुलभावस्तदा विद्यमानोपि संस्कारो न स्वकार्यमनुरूपं सम्वेदनं जनयति ।
तस्मात्पूर्व्वविज्ञाननान्तरीयकमेव चित्तमतश्चित्तनिवृत्तावेव चित्तस्य निवृत्तिरिति युक्तं ।

नन्विन्द्रियादुत्पत्तिमद्विज्ञानं । ततोपि मनोविज्ञानं । अतः पारंपर्येण मनोविज्ञानं
देहादेव भवतीति कथमनाश्रयो देहः । नहि पारंपर्येणापि कारणं धूमान्तरजनितस्य धूमस्या
ग्निरनिवर्तकः । न चापरापराग्नेरसौ न भवत्यपूर्व्वः । एवं विज्ञानमपि देहादुत्पद्यमानं
धूमवदुच्छेदधर्म्मकं स्यात् । न । इन्द्रियज्ञानमन्तरेणापि मनोविज्ञानमनादिवासनात इति
प्रतिपादनात् ।

धूमश्चाग्नेर्यथाभूतो न धूमादपि तद्विधः । अभ्यासात्तु मनोर्यादृक् तादृगेंवादिसम्भवं ।। ५०१ ।।

धूमस्य हि वह्निजन्यस्य धूमजन्यस्य च नैकलक्षणत्वं । प्रज्ञादीनान्तु बुद्धि(वि)शेषा
णामभ्यासानन्तरं प्राक् समानमेव रूपमात्मग्रहादीनां च सर्व्वव्यापिनान्ततो न धूमादिर्दृष्ट न्तः ।
धूमस्य चाग्निविशेषादेव प्रबन्धः किञ्चित्कालस्थायी । प्रज्ञादयस्तु प्रज्ञादिविशेषादेव पूर्व्वकान्न
देहकृता स्थितिस्तेषां । अपि च ।

विज्ञानमिन्द्रियादेव यदि जायेत कस्यचित् । पूर्व्वविज्ञानरहिताद् धूमदृष्टान्तसम्भवः ।। ५०२ ।।

इन्द्रियादपि विज्ञानं जायमानं न पूर्व्वसंस्कार337 निरपेक्षात् । पूर्व्वविज्ञानव्याकुलत्वे
सत्यपि विषयेन्द्रियसन्निधानेऽनुत्पत्तेः । ततः पूर्व्वविज्ञानसहकारिण एव इन्द्रियादुत्पत्तिर्न
केवलात् । उत्पन्नमेव तदिन्द्रियविज्ञानं । तत्तु निश्चयाभावादनुत्पन्नमिति व्यवह्रियते ।

तदसत् ।

उत्पन्नमपि विज्ञानं यदि नास्तीति मीयते । निश्चयाभावतः सर्वोऽभावस्तस्येति गम्यतां ।। ५०३ ।।

यदि निश्चयाभावादभावप्रत्ययो न संवेदनाभावान्न तर्हि सम्वेदनाभावो नाम क्वचि
दस्ति । तर्व्वत्र निश्चयाभावस्य हेतुत्वात् । अथ तत्र338 सम्वेदनकारणमस्ति । ततः सम्वेदनं
समर्थकारणसद्भावादनुमीयते । निश्चयस्यापि तर्हि सम्वेदनं कारणमस्तीति तस्यापि भावोऽ
नुमीयतां । अथ व्याकुलतया तदुपहतं । सम्वेदनस्यापि कारणं किमेवं नेष्यते ।

अथानुपहतस्येन्द्रियस्य विषयस्य चाव्यवहितस्य कथं न विज्ञानजनकत्वं । पूर्व्वविज्ञानस्य
जनकत्वस्या339 भावात् । पूर्व्वविज्ञानसहितस्यैवेन्द्रियस्य जनकत्वात् (।) कुत एतदिति चेत् ।
सुखादीन्द्रियविज्ञानतो यतः । प्रतिपादयिष्यते पश्चादेतच्चावसरागतं । अथ सुखदुःख
तदनुभयविज्ञानमैन्द्रियकमेव पूर्व्वाभ्यासबलादुत्पत्तिमदिति पश्चात् प्रतिपादयिष्यते । तेनेन्द्रियं 086 पूर्व्वंसंस्कारसापेक्षमेवोत्पादयतीन्द्रियविज्ञानं । ततो नाद्यमपि340 सम्वेदनमिन्द्रियादुत्पत्तिमत् ।
तस्मात्सकलं चित्तं चित्तनान्तरीयकमेवेति स्थितं । किञ्च ।

भावनाबलतः सर्व्वमिन्द्रियज्ञानमागतं । इन्द्रियज्ञानरूपत्वात्स्वप्नविज्ञानरूपवत् ।। ५०४ ।।

यदीन्द्रियं कारणमिन्द्रियाभावे पुरोवर्त्तिस्पष्टाकारतावद्विज्ञानं न भवेत् । भवति च
तस्मात्तदभावेपि भावान्न तत्कारणमिति । अथ भ्रान्तं तदभ्रान्तं त्विन्द्रियादेवोत्पद्यते
नैतदस्ति ।

विनैव सकलं ज्ञानमिन्द्रियादुपजायते । अर्थस्य भावाभावाभ्यां भ्रान्ताभ्रान्तव्यवस्थितिः ।। ५०५ ।।

तदाकारं हि सकलमिन्द्रियं विज्ञानमन्तरेणैव स्वप्नविज्ञानवत् । अथ यदिन्द्रियमन्तरेण
तद् भ्रान्तमन्यदन्यथेति विशेषः । तदसत् । तदाकारता हि तावत्स्वरूपं विज्ञानस्य साचेन्द्रिय
मन्तरणैवोपलभ्यते । तदा तस्यास्तत्कारणन्न भवति । सम्वादस्तु पुनरर्थस्य भावाद्भवती
त्यर्थकृत एव स नेन्द्रियकृतः । न चान्यकार्येन्यस्य सामर्थ्यं ।

अथ स्वप्नेप्यस्त्येवेन्द्रियं तेन पुरोवर्त्तिस्पष्टाकारता तत्रापीन्द्रियकृतैव तेन न व्य
भिचारः । तदपि न युक्तिमत् । यस्माद्(।)

अभ्यासादिन्द्रियं जाग्रदिन्द्रियत्वात्तदन्यवत् । कार्यस्वभावाभेदेहि कारणानामभिन्नता ।। ५०६ ।।

कार्याविशेषेण कारणाविशेषोनुमीयते ।

न च स्वप्नावथायामन्यत्र चेन्द्रियस्य विशेषः । तेनेन्द्रियमेव सजातीयाभ्यासमन्तरेण
न भवतीति नाद्यं341 विज्ञानमिन्द्रियादेवोत्पत्तिमदिति पूर्व्वकमेव विज्ञानं विज्ञान342 स्याश्रयः ।

अथापि स्याद्‌भवतु चित्तं चित्तस्याश्रयस्तथापि नेष्टसिद्धिः । अपारलौकिकचित्ताश्रयत्वे
सिद्धसाधनं मातापितृचित्ताऽऽश्रयत्वस्येष्टेः । पारलौकिकचित्ताश्रयणेऽनैकान्तिकता । मातापितृ
स्वभावस्याप्यनुवर्तनात् ।

अत्रोच्यते । तस्माद्यस्यैव संस्कार343 मित्यादि । न मातापितृस्वभावानुवर्तनं नियमेन ।
तदविकारेपि विकारदर्शनात् । विकारेपि चाविकारदृष्टेः । यदि च तस्य संस्कारो भवेत्
पाण्डित्यादयोपि स्युः । यथा वटवृक्षादिस्वभावाद्वट344 वृक्षस्वभावता तत्प्रसवस्य । अथ यथा
पितुर्मातुर्व्वा संस्काराधायिपाठकादि345 सहकारिणी तत्स्वभावता तथापत्यस्यापि स्यात् । तन्न संस्कारेपि कदाचिदभावात् । इतरथापि भावात् । स्वसन्तानवर्त्तिपूर्व्वकविज्ञानसंस्कारा
नुवर्तनस्य (दृष्टत्वात्सन्ता नान्तरानुवर्तनस्य) चादृष्टेरुपाध्यायसंस्कारानुवर्तनमुपलभ्यत
इति चेत् । न(।) स्वसन्तानपूर्व्वविज्ञानस्यैवाभिरुचिविशेषात्तदभावेन्यत्रादृष्टेरसावपि स्वसन्ता
नादेव पारंपर्यादुत्पन्नः । अभिरुचिसहायादुत्पत्तिरिति चेत् । अस्तु तथापि स्वसम्वेदनं विना
न परसंस्कारानुवर्तंनं तेन । (।)

परलोकं विना न स्यात् संस्कारा346नुवर्तनं । पितृस्वभावानुगमोऽविरोधी परलोकिनः ।। ५०७ ।।

087

स्यादेतद्(।)

यदि347 स्वसन्तानवर्त्तिचित्तसंस्कानुवर्तनमेव नियमतः । कथं पितृस्वभावानुवर्तनं ।
तत्र परिहारः(।) सर्व्वस्य पितृस्वभावानुवर्तनप्रसङ्गात् । परलोकवादिमतेपि तर्हि सर्व्वस्या
ननुवर्तंनप्रसङ्गः । न । तत्स्वभावस्य तेन परलोकेभ्यस्तत्वादुपाध्यायस्वभानुवर्तनवत् ।
अथ यथैकस्माद् वृक्षादनेकवृक्षसम्भवस्तथैकविज्ञानादनेकविज्ञानसम्भवः । एवमेकस्मादेव पारं
पर्येण सकलं जगदुत्पन्नमिति प्राप्तं । उक्तमत्र मात्रादिस्वभावानुवर्तनप्रसङ्गात् । परलोक
वादिनोपि तर्हि सकलपूर्व्वस्वभावानुवर्तनं स्यात् । न । व्याकुलत्वेन कस्यचिद् भ्रष्ट
त्वाद्348 गर्भावस्थानदुःखेन वा । कस्याचित्तु संस्कारानुवर्तनमस्त्येव । जातिस्मरणस्य च
दृष्टेः । अपूर्व्वोत्पन्नस्य तु न दुःखं सैव तस्यावस्था नान्येति । स एव चेदुपादानकारणत्वेन349 जनकः । तच्छरीर इव शरीरान्तरेपि पुत्रसम्बन्धिनि स्मरणप्रसङ्गः । दुःखाच्चेदस्मरणन्तदसत् ।

तदैव तत्रोत्पन्नस्य न दुःखं विषकीटवत् । परलोकिनस्तु तद् दुःखमनाद्यभ्याससेवनात् ।। ५०८ ।।

किञ्च । पित्रोर्दुःखसम्वेदनप्रसङ्गः । यथा सुप्तस्य शरीरान्तरगतस्य स्वप्नशरीरे
दुःखवेदनं । जन्यवृक्षदाहे जनयितृवृक्षाम्लानिवदसम्वेदनमिति चेत् । न । उत्तरवृक्षसंस्कारस्य
पूर्व्ववृक्षेभावात् । इह तु स्वप्नश्रीरस्य पूर्व्वशरीरे दृष्टेः । ततः स्मरणमेव पूर्व्वकृतस्य
स्यात् । संस्वेदजे च न बुद्धिः स्यात् । मात्रादेरभावात् । तस्मादात्मग्रहादिबुद्धि
र्मात्रादिबुद्ध्यभावेपि दृष्टा सम्वेदजेषु350 प्राणिषु ततस्तदभावेपि भावान्न मात्रादिबुद्धिर्हेतुः ।
ततः स्वसन्तानभाविपूर्व्वबोध351 जनितमेव मनोविज्ञानमपरञ्च कायादीनां चापलं ।

ननु स्वसन्तानो352 मात्रादिशरीरमेव शरीरान्वयस्य दृष्टत्वात्353 । तदव्यतिरेकि च विज्ञानं चापलादयश्च । ततस्तदन्वयसाधने सिद्धसाधनमेव ।

अथ शरीरस्य पित्रादिसम्बन्धिनो भिन्नता परलोकिकायस्यापि तथेति तदन्वयितापि न स्यात् । बालाद्यवस्थायाञ्च पित्रादेः स एव चपलतादिस्वभाव इति तत्सन्तानता ।

तदप्ययुक्तं । चेतसा शरीरेण च मात्रादिस्वभावस्यानुवर्तनस्यादृष्टेः । स तस्य पिता354 न भवतीति चेत् । न । दृष्टत्वात् । न चाभ्यासमात्मीयमन्तरेण तद्‌विशेषो दृष्टः । तस्मात्स्वाभ्यास
एवानुमीयते । अभेदेपि चेतसो महाभूतविकारत्वेपि पूर्व्वपरलोकमहाभूतानुमानमेव । न
चाभेदो युक्तः । यस्माद्(।)

यथा श्रुतादि-संस्कारः कृतश्चेतसि चेतसि ।
कालेन व्यज्यतेऽभेदात्स्याद् देहेपि ततो गुणः ।। ८० ।।

शुभादि355 संस्कारो हि स्वसम्विदिताभ्यासपूर्व्वको नाभिव्यक्तः स्वापावस्थायां काले
प्रबोधावस्थयाभिव्यज्यते । तथा देहेव्यभिव्यक्तश्चेतसीव प्रतीयते अभेदतः । यथा देहे
गुणाः कार्श्यादय356 उपलभ्यन्ते परेण च । तथा चेतोगुणस्य शिल्पादेरप्युपलम्भः किन्न भवति । 357 358 359 088 नहि यदुपलभ्यते रूपान्तर्ग्गतन्तदन्यथा भवति । अन्तःस्प्रष्टव्यविशेषरूपत्वात्परोपलब्धि
र्न भवतीति चेत् । न । बहिःस्प्रष्टव्यस्यापि व्रणादेरनुपलम्भात् । नहि व्रणेन खरस्पर्शो
वायुरुपलभ्योन्येनोपलभ्यते । व्रणस्यैव सा शक्तिरिति चेत् । किमुपलभ्भकविशेषादुपलभ्यो
न्यथोपलभ्यते(।) तथा सति भ्रान्तत्वप्रसङगः । व्रणस्यैव संस्पर्शविशेष इति चेद्वायो
रुपलम्भकत्वप्रसङ्गः । तथा च व्रणिनो वेदना न स्यात् । अथ वायुना परिघट्टमानस्य
व्रणस्य तेनैवोपलभ्यते सस्पर्शः । अन्यस्यापि व्रणस्पर्शतः स्यात् । न स्पृश्यमानस्य परेण
उपलम्भ इति न युक्तं यतः ।

स्पश्यमानस्य यद्रूपं तच्चेत्स्पृष्टं न वेद्यते । तदन्यरूपवित्तौ स्यात्तदेव विदितं कथं ।। ५०९ ।।

न खलु तस्य रूपमनुपहतेन्द्रियेणाविदितं युक्तं । तथा च स्वसम्वेदनमेव । असम्वेद
नस्य तद्विलक्षणत्वात् ।360 । स्वसम्वेदनमेव दुःखं सुखम्वा रागादयश्च स्युरिति महाभूतादन्यद्विज्ञानं । ततः स्वम्वेदनस्य361 देहेन सहाधाराधेयभावो न युक्तः । कथन्तर्हि पादे मे वेदना हस्ते मे
वेदनेति । हस्तविकारकाले तस्याभावादेवं362 भवति नान्यथा । हस्तादिविकारसहचरितत्वा
त्तथा व्यपदेशः । तथाहि

स्वसम्बिद्रूपता मात्रान्नाधाराधेयतास्थितिः । स्वरूपे हि निमग्नस्य नाधारादिविकल्पनं ।। ५१० ।।

स्वरूपमात्रवेदने हि कथमाधाराधेयकल्पनासम्भवः । द्वयप्रतिपत्तौ हि तथा भवेत् ।
न च तत्रापि तथाद्वयप्रतिपत्तौ हि द्वयमेव तदिति भवेत्363 ।

अथ वासनानियमात्तथाविकल्पः । स तर्हि विकल्पो न महाभूताव्यतिरिक्तः स्वरूप
मात्रपर्यवसानात् । वासनाबलोत्पन्नमहाभूतत्वेपि न दोषः364 ।

ग. पुनर्जन्मपरिग्रहः

तस्माद् देहातिराक्ता बुद्धिस्ततो न मातापितृजा । स्वसन्तानपूर्व्वभाविन्येव यदि
तर्हि न महाभूतमात्रादुत्पत्तिः प्राणिनो/?/ जन्मान्तरादागमनं गर्भादिस्थाने । ततोऽशुचिदेशगम
नमयुक्तं । नहि प्रेक्षावानेवं भवितुं युक्तः । न चेश्वरप्रेरणमिष्यते । तत्रोच्यते ।

अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रहः ।
आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छया ।। ८१ ।।
दुःखे विपर्यासमतिस्तृष्णा चाबन्धकारणं ।
जन्मिनो यस्य ते न स्तो न स जन्माधिगच्जति ।। ८२ ।।

उक्तमेतद्यदि प्रेक्षावान्भवति । स्वरूपस्य स्वतोगतिर्न प्राप्यस्य ततः केनचिन्न क्वचिद्
ग्रामादौ प्रवर्त्तितव्यं अत आदिशान्तत्वात्संसार एव न भवेत् । अथ ग्रामादिगमनं यथा
कथञ्चिद् भवत्यप्रेक्षावत्तया तथा सति गर्भादिदेशगमनमपि । आत्मस्नेहप्रेर्यमाणस्य हि
हीनमपि विपर्यासादुपादेयं भवति । कर्म्मशक्तिरेव सा तादृशी येनान्यसत्त्वनेयस्य परतन्त्रस्येव
तथा गतिः । हीनस्थानपरिग्रहोपि सुखदुःखाप्तित्यागवाञ्छ्या श्रोत्रियस्य दासीवेश्मप्रवेशवत् ।


089

अथेश्वरप्रेरितत्वं कस्मादस्य नास्ति, भ्रान्तस्य स्वयमेव सम्भवान्नेश्वरकल्पना साध्वी ।
न चेश्वरप्रेरणमुपलभ्यते । यथा च नेश्वरकल्पना तथा प्रतिपादितं । आत्मस्नेह एवेश्वरस्तस्य
प्रेरकत्वप्रतीतेः । अथ यथान्येन भृत्यादिः प्रेर्यते तथा परलोकेपीति चेत् । न (।) नियमा
भावात् । आत्मतृष्णावानेव प्रेर्यते न सर्व्वः (।) सोपि सतृष्णो नैवापरेण नवीतरागादिना ।
तदाराधनेन गतिप्राप्तेः स प्रेरक इति चेत् । सर्व्वतीर्थकराणामीश्वरत्वप्रसङ्गः । तस्माद्वि
पर्यस्तमतिरेव प्रवर्तते गर्ब्भस्थानेऽन्यत्र वा दुःखेपि सुखसंज्ञया । ततो विपर्यस्तमतितृष्णाभ्यां
जन्म यस्य तु ते न स्तो न स जन्माधिगच्छति । न तस्येश्वरो जन्मदानसमर्थः । न हीश्वर
वादिनामप्ययमभ्युपगमः ।

ननु यस्यारोग्यसाधकं कर्म्मं नास्ति, तस्य भिषगकिञ्चित्करः । यस्य तु कर्म्मा
नुपहतमारोग्यसाधकं तत्रापि व्यर्थता भिषजामशक्यसमर्थाभ्यामिति365 प्राप्तं । नायं दोषः ।

व्यर्थता भिषजः क्वापि न च शक्तिस्तथैव किं । ईश्वरस्यापि सैवेष्टा तथा चेन्न स ईश्वरः ।। ५११ ।।

न खलु कश्चित्संसारी प्रेर्यते ईश्वरेण कश्चिन्नेत्यभ्युपगम ईश्वरवादिनामथ तदा
राधनमपि गतिप्राप्तावुपयुज्यते । तथा सति दायकाराधनमपि । एतच्च सर्व्वतीर्थ
कराणामपि क ईश्वरानीश्वरयोर्व्विशेषः । तस्मादविद्यातृष्णयोरेव जन्मनि सामर्थ्यं नेश्वरस्य ।

(अन्तराभवदेहः—)यदि तर्हि गमनमागमनञ्च जन्मान्तरापेक्षया तत उपलब्धिस्तयोः
प्राप्ता तथा च नोपलब्धिरित्यभाव एव तयोरित्याह ।

गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् ।
अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा ।। ८३ ।।

यद्यपि गत्यागती न दृष्टे तथापि तयोर्नाभावः । इन्द्रियाणामपाटवाददृष्टिर्न त्वभा
वादेव । न ह्यविद्यमानस्यैवादर्शनं मन्दनेत्रस्य न तनुधूमो गतिविषयस्तथाप्यस्त्येव ।

अन्तराभवदेहो हि स्वच्छत्वान्नोपलभ्यते । निष्क्रामन् प्रविशन्‌ वापि नाभावोनीक्षणादपि ।। ५१२ ।।

अन्तराभवदेहो हि स्वच्छतया कर्म्मसामर्थ्यादुत्पन्नो योगिमात्रगम्यः । स्वप्नशरीर
वन्नोपलभ्यते (।) न तावता तस्याभावः । मिथ्यास्वप्नशरीरमिति चेन्नार्थक्रियाकारित्वादिति
प्रतिपादनात् । अत एव ।

तनुत्वान्मूर्तमपि तु किञ्चित्क्वचिदशक्तिमत् ।
जलवत्सूतवद्धेम्नि नादृष्टेरसदेव वा ।। ८४ ।।

स्वप्नशरीरवदेवाशक्तिमद् मूर्तत्वान्मूर्त्तमपि तु किञ्चित्क्वचिदशक्तिमज्जलवद् घटादौ
प्रभावत् स्फटिकादौ हेम्नि सूतवत् । अथवा जलवत् सूत366 वद् हेम्नि न विद्यमानमेव नोपलभ्यते ।
अपि त्वदृष्टेरसदेव वान्तराभवशरीरं । तथाहि

ब्रीहिसन्तानसावर्म्यादविच्छिन्नभवोद्भवः परिकल्पितः367 ।

मृत्यूपपत्तिभवयोरन्तरा भवतीह यः368 ।


090

न चात्र तथा । व्यवहितस्य कालदेशाभ्यामुत्पत्तेः । तथा हि कश्चिदविच्छिन्नं
का न्य कु ब्जा दिगमनं ग्रामगमनादिनोपलभते । कश्चिदिहस्थ एकदैव देशान्तरस्थमात्मानमुप
लभते स्वप्ने । तद्वद् गतिदेशेपीति न विशेषः । न च स्वप्नस्यासत्त्यतेति अस्यापि साध्यस्या
सत्त्यतया भवितव्यं । न दृष्टान्तस्य सर्व्वसाम्यं दृष्टं । वासनादाढ्‌र्यात्सत्त्यता भविष्यति जन्मान्त
रस्य न तु स्वप्नस्य, तदभावात् ।

प्रतिभासान्तरप्राप्तेःस्वप्नस्यासत्त्यता यदि । जन्मान्तरस्यापि ततोऽसत्त्यतेति मतं ननु ।। ५१३ ।।

यदि प्रतिभासान्तरं जाग्रत्प्रत्ययलक्षणं भवतीति स्वप्नस्यासत्त्यता जाग्रत्प्रत्ययस्यापि
सत्त्यताविपर्ययः । स्वप्नप्रत्ययस्य प्रतिभासान्तरलक्षणस्य भावात् । नहि विपर्ययत्वे विशेषः ।
अथ स्वप्ने घटादिकमकस्मादेवोपलभ्यते । तत्कारणमन्तरेणैव । ततो विशेष इति चेत् ।

अकस्मादुपलभ्यन्ते जाग्रतापि घटादयः । सामग्रीसम्भ वे दृष्टाः स्वप्नेपि शकटादयः ।। ५१४ ।।

जाग्रदवस्थायामपि योगिनिर्म्मिता पर्व्वतादयोऽकस्मादेवोपलब्धिगोचराः । विद्यमाना
एव ते प्रागुपलभ्यन्त इति चेद् भ्रमणविशेष एव च सामग्री तत्रेति (।) तदसत्त्यं ।

स्वप्नेपि विद्यमानत्वं प्राक्केन विनिवार्यते । अन्यस्यानुपलब्ध्या चेत् पर्व्वतादिषु सा समा ।। ५१५ ।।

यदि विद्यमाना एव प्राक्पर्व्वतादयः क्वचिदुपलभ्यन्ते जाग्रता । स्वप्नव्यवस्थितेनापि369
तथेति किन्नाभ्युपगम्यते । अन्येन जाग्रता तेषामनुपलब्धेरविद्यमानतेति चेत् । जाग्रदुपलब्धा
नामपि स्वप्नगतेनाप्यनुपलम्भः । यथा च भ्रमणसामग्रीतस्तेषामुपलम्भस्तथावस्थान्तरस्य
स्वप्नस्य सम्भवादकस्माद् घटादीनां । कथञ्च जाग्रदवस्थेति मतिः जाग्रत्प्रत्ययस्योत्पत्तिरिति चेत् ।

ननु स्वप्नेपि किन्नास्ति प्रबुद्धत्वमतिःक्वचित् । उन्मेषादिक्रियाः सर्व्वास्तत्रापीति समानता ।। ५१६ ।।

तथाहि जागर्मि प्रबुद्धोहमिति स्वप्नपि विद्यते प्रत्ययः । गमनादयश्च । ततः कथं
सोपि स्वप्नः । असत्त्यत्वादिति चेत् । जाग्रदभिमतावस्थायामपि तथात्वप्रसङ्गः । परस्परानु
पलम्भो द्वयोरपि समान इति ।

अथासत्त्यमेतदिति प्रतीतेः स्वप्नस्यासत्त्यता । जाग्रत्प्रत्ययस्यापि तत्समानत्वा
दसत्त्यतास्तु । नहि तत्प्रत्ययादेव तत्त्वं । तल्लक्षणेनापि तत्त्वस्य भावात् । अपि च । असत्त्य
मित्यपि प्रत्ययः किमालम्बते ।

सत्त्यादन्योऽथवा सत्त्योनायमेतन्निषेधनं । तद्रूपस्योपलब्धत्वात् द्वयमप्यतिदुर्घटं ।। ५१७ ।।

न खलु तद्रूपतयोपलभ्यमान एव ततोन्य इति युक्तः । नापि स न भवतीति । तदन्यता हि
तदन्यरूपतयैवान्यथा सोपि तदन्यो भवेत् । न चोपलभ्यमान एव नास्ति सर्व्वस्य तथात्व
प्रसङ्गात् । अथायमुत्पद्यते प्रत्ययः । उत्पद्यतामस्यालम्बनं नास्तीति व्यर्थतयैव370 नास्मात् पदार्थव्यवस्थितिः ।

ननु नास्त्येव स्वप्नोपलब्धौ घटादिरिति दृढोऽविसम्वादी चायं प्रत्ययस्तत्कथं
व्यर्थतास्य । तथाहि ।

स्नानमात्रप्रबुद्धस्य झटित्यस्नानभासनं । ततस्तथैव सम्वादादविसम्वादिता मतेः ।। ५१८ ।।
091

तदसत् । यतः ।

रागावस्था झटित्येव स्वप्नदृष्टो निवर्तते । न च तत्र विसम्वादः पुनः स्वप्नेस्य वेदनात् ।। ५१९ ।।
स्वप्नेतरव्यवस्थेयं न चाद्यापि प्रसिध्यति । साध्यादेव विसम्वादात्सिद्धावन्योन्यसंश्रयः ।। ५२० ।।

किञ्च ।

नास्त्येतदिति नान्येन प्रत्ययेन प्रतीयते । प्रतीतिमात्रमेवैतदसाधारणलक्षणं ।। ५२१ ।।

एवम्भूतानादिवासनासम्भवादेते प्रत्यया व्यवहारिणामुपजायन्ते केन विशेषेण तदव्यव
हितेन जाग्रदात्माभिमानिनोपलम्भाभावेन । जाग्रदभिमानोपि वासनाबलादेव पतितशरीर
त्यागतः इदमपि व्यवहारमात्रकं न परमार्थतः । जाग्रता नाम स्वप्नेपि तथा प्रत्ययात् । अथ
स्वप्नगतानां जाग्रदुपलम्भेषु नास्तीति न प्रत्ययस्तदेतद् बन्धत्वं ।

अनुष्ठानेन नास्तित्वं तैरेषां प्रतिपादितं । गमनादेरविघ्नस्य तेषां तेष्वस्ति सम्भवः ।। ५२२ ।।

गमनादेरविघ्नस्य सम्भवादेव क्रिययैव नास्तित्वं प्रतिपन्नमेव मुख्यं किमपरेण विकल्प
प्रतिपाद्येन । विकल्पो हि सत्त्येप्यसत्त्यतां प्रतिपादयति । अन्यथा परस्परविरोधीति विकल्पो न
भवेत् । तस्माज्झटिति विद्यटनादसत्त्यताभिमानः स्वप्नदृष्टेषु जाग्रदवस्थानुबन्धाभावाच्च ।
न च तावता तदप्यसत्त्यता । तस्मात्स्वप्नविषये गत्यागती न दृष्टे अन्येन तथापि ते एव
इत्यनैकान्तिकता तददर्शनस्य । तस्मान्न गत्यागत्योरभावोऽथवा भाव एवेति प्रतिपादितं ।

(a) अवयविनिरासः—

अपि च । यदि शरीरादभिन्नं सम्वेदनं शरीरञ्च परमाणुसंघातमात्रं तदा प्रत्येकं
सकलपरमाणुसंवेदनप्रसङगः । अथावयवी स्थूल एक एव तथोपलभ्यते । तथापि परमाणुषु
तस्य स्थानात् परमाणुसंस्पर्शात् परमाणूपलम्भः । अथ तेभ्य उत्पद्यते सम्वेदनं न तु तेषु
व्यवस्थितं । तथा सति तेभ्य इति कुतो गतिः । न स्वसम्वेदनं परसम्वेदनं । अथ पर
सम्वेदनमेव न स्वसम्वेदनं कथन्तर्हि सुखं सम्वेद्यते । परभूतस्यैव तस्य वेदनात् तदसत् ।

परभूतस्य वित्तिश्चेत्किमन्यद्‌वेदनं भवेत् । तदेव वेदनं यत्र वेदनेति व्यवस्थितिः ।। ५२३ ।।

सुखादिनीलादिनोः(?) परभूतयोरेव वेदेने किमन्यदस्ति यद् वेदकं । शरीरमेवेति न चेत् ।

सुखादि नीलादि विना शरीरमपि किं मतं । उपलभ्यतया तस्य नोपलम्भकता यतः ।। ५२४ ।।
चक्षुरादेस्तथात्वं चेत् खरशृङ्गं तथा न किं । शक्तिरूपन्तदिति चेदगतौ सा कथं तथा ।। ५२५ ।।

न खलु चक्षुरादयोनुपलभ्यमानाः खरशृङ्गवदुपलम्भकः । शक्तिरूपाश्चक्षुरादयस्ततो
नाभावरूपाः । शक्तिरप्यनुपलभ्यमानास्तीति कुतः । कार्यद्वारेण तस्या उपलब्धिरिति चेत् ।
किङ्कार्यन्तेषां । सुखादिरूपा ह्युपलब्धिः ।

ननु सापि शक्तित्वान्नोपलभ्यत एव । पारिशेष्याद् रूपादय एव ते । ते च न विज्ञानशक्तेः
कार्याश्चक्षुरादिकार्यत्वे पूर्वमभावप्रसङ्गः । उपलभ्यावस्था कार्यमिति चेत् । प्रतिपरमाणू
पलम्भप्रसङ्गः । न च विशेषाभावेवस्थाभेदः । विशेषे स्वसम्वेदनप्रसङ्गः । शक्तिसहितोत्प
त्तिरेव विशेष इति चेत् नैतद् युक्तं । यतः ।

साहित्येऽनुमितिः शक्तेरनुमानाच्च तन्मतं । अन्योन्याश्रयदोषोयं विनिवार्यः कथम्भवेत् ।। ५२६ ।।
092

रूपादीनां हि विशेष उपलभ्यमानता । सा चेदुपलब्धिशक्तिसहितत्वं कथं शक्तिसिद्धि
मन्तरेण सहितत्वसिद्धिः । तदसिद्धौ कथं शक्तेरनुमानं । तस्माद्रूपादिसुखादिमात्रकस्वसम्वेदनमेव
विज्ञानं विज्ञानं सुखादिकमिति सामानाधिकरण्येन प्रत्ययस्योत्पत्तेः ।

सामानाधिकरण्यञ्च मुख्यामुख्यप्रभेदतः । नापरं पुरुषो दण्डश्चेतनः पुरुषस्तथा ।। ५२७ ।।

यद्यमुख्यं मञ्चाः क्रोशान्ति, पुरुषो दण्ड इति यथा । तदत्राप्रसिद्धमेव । रूपादिष्व-371 रूपव्यतिरिक्तस्य विज्ञानस्योपलम्भासम्भवात् । अनेनैव दृष्टान्तेनानुमीयत इति चेत् । न अनु
मानासम्भवात् । सां ख्या नां चेतनः पुरुष इति मुख्यस्य सामानाधिकरण्यस्योपगमात् ।
तस्माद्यथा यस्य सम्वेदनं तथैवासावभ्युपगन्तव्यः ।

अभ्यासाच्च तथाभूता रूपादो वेदनस्थितिः । अपरापररूपादिसंक्रान्तत्वेन विद्यते ।। ५२८ ।।

न खलु विज्ञानमालम्बनव्यतिरेकेणापेरण मिश्रीभवति । ततः सुखादिमिश्रीकृतं रूपादि
ना मिश्रीभवति । रूपादिना मिश्रीभूतं परसुखादिना मिश्रीभवति । अभ्यासात्सर्व्वाकारलिङ्ग
परिप्रहेण सकलतदाकारप्रतिपत्तौ कथन्तर्हि परसुखादिरूपादयस्तदवस्थतयावलम्ब्यन्ते ।
तदसत् ।

स्वरूपेण हि सम्वित्तौ न तटस्थातटस्थते । व्यवहारमात्रमेवैतदाश्रयापेक्षया परं ।। ५२९ ।।

रूपादिसुखादीनां हि न स्वरूपाकारसम्वेदनमपहायापरः प्रकारः सम्वेदनस्य । तत इदं
तटस्थमन्यथा वेति कुतो विभागः । केवलं शरीराश्रयापेक्षया तटस्थमिदमन्यथा वेति व्याव
हारिको विभागः ।

नन्वपेक्षा विना नास्ति तद्रूपस्य प्रवेदनं । तद्रूपस्य च सम्वित्तेः परापेक्षा न विद्यते ।। ५३० ।।

सत्त्यमेतदत एव विभागः पारमार्थिकतया न समस्ति ।

सांवृतेस्तु परमेष विभागः संवृतेर्नहि विचारसहत्वं ।। ५३१ ।।

इयमेव खलु संवृतिरुच्यते येयं विचार्यमाणा विशीर्यतेन्यथा परमार्थ एव भवेत् ।
तस्माद्यथारूपादि परशरीरादौ संक्रान्तिमद्विज्ञानं तादात्म्येन तथा परशुक्रशोणितशरीरेपि ।
ततो न शक्तिर्नामान्या विज्ञानरूपा यतः सक्रियता विज्ञानाश्रयस्य केवलन्तदेवन्तदेव तथाभूतं
स्वसम्वेदनं विज्ञानं कथन्तर्हि तादात्म्येन संक्रान्ते विज्ञानात्मनि स्तम्भादेरचलनं स्वशरीरस्येव
तस्यापि चलनप्रसङ्गः । तदप्यसत् ।

तादात्म्योत्पत्तिमात्रेण चलनस्य न सम्भवः । विशिष्टस्पर्शज्ञानस्वरूपोत्पत्तितस्तु तत् ।। ५३२ ।।

यदा खलु स्पर्शविज्ञानं प्रयत्नविज्ञानस्वभावमुपजायते तदा चलनं कायादेरुपजायते
नान्यथा । तस्माद्विज्ञानं रूपादिस्वभावमेव । ततः प्रतिपरमाणु वेदनप्रसङ्गः ।

भवतोपि कस्मादेवं न भवति । तदाकारस्यापरस्य विज्ञानस्य जातेः । ममाप्यवयवी
विज्ञानरूपो न परमाणवः । तदप्यसत् । परमाणूनामपि तद्रूपताप्राप्तेः परमाणवः पृथग् भूता
एवेति चेत् । न(ा)सन्त्येव तर्हीति प्राप्तं । तथाहि ।

शरीरस्य स्वभावेन परमाणुव्यवस्थितिः । परमाणुस्वभावेन शरीरस्य व्यवस्थितिः ।। ५३३ ।।
093

अथ न विज्ञानस्वभावाः शरीरपरमाणवः तथा सति न शरीरस्वभावाः परमाणवः ।
असंवेद्यत्वे च न विषयस्वभावा इति न सत्त्वं परमाणूनां । ततः केवलो वयवी । तस्य च372

पाण्यादिकम्पे सर्व्वस्य कम्पप्राप्तेर्विरोधिनः ।
एकत्र कर्म्मणोऽयोगात्स्यात्पृथक्‌सिद्धिरन्यथा ।। ८५ ।।
एकस्य चावृतौ सर्व्वस्यावृत्तिः स्यादनावृतौ ।
दृश्येत रक्ते चैकस्मिन् रागोऽरक्तस्य वा गतिः ।। ८६ ।।

द्रव्यं हि नामावयविरूपं क्रियावद्‌गुणवत्संयोगादिकारणं समवायिकारणं । तस्य यदि
क्रिया नास्ति373 तदा तत्सममवायिकारणत्वात् सर्व्वमेव चलतीति प्राप्तं । चलिताचलितश्चित्रोऽ
वयवि चेत् । देवदत्तयज्ञदत्तादिरूप एक एव चलितादिरूपोवयवीति प्राप्तं । अथ दृश्यत एकत्वं
चलिताचलितत्वं चेति को विरोधः । किमिदेमेकत्वं नाम । यदि प्रतिभासाभेदः स नास्ति ।
अथैककार्यता सा यदि नामैकं कार्यं कारणमप्येकमिति कुत आवरणेऽवयविनः सर्व्वस्यावरणं
संयोगाविशेषात् । अवयवस्यावरणेवयविनो न प्राप्नोतीति सर्व्वं दृश्येत । अवयवद्वारेणावरणे
न किञ्चिद् दृश्येत सकलम्वा । एकत्वेपि सर्व्वस्यापि द्रष्टुमशक्यत्वादिति चेत् । दृष्टा
दृष्टयोः कथमेकत्वं । रागयोगेप्ययमेव प्रसङ्गः ।

नास्त्येकसमुदायोऽस्मादनेकत्वेपि पूर्व्ववत् ।
अविशेषादणुत्वाच्च374 न गतिश्चेन्न सिध्यति ।। ८७ ।।
अविशेषः; विशिष्टानामिन्द्रियत्वमतोनणुः ।

यद्यनेकः कायः । अनेकत्वेपि पूर्व्ववद् दोषः । प्रतिपरमाणु स्वसम्वेदनप्रसङ्गः ।
अविशेषान्न गतिश्चेत् । नैतदस्ति । अविशेष एव न सिध्यति । सम्वेदनावस्थायामुपलभ्यत्वा
त्ततो नानुपलभ्यमानाविशेषः । अत एव स्वसम्वेदनावस्थायामणुत्वमपि न विबन्धकारीति सतोपि
असदविशेषादनणुः । तवापि कथं विशेषोपलम्भ इति चेत् । न (।) स्वसम्वेदनरूपतया
विषयोपलम्भोपि तु तदाकारविज्ञानोपलम्भ एव(।) विषयोपलम्भः कथं न परमाण्वाकारतेति
चेदेतदुत्तरत्राभिधास्यते ।

(b) परमाणूनां आवरणाद्यभावो न—

ननु परमाणुमात्रकस्य कथमावरणप्रतिघातादयः ।

एतेनावरणादीनामभावश्च निराकृतः ।। ८८ ।।
कथं वा सूतहेमादिमिश्रं375 तप्तोपलादि वा ।
दृश्यं; पृथगशक्तानामक्षादीनां गतिः कथं ।। ८६ ।।
संयोगाच्चेत्समानोत्र प्रसङ्गो हेमसूतयोः ।
दृश्यः संयोग इति चेत् कुतोऽदृष्टाश्रये गतिः ।। ६० ।।
रसरूपादियोगश्च विरुद्ध376 उपचारतः ।
इष्टश्चेद् बुद्धिभेदास्तु पंक्तिर्दीर्घति वा कथं ।। ६१ ।।

377 094
संख्यासंयोगकर्म्मादेरपि तद्वत्स्वरूपतः ।
अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ।। ६२ ।।

आवरणं हि परमाणूनामसंसर्ग्गात् कथमिति न युक्तं । नह्यवयविप्रतिबद्धमावरणं
क्वाप्युपलब्धं । येन तत्त्वाभावे परमाणुषु न स्यात्तथा प्रतिघातादिः378 । अथैवमुच्यते ।

धिद्रत्वात्परमाणूनां संहतेः स्यात्पटादिकं । कथमावरणं वा स्यादातपस्य जलस्य च ।। ५३४ ।।

अवयविसंयोगमन्तरेण परमाणव एव केवला अव्याहतपरस्परान्तरनुप्रवेशाः कथमा
वरणभाजः । अत्रोच्यते । अशक्तैः संयोगोपि पदार्थः कथं जन्यते । संसृष्टाः कथ379 मवयविनं
जनयन्ति । संसर्ग्गश्च नैकदेशेन तदभावात् । न सर्व्वात्मनाणुमात्रपिण्डप्रसङ्गात् । संयोगस्य
पदार्थान्तरस्य जनने न चेत् । तमेव संयोगं सान्तराः कथं जनयन्तीति समानः प्रसङ्गः ।
संसर्गश्चेत् किं संयोगेनापरेण । तथावयविना । अथ सान्तरा एव संयोगमवयविनं च
जनयन्ति । तथा सत्यावरणादिकार्यमपि किं न जनयन्ति ।

विनापि परमाणूनां संसर्ग्गात् संहतिः परा । आघातेपि पृथग्‌भावो यस्या नव समस्ति सः ।। ५३५ ।।

यथा विरलदेशस्थिता अपि केशमशकमक्षिकादयः एकघनाकारं प्रत्ययमुपजनयन्ति । तथा
कार्यान्तरमपि किन्न जनयन्ति । तत्र बाधकस्योपलब्धेस्तथेति चेत् । अत्राप्यतीन्द्रियदर्शियोगि
प्रत्ययो भवति बाधको यदि योगी भवेत् । यथा चाच्छिद्रचषके380 न जलश्च्युतिरुपरि
पिधाने । तथा परमाणुसंहतावपि । अथवा सूतहेमसंयोगः कथमवयविनं विनावरणप्रति
घातादिसमर्थः । तप्तोपलादिकम्वा विसरणादिकञ्च नामापरं कार्यं । तत्कारणविशेषा
दुपजायते वि/?/शिष्टसंहतिलक्षणात् । कार्यकारणभावश्चाचिन्त्यः । तथाहि पृथगशक्ता
रूपादयो विज्ञानं जनयितुं तथापि संहताऽवस्था जनयन्ति । संयोगादिति चेत् ।
ननु संयोगोपि कार्यमेव तमेव कथं जनयन्ति । न च संयोगस्य दृश्यता अदृष्टाश्रयस्य गत्य
भावात् । यद्यदृष्टाश्रयस्यापि गतिः । इन्द्रियार्थसन्निकर्षात् प्रत्यक्षं जायत इति समयः ।
संनिकर्षश्च संयोग एव तदस्य संयोगकारणत्वात्संयोगविभागेष्वकारणं गुण इति गुणलक्षणं
हीयते । अथ संयुक्तसमवेतत्वाद् गम्यते । एवं तर्हि परमाणुसंयोगसद्भावे परमाणुगतिः
स्यादिति व्यर्थमवयविकल्पनं । सर्व्वसंयोगानाम्वा गतिः स्यात् । ततो न दूरादग्रहणं भवेत् ।
इन्द्रियसंयोग एव तत्र नास्तीति चेत् । न । स्थूलानामपि न गतिः स्यात् । अथ संयोग
जोपि संयोग इष्यते । संयोगविभागेष्वकारणमिति तु समवायिकारणत्वप्रतिषेधः । न । तत्रेह
निबन्धनत्वात्समवायस्य । संयोगस्य च प्रतीयमानत्वे नियमेनेह बुद्धिरुपजायते । ततः
समवायिकारणमपि प्राप्तं । किञ्च ।

संयुक्तसमवायश्चेद्यदि ग्रहणकारणं । परमाणुषु संयोगे द्रव्यस्य ग्रहणं भवेत् ।। ५३६ ।।

यदि संयुक्तसमवायोपि ग्रहणहेतुस्तदा कार्यद्रव्यसंयोगो व्यर्थः स्यात्परमाणुसंयोगे
नैव कार्यद्रव्यदृष्टेः । अथ कार्यद्रव्यसद्भावे परमाणुसंयोगो न कल्प्यते । परमाणुसंयोगादेव
दर्शनं घटादेरिति व्यर्थमवयविकल्पनमिति स एव दोषः । अथावयविनोऽभावे परमाणुसंयोग
कल्पना नान्यथा । विपर्ययेपि तुल्यं । न चावयविसंयोगे परमाणुसंयोगः । समानदेशकालत्वेन
विभागाभावात् । अथवा प्रतीयमानस्यावयविनोपि संयोग इति दृश्यस्यासंयोगस्यापि संयोगः


095

स्यात् । किञ्च । दृश्यता संयुक्तसमवायादिति रसरूपादियोगः पानकादौ दृश्यमाने न स्यात् ।
न गुणस्य गुण इति । नहि तत्रावयवानां तद्रूपं रसो वा । उपचारतस्तथा व्यपदेश इति चेत् ।
बुद्धिभेदः प्रसक्तः । यदेव हि रूपं रसो वावयवानां दध्यादीनां तदेवैकार्थसमवायादुपचर्यते ।
म तु रूपरसान्तरोपलम्भः ।

संयोगिनां हि यद्रूपं संयोगस्यापि381 तद् भवेत् । उपचारात्कुतस्तु स्यात्तत्र रूपरसान्तरं ।। ५३७ ।।

अथ तावेव संसर्ग्गाद्रूपरसौ तथा प्रतिभासेते । अत्यन्तसंसर्गो हि तदेकत्वप्रतिपत्तिहेतु
रिति रसान्तरत्वरूपान्तरत्वगतिः । एवं तर्हि नावयविनापरेण किञ्चित्परमाणुप्रतिभास
नमेव तथा स्थूलादिव्यवहारयोगि । किञ्च । यदि न परमाणूनामेव स्थूलता382 प्रतिपत्तिस्तदा
दीर्घा पंक्तिरिति न स्यात् (।) नहि पंक्तिर्नाम किञ्चित् । तथाहि ।

असंयोगान्न संयोगो न द्रव्यं तत एव तत् । जात्यादेर्न च दीर्घत्वं न जात्यादि सम्मता ।। ५३८ ।।
सन्निवेशविशेषेण यथा दीर्घादिबुद्धयः । ततस्ताः परमाणूनामित्युक्तविषयस्तथा ।। ५३९ ।।

सन्निवेशमात्रस्यैव दीर्घादिता यथा मालादौ । तथा च विवादास्पदोवयविविषया
भिमत इति नावयवी । यच्चोक्तं । संयोगादिन्द्रियादयो जनयन्ति धियमवयविनमन्यम्वेत्यादि ।
तत्रोच्यते । न संयोगादीनां रूपमुपलभ्यते । संयोगिन एव रूपादयः केवला न तत्र परः संयोग
उपलब्धिगोचरः । संयुक्त इति बुद्‌ध्या गृह्यमाणः कथं न तथेति चेत् । संयुक्त इति संयोगिन
एव प्रतीतिः संयुक्तशब्दस्य च नापरमत्रालम्बनं ।

प्रत्यासन्नतयोत्पन्नास्तत्र संयोगिनः परं । संयुक्तप्रत्ययालम्ब्या न संयोगस्ततः परः ।। ५४० ।।

पुरः स्थिता यथा तेर्थाः किं सयोगस्तथा स्थितः ।

अन्वयव्यतिरेकाभ्यां संयोगादिति383 कल्पना ।। ५४१ ।।

न खलु संयोगो परः प्रतिभासते संयोगिव्यतिरिक्तः केवलमसंयुक्तयोः सावस्था नोप
लभ्यते । तौ पुनरुपलभ्येते । ततोऽन्वयव्यतिरेकाभ्यां कल्पनामात्रमेव एतदिति निर्ण्णयः ।
प्रत्यक्षेण तु तथाभूतं संदेवं भूतं जातमिति प्रतीतिः । ततः सैवास्था पृथग्‌भावेन ज्ञाप्यते
संयोग इति । अत एव (।)

शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा ।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ।। ६३ ।।

न शब्दज्ञानवैलक्ष्यण्यमात्रादेव पदार्थभेदोपि तु प्रत्यक्षलक्षणज्ञानभेदात् । विकल्पिका
हि बुद्धिरनादिरनादिवासना384 सामर्थ्यादुपजायमाना तथा तथा प्लवते । ततो नार्थतत्त्वं
प्रतिष्ठां लभते । तत्रान्वयव्यतिरेकेण परिकल्पितं भेदमाश्रित्य संयोगादिबुद्धयः ततः
परिकल्पितस्यैव भेदो नार्थतत्त्वस्य (।) विकल्पितार्थभेदस्तु तीर्थान्तरदर्शनादप्युपजायते ।
ततोप्यर्थतत्त्वव्यवस्थापनायामनवस्था । तथाभ्युपगमेन परस्परापवादः स्यात् । ततो
भिन्नः शब्दो ज्ञानञ्च विकल्पिते वस्तुनि वासनाया अन्वयव्यतिरेकाभ्यां प्रवर्तते ।
किम्भूतोसौ विकल्पः । वस्तुभेदानुसारी वस्तुनाभेदो व्यावृत्तिरतथाभूतात् । न च व्यावृत्ता-


096

दन्या व्यावृत्तिस्ततः स एव सन्तानापेक्षया अवान्तरभेदो भेदेनैव प्रतिभाति(।) किम्वस्तु
भेदमन्तरेण कल्पनाः प्रवर्तन्ते भिन्नाः । प्रवर्तन्त एव दृष्टमेतत् । यथा गुणादिषु एको
गुण एकः समवायश्चतुर्व्विंशतिर्ग्गुणाः । न च तत्र संख्या द्रव्याश्रितत्वात् संख्याया न चाश्रय
संख्योपचार आश्रयभेदेप्येकमेव सामान्यादिकं । नष्टाजातेषु च कथमेकत्वादिकं ।

मतो यद्युपचारोत्र स इष्टो यन्निबन्धनः
स एव सर्व्वभावेषु हेतुः किन्नेष्यते तयोः ।। ६४ ।।

यदि नष्टाजातेषूपचारादेकत्वादेस्तथा व्यपदेशो बुद्धिश्च स एवोपचारोऽनयोः कस्मा
त्सर्व्वत्र निबन्धनं नेष्यते । अनादिकल्पनाध्यारोप एव निबन्धनमस्तु । न वस्तुपरि
कल्पनावसरः ।

उपचारो न सर्व्वत्र यदि भिन्नविशेषणं ।
मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ।। ६५ ।।
अनर्थान्तरहेतुत्वेप्यपर्यायः सितादिषु ।
संख्यादियोगिनः शब्दास्तत्राप्यथान्तरं यदि ।। ६६ ।।
गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः ।
स्यादनर्थान्तरार्थत्वेप्यकर्म्माद्रव्यशब्दवत् ।। ६७ ।।

ननूपचारो हि नाम मुख्यनिबन्धनः स कथमसति मुख्ये भवेत् । मुख्यञ्च भिन्न
विशेषणं दण्ड्‌यादिवत् । अभिन्नविशेषणत्वे गौणी व्यवस्थितिः । भवतस्तु पुनः पूर्व्वपूर्व्व
कल्पनाकृतविशेषणयोगादभिन्नविशेषणत्वेन मुख्यत्वं क्वचिदिति नोपचारसम्भवः । तदसत् ।
भिन्नविशेषणं मुख्यमित्येव च कुतः । अभिन्नविशेषणमपि कल्पनाकृतभिन्नविशेषणमत्यन्ता
भ्यासाद् रूढ़िमुपगतं मुख्यमेव । अस्खलद्‌गतिप्रत्ययविषयो हि मुख्यस्तदपरस्तु गौण इति
किं न पर्याप्तं । किञ्च । यदि भिन्नविशेषणं मुख्यमन्यथोपचरितं । अमुख्यमेव सर्व्वमेवं
विधं भवतु भिन्नस्य विशेषणस्याभावात् । नष्टाजातेषु तु विशेष्यमप्युपचरितमिति विशेषः ।
यदि विशेषणमप्यपरं नास्ति विशेष्यमेव तर्हि सर्व्वत्र वाच्यमित्यभिन्नार्थता पर्यायतारूपा
भवेन्न सामान्याधिकरण्यं भिन्नप्रवृत्तिनिमित्तत्वे हि तद् भवति । तदप्यवचनीयं । यतः ।

भेदवृत्तिनिमित्तस्य तद्रूपप्रतिभासने । सामानाधिकरण्यस्य कथं शब्दार्थभाविता ।। ५४२ ।।

इदं सामानाधिकरण्यं शब्दयोरर्थयोर्व्वा भवेत् । न तावच्छब्दयोः प्रतिनियतार्थाभि
धानात् । लक्षितलक्षणेन सामानाधिकरण्यमिति चेत् ।

एकेनैव(हि)सम्न्बधे सर्व्व लक्षितमेव तत् । द्वितीयस्य ध्वनेर्न्नास्ति प्रयोग इति नास्ति तत् ।। ५४३ ।।
समानाधारतार्थानामनेनैव निराकृता । विद्यमानोपि सम्बन्धः कथं कस्माच्च मीयतां ।। ५४४ ।।
समवायबलादर्थो यद्यभेदेन मीयते । एकस्मादेव तद्वोधाच्छब्दोन्यो व्यर्थको भवेत् ।। ५४५ ।।
अपरेण स एवार्थो यदि ज्ञाप्य इतीष्यते । सैव पर्यायता प्राप्ता भवतोपि मतेन किं ।। ५४६ ।।

अथ नीलार्थ385 सम्बन्धिमात्रमेकध्वनेर्ग्गतं । समवायिप्रतीतो न परस्यास्त्यप्रतीतता ।। ५४७ ।।

यथाध्यक्षेण नीलस्य गतावुत्पलगम्यता । तथा शब्दादपि गतिस्तस्यैवान्य386ध्वनिर्वृथा ।। ५४८ ।।
ध्वनेर्नियत एवार्थ इति नापरगम्यता । विशेषरहितो नार्थः कश्चिदस्ति वचो वृथा ।। ५४९ ।।
097
इन्द्रनीलोत्पलादोनां नीलत्वं न तु केवलं । प्रत्यक्षेण तथादृष्टेर्ध्वनेर्वृत्तिः किमन्यथा ।। ५५० ।।
उत्पले यदि नीलत्वमुत्पलत्ववचो वृथा । अन्यत्र यदि नीलत्वं वृथोत्पलवचस्तथा ।। ५५१ ।।

तस्माद् बुद्धय एव स्ववासनानुरोधादुपजायमाना भेदाभेदसामानाधिकरण्यादिव्य
वहारमुपरचयन्ति । न पर्यायताप्रसङ्ग । तथाहि ।

अनर्थान्तरहेतुत्वेपि सितादिषु(।)दृश्यन्तेऽपर्याया इत्युक्तं । तत्राप्यर्थान्तरत्वमिति
चेत् । एवं सति गुणद्रव्ययोर्न विशेषः । तथाहि । क्रियावद्‌गुणवत्समवायिकारणञ्च द्रव्यं387 । समवायिकारणत्वं गुणयोगे भवेत् । गुरुत्वस्य भावादधोगतिः पानकादीनामिति क्रियावत्त्वं ।
ततो गुणोपि संयोगो द्रव्यलक्षणयोगे द्रव्यमिति गुणद्रव्याविशेषः । तस्माद् भिन्नो व्यावृत्तिभेद
परिकल्पिताऽभिधेयभेदाद् भिन्नः शब्दः प्रत्ययश्च । तद्यथाऽकर्म्मद्रव्यमद्रव्यं कर्मेति न चार्थान्त
रमत्रार्थः । तथाप्यपर्यायत्वमकर्म्मद्रव्यशब्दादीनां । तत्र व्यावृत्तिभेद एव निबन्धनं नापरः
प्रवृत्तिनिमित्तभेदः । कथन्तर्हि सामानाधिकरण्यवैयधिकरण्यप्रभेदः । गौः शुक्लो गोः
शुक्लत्वमिति ।

व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः ।
संख्यादितद्वतः शब्दैस्तद्धर्म्मान्तरभेदकं ।। ६८ ।।
श्रुतिस्तन्मात्रजिज्ञासोर्न वा क्षिप्ताखिला388 परा ।
भिन्नं धर्म्ममिवाचष्टे योगोङ्गुल्या इति क्वचित् ।। ९६ ।।
युक्ताङ्गुलीति सर्वेषामाक्षेपाद्धर्म्मिवाचिनी ।
ख्यातैकार्थाभिधानेपि तथा विहितसंस्थिति ।। १०० ।।

यथा पर्य्यायता कल्पितवाच्यभेदान्नेति प्रतिपादितं । तथाऽभेदेपि वाच्यस्य व्यतिरेक
विभक्तिः कल्पितव्यतिरेकभावाद्यथा शिलापुत्रकस्य शरीरं राहोः शिरः तथा गोः शुक्लत्व
मिति । गौरिति तदेकाकारपरामर्शंयोगी सकल एव पदार्थ उच्यते । शुक्ल इति तु तदेकदेशः
परामर्शान्तरयोगिनि च विद्यमानः । व्यतिरेकश्चान्वयव्यतिरेकाभ्यामपोद्ध‌ृतः । ततस्तस्य
गोः शुक्लो गुण इति व्यतिरेकविभक्तिः । यदा च गवाकारावग्रहो नास्ति शुक्लत्वमेव
केवलमुपलभ्यते सम्बन्धिविशेषरहितं । तदा प्रश्नयति कस्येदं शुक्लत्वमिति तदा पूर्व्वदर्श
नादवधृतगोस्वभावो निर्दिशति गौरिति । तादात्म्यसम्बन्ध एवास्य विवक्षितः । व्यतिरेकस्तु
केवलस्य प्रथमन्निश्चयात् । यदा तु न केवलेनानेन भवितव्यं यदि नाम विशेषोपलक्षण
मन्दता मन्दलोचनानां तथापि शुक्लेन गवान्येन वा भवितव्यमिति प्रश्नयत्ति कोयं शुक्लो
गौरन्यो वेति । तदा प्रतिवचनं गौरिति समानाधिकरणतया । तदन्तर्भावनेनैव प्रश्नभावात् ।
तदनुरूपमेव च प्रतिवचनं युक्तमयञ्च तत्त्वार्थ ति इति ।

अन्वयव्यतिरेकाभ्यां व्यतिरेकविनिश्चये । विशेषलक्षणाभावे कुतश्चित्कारणादपि ।। ५५२ ।।
अयं शुक्लो गुणोश्वस्य प्रतिवाच्यं/?/ विपश्चितां । प्रश्नस्य व्यतिरेकित्वात्तथैवेत्यत्र निर्ण्णयः ।। ५५३ ।।
यदात्वव्यतिरेकेण विशेषान्तर्ग्गमे सति । प्रमाणवृत्तमालोच्य प्रश्नः प्रश्नयितुर्भवेत् ।। ५५४ ।।
तदा विदिततद्भाव उत्तरं तादृगेव सः । दातान्यप्रक्रम389स्यात्र नैवावसरसम्भवः । ।। ५५५ ।।

098
प्रत्यक्षवृत्तमालोच्य न भेदस्य विनिश्चयः । तन्मूलमनुमानम्वा भेदस्यासम्भवो मतः ।। ५५६ ।।
अन्वयव्यतिरेकौ तु यदानादी व्यवस्थितौ । तदाभेदस्य सद्‌भावाद् व्यवहारस्तथैव सः ।। ५५७ ।।
अनादिव्यवहारोयमेवमेव जगद्‌गतः । वस्तुचिन्तातु लोकस्य नेति भेदो न बाध्यते ।। ५५८ ।।

तस्यादवयवा एव नावयवी विद्यते । यदि तर्हि नावयवी रसादय एव तदा न घटस्य
रूपादय इति भवेत् । नहि भवति रूपादीनां रूपं । नापि घटस्य वा घट इति पर्यालोचनं
परस्याशङक्याह ।

रूपादिशक्तिभेदानामनाक्षेपेण वर्तते ।
तत्समानफलाऽहेतुव्यवच्छेदे घटश्रुतिः ।।१०१ ।।
अतो न रूपं घट इत्येकाधिकरणा श्रुतिः ।
भेदश्चायमतो390 जातिसमुदायाभिधायिनोः ।। १०२ ।।
रूपादयो घटस्येति तत्सामान्योपसर्ज्जनाः ।
तच्छक्तिभेदोः ख्याप्यन्ते वाच्योन्योप्यनया दिशा ।। १०३ ।।

रूपादीनां प्रतिनियतशक्तिभेदमंनाक्षिप्य तेषु समानोदकधारणशक्त्याक्षेपेण घटश्रुतिः
प्रवर्तते । ततो न रूपादयो घट इति समानाधिकरणता । अत एव समुदायशक्तिविवक्षा
यामयं391 समुदायशब्दः । जातिशब्दस्तु प्रत्येकं एकफलत्वे यथा वनं यथा वृक्ष इति ।
कथन्तर्हि रूपादयो घटस्येति व्यपदेशः । उदकाहरणसाधारणकार्या रूपादिप्रत्ययजननसमर्थाः
प्रत्येकमित्यर्थः । अथ यथा वृक्षाणां वनं वृक्षा वनं । रूपादयो घटा रूपादीनां घट इति
कस्मान्न भवति । भवत्येव यदि शास्त्रान्तरसंस्कारो न भवति । लोकस्तु प्रायशस्तत्संस्कारा
नुसारी ततो न भवति । यस्तु392 सम्यगवबोधयुक्तस्तस्य भवत्येव संप्रत्ययो रूपादय एव
केचिद् घटाः कार्यविशेषसमर्थाः । उदकाद्याहरणञ्च कार्यंविशेषः । सन्निवेशविशेषेण
वा व्यवस्थिताः । यतः संनिवेशविशेषादुदकधारणविशेषः । रूपं घट इति तु न भवति
सामानाधिकरण्यं अवयवावयविभेदेन परस्परव्याप्त्यभावात् ।

ननु वृक्षशिङ्शपात्वयोरपि न परस्परव्याप्यव्यापकभाव इति कथं समानाधि
करण्यं । नैतदस्ति यतः ।

वृक्षबुद्धिः पृथग् व्यक्तावेकत्रापि प्रवर्तते । घटबुद्धिस्तु रूपादौ प्रत्येकं नानुवर्तते ।। ५५९ ।।

न खलु घटबु्द्धिः प्रत्येकं रूपादौ प्रवर्तते वक्षबुद्धिवच्छिङ्शपादौ । न च स
शक्तिभेदो घटशब्देनाक्षिप्यते ।393 वृद्धव्यवहारनिरूढेः शक्तिप्रतिनियमात् । वृक्षशब्दस्तु
विशिष्टशक्ति /?/मप्याक्षियतीति न दोषः । अत्रापि व्यवहारनिरूढिः शक्तिभेदो वा निबन्ध
नमिति सर्व्वं सुस्थं ।

ननु विङ्शतिग्गविः, गवां विंशतिरिति394 न भेदोत्र कश्चित् ।

न हि विंशातिशब्देनापरा शक्तिरिहोच्यते । केवला बाहदोहादिशक्तिरेवात्र गम्यते ।। ५६० ।।

099

संहतेः ख्यातिरत्रास्ति/?/ बहुत्वेन परिस्फुटा ।

तदाहानया दिशा अन्येपि व्यपदेशा वक्तव्याः । संहतिविशेषोऽत्र विवक्षितो दशद्वय
रूपः । न च तेन वाहदोहशक्तिराक्षिप्ता । नापि तया संहतिविशेष इति सर्व्वं सुस्थं । अथवा ।

अनादिव्यवहारेण वासनासंस्कृतात्मानां । अनादिर्व्यवहारोयं कल्पनाशब्दसम्भवी395 ।। ५६१ ।।

ततो न कस्यचिच्चोद्यं केनचित् क्रियते न च ।

एवंभूतेपि शब्दार्थे न किञ्चित् क्षीयते यदि ।। ५६२ ।।

किमयुक्तिमदत्रेक्ष्यं396 येन तत्परिचोद्यते । प्राकृते शब्दसंस्कारे दृश्यते न समञ्चसं ।। ५६३ ।।

लिङ्गस्य वचनस्यार्थे भे397 दस्तत्रेक्ष्यते स्फुटः । न च तत्रास्त्ययुक्तत्वं संस्कृते चेदिदं भवेत् ।। ५६४ ।।
लक्षणेन हि संस्कारः प्राकृते संस्कृते मते । संस्कृतासंस्कृतत्वं हि न प्रमाणेन गम्यते ।। ५६५ ।।
व्यवस्थामात्रमेवैतद्वालक्रीडाप्रवृत्तये । यथा कथञ्चिदेवायं बालिशैर्व्यंवहारिभिः ।। ५६६ ।।
शास्त्रीकृतो निरर्थोपि तथान्यैरनुवर्त्तितः । बालिशैरेव तेनैषां न विद्‌मः किमिहोच्यतां ।। ५३७ ।।
अदृष्टार्थप्रवादस्तु भण्डशास्त्रेपि दृश्यते । न च संप्रत्ययस्तत्र तेनैषान्धपरम्परा ।। ५६८ ।।
(घ) विज्ञानं कारणम्

यदि शरीरस्य महाभूतादुत्पत्तिस्तदा वयवानां समस्तानामेव हेतुत्वं विज्ञानजन्मनि ।
यथाङकुरे भूम्यादीनां प्रत्येकम्वा यथा ज्वालादिषु दाह्यानां तृणानान्तत्र ।

हेतुत्वे च समस्तानामेकाङ्गविकलेपि न ।
प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भवः ।। १०४ ।।

नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ ।

यत्र खलु कार्ये परस्परसहकारितया बहुनां व्यापारस्तत्रैकाभावेपि न कार्यसम्भवः ।
तदभावेपि कार्यभावे हेतुरेवासौ न भवेत् ।

अथ परस्परनिरपेक्षा एव जनयन्त्यवयवास्ततः कर्णनासादिच्छेदेपि भवत्येव तेभ्यो
मनोविज्ञानं । एवन्तर्हि प्रत्येकं सामर्थ्यमिति प्राप्तं । ततो बहुविज्ञानसम्भवः । नहि प्रत्येकं
समर्थं बहुबीजभावेनानेकाङकुरानुदयः ।

अथ प्राणापानयोर्जनकत्वं यः कश्चिदेकोवयवस्तस्य सहकारी । न च सहकारिभेदाद्
भिद्यते कार्यं । अपरापरकुविन्दाभावेपि न पटादिभेदः ।

अत्रोच्यते । प्राणापानयोरप्यनेकत्वात्स एव प्रसङ्गः । एकावयववैकल्येपि न स्याद्
बहुसम्भवो वा । नहि प्राणापानयोरप्येकत्वं शरीरवदेव सिद्धं । अथैकत्वमेवेष्यते ।

तथापि ब्रू/?/मः

एकत्वेपि वहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः ।
नानेकहेतुरिति चेत् नाविशेषात्क्रमादपि ।। १०५ ।।

एकत्वेपि प्राणापानादीनामनेकव्यक्तिरेव ततोनेकरागादिमनःप्रसङ्गः । तद्धेतो
र्नित्यमेव सन्निधानात् । सन्निहिते च हेतावनुत्पन्नस्तद्धेतुक इत्ययुक्तं । अथानेकस्य हेतुर्न
भवत्येव प्रतिनियमत्वात् कार्यकारणतायाः । न खलु कार्यकारणभावनियमः पर्यनुयोग-


100

योग्यः । अग्नेर्हि धूम एक एवोदयमासादयति । न । विशेषाभावात् । अग्नेर्हि न तत
एव स्वभावादपरापरधूमोपलब्धिः । अत्र तु पुनस्तत एव प्राणादिस्वरूपादपरप्रबोधक
प्रत्ययान्वयादपरापररागादिचित्तभावः । न च प्रबोधकप्रत्ययस्यापि नियमः पूर्व्वंसंस्कारबला
बलस्य हेतुत्वात् । ततो यद्यसौ प्रणादिस्तस्य चेतसो न हेतुः । परतोपि तदविशेषान्न स्यादिति
क्रमेणाप्यनेकहेतुता न स्यात्पूर्व्वसंस्कारस्यैव हेतुत्वप्रसङ्गः ।

अभ्युपगम्य च प्राणादेरेकत्वमुक्तं न तु युक्तं । तथा हि ।

नैकप्राणेप्यनेकार्थग्रहणान्नियमस्ततः ।। १०६ ।।
एकयानेकविज्ञाने बुद्ध्यास्तु सकृदेव तत् ।
अविरोधात्; क्रमेणापि मा भूत्तदविशेषतः ।। १०७ ।।

एक प्राणकालेपि दीर्घनिश्वसितादौ अनेकबुद्धिसद्भावान्ने398 प्राणादेर्नियमः । कुत
स्तर्हि नियमस्तत एव ग्रहणात् । ग्रहणमेव पूर्व्वपूर्व्वमुत्तरोत्तरस्य चेतसो नियमहेतुः । अथैकमेव
मनोविज्ञानं क्रमेणानेकार्थग्रहणरूपं । ततो नानेका बुद्धिरित्युच्यते । तदपि नास्ति । न
रूपाद्याकारव्यतिरेकेणापरमस्ति मनः । स्वच्छदर्प्पणसंस्थानीयमेकमेव व्यापकं मनस्तस्य
पुनरर्थप्रतिबिम्बसङ्गमः । अत्रोच्यते । यद्युदासीनमेव विज्ञानं प्राप्यार्थबिम्बोत्पत्तिः प्रत्यासत्ति
तारतम्याभावादर्थानां युगपदर्थग्रहणप्रसङगः । अथ भावनाविशेषतारतम्यान्नैवं सैव तर्हि
कारणमर्थाकारताया न प्राणापानादयः । अवस्थितस्य तु विज्ञानस्य दर्प्पणवत्को विरोधो
येन न युगपदर्थग्रहः । अथ सामर्थ्यं नास्ति तदानीं क्रमेणापि तदर्थग्रहणं मा भूदविशेषात् ।

अथापि स्यात्क्षणभेदस्तत्राप्यस्त्येव ततः क्षणभेदात्क्रमादनेकार्थग्रहणं । नैतदप्युत्तरं यतः ।

बहवः क्षणिकाः प्राणा अस्वजातीयकाः किल ।
तादृशामेव चित्तानां कल्प्यन्ते यदि कारणं ।। १०८ ।।
क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना ।
पूर्व्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः ।। १०९ ।।

यतः (।)

तद्धेतुस्तादृशो नास्ति सति वाऽनेकता ध्रुवं ।
प्राणानां भिन्नदेशत्वात्सकृज्जन्म धियामतः ।। ११० ।।

बहवः क्षणिकाः प्राणाः इति सिद्धमेव नः । भवतस्तु न सिद्धमेतत् । अथ प्रमाण
दृष्टेः सिद्धमेतत् । क्रमभावी हि नैकः प्रदार्थो युक्तस्ततः कारणक्रमात्कार्यस्यापि क्रम इति
क्रमवद् विज्ञानं । त एव खलु क्रमवत्कारणविरहात् प्राणाः कथं क्रमवन्तः । पूर्व्वपूर्व्व
प्राणादिहेतुक्रमादिति चेत् । न(।)पूर्व्वस्वजातीयहेतुत्वे हि नाद्यस्य सम्भवः प्राणादेस्तादृशस्य
पूर्व्वमभावात् । परलोकाङ्गीकरणेहि जन्मादि प्राणस्य हेतुः स्यात् । मातापितृप्राण
एव हेतुरिति चेत । न । तथाभूतस्य सर्व्वंदा भावप्रसङ्गात् । एवं च सति बुद्धिरपि
मातापितृजैव इति पूर्व्वप्रसङ्गः ।

अभ्युपगम्योच्यते । अनेकता प्राणानां भिन्नदेशसंसर्ग्गात् । अनेकदेशसंसर्ग्गो हि
विरुद्धधर्म्माध्यासोनेकस्य साधकः । अनेकत्वात्प्राणस्यानेकमनोविज्ञानोत्पत्तिप्रसङ्गः ।

101

समानजातीयस्य च मनसः क्रमेणोत्पत्तिः । न हि क्षणभेदादेव कार्यभेदः । यथा समान
जातीयमनेकं कारणं तथा कार्यंमपि ।

नन्वनेकस्मादेकमेवोत्पद्यते सामग्री जनिका । नैतदुत्तरं ।

यद्येककालिकोनेकोष्येकचैतन्यकारणं ।
एकस्यापि न वैकल्ये स्यान्मन्दश्वसितादिषु ।। १११ ।।
अथ हेतुर्यथाभावं ज्ञानेपि स्याद्विशिष्टता ।
न हि तत्तस्य कार्यं यद्यस्य भेदान्न भिद्यते ।। ११२ ।।

अनेकस्यैककार्यजनने द्वै‌तं399 सामग्रीरूपेणान्यथा वा (।) सामग्रीरूपेण जनने मन्दश्व
सितादिषु अश्वसिते च न स्यात् सामग्र्‌यभावात् । एष हि सामग्रीजन्मनः कार्यंस्य धर्म्मो
यत्समग्रव्यग्रवैकल्येऽभवनं । नहि तदभावेपि भवतस्तत्कार्यता ।

अथापि स्याद्यथा संनिहितमेव कारणं न समग्रमेव । एवं तर्हि सन्निहितमेव न कारण
मसन्निहितमपीति वक्तव्यं । न चैवमन्वयव्यतिरेकभावित्वात् कार्यकारणतायाः । तस्मात्सम
ग्रात्समग्रमेव कार्यं व्यग्राद् व्यग्रं । अविद्यमानादविद्यमानं । अन्यथाभूतादन्यथाभूतमेवेति
नियमः । नैव हि तस्य कार्यं यद्यस्य विशेषादविशेषवत् । तद्भावभावित्वमेव निबन्धन
मिति चेत् । न (।) तद्विकारविकारित्वेनैव तद्भावभाविता गम्यते ।

तद्भावभावितामात्रात्कार्यकारणता यदि । अकारणो विकारः स्यात्तथा सर्व्वमहेतुकं ।। ५६९ ।।

यदि तद्भावभावित्वमेव केवलमुपगम्यते कार्यकारणनिबन्धनविकारोऽहेतुक एव
प्रसक्तः । अथ सोपि विकारस्तन्मात्रकादेव प्रथममेव कस्मान्नोत्पन्नः । अविकृत एव हि
तस्मिन्नुत्पद्यमानः प्रथममेव स्यात् । नहि तस्य तत्कार्यं यदविशेषेपि विशिष्यत इत्युक्तं ।
ततो यथाऽहेतुको विशेषस्तथा स भावोपि ततस्तद्भावभावितापि कथं गम्यते ।

एतेन परिणामः प्रत्युक्तः । यदुच्यते (।) क्रमभाविपरिणतिविशेषसापेक्षाद् देहादेव
क्रमवद् विज्ञानमुपजायते । तदसत् ।

परिणामक्रमोप्येष देहमात्रादसम्भवी । देहाविशेषात्तस्यापि विशेषः कुत आगतः ।। ५७० ।।

यथैव परिणतिविशेषाभावादविशेषो विज्ञानस्य तथा देहविशेषाभावतः परिणतेरपि ।

ननु क्षीरादिपरिणतिविशेषस्तदविशेषेपि दृश्यते । कालपरिवासमात्रादेव (।) तथा
शरीरस्यापि । नैतत्सारं । यतः ।

क्षीरादिपरिणामो हि समानक्षीरसम्भवी । समान एव शारीरः परिणामो विशिष्यते ।। ५७१ ।।

समानक्षीरादिसमवधाने समानोष्मादिसम्भवे च समान एव दध्यादिपरिणामः ।
शरीरस्य तु समानतासमानते । अनुरूपाभ्यासवासनाविकल्पकादिविज्ञानभेदाभेदयोर्निबन्धनं ।
ततो न परिणतिक्रमात्क्रमो विज्ञानानामिति गम्यते । तस्मात्समुदायकार्यत्वे विशेषसम्भवोन्यथा
नेकत्वमिति स्थितमेतत् । न चैवं दृश्यते ।

ननु यस्यापि विज्ञानादेव विज्ञानं तस्यापि कस्मादनेकं नोत्पत्तिमद् विज्ञानं । अत्रोत्तरं ।

102
विज्ञानं शक्तिनियमादेकमेकस्य कारणं ।
अन्यार्थासक्तिविगुणे ज्ञानेऽनर्थान्तरग्रहात् ।। ११३ ।।

विज्ञानं समनन्तरप्रत्ययरूपं एकमेकस्य कारणं शक्तिनियमः वासनानुरूपः संस्कारः ।
आसक्तिविशेषो400 वा । दृढवासनं हि व्यवहितमपि विज्ञानं समनन्तरप्रत्ययस्य सामर्थ्यविशेषा
धानेन किञ्चिदेव विज्ञानं जनयति केवलम्वा समनन्तरप्रत्ययानुरूपप्रबोधतो वा । तथा हि ।

वासनादाढ्‌र्यमासाद्य विनापि समनन्तरात् । पूर्व्वकादेव विज्ञानात्(स्याद्)विकल्पस्य सम्भवः ।। ५७२ ।।
समनन्तरविज्ञानात्प्रत्यासत्या तु कस्यचित् ।
विकल्पस्योदयो दृष्टः परस्य व्यवधेर्न्न तु ।। ५७३ ।।

न खलु व्यवहितविज्ञानवासनाविकल्पानामन्येनावान्तरोपनिपातिना शक्तिविषयविषये
णोदयो दृश्यते । ततो विज्ञानादेककं वा401 विज्ञानमिति युक्ता व्यवस्था ।

(ङ) कर्मसिद्धिः—

ननु शरीरादनेकविज्ञानोदयेपि नियमस्तत एव विज्ञानात् । यथानेकेन्द्रियविज्ञान
सम्भवेपि कदाचिदेकमेव विज्ञानमासक्तिविषये तत एवासक्तिविशेषात् । तत्रोच्यते ।

शरीरात्सकृदुत्पन्ना धीः स्वजात्या नियम्यते ।
परतश्चेत्समर्थस्य देहस्य विरतिः कुतः ।। ११४ ।।

यदि शरीरादुदीय विज्ञानं ततः पुनः पुनरपि तावदेव । तथैव देहस्य सामर्थ्य
सम्भवात् । यदि नाम विज्ञानं स्वशक्तिनियमादेकं विज्ञानं जनयति । देहस्तु तथैवास्तीत्य
परापरविज्ञानजननं । अथ तेन विज्ञानेन शरीरस्यापरविज्ञानजनने व्याघातकरणान्न शरीराद
परविज्ञानोदयः । तदप्यसत् ।

नायमर्थः प्रमाणेन केनचिद् गोचरीकृतः । विज्ञानादेव विज्ञानं जायते माननिश्चयात् ।। ५७४ ।।

नहि विज्ञानरहिताद्देहादेवानेकविज्ञानोत्पत्तिः । पुनर्विज्ञानादेवानेकविज्ञानजननशक्ति
व्याघातः । नहि धूमादेव वह्नेर्धूमजननशक्तेरुपघातः । ततो यदि देहादुत्पत्तिर्विज्ञानादेकैक
विज्ञानजननेपि न देहस्य सामर्थ्यव्याघात इत्यपरापरानेकविज्ञानजननं । नहि कारणानां
काचित्प्रेक्षावत्ता येनेदानीम्विज्ञानादेव विज्ञानमुपजायते किमस्मदपरविज्ञानोत्पत्त्येति न
देह उत्पादयेत् ।

अथैवमपि कदाचिद् भवेत् । यदुत कार्यादेव कारणस्य स्वकार्यजनने व्याघात इति ।

देहादनेकविज्ञानसम्भवे तदनन्तरं । विघाते ज्ञानतो दृष्टेः स्यादाशङ्का क्वचित्पुनः ।। ५७५ ।।
पक्षपातकृतासक्तिरभ्यासादस्य सम्भवः । नियामकत्वमस्यासद्विज्ञानस्योपजायते ।। ५७६ ।।

ततस्तज्जातीयं विज्ञानं तज्जातीयादेव कार्यकारणभावसिद्धौ विज्ञानादेव विज्ञानमिति
न देहादस्योदयः ।

ननूक्तमनेकेन्द्रियविज्ञानसम्भवस्तत एकविज्ञानादेकैकविज्ञानमिति । सत्त्यमुक्तं (।) नोक्त
मात्रादेव परिहारोपि तु युक्तोक्तितः । न च तद् युक्तं । नहि विज्ञानमनासक्तस्वभावन्तदपर-

103

विज्ञानानुत्पत्तये व्याप्रियते । न चासक्तिः पूर्व्वाभ्यासमन्तरेण । ततो यज्जातीये विज्ञाने
पूर्व्वाभ्यासस्तत्सदृश एव पुनरासक्तिरतः पूर्व्वाभ्यासादेव विज्ञानान्तरानुदयः । यस्य तु ।

न लोकोस्ति परस्तस्य न पूर्व्वाभ्याससम्भवः ।

पूर्व्वाभ्यासं विना नास्ति विज्ञानान्तरवारणं ।। ५७७ ।।
तेन देहादुदयिनां विज्ञानानां पुनः पुनः । त्तद्देहसम्भवे प्राप्तं वृन्दन्तच्च न दृश्यते ।। ५७८ ।।
अथ प्रथम एवास्य क्षणो देहस्य संविदः । जनकः परभूतस्य वैलक्ष्यण्यादहेतुता ।। ५७९ ।।

परभूतस्य हि कलशात्तद्विलक्षणस्या402 जनकता विज्ञानेषु । नहि जनकविलक्षणोपि
जनकः । तदप्यसत् ।

यदि प्रथमतो देहक्षणादेवोदयो विदां । अनाश्रयस्ततो देहः केवला स्याद्विदेव तु ।। ५८० ।।

नानुपकार्योपकारकभावे आश्रयाश्रयिभावः तथा सति केवलस्य विज्ञानस्य सम्भवः ।

अथ देहसहकारिविज्ञानं विज्ञानं जनयति । ततो न केवलावस्थानं । तथा सति
विज्ञानादेव विज्ञानं देहस्तु सहकारीत्यस्मत्पक्ष एव समर्थितः स्यात् । अथ देह उपादान
कारणं प्रथमं । यथा शालूकस्य403 गोमयपदार्थः । पश्चाच्छालूकादेव शालूकोदयः । एवं तर्हि
गोमयमन्तरेणापि पश्चाच्छालूकादेव शालूकसम्भवस्तथा विज्ञानादेव विज्ञानमिति केवला
वस्थानप्रसङ्गः ।

अथ देहस्यापि कारणत्वमुपलभ्यते । सत्त्यं (।) नोपादानकारणत्वेन किन्तु सहकारि
त्वेनेत्युक्तं ।

अथ पूर्व्वमुपादानं पश्चात्सहकारी चेत् । नोपादानं पश्चात्सहकारि भवति ।

यदि देह उपादानं सहकारी का/?/कथम्पुनः । दृष्टत्वादेवमेतच्चेन्न दर्शनमिहेष्यते ।। ५८१ ।।

न च शालूकस्य तथाभूतस्य गोमयाच्छालूकाद्वा समुद्भवस्तयोर्महतो भेदस्य भावादिति
प्रतिपादितं ।

पाटवादिन्द्रियज्ञानादुदितादीक्ष्यते क्वचित् । तदेव प्रथमं दृष्टं विज्ञानान्तरसाधनं ।। ५८२ ।।

तस्मान्न देहाद्विज्ञानं ।

अथापि स्याद्(।) भवतोपि यदि न देह आश्रयो विज्ञानस्य तदा निवृत्तेपि देहे
केवलस्य विज्ञानस्यावस्थानप्रसङ्गः । नहि निर्न्निबन्धनः सहावस्थाननियमः । अत्र परमा
शङ्क्य परिहारः ।

अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः ।
केवलस्येति चेच्चित्तसन्तानस्थितिकारणं ।। ११५ ।।
तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति ।

तदा केवलस्यावस्थानं भवेत्येवेति वाक्यशेषः । यदा तु ।

हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकं ।। ११६ ।।

तदा कुतः केवलस्यावस्थानमिति । तथा हि चित्तसन्तानस्य स्थितिकारणं तद्धेतु
वृत्तिर्देह(हे)तोः404 कललादिसंज्ञितस्य वृत्तिर्देहोत्पादनं प्रत्याभिमुख्यं तस्य लाभः केवलस्य 104 देहहेतोर्नास्ति । किन्तु चित्तसन्तानस्थितिकारणं । पूर्व्वंकं चित्तं कर्म्मंसंज्ञितन्तस्य
यदाङ्गता सहकारिकारणत्वं । तस्य चाङ्गता देहसतृष्णतायां तन्नाङ्गतां यदि गच्छति ।
तदा केवलस्यावस्थानमिष्टमेव । देहान्तरोत्पत्तौ च पञ्चायतनमैहिकं । तदेव संस्कार
कत्वेनारूप्यधातुच्युतानां देहोत्पत्तौ कारणमिति । तस्याङ्गभाव उपलभ्यते मरणादूर्ध्वं
देहोत्पत्तेरदर्शनात् । आरूप्यधातोस्त्वत्यन्तादृष्टेः । अत्राह ।

तदङ्गभावहेतुत्वनिषेधेनुपलम्भनं ।
अनिश्चयकरं प्रोक्तमिन्द्रियाद्यपि शेषवत् ।। ११७ ।।

यद्यपि नाम नोपलभ्यते पञ्चायतनस्यैहिकस्य जन्मान्तरदेहजननेङ्गभावस्तथापि चित्त
सन्तानहेतोः कर्म्मसंज्ञितस्य नासाविति नानुपलब्धिमात्रकादेव तदभावनिश्चय इति अनिश्चय
करणमनुपलम्भनमिति प्रागेव प्रत्यपादीदमिति कैवात्र विमतिः ।

अथाप्युच्यते । नानुपलम्भनमात्रकमत्रोच्यतेऽपि तु व्याप्तिपूर्व्वकमनुमानं । तद्यथा ।
यदिन्द्रियन्तदिन्द्रियान्तरं न प्रतिसन्धत्ते (।) तद्यथा देवदत्तचक्षुरादिकं न यज्ञदत्तचक्षुरादिकं ।
इन्द्रियं चेह जन्मशरीरसम्बद्धमिति विरुद्धव्याप्तोपलब्धिः ।

नैतदस्ति । शेषवत्त्वादस्य उच्यते एतद्यथार्थास्ति नहि शेषवतो गतिः । जन्मान्तरे
न्द्रियाप्रतिसन्धानं हि केवलमदर्शनमात्रगम्यं न चादर्शंनमात्रकाद्विपक्षव्यावृत्तिनिश्चयः ।
अथैहिकशरीरभावीन्द्रियप्रतिसन्धानोपलब्धेरपरत्रापि तत्प्रतिसन्धानमेवानुमीयते । तत्रापि
सिद्धसाध्यता तस्यापि तदैहिकत्वात् । पारावारवत् ।

अथ शुक्रशोणितान्तरभवेन्द्रियमिति विशेष्यते ।

तदप्यसत् । अत्रापि न विपक्षाभावोऽनुपलम्भमात्रकमन्तरेण गम्यते । न च शुक्रशोणि
तान्तरत्वेन विशेषणं देशविशेषणवत्परित्राणं । घटशब्दविशेषणवच्च । तथाहि ।

दृष्टा च शक्तिः पूर्व्वेषामिन्द्रियाणां स्वजातिषु ।
विकारदर्शनात्सिद्धमपरापरजन्म च ।। ११८ ।।

नहि व्यक्तिविशेषणात्पक्ष एव प्रतिबन्धः प्रतीयतेऽन्यथा न केनचित् क्वचिद् व्यव
हर्तव्यं । शक्तिनिश्चयपूर्व्वकत्वाद् व्यवहारस्य । सामान्यविषयश्च व्यवहारतो न व्यक्तिपरता
सम्बन्धस्य । तथा च । चापल्यादिसमन्वयिनश्चक्षुरादेरभ्यासभावनातस्तथाभूतोत्पत्तौ
तथाभूतदर्शनादपरत्र तथाभूतमेवानुमीयते । न च जन्मादौ तथाभूतमिन्द्रियं कारणमुप
लभ्यते । ततो जन्मान्तरेन्द्रियजमिति नैहिकत्वमन्यद्वा विशेषणं युक्तं । अथैकमेव तदिन्द्रियं
ततो नोत्तरेन्द्रियस्य पूर्व्वेण जननसिद्धिः । यद्यप्येवन्तथापि ।

अभ्यासपूर्व्वकत्वस्य चापलादिषु दर्शनात् । तथाभूतानुमानस्य सिद्धत्वादपरं वृथा ।। ५८३ ।।

एकन्तन्नेति नेदमुपयोगि सर्व्वथा तज्जातीयकार्यदर्शनात्कारणं तथाभूतमित्यनुमानं ।
दृश्यन्ते चाभ्यासिका गुणाः स्वप्नशरीरान्तर इति प्रतिपादितं ।

किञ्च (।) विकारस्यापरापरस्य दर्शंनादपरापरजन्मसिद्धमेवात इति । इन्द्रियान्तर
मिन्द्रियान्तरं जनयति मध्यावस्थायामिति कथं न जन्मान्तरेन्द्रियजननं स्वभावभूतविकारे हि
भेद एव नैकता पृथिव्यादिवत् ।

105

अथापि स्यादेकसन्तानप्रज्ञप्तिरेवात्रेति नात्यन्तं भेदः । जन्मान्तरेपि समानमेतत् ।
जन्मान्तरमपि सुप्तप्रबुद्धवदेकसन्तानान्तर्ग्गतमेव स्मृतिव्यवधानेन तु दूरमिव तत्प्रतीयते ।

अथापि स्यान्नेन्द्रियादेवोत्पत्तिरिंन्द्रियाणामपि तु प्रथमं शरीरादुत्पत्तिः परत इन्द्रियादेव
शक्तिनियमात् । अत्रोच्यते ।

शरीराद्यदि तज्जन्म प्रसङ्गः पूर्व्ववद्भवेत् ।
चित्ताच्चेत्तत एवास्तु जन्म देहान्तरस्य च ।। ११९ ।।

यदि देहात्प्रथमोत्पत्तिस्तदासेन्द्रियादनिन्द्रियाद्वा(।) सेन्द्रियादुत्पत्ताविन्द्रियादेवोत्पत्तिरिति
प्रथमस्यापीन्द्रियादुत्पत्तौ परलोकप्रसिद्धिः । अनिन्द्रियादुत्पत्तौ केशनखाग्रादेर्मृतदेहाच्चो
त्पत्तिः । अनेकत्वे चानेकेन्द्रियोत्पत्तिप्रसङ्गः । तथा चापरिमाणताप्रसङ्गः । तथा समर्थस्य
देहस्य विरतिः कुतः । अथ देहपरिणतिविशेष एवेन्द्रियाणि तदापि स एवाविनाशप्रसङ्गः
स्यादक्षाणां देहसम्भव इत्यादिकः प्रसङ्गः । अथ चित्ताभावान्मृतशरीरे नेन्द्रियसम्भवः ।
यदि तर्हि चित्तादुत्पत्तिः । तत एव चित्ताज्जन्म देहान्तरस्य चित्तस्य च जन्मान्तरभाविनः ।
किं पूर्व्वेन्द्रियकारणत्वपरिकल्पनानिर्बन्धेन । ततो न शरीरं विज्ञानस्य हेतुरतो न हेतोः
शरीरस्य वैकल्याज्जन्मान्तरासम्भवादप्रतिसन्धिरित्याह ।

तस्मान्न हेतुवैकल्यात्सर्व्वेषामन्त्यचेतसाम् ।
असन्धिरीदृशन्तेन शेषवत् साधनं मतम् ।। १२० ।।

इत्युपसंहारः । हेतुर्हि जन्मान्तरासङ्गतस्य सतृष्णकर्म्माभिसंस्कृतं चित्तं । तस्य
च न वैकल्यं । यदि तु शरीरं हेतुः स्यात्ततस्तद्वैकल्यतो हेतुवैकल्यादसन्धिः । न चैवं । ततो न
हेतुवैकल्यमिति नासिद्धो हेतुः । मरणचित्तत्वादित्येव परिशिष्यते । तच्च शेषवत् । अदर्श
नमात्रकेण व्यतिरेकोपदर्शनात् ।

यदप्युक्तं । इहलोकचित्तं चित्तान्तरं न प्रतिसन्धत्ते । भिन्नदेहवृत्तित्वाद्देवदत्तचित्तवत् ।
तदप्ययुक्तं ।

वृत्तेः पूर्व्वनिषेधोक्तेराश्रयस्य निषेधतः । आलम्बनत्वे विज्ञानं क्षणादालम्बते परं ।। ५८४ ।।

यदि तत्र वर्तमानमन्यवृत्तिनो विज्ञानस्य न जनकमिति प्रमाणार्थस्तदाश्रयाश्रयिभावो
निषिद्धोऽदेशस्थञ्च विज्ञानं । न चालम्ब्यमानो देह आश्रयो विज्ञानस्यान्तरस्पर्शविशेषत्वेन
सुखादिविज्ञानालम्ब्यत्वात् । आलम्बनञ्च स्वशरीरं । परशरीरालम्बनविज्ञानं जनयतीति
तेनानेकान्तः । न च देहान्तरत्वमेकसन्तानप्रज्ञप्तितः । भेदस्तु परमार्थत एकजन्मशरीरस्यापि
बालाद्यवस्थाविशेषतः । तस्मात्सन्तानस्योपकारो मनसो देहादुत्पत्तिस्तु चित्तादेव ब्रीहि
सन्तानवदिति । ततो नादिनिधने चितसन्ताने संति जन्ममरणप्रबन्धसिद्धेरभ्यासप्रसिद्धि
रित्याभ्यासिका गुणाः सर्व्व एवावकाशमासादयन्तीति सर्व्वज्ञतान्यो वा गुणः संभवति405 ।

(च) करुणाभ्यासः

ननु भवत्वभ्यासः स तु कथमत्यन्तप्रकर्षनिष्ठः । किञ्चिन्मात्रस्य विशेषस्य दर्शनात् ।
लंघनवदुदकतापवच्च । अत्रोत्तरं ।

106
अभ्यासेन विशेषेपि लंघनोदकतापवत् ।
स्वभावातिक्रमो मा भूदिति चेद्, आहितः स चेत् ।। १२१ ।।
पुनर्यत्नमपेक्षेत यदि स्यादस्थिराश्रयः ।
विशेषो नैव बर्धेत स्वभावश्च न तादृशः ।। १२२ ।।

कुत एतदिति चेदाह ।

तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति ।
साधनानामसामर्थ्यान्नित्यञ्चानाश्रयस्थितेः ।। १२३ ।।

न खलु विशेष इत्येव व्यवस्थितोत्कर्षभागी नहि लंघनोदकतापविशेषः स्वसत्तामात्र
भावेनैव तथापि तु पुनर्यत्नापेक्षणादाहितस्यापि लंघनस्य नहि लंघनं । पूर्व्वप्रयत्नलभ्यं पुनः
प्रयत्नान्तरनिरपेक्षमपितु प्रायश एव पुनर्यत्नमपेक्षते । उदकतापस्त्वंस्थिराश्रयः । पुनर्यत्नापेक्षी
च । न ह्यसौ सङ्गताग्निसंपर्क्कोप्यास्ते । यतोऽव्यवस्थितोत्कर्षता । ततो व्यवस्थितोत्कर्षंता
पुनर्यत्नापेक्षणेनास्थिराश्रयत्वेन च व्याप्ता तदभावाद्विपर्यंयसद्भावाच्च कृपादीनां मनोगुणानां
न व्यवस्थितोत्कर्षता । यश्च पुनर्यत्नापेक्षी स स्वभाव एव न भवति । अयन्तु सविशेषणो
हेतुर्यः स्थिराश्रयः स्वभावश्च । न स व्यवस्थितोत्कर्षस्तद्यथा श्रोत्रिय-कापालिकघृणा ।

यस्तु पुनर्यत्नापेक्षी तस्य ।

विशेषस्यास्वभावत्वाद् बृद्धावप्याहितो यदा ।
नापेक्षेत पुनर्यत्नं यत्नोन्यः स्याद्विशेषकृद् ।। १२४ ।।

यः खलु पुनर्यत्नसापेक्षः स यद्यप्यतिबृद्धिमाप्नोति । तथापि तस्य न स्वभावता ।
नहि हेतुसन्निधानतापेक्षी स्वभावे युक्तः । स्वरसवाहिनस्तथा व्यपदेशात् ततो बृद्धावपि
तस्य नात्यन्तं बृद्धिः । लंघनोदकतापवत् ।

न चैवं मनोगुणाः कृपादयोऽन्ये च बाह्यगुणाः केचनेत्याह ।

काष्ठपारदहेमादेरग्न्यादेरिव चेतसि ।
अभ्यासजाः प्रवर्तन्ते स्वरसेन कृपादयः ।। १२५ ।।

काष्ठस्य हि वह्न्याहितो406 विशेषोदरदाहादिलक्षणः स पुनर्यत्नापेक्षणात्स्वरसवाही
पारदेपि चारणजारणादिलक्षणः (।) हेम्नि च पुटपाकादिकृतः । तद्वदेव चेतसि कृपादयः
पुनः पुनस्तदनुवर्तनाहितविशेषादव्यावृत्तिभाजस्तदा कृपादिविशेष आहितो यदा नापेक्षेत
यत्नं पुनस्ततोन्यः पूर्व्वत्रानुपयुक्तशक्तिरुत्तरोत्तरविशेषकृदेवति परप्रकर्षनिष्ठा (।)

ननु लंघनमपि यत्नसापेक्षं कृपादयोपि तत एकः स्वरसवाही अपरो नेति कुतः ।
उक्तमत्र । न स्वरसवाही पुनर्यत्ननिरपेक्ष उदकतापादिः कृपादयस्तु काष्ठ इवाग्निकृता विशेषाः
स्वरसवाहिनः ।

तस्मात्सतेषामुत्पन्नः स्वभावो जायते गुणः ।
तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ।। १२६ ।।
107
यस्माच्च तुल्यजातीयपूर्व्वबीजप्रबृद्धयः ।
कृपादिबुद्धयस्तासां सत्याभ्यासे कुतः स्थितिः ।। १२७ ।।

व्यवस्थितोत्कर्षता407 पूर्व्वसजातीयकृपादिबुद्धिप्रभवा एव कृपादयो न विषयादिसन्नि
धानादिसापेक्षाः । तथाहि ।

स्मरणश्रवणेनापि कृपादीनां प्रवर्तनं । न च प्रत्युपकारादिसव्यपेक्षाः कृपादयः ।। ५८५ ।।

तत्क्षेत्रीकृतसन्तानानां हि प्रत्यग्रसततापकारप्रवर्तमानेष्वपि न कृपादयः शिथिलतां
भजन्ते । ततस्तेषामभ्याससमागममहोत्सवसमये कृतो विकाशेतरता मन्दता ।

अथापि स्याल्लङ्घनस्यापि सोभ्यासः समस्त्येवाभिवृद्धेरनवधिकाया हेतुः । अतस्त
स्यापि स धर्म्मप्राप्तो न चैवमतो विपर्यंय इत्याह ।

न चैवं लंघनादेव लंघनं बलयत्नयोः ।
तद्धेत्वोः स्थितशक्तित्वाल्लंघनस्य स्थितात्मता ।। १२८ ।।

न हि कृपादेरेव समानजातीयात्कृपादिवल्लंघनादेव लंघनमपि नु बलयत्नाभ्यां स्वाभ्यस्त
लंघनोपि बलव्यपगमे यत्नस्य च न लङ्घयितुं समर्थः । बलस्य च व्यवस्थितात्मता स्वहेतु
सामर्थ्यात्प्रयत्नस्य च । ततो लंघनमपि स्थितात्मैव नान्यथा ।

अथापि स्याद्(।) अभ्यासादेव लंघनविषयाल्लंघनं । अन्यथा बलस्य प्रागपि भावाल्लं
घनप्रसङ्गः । अथ बलमेव प्राग् नासीदभ्यासेनैव तस्य निर्वृत्तेः(।) तथा सति समानजातीय
लंघनजत्वेपि लंघनमनवधिकं नेति कृपादीनामपि स एव प्रसङ्गः । अत्रोच्यते ।

तस्यादौ देहवैगुण्याद् पश्चाद्वदविलंघनं ।
शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ।। १२९ ।।

नाभ्यासाद्वलमपि तु सदेव बलमुपहतं श्लेष्मादिभिरसमर्थं लंघने । ततो लंघनाभ्या
सादनयोर्वैगुण्यस्य । तत आहारादेस्तदेव पूर्व्वकं बलं स्वयमस्यास्ते । तेन पश्चाल्लंघनं न
प्राक् । अथ रसायनोपयोगाद्वलं । तदपि रसायनशक्तिनियमाद् व्यवस्थितं । समानेपि
लंघनाभ्यासे पुरुषगरुडशावकयोर्न लंघनसमानता । तथाहि ।

गरुत्मच्छाखामृगयोर्लंघनाभ्याससङ्गमे । समानेपि समानत्वं लंघनस्य न विद्यते ।। ५८६ ।।

तस्मादभ्यासेपि योनिजातिबलापेक्षमेव लंघनं न लंघनमात्रापेक्षं । कृपादीनां तु पुनरन्या
नपेक्षत्वमेव ।

नन्वभ्यासाद्बलं बलाल्लङ्घनमिति तदेवाभ्यासपूर्व्वकत्वं कृपादिवत् । न ।
अत्यन्ताभ्यासाद् बलस्य हानिरपीत्यदोषः ।

यदि तर्हि सजातीयबीजमात्रापेक्षाः कृपादयस्तदानादित्वादत्यन्तं तत्स्वभावतैव स्यात् ।
न चास्ति तत्स्वबीज प्रभवा नेति गम्यते । अत्रोच्यते ।

कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् ।
विपक्षैर्ब्बाध्यते चित्ते प्रयात्यत्यन्तसात्मतां ।। १३० ।।
108

यद्यपि कृपा स्वबीजप्रभवानादिश्च कालस्तथापि न सात्मीभावः । स्वबीजप्रभवैरेव
द्वेषादिभिर्ब्बाधनात् । यदि नैरन्तर्यमाप्यते तदा सात्मीभावः स्थिराश्रयत्वेपि तत्र महता प्रयत्नेन
विपक्षविद्वेषादिनिवारणे कृपात्मकत्वं ।

अवश्यञ्चेदमभ्युपगन्तव्यं ।

तथा हि मूलमभ्यासः पूर्व्वः पूर्व्वः परस्य तु ।
कृपावैराग्यबोधादेश्चित्तधर्म्मस्य पाटवे ।। १३१ ।।

अभ्यासो हि कृपादीनां पूर्व्वः पूर्व्व उत्तरोत्तरस्य चित्तधर्मस्य पाटवेन पुनरुत्पत्तौ ।
उत्पन्नस्य हि स्वबीजात्पाटवमेव केवलं विधातव्यमभ्यासेन विद्यमानत्वादुत्पत्तेः । ततः ।
स्वार्थे निरुच्छकत्वेन408 परार्थें सस्पृहात्मनः ।

कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत् ।

अभ्यासो ह्यनन्यकर्म्मणा क्रियमाणः कृपात्मकत्वं विदधाति । यथा घृणा वैराग्यं
रागञ्च । यथा हि विपक्षैरबाध्यमाना घृणा सात्मीभवति । यत्सद्भावादुपादेयमेव किञ्चि
न्नावभासते । तथा वैराग्यं रागितापि द्रष्टव्या ।

४. शास्तृत्वाद् भगवान् प्रमाणम्

(१) शास्तृत्वव्याख्यानम् ।

एवं कारुणिकः परदुःखनिराचिकीर्षया पर409दुःखहानार्थमुपायाभियोगी भवतीत्याह ।

निष्पन्नकरुणोत्कर्षः परदुःखाक्षमेरितः ।। १३२ ।।
दयावान् दुःखहानार्थमुपायेष्वभियुज्यते ।

दयावतो हि स्वदुःखहानाय यत्नः सम्भवी । स्वदुःखक्षयमन्तरेण परदुःखनिराकरणेऽसा
मर्थ्यं । ततः स्वदुःखक्षयसाक्षात्करणे सर्व्वभावसाक्षात्करणे चाभियुज्यते । यतः ।

परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करं ।। १३३ ।।

यस्य खलु स्वर्ग्गापवर्गहेतुफलसाक्षात्क्रिया नास्ति तस्य परेभ्यस्तदाख्यानं दुष्करं ।
नहि तस्य तत्र सामर्थ्यं । यद्यपि नाम चतुरार्यसत्त्यदेशनासम्भवत्यनुमानपरिनिश्चितत्वे
सत्त्यानां । तथापि न सर्व्वदा । स्वार्थंसमीहावेलायामसंभवात् । नरकादिसम्भवे च
प्रतिनियतकर्म्मफलमावीच्यादिलोकधातुवृत्तान्तकथनं न सम्भवत्येव । ततः सर्वमेव
साक्षात्कर्तव्यं ।

तत्र साक्षात्कारणे हेतुः परीक्षणं । तदेवाह ।

युक्त्यागमाभ्यां विमृशन् दुःखहेतुं परीक्षते ।
तस्यानित्यादिरूपञ्च दुःखस्यैव विशेषणैः ।। १३४ ।।
109

युक्तिरनुमानं । अनुमानागोचरे चागमः, अतीन्दिययार्थप्रत्यायनहेतुः । अथवा ।
आगमः प्रथमं प्रबोधको भवति । ततो युक्तिरर्थप्रत्यायनफला प्रवर्तते । न त्वागमादेवार्थं
निश्चयः । विवक्षामात्रात्प्रवृत्तेः । अर्थ410 प्रतिबन्धाभावात् । एतच्च सर्व्वं विमर्शाभिमुखस्य
नान्यथा । ततः प्रथमं विमर्शः पुनरागमे तस्यार्थस्य दर्शनं । परार्थानुमानरूपे नाज्ञा
मात्रके । नहि प्रामाणिकेर्थे आज्ञामात्रदायी प्रेक्षावान् वक्ताऽमूढ़ो वा । ततो युक्त्या
तस्यार्थस्य स्थिरीकृत्य भावयतः साक्षात्करणमित्यनुक्रमः । तत्र तावत्प्रथमं दुःखहेतुमेव परीक्षते,
हेतुनिवर्तनद्वारेण दुःखनिवर्तनार्थं । दुःखहेतौ च निरूपिते तस्य पुनरनित्यतादिरूपन्तत्परीक्षणेन
निवर्तनयोग्यतानिरूपणार्थं । अनिरूपिते हि निवर्तनयोग्यत्वे निवर्तनायोत्साह एव न स्यात् ।
न ह्यहेतुकत्वे नित्यहेतुकत्वे वा निवर्तनाय व्यापारः सफलः । यतः ।

अहेतोर्नित्यतैवास्ति नित्यहेतोः क्षयः कुतः । हेतुवैकल्यमप्राप्य कथं भावो निवर्तते ।। ५८७ ।।
यस्य हेतुकृतो भावस्तदभावान्न तद्भवेत् । तदभावेपि भावश्चेदभावोस्य कुतो भवेत् ।। ५८८ ।।
अनित्यहेतुको भावो हेत्वभावे निवर्तते । नित्यहेतोरभावोस्ति न हेतोर्न निवर्तते ।। ५८९ ।।

तस्माद्विशेषणैरनित्यतादिभिर्दुःखस्य । तस्य हेतोरनित्यतां परीक्षते ।

यतस्तथास्थिते हेतौ निवृत्तिर्नेति पश्यति ।
फलस्य हेतोर्हानार्थं तद्विपक्षं परीक्षते ।। १३५ ।।
साध्यते तद्विपक्षोपि हेतो रूपावबोधतः ।

यदीश्वरादिको नित्य एव कश्चिद् दुःखस्य हेतुः स्यात् । ततस्तस्यावैकल्यान्निवृत्तिर्न
भवति दुःखस्येति मतिमान् भवेत् । ततो निवर्तनाय न प्रवर्तते फलस्य । न ह्यशक्ये
कश्चित् प्रवर्तते । प्रवर्तमानो वा न विघातभाक् । फलस्य च यो हेतुस्तद्विपक्षं परीक्षते । हेतो
र्हानार्थं । नहि भवतोपि विपक्षसङ्गमन्तरेण निवृत्तिः । न चाहेतोरभावो विपक्षाभावे । हेत्वभा
वादेव निवृत्तिरिति चेत् । कर्म्मक्षयादेव निवृत्तिरिति परमतं । न (।) विद्यातः कर्म्मापरापर
मिति न कर्म्मक्षयः । अविद्या च हेतुः कर्म्मण इति प्रतिपादयिष्यते दुःखस्य चेति न दोषः ।

ननु दुःखस्य न हेतुर्नियतरूपः प्रियविप्रयोगाद्यनेकरूपत्वात् । ततो निवर्तंनमशक्यं ।
अत्रोच्यते ।

आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः ।। १३६ ।।
हेतुर्विरोधि नैरात्म्यदर्शनं तस्य बाधकं ।

आत्मात्मीययोरभिनिवेशकृतः स्नेहो दुःखस्य हेतुः । स्नेहनिवृत्तौ च नात्मीये विहन्य
माने दुःखं ।

ननु यद्यपि नात्मीये विहन्यमानेपि न मानसं दुःखं स्नेहनिवृत्तौ कायिकन्त्वात्मनि
कथं न दुःखं । अत्रोच्यते ।

परदुःखेन दुःखी यस्तस्य नात्मसुखोदयः । आत्मीयाभिनिवेशे हि स्वस्नेहस्य निवर्तनं ।। ५९० ।।

न खलु सुतस्नेहतिरस्क्रियमाणात्मस्नेहा: कायिकमपि शस्त्रादिसंपर्कजनितमव
लम्बन्ते दुःखं । आत्मीयस्नेहश्च411 सत्कायदृष्टिदुःखस्य हेतुस्ततो नैरात्म्य-

110

दर्शनम्बाधकं विरोधित्वात् । तदाकारविरोधी हि धर्म्मस्तस्य बाधकः । पवनस्येव स्निग्ध
तौष्ण्यादयः412 । ततो नैरात्म्यसात्मीभावे तद्विपर्ययाकरस्य सत्कायदर्शनस्यानित्यस्य सतो
निवृत्तिः । तत आत्मात्मीयग्रहनिवृत्तौ सकलकायिकमानसदुःखनिवृत्तिः ।

ननु देहच्छेददाहादौ च कथं मरणादिदुःखाभावः । नैतदस्ति ।

मरणन्तेन देहेन वियोगादपरं नहि । देहान्तरस्योत्पत्तिश्च जननं दुःखितात्र का ।। ५९१ ।।

यदा देहेनैकेन वियुज्यते परेण च तस्य युक्तिः स्मरणञ्च पूर्व्वापरावस्थयोरभ्यास
जनितस्मृतिपाटवस्य तदा बालबृद्धावस्थापरित्यागोपादानवत् परिधानोपादानत्यागवच्च
तस्य का पीडा । न च पीडानुसन्धानाऽग्रहमन्तरेण यत्रैवाभ्यासस्तदेवाभिरतिकारणं ।
औदासीन्याभ्यासे च न सुखदुःखे स्तः ।

अत्यन्तमौदासीन्यस्य सम्भवे देहभोग्ययोः । न पीडास्त्यपकारेपि सत्त्वदृष्टिनिवर्त्तने ।। ५९२ ।।

तदाह ।

बहुशो बहुधोपायं कालेन बहुनास्य च ।। १३७ ।।
गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशतां ।

नैरात्म्यदर्शनेन सकलपर्याकुलताहेतुरागादिव्यपगमे प्रबोधविकासे चानेकप्रकारापरापरो
पायाभ्यासगुणदोषाणां प्रकाशनं । शास्त्राभ्यासे सत्यनेकप्रकारशास्त्रगुणदोषप्रकाशनवत् ।

गुणदोषप्रकाशनं हि बुद्धेः पाटवं ।

बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते ।। १३८ ।।
परार्थवृत्तेः खड्गादेर्विशेषोयं महामुनेः ।

यदा च पटुबोधोपनीतगुणदोषविवेकस्तदा सकलमनुभूतगुणमध्यवर्त्ति413 क्षणिकमपि
दोषजातं जानाति । ततो वाग्वैगुण्यादिकमपि निवर्तयितुं प्रयततेऽतोवासना प्रहीयते । अयमेव
प्रत्येकबुद्धार्यश्रावकतीर्थेभ्यो विशेषो भगवतः सुगतस्य । अथवा यदि नाम दुःखप्रहाणं तथापि
न सर्व्वज्ञत्वं भवत्यन्यथा वीतरागः सकल एव सर्व्ववेदी भवेत् । अत्रोच्यते । बहुशो बहुधोपाय
मित्यादि । बहुप्रकारो हि खलूपायप्रपञ्च: । तदभ्यासे च सकलसांसारिकगुणदोषप्रकाशनं
महता कालेन ।

स्मृतिपाटवसद्भावे पूर्व्वजातिस्मृतिर्यथा414 । तदा तदनुसारेण तत्सर्बाधिगतिः पुनः ।। ५९३ ।।
यथा ग्रामान्तरायातस्तत्संस्कारानुवृत्तिमान् । ज्ञायते तद््‌विदा तद्वदागतो जन्मनोन्यतः ।। ५९४ ।।

यथा खलु ग्रामान्तरागतस्तत्संपर्कोपजनितविशेषदर्शने तद्विदा तत आगतत्वेन ज्ञायते ।
ततो ग्रामान्तरस्यापि तद्विशेषणत्वेन गतिस्तद्वदेव जन्मान्तरस्यापि तज्जनितसंस्कारकारणत्वे
नानुमानं ।। परोक्षोर्थो जन्मान्तरसम्भवी ।

किमनेन प्रकारेण दानादिर्नानुमीयते । ततश्च कर्म्मफलयोर्नियमप्रतिवेदनं ।। ५९५ ।।

111
अनेन कर्म्मणानेन देशेनास्य समागमः । प्रागासीदेवमाकारस्वभावस्य समागमात् ।। ५९६ ।।

प्रतिनियतं देशादिसंसर्ग्गतत्कार्यस्वभावयोरवान्तरस्वभावनिरूपणे सकलकारणस्वभाव
तत्कार्यस्वभावभेदसम्बन्धवेदनमिति प्रतिनियतस्वभावसाकल्यवेदनमिति सर्व्वकर्म्मफलादि
सम्बन्धपरिज्ञानं ।

स्वर्ग्गापवर्ग्गमार्ग्गस्य यथावद्वेदने सति । पुरुषार्थज्ञतामात्रात्सम्पूर्ण्णं शासनं मतं ।। ५९७ ।।

न च कार्यकारणमतिवृत्य परस्परं सकलं जगज्जायते । ततोनेकप्रकारकार्यकारण
भावभावनानुबन्धेन सकलस्य जगतो भवति वेदनमनवद्यं ततः सर्वज्ञता ।

अथानुमानेन वेदने कथमस्य साक्षाद्दर्शित्वं साक्षाद्द्रष्टा च भगवानिष्यते । तदपि
यत्किञ्चिदेव ।

सर्व्वाकारानुमानं यदध्यक्षात्तन्न भिद्यते । नेन्द्रियेणापि संयोगस्ततोधिकविशेषकृत् ।। ५९८ ।।

यत्खलु सर्व्वाकारपदार्थस्वरूपवेदनं तदेवाध्यक्षं । साक्षात्करणार्थो हि प्रत्यक्षार्थः ।
नन्वक्षं प्रति वर्तते इति प्रत्यक्षं(।) नाध्यक्षलक्षणमेतत् । अपि तु साक्षात्सद‌्भूतपदार्थवेदनं ।
अक्षन्तूपलक्षणमात्रं । किञ्च । यद्यक्षयोगेपि साक्षाद्दर्शनाभावः किन्तदध्यक्षं । अक्षमेव तन्न
भवत्युपहतत्वादिति चेत् । उच्यते ।

असाक्षात्कृतिहेतुत्वादनक्षं यदि तन्मतं । साक्षात्करणहेतुत्वादक्षमित्यवधार्यतां ।। ५९९ ।।

नहि संस्थानादिमात्रकादेवाक्षता युक्ता । उपहतस्यापि तत्त्वप्रसङ्गात् । साक्षात्करण
हेतुत्वे त्वक्षतायां मनसोपि तथात्वाविरोधः । अन्यच्च ।

मनसः पाटवादेव स्पष्टमाकारदर्शनं । मनसि व्याकुले ह्यक्षप्रतीतेः स्पष्टता कुतः ।। ६०० ।।

मनस एव समाधानसङ्गतादक्षविज्ञानमपि साक्षात्कारि । अतोऽध्यक्षजन्यत्वमकारण
मेव । तस्मादनुमानमपि सर्व्वाकारसाक्षात्करणप्रवृत्तं प्रत्यक्षमेव ।

नन्वतीतादौ परोक्षेर्ये प्रवर्तमानं कथं प्रत्यक्षं । नैतदपि युक्तं ।

साक्षात्करणसद्भावे कथमस्य परोक्षता । साक्षात्कृतः परोक्षश्चेदपरोक्षो न विद्यते ।। ६०१ ।।

अथाक्षव्यापारदपरोक्षता । स एवाक्षव्यापारः साक्षात्करणमन्तरेण कथमवगम्यते ।
साक्षात्करणेनावगतौ सर्व्वाकारानुमानेप्यक्षव्यापारः स्यात् । अनुमानावतारस्य सर्व्वत्र
भावात् । चक्षुरादिव्यापारोप्यनुमानादवगम्यते । अपि च ।

सर्व्वाकारानुमानं हि प्राग् दृष्टस्य भवेद्यदा । तदात्मचक्षुरादीनां व्यापारोपि प्रतीयते ।। ६०२ ।।
क्वचिद्भावी क्वचिद् भूतः सोऽनुमानेन गम्यते । अक्षव्यापार इत्येषा तत्राक्षव्यावृत्तिर्न किं ।। ६०३ ।।

यदा तदैवोत्पन्नो भावी वा पदार्थोनुमीयते । तदा भावी तत्राक्षव्यापारः प्रतीयतेऽ
नुमानेन । यदा भूतस्तदा भूत एव । सा चा415 सर्व्वाकारेणानुमानतः प्रतीयमानः समस्त्येव
कथमभावोऽक्षव्यापारस्य ।

ननु भावी भूतो वा कथमस्ति । नैतदस्ति ।

112
साक्षात्करणमेवास्य भावस्यास्तित्वमुच्यते । सर्व्वत्र साक्षात्करणात्सत्त्वं भावस्य गम्यते ।। ६०४ ।।

वर्तंमानाभिमतस्यापि पदार्थात्मनि स्तम्भादौ साक्षात्करणादेव गम्यते तदस्तित्वं नान्यतः ।

नन्वसाक्षात्कृतेपि वह्नयादावनुमानगम्यमस्तित्वं । न (।)तत्रापि तथाभूतस्यैवानुमानं
साक्षात्कृतं क्रियमाणं करिष्यमाणञ्चानुमीयतेऽन्यथानुमानाप्रवृत्तेः । दर्शनानुसार्यनुमानं
दृश्यतामेवानुमापयति । अन्यथाऽयोगात् । यदि तु न केनचिद् दृष्टं दृश्यते द्रक्ष्यते वा तदा च
शविषाणायमानमसदेव । सर्व्वसामर्थ्योपाख्याविरह एवानुपाख्या ।

ननु वर्तमानकालसम्बन्धोस्तित्वं न साक्षात्करणं । तथा च योगिनामतीतानागतपदार्थ
साक्षात्करणं भवद्भिरिष्यते । वर्तमानतामात्रदर्शने तु नासावतीतादिदर्शी । ततः सर्वजन
समानता कथमस्य शास्तृत्वं योगित्वम्वेति परे उक्तवन्तः । तत्रेदमुच्यते ।

न प्रमाणन केनापि गतिः कालस्य विद्यते । रूपादिमात्रस्य गतिः प्रत्यक्षादनुमानतः ।। ६०५ ।।

प्रत्यक्षमतिवृत्त्यापि वृत्तिमभ्युपलभ्यते ।।

प्रत्यक्षेण रूपादीनां स्वभाव एव केवलमुपलभ्यते न कालादियोगः । तदाकारमात्रसम
गामादध्यक्षस्य (।) न हि पुरोवर्त्त्याकारपरिग्रहमन्तरेण प्रत्यक्षमीक्षते । अन्यथा सर्व्वः सर्व्वदर्शी
भवेत् । न च पुरोवर्त्त्याकारतया कालः स्तम्भादिवदुपलभ्यते । नापि प्रत्यक्षमन्तरेणानुमानं ।
अथ क्षिप्रचिरादिप्रत्ययग्राह्योऽनुमेयो वा । तदपि न सम्यक् ।

चिरमित्यादि बुद्धीनां न पुरोवर्त्तिकालता । नैवमाकारविरहे बुद्धेः प्रत्यक्षतेष्यते ।। ६०६ ।।

चिरंकृतमित्यादौ घटादिकमेवावभासते । न तु तत्रापरः कालः ।

अथापि स्याद् (।) यदि घटादय एव कार्यताभाजोऽवभासन्ते । कस्तर्हि चिराद्यर्थः ।
अत्रोच्यते ।

घटाद्यवयवादीनां समाप्तिर्मन्दताक्रमात् । चिरार्थः कालविरहे कारणानामसन्निधेः ।। ६०७ ।।

मन्दक्रमेण या घटाद्यवयवानां परिनिष्पत्तिः समाप्तिश्चिरार्थः स ।

ननु कालमन्तरेण सैव मन्दताक्रमश्च न युक्तः । न (।) साधनासन्निधानमात्रेण
तदुपपत्तेः । साधनासन्निधानञ्च सन्निधानकारणाभावात् । सन्निधानकारणाभावोपि तत्कार
णाभावत इत्यानादिरेष हेतुप्रक्रमः । ततो न कालो नाम कश्चित् ।

अथ कालबलान्मान्द्यं क्षिप्रता वा प्रवर्तते । कार्याणां हेतुना तत्र किं कृत्यमिति चिन्त्यतां ।। ६०८ ।।

कालः कार्याणां प्रवर्तकः किमत्र कारणानां व्यापारस्य फलं । कारणमन्तरेण न कालः
समर्थ इति चेत् । कारणभावाभवाभ्यामेव तर्हि कार्याणामुत्पादः कालस्तु न समर्थः (।) यदि तु
कालाभावे कारणानामसामर्थ्यं । युक्तः कालस्य कारणभावः । न चाभावः कालस्य व्यापि
नित्यत्त्वात् । अयापरापरकालसमवधानापेक्षकारणादुत्पत्तिस्तदेवापरापरकालसमवधानं कुतः ।
कारणान्तरादिति चेत् । तत एव तर्हि कार्यक्रमः किं कालेन । क्रम एव काल इति चेत् ।
न (।) सहितासहितभावस्य क्रमत्वात् । स च पदार्थरूप एवेति नापरः कालः । अथादित्यादि
गतिरेव कालः । न (।) आदित्यादिस्वरूपव्यतिरेकेण गत्यभावात् । तच्च स्वरूपं
प्रत्यक्षगम्यमेव ।

दृष्टतातीतकालत्वं दृश्यता वर्तमानता । भाविता द्रक्ष्यमानत्वमिति कालव्यवस्थितिः ।। ६०९ ।।
113

कथन्तर्हि व्यतिरेकप्रत्ययोयं कालोस्य भावस्येति ।

कायः शिलासुतस्यायं व्यतिरेकगतिर्यथा । कालस्य व्यतिरेकित्वं तथा प्रमितिसङ्गतं ।। ६१० ।।

तथा चाह लोकः ।

कः कालो भवतो जातः सुस्थितत्वादि किन्तव । तत्स्वरूपविशेषस्य प्रश्ने युक्तमिदं वचः ।। ६११ ।।

तत इदानीमदृश्यमानमतीतमनागतमित्यर्थतत्त्वं । एवमतीतादिदर्शनं योगिनामिति
अदृश्यमानदर्शनमिति प्राप्तं । तत्र यदि स्वयमदृश्यमानं पश्यतीत्युच्यते । तदा माता
च बन्ध्या चेति प्राप्तं । तस्मादतीतादि पश्यतीति कोर्थः । अन्येनादृश्यमानं पश्यति तद् दृश्य
मानतया वर्तमानमेव तावता तदिति न दोषः । अन्यापेक्षया तस्यातीतादित्वं । तस्माद्यत्सा
क्षात्कृतं तदेवास्तीति नातीतादक्षव्यापारस्तस्य साक्षात्कृतत्वेनास्थित्वात् ।

किञ्च तत्कालयोगेन तस्य साक्षात्क्रिया यदा । तदेदानीमसत्त्वेपि तस्यास्तित्वमदुर्घटं ।। ६१२ ।।

यद्यपीदानीन्तनकालसम्बन्धो नास्ति । तदातनकालवर्तमानतासम्बन्धस्तु साक्षात्कृतो
स्त्येव । ततो वर्तमानार्थग्रहणादतीतादिज्ञानस्यास्त्येव सर्व्वाकारपरिच्छेदवतोध्यक्षता ।
कथन्तर्हि तस्यातीतता । द्रष्टुर्वर्तमानकालसम्बन्धितया ग्रहणात् । अन्यैस्तत्कालसम्बन्धितया
वा ग्रहणात् । योगिना च समाधानादुत्थितेनातीतया व्यवहारात् । अद्यैव योगिना दृष्टं कथम
तीतमिति चेत् । नैतदस्ति यतः ।

इदानीन्तनकालत्वं द्रष्टुरेवेति गम्यते । अन्यकालः कथं युक्तो नामान्यस्य विशेषकः ।। ६१३ ।।

यो हि कर्त्तुः कालः स कथमन्यस्य प्रमेयस्य भवेत् । न खलु कर्कताश्वस्य गोर्युक्ता ।

अथ तदा प्रतीयमानः कथमन्यकालः । अन्यकालत्वेन प्रतीतेः । तथाहि ।

यस्य यद्रूपससम्वित्तिस्तदा तस्यान्यदापि वा । तद्रूपमेव तद्वस्तु कर्त्तृकालो न तस्य तु ।। ६१४ ।।

कालो हि कर्त्तुर्नार्थस्य कालान्तरविशेषणत्वेन प्रतीयमानं कथं कर्त्तुरन्यकालत्वमनुरुध्यते ।
कर्त्ता हि पश्चादन्यकालतां प्रतिपद्यते आत्मनः प्रतीयमानन्तु कालान्तरसम्बन्धितया प्रत्येति
कथं तस्यान्यथा व्यवस्थापनं । किञ्च । कर्त्तुरपि तदा तत्कालतैव प्रतीयते । पश्चादन्य
कालतान्यैव तस्य कर्त्तुस्तत्कालतेत्युक्तं । तस्मात्तत्कालतया प्रतीयते तदिति तथास्तित्वं ।
मया तु पुनरद्य प्रतिपन्नं तदिति स्मरणव्यवहारमात्रकमेव न परमार्थः । प्रत्यक्षस्यावृत्तेः ।
तस्मात्सर्व्वाकारेण प्रतीयमानं प्रत्यक्षमेव ।

अथापि स्याद् (।) यदि तत्प्रत्यक्षं कथमन्येनागतिः । यस्य हि भावी सुतस्तदनुभूयमानतया
दृष्टस्तेनाप्रतीयमानतायां कथमभ्रान्तता । इदानीं योगिनः प्रतिपत्तिर्न सुतवतः ।

तदप्यसत् ।

यथा स दृष्टः शरीरादिकालयुक्तस्तथा तस्य न बाधितत्वं ।

तत्कालयोगस्तु न तेन दृष्टस्तथा प्रती (ता) वपि नास्ति दोषः ।। ६१५ ।।
114

भाविशरीरादि416 कालसम्बन्धी हि तेनासौ तस्य पुत्रो दृष्टः । स तथा प्रतीतावपि417
बाध्यते । तदापि यद्यप्रतीतिस्ततो बाधनं ।

अथ यथा तेनाद्य तद् दृश्यते तथान्येनापि योगीतरेण, कस्माददृष्टिस्तस्येति तदप्रतीत्या
बाधनं । तदप्यसारं ।

अन्येन दृश्यते दूरे यथान्येनापि किं तथा । अश्वादिकस्य सत्तायामपि सव््र्वैंर्न दर्शनं ।। ६१६ ।।
शक्तिरेकस्य यत्रास्ति न परस्यापि तत्र सा । अयोगिनामदृश्यत्वादनागतमिति स्थितिः ।। ६१७ ।।

अथापि स्याद् । यद्यनेन दृश्यते । तथापि तत्स्वरूपेण प्रतीयमानं तदा कथमनागतं ।

उपलब्धिर्यतः सत्तानुपलब्धेरभावता । उपलब्धेप्यसत्तायां सत्ता नास्त्येव कस्यचित् ।। ६१८ ।।

नोपलभ्यमानमेवासदित्यतिप्रसङ्गात् । अथ यत्कालं यदुपलभ्यते तदैव तत्सदिति ।
तदप्ययुक्तं ।

पदार्थव्यतिरेकेण न कालः कश्चिदीक्षितः । ग्रीष्मादयः पदार्थास्तु विषया एव केचन ।। ६१९ ।।

न खलु कालः कश्चित् विषयविशेषव्यतिरेकेण उपलभ्यते । शीतादीनामादित्यगति
विशेषाणाञ्च ग्रीष्मादिकालत्वात् । तेषाञ्च उपलभ्यत्वे वर्तमानतैव कथमतीतभाविता ।

ग्रीष्मादीनामतीतादिविवेको गम्यते कथं । अन्यैरनुपलब्धश्चेद् द्वयो418 र्नास्ति विवेकिता ।। ६२० ।।

यद्यपि तदानीमनुपलब्धिस्तथाप्यवर्तमानता तदद्यावर्तमानं419 किमतीतमथानागतमिति
कुतो विवेकः । अत्रोच्यते ।

अनुमानं यथावृत्तं तथा तदिति गृह्यतां । प्रत्यक्षमपि तद्वस्तु तथैवेत्यवगच्छति ।। ६२१ ।।

यथा तदनुमानमतीतानागतादित्वेन प्रत्येति तथा प्रत्यक्षमपि तेनानुमानेन समुत्था
पितं । नहि तदनुमानोत्थापितं प्रत्यक्षमन्यथा प्रत्येति । तस्माद्यथा यत्प्रतीयते तथा तद
स्तीत्यवगम्यतां ।

नन्वनुमानोत्थापितत्वं प्रत्यक्षस्य क्रमेण प्रतिपत्त्या भाव्यं तथा चानाद्य (न) न्तवस्तु
प्रबन्धप्रतिपत्तेरपरिसमाप्तिरिति कथं सर्वज्ञता । नैतदस्ति ।

अत्यन्ताभ्यासतस्तस्य झटित्येव तदर्थवित् । अकस्माद्धूमतोवह्निप्रतीतिरिव देहिनां ।। ६२२ ।।

न ह्यभ्याससङ्गतसन्तानानां धूमादग्निप्रतीतिः क्रमव्यपेक्षायोगीनी । ततो न क्रमः420
प्रतीतिरिति न दोषः ।

नन्वनादिवस्तुनः कथं प्रतीतिपरिसमाप्तिः परिसमाप्तौ वा कथमनादिता । नैतदस्ति ।

वेदोपि यद्यनादिः स्यात् कथमस्मात्प्रतीतयः । अनादौ प्रतिपत्तीनां समाप्तिर्विद्यते नहि ।। ६२३ ।।

यदि वेदोऽनाद्यनन्तः कथमतः प्रतीतिः । अनाद्यनन्ततया चेन्न समाप्तिरिति न
किञ्चित् कर्त्तव्यं । यदि हि वेदादन्यदा421 न प्रतीतिरासीद्भविष्यति वा न वेदः प्रमाणं ।


115

नन्वद्य तावत् प्रतीतिरस्ति । नियोक्ता ममायं वेद इति प्रतीतेः । अन्यदा भवतु मा वा
भूत् । तथाप्यसौ प्रवर्तकत्वात्प्रमाणमेव प्रवर्तकाभिधानात् । नैतदस्ति । यद्ययमर्थोऽ
न्यदास्य न स्यात् इदानीं कुतः । यदि वेदोऽन्यदा नैतदर्थ इत्याशङ्का । इदानीमपि
प्रमाणमिति न स्यात् पूर्व्ववत् । अथ पूर्व्वमप्येवमेव । ततः परमपि । ततोपि परमिति
न परिसमाप्तिः । तत एकदा सन्देहे परत्राप्यनाश्वास इति न प्रमाणता । अथ पूर्व्वं
सामान्यमेकदैव प्रतीयते । तथा सत्यनुमानमेतत् । ततः सर्व्वाकारानुमाने प्रत्यक्षताप्यव्यवहृ
तैवेति । ततो नाद्यनन्तस्य प्रत्यक्षेणापि वेदनं । तस्मात् च (।)

स्वसन्तानपरिच्छेदे तत्संसर्ग्गि प्रतीयते । तत्संसर्ग्गिप्रतीतौ च परस्यापि प्रतीतितः ।

अनन्तवस्तुविज्ञानमेवं सति न दुर्घटं ।। ६२४ ।।

तस्मादपरिमितिकार्यकारणभावभेदाभ्यासे सकलकार्यभेदभासनं सकलकार्यभेदभासनं तत्-प्रभावाच्च कारण
भेदस्यापीति । अयमुपायाभ्यास उपायः सर्व्वपरिच्छेदस्य (।) अतो दयावान् अवश्य
मुपायाभियोगी । वेदस्तु परिज्ञानतोपि स्वर्ग्गापवर्ग्गमात्रवेदने नोपाय इति प्रागेव
प्रतिपादितं ।

ननु यदि नामोपायाभ्यासात् समीहितं सर्व्ववेदनं । रागप्रहाणञ्च सम्भवति । तथापि
वासनावैगुण्यादन्यथापि अपदिशेदसमाहितावस्थायां । क्षुदादियोगस्तु व्याघातकारी परार्थस्येति
न वेदादस्य विशेषः । नैतदस्ति ।

वेदस्य मूलाभावान्न प्रामाण्यं परमार्थतः । नार्थेन सङ्गतिस्तस्य व्यवहारोप्यमूलकः ।। ६२५ ।।

न खल्वनादित्वे वेदस्य प्रथममर्थसम्बन्धपरिग्रहः । व्यवहारस्तु याज्ञिकानाममूलक
एव ततोऽन्धपरम्परैव परं । विकल्पार्थप्रतिभासनमपि संकेतबलात् न च तावतार्थप्राप्तिर
न्यत्रापि दर्शंनादिति प्रतिपादितं । अत्र त्वनुमानमूलता । ततो वासनायामपि न दोषः । किञ्च ।

बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते । परार्थवृत्तेः खड्गादेर्विशेषोयं महामुनेः ।। ६२६ ।।

पटुप्रबोधस्य सकलमेव सूक्ष्ममपि गुणदोषजातमाभाति । सत्त्वार्थरक्तस्य यदपि
इष्टत्वं पीडाकरं422 ततस्तदभ्यासेन तिरस्करोति । क्षुदादयोपि विपरीतभावनावतामेव
भवन्ति नान्यथा । तथाहि ।

यदा जातिस्मरत्वेन पूर्व्वावष्टम्भसङ्गतिः । तदा देवादिभावेन क्षुद्दैन्यादेरसम्भवः ।। ६२७ ।।

किञ्च ।

त्रिर्भोक्ताभ्यासतः सार्थं423 द्विर्भुंक्तेप्यधिगच्छति । द्विर्भोक्तासकृदेवेति ततः क्षुत्सर्व्वथाऽसती ।। ६२८ ।।

यदि तु वस्तुवृत्तमेवैतत् । अभ्याससाधितं न भवेत् । तस्माद् ।

अभ्यासमूलकाः सर्व्वे गुणदोषाश्च देहिनां । आत्मायत्तः स चाभ्यासो गुणेष्वेव वरं कृतः ।। ६२९ ।।

अत एव चाभ्यासपाटवसङ्गमादेव प्रत्येकबुद्धश्रावकेभ्यो भगवान् विशिष्यते सुगतः ।
नन्वाचार्येण शासनमुपायत्वेन दुःखप्रशमस्य निर्दिष्टं । तथा चोक्तं । प्रयोगो जगच्छासनाच्छा
स्तृत्वं । ततः कथमुपायाभ्यासः स्यात् । सत्त्यमेतत् । किन्तूपायास424 एव शासनं नापरमित्याह ।


116
उपायाभ्यास एवायं तादर्थ्याच्छासनं मतं ।। १३६ ।।
निष्पत्तेः प्रथमं भावात् हेतुरुक्तमिदं द्वयं ।

न खलु मुख्यं शासनमभिमतं किन्तूपायाभ्यास एव । कथं तादर्थ्यात् । भवति हि
तदर्थे तच्छब्दः । तद्यथेन्द्रार्था स्थूणेन्द्रशब्दवाच्या । तदर्थत्वं कुतस्ततोभावात् । उपायाभ्यास
बुद्धिपाटवाभ्यां शासनं निवर्तते । कुत एतज्ज्ञायते(।) तदाह । हेतुरुक्तमिदं द्वयं । तत्र हेतुरा
शयप्रयोगसम्पत् । आशयो जगद्धितैषिताप्रयोगो जगच्छाशनाच्छास्तृत्वं । हेतुरुक्तमेतदित्यपि
कुतः । प्रथममुक्तेरेव नहि मुख्यस्य सुगतत्वे हेतुत्वं । तस्मादुपायाभ्यास एव शासनं नान्यदित्य
वगन्तव्यं । एवमुपायाभ्यासात्सुगतो भवति भगवान् ।

(५) सुगतत्वात् भगवान् प्रमाणम्

किन्तत्सुगतत्वमित्याह ।

हेतोः प्रहाणं त्रिगुणं सुगतत्वं अनिःश्रयाद् ।। १४० ।।
दुःखस्य शस्तं नैरात्म्यदृष्टेस्तद्युक्तितोपि वा ।

आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरो हेतुः । तस्य हेतोः प्रहाणं त्रिगुणं प्रशस्त
त्वात् अपुनरावृत्तेः निःशेषप्रहाणञ्चेति । प्रहाणमभाव आत्मात्मीयग्रहादेः । तस्याभावस्य
दुःखनिःश्रयाभावात् प्रशस्तत्वं । आत्मात्मीयग्रहे तु तीर्थ्यानां दुःखस्य प्रहाणं । हेतोर्दुःख
सङ्गतं । आत्मात्मीयग्रहे हि निःसन्दिग्धं दुःखमास्ते । तदेव प्रहाणं । कुतो नैरात्म्यदर्शनादेव ।
दर्शनहेयक्लेशप्रहाणं दर्शनादेव । युक्तितो वा । युक्तिरभ्यासो भावना भावनाहेयस्य क्लेशराशेः ।
अथवा युक्तिर्योगः । परस्परसङ्गताद्वैतं । अद्वैतदृष्टितोपि वा । एकदा पुद्‌गलनैरात्म्यादथवा
धर्म्मनैरात्म्यात् । सर्व्वथानैरात्म्यदर्शनान्न दुःखाश्रयणमिति । एवं तावत्प्रशस्तता गुण एकः ।
अपुनरावृत्तिगुणस्तु द्वितीयः । कासावपुनरावृत्तिरित्याह ।

पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ।। १४१ ।।
आत्मदर्शनबीजस्य हानादपुनरागमः ।

जन्मनः सम्भवो दोषाणां च पुनरावृत्तिः । निर्दोषावस्था रागाद्यभावात् । पुनरनुत्पत्तिश्च
जन्माभावः । मोक्षनगरगमनं । दोषभावे जन्मनश्च पुनरावृत्त इत्युच्यते । ते च दोषा आत्म
दर्शनाभावान्न पुनरुत्पद्यन्ते । आत्मदर्शनबीजोद्धरणात् । जन्म च क्लेशाभावात् न सम्भवति ।
ततो पुनरागमः । क्लेशकर्म्मोद्भवं जन्मेति पश्चात्प्रतिपादयिष्यते । आत्मदर्शनाभावाच्च
कुतः क्लेश इत्याह ।

आत्मोपकारस्मरणादुपकारिणिरागिता । अपकारस्मृतौ द्वेषो मोह आत्मादिदर्शनं425।। ६३० ।।

आत्मनि उपकारिण्यपकारिणि च रागद्वेषौ तावात्माभावान्न स्तः । आत्मदर्शनन्तु़
मोहः । स नैरात्म्यभावात्साक्षादेव निवर्तते । अद्वैतदर्शने तु सुतरामेव रागनिवृत्तिर्विषयाभावात् ।

ननु नैरात्म्यदर्शंनं फलं निवर्तकमात्मदर्शनस्य विपरीतत्वादिति चेत् । परस्परं
समानं विपरीतत्वं । ततो निवर्त्तितं नैरात्म्यदर्शनेनात्मदर्शनं निवर्तकमपीति नापुनरावृत्ति
स्ततोऽशेषनिवृत्तिरपि नास्येव । न चान्यः शेषः पुनरावृत्तेः ।

117

अत्रेदमुच्यते ।

तद्भूतभिन्नात्मतयाऽशेषमक्लेशनिर्जरं ।। १४२ ।।
कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा ।

तस्य नैरात्म्यदर्शनस्य सद्भूतत्वात् । विपरीतत्वाच्च । तद्विपरीतत्वादात्मदर्शनस्य ।
भूतमभूतस्य निवर्तकं वैपरीत्येन वैपरीत्यमात्रं । भिन्नात्मकञ्च । न चात्मदर्शनं भिन्नात्मकं ।
आत्माभावात् परमार्थतः अभूतत्वादात्मनः । शेषः तर्हि कः पुनः । पुनरावृत्त्यभावात् अपरः ।
अत्रोच्यते । कायवाग्बुद्धिवैगुण्यं ।

ननु क्लेशकृतस्य क्लेशाभावे कुतः सम्भवः । नाक्लेशनिर्जरमपि वासनामात्रसङ्गमात्
वृषलीवादवत् । मार्ग्गस्यानेकप्रकारनिरुक्त्यपाटवं । तस्य तर्हि शेषस्य हानं कुतः ।

नैरात्म्यादपरिहीणस्य नापरः परिहाणिहेतुः । न च यावद्व्ुद्धिस्तावद्दोषहानं । उक्तेर्वितर्क
विचारपुरःसरत्वात् भ्रान्त एव सर्वंवित् प्राप्तः । अत्राह ।

अशेषहानमभ्यासाद्; उक्त्यादेर्दोषसंक्षयः ।। १४३ ।।
नेत्येके व्यतिरेकोऽस्य सन्दिग्धाव्यभिचार्य्यतः ।

अभ्यासो हि बुद्धिपाटवकृत (स्त) तो वासना परिहीयत इत्युक्तं । न चोक्तिमात्रेणेष्टः
रागादिसाधनोक्तेर्व्यतिरेकस्य विपक्षाभावलक्षणस्य । सन्देहादतोस्य सन्दिग्धव्यतिरेकित्वा
दगमकत्वं । विकल्पे वा साध्ये वचनं । व्यभिचार्य्यत्यन्ताभ्यासाद्वितर्कमन्तरेणापि वचनवृत्तेः ।
आवेधसामर्थ्यात् वचनं प्रवर्तत एव । उक्तं च ।

सर्वासवविकल्पस्य नास्त्यध्यक्षाद् विवेकिता । न चास्पष्टावभासित्वादेव शब्दः प्रवर्तते ।। ६३१ ।।
प्रत्यक्षदृष्टेस्तम्भादावपि शब्दप्रवर्तनात् । अयं स्तम्भ इति प्राप्तमन्यथास्याप्रवर्तनं ।। ६३२ ।।
न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते । तथान्यत्रापि शब्दानां प्रवृत्तिर्न निवार्यते ।। ६३३ ।।

तस्माद्वचनेपि न दोषवानिति सिद्धं ।

नन्वन्यतः क्षयाभावो दोषाणामिति कथं दोषाभावः । नहि दोषक्षयाभावहेतुर्न दृष्ट
इति । नहि दोषक्षयाभावहेतुर्नास्ति426 वा । अत्रोच्यते । अदृष्टं427 कथमिव परिकल्प्यते ।

अक्षयित्वञ्च दोषाणां नित्यत्वादनुपायतः ।। १४४ ।।
उपायस्यापरिज्ञानादिति वा परिकल्पयेत् ।

न नाम परिकल्पना यथा कथञ्चिदवतरन्ति । अपितु निबन्धनालोचनसोपानपद्धति
सम्भवात् । यद्येते दोषा नित्याः स्युः स्यादक्षयः प्रयत्नेपि । नहि प्रयत्नशतेनापि नित्यं क्षय
मुपनेतुं पार्य्यते । अथोपायः क्षये नास्ति नोपलभ्यते । तथाप्यक्षयः । न चैतत् त्रयमपि ।

हेतुमत्त्वाद्विरुद्धस्य428 हेतोरभ्यासतः क्षयात् ।। १४५ ।।
हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ।

118

हेतुमतो हि प्रागभावात् न नित्यत्वं । हेतोर्विपक्षस्य यदाभ्यासस्तदा क्षय इति नानुपा
यता । हेतुविपक्षस्य दोषक्षयोपायत्वात् । नापि तस्यापरिज्ञानं । हेतुस्वभावस्य आत्मात्मी
याकारत्वस्य ज्ञानात्तद्विपरीतविपक्षज्ञानमिति । योहि यद्विपरीतः स तद्विपक्षस्तद्यथा वायो
स्तैलं । स्निग्धोष्णत्वात् शीतरुक्षस्य । प्रभावादिविशेषाद्वाह्यं । बाह्यस्याविपक्षेपि । नैरात्म्य
दर्शनस्तु आत्मदर्शनविरुद्धमित्यविप्रत्तिपत्तिरेव ।

(६) तायित्वाद् भगवान् प्रमाणम्

यद्यपि सुगतत्वं भगवतस्तथापि स्वार्थसम्पत्तिमात्रकादसौ कथं परेषां प्रमाणं । अवि
परीतार्थप्रकाशनेंन हि प्रमाणं । न विपरीतस्य । नाप्यप्रकाशनेन । नैतदस्ति । करुणावशादु
पायाभ्या (सा) च्च तायिता भगवतः । कस्ताय इत्याह ।

तायः स्वदृष्टमार्ग्गोक्तिर्वैफल्याद्वक्ति नानृतं ।। १४६ ।।
दयालुत्वात् परार्थं च सर्वारम्भाभियोगतः ।

वेदे हि न केनचिद् दृष्टं येन तायसम्भवः । प्रतिभासमात्रकमूलकं । यस्य च सुगतत्वं
तस्य नाभिलषणीयमस्ति किञ्चित् । ततो वैफल्यान्नानृतं वक्ति । दयावत्त्वादुपायाभ्यासः
परार्थमेव कृतः । ततो न वितथाभिधाने हेतुरस्ति । ततः कारणाभावात् प्रयोजनाभावाच्च
न वितथाभिधानं429 । करुणायोगादाक्षेपाद् अभ्यासेनोत्कर्षस्य नानभिधानमिति430 । तत
स्तायी सुगत इति प्रमाणं । स्वदृष्टस्य मोक्षमार्गस्याप्रकाशनासम्भवात् । ननु स्वदृष्ट
मार्गोक्तिरिति न तावता तायः । अन्यथा सर्व्वे तीर्थकराः प्रमाणं । स्वदृष्टमार्गोक्तेरथ तेषां
मार्ग्गकथनमेव, तन्न भवति । तस्यामार्ग्गत्वात् । अत्रापि तर्हि कथं समाश्वासः । उक्तमत्र
नैरात्म्यदृष्टेस्तद्युक्तितोपि वा । युक्तिपरिदृष्टोयं मार्ग्ग इति । तेषान्तु न नैरात्म्यदृष्टि
र्नापि युक्तिरिति । न ते प्रमाणं । न च तेषां स्वदृष्टता परस्परविरोधादुपदेशस्य ।

(I) तायः चतुःसत्यप्रकाशनम्

भगवांस्तु (।)

ततः प्रमाणं431 तायो वा चतुःसत्त्यप्रकाशनं ।। १४७ ।।

अथवा चतुःसत्यप्रकाशनं तायो नापरं । यद्यपि वे दा न्ते शून्यताप्रकाशनमस्ति ।
ततोप्यात्मनः432 सद्भावात् अमार्ग एवासाविति चतुरार्यसत्त्यदर्शनमेव ताय इत्यसाधारणार्थ
वचनता भगवत एव । ततः सत्त्यताभावादयमेव तायी । युक्तिरहितोपि एष मार्गो मातृ
संस्कारवदुपशम433हेतुरिति नापरानिर्दिष्टो मार्गं: । कतमानि तान्यार्यसत्यानि । दुःखं
समुदयो निरोधो मार्ग्ग इति । एतन्नाम्नापि भवत्युद्वेगः । यथा मूत्रमार्ग इति न तु वराङ्ग
मिति । तन्न ।


119
(चत्वारि आर्यसत्त्यानि)
434
(क) दुःखसत्त्यम्
(a) संस्कारिणः स्कन्धा दुःखम्
दुःखं संसारिणः स्कन्धा रागादेः पाटवेक्षणाद् ।
अभ्यासान्न यदृ/?/च्छातोऽहेतोर्जन्मविरोधतः ।। १४८ ।।

ननु रागोऽभिमतवराङ्गनालिङ्गनाङ्गतया सुखहेतुत्वात्सुखमेव । द्वेषोपि वैरिनिरा
करणकारणं सुखस्य (।) मोहस्तु सत्कायदृष्टिलक्षणोऽहंकारमानसमददर्पहेतुः435 सुखस्य
कारणमिति सुखमेव । रागद्वेषाद्याधारभूताः शरीरादयोपि तथैवेति न दुःखं नामास्ति । यदपि
क्षुधादि दुःखं तदपि तृप्तिसुखस्य महतो हेतुः । ततो न दुःखसत्त्यं नामास्ति इति व्यर्थिकैव
भगवतो देशनेति न तायिता । न सम्यगेतत् । यतस्ते ।

संसारवर्त्मसंसर्ग्गपरिश्रान्त्या सुखक्षताः436 । स्कन्धा एव महादुःखमविद्यात्वन्यथेक्षते ।। ६३४ ।।

यदुक्तं रागादयः सुखहेतव इति । तत्रोच्यते ।

अभ्यासहेतुको रागः सुखञ्च तदनन्तरं । नतु स्वभावतोऽभ्यासभावाभावानुवृत्तितः ।। ६३५ ।।

यदि खलु रागादयो यदृच्छयोत्पद्येरन् । नित्या वा भवेयुः । सुखम्वा तदायुक्तं । यदात्व
भ्यासादेव ते तत एव पाटवादिदर्शनात् ततोऽभूतपरिकल्पनमात्रं437 । ततोऽभ्यासपरित्याग
एव ज्यायान् । बालक्रीडाभ्यासवत् । ततो न परमार्थतः सुखं । चित्ताभिरतिलक्षणञ्च सुखं ।
अभ्यासात्संसारधर्म्मनिवृत्त्या वा वरं438 तत्त्वाभ्यास एव कुतः । सुखमप्यभ्यासादेवेष्टं । वरमौदा
सीन्यमेव । एवञ्च सति सकलमेवेदं दुःखपीडितस्य सुखमाभाति । तद्वरं रागादिपीडानुदयो न पुना
रागादिसद्भावोऽङ्गनालिङ्गनं ।

विधाय न ब्रणं कश्चित् तत्पीडोपशमात् सुखं । पुनर्वाञ्छति सद्बुद्धिरबुद्धिस्तु तथा सति ।। ६३६ ।।
तत्त्वेऽभिरमते बुद्धिर्यदि सा न विकारिणी । ततः सुखमसंक्लिष्टं नित्यमेव प्रवर्तते ।। ६३७ ।।
अतत्त्वेऽभिरतौ चेत् स्यात् निवृत्तौ तत्सुखं कुतः । तत्त्वस्याव्यतिवृत्तौ तु सुखमप्यनिवर्तकं ।। ६३८ ।।

तस्माद्यत्किञ्चित्संसारसुखं तत्सर्वं परमार्थतो दुःखमेव । तथाहि ।

यथा रागादिदुःखस्य सुखहेतुत्वमीक्ष्यते । सुखस्यापि तथा दुःखहेतुत्वमिति गम्यतां ।। ६३९ ।।

यथा खलु क्षुदादिदुःखं तृप्तिसुखस्य हेतुस्तथा सुखमपि व्यपगमेऽत्यन्तदुःखस्य हेतुः ।
तेन सुखं दुःखहेतुत्वात्सुखमेव तन्न भवति । एवञ्च सति सिद्धमेतत् । दुःखं संसारिणः स्कन्धा रागादिपाटवं त्वभ्यासादिति यतश्चाभ्यासादतः । पूर्व्वपूर्व्वसजातीयतथाभूतकारणहेतुक
मिति संसारित्वमपि सिद्धं ।

ननु नाभ्यासाद्रागोदयोऽपि तु यथाकथंचिदेवान्यतो वा हेतोस्ततः पारमार्थिका एवामी
सुखादयः । ततो न दुखं संसारिणः स्कन्धाः (।) यथा वा सुखादयोऽभ्यासात् तथा दुःखादयोपि न
120 परमार्थत इति सुखमेव संसारिणः स्कन्धा इति । नैतदपि साधीयो नयदृष्ट्याऽतोऽहेतोर्न जन्म
युक्तमाकाशादेरिव । न चान्यहेतुकाः सुखादयोऽभ्यासात्पाटवयोगात् । न चापि दुःखं कश्चिद
भ्यस्यति येन दुःखमाभ्यासिकं भवेत् । अपि तु ।

सुखादयो यदाभ्यासात् प्रवृत्तोपचयात्मकाः । तदभावे भवेद् दुःखं दुःखाभ्यासस्तु न क्वचित् ।। ६४० ।।

न खलु दुःखं ममास्त्विति कश्चिदभ्यस्यति । सुखार्थितया सकलस्य सकल एव
प्रवृत्तेः । ततः सुखं प्रयत्नसाध्यं । दुःखं तु तदभावात् प्रकृत्यैव नतु विपर्ययः । ततो
दुःखमपि सुखाभ्यासेनैव कृतं ततः सुखमेव निवर्तयितव्यं । परमार्थतस्तु । दुःखमपि
नास्त्येव । तदपि तत्रोत्त्रासभावनात एव । ततस्तत्रोत्त्रासभावनातो दुःखं (।) ततस्तदभावात्
तत्रैव दुःखेऽदुःखा सुखे वा सुखबुद्धिः, न तु परमार्थतः । तस्मात्सुखं भावनानीतं दुःखहेतुरेव ।
यदि तन्न स्यात् दुःखमपि न भवेदेव । सुताभिष्वङि्ग/?/णः पुत्रमरणे दुःखसम्भवः ।
सुतजन्मनि तस्यैव सुखं । न परमार्थतः ।

प्रार्थनीययोः वियोगस्तु कस्यचित् नास्ति शाश्वतः ।

सुखं संसारिभिः सर्वं दुःखायैव विवद्धर्यते ।। ६४१ ।।
दुःखं सम्बद्धर्य सम्बद्धर्य सुखप्राप्तिर्न युक्तिभाक् । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरं ।। ६४२ ।।
अथैवमेव सकलं सुखमन्यन्न विद्यते । नरकादिदशा दुःखपरिहारः कथं मतः ।। ६४३ ।।
नारकादपि किं दुःखाद्विद्यते न सुखोदयः । महतोपि यतो दुःखादन्यदुःखेपि सत्सुखं ।। ६४४ ।।

अथवा दुःखमिह संस्कारदुःखतालक्षणं सुखमपि तद्धिपर्ययादात्मादिलक्षणं । तन्न (।)
परामर्थतोपि त्वभ्यासात् तथा तथात्मादिव्यवस्थापनात् । तन्मूलकाश्च रागादयः(।)तत
एवाभ्यासान्नान्यथा । परमार्थस्य हेतोरभावादभ्यासोपि यदि न हेतुरहेतुता न चाहेतो
र्जन्येति युक्तम् ।

(b) रागादीनां वातादिदोषजत्वनिरासः

अथापि स्यात् (।) नाभ्यासजा रागादयः किन्तु वातादिजाः । तथा हि वातप्रकृतेर्मोहः
(।) पित्तप्रकृतेर्द्वेषः । कफप्रकृते राग इति । मूलदोषवदारोपि दोषो वातादिज एवेर्ष्यादिकः
(।) वातादयश्च परमार्थतः एव सन्ति ततः करणादुत्पत्तेः पारमार्थिका रागादयः । तदप्यसत् ।

व्यभिचारान्न वातादिधर्म्मः प्रकृतिसङ्कराद् (।)
अदोषश्चेत् तदन्योपि धर्म्मः किन्तस्य नेक्ष्यते ।। १४८ ।।

योहि यस्य हेतुः स तन्न व्यभिचरति । धूम इवाग्निं । यदि महामोहादयो वातादि
धर्म्माः ततस्तद्व्यभिचारिणो न स्युः । न चैवम् (।) अतो विपर्ययः । अथ वातप्रकृतेरन्यापि
रागजनिका प्रकृतिरस्ति । द्वेषजनिका च । ततो रागद्वेषौ (।)तेन प्रकृतिसंकरान्न व्यभि
चारः । तदप्यसत् ।

धर्मस्तस्य तदन्योपि नास्ति किं हेतुसम्भवे । कार्य्यं तस्य न चेदस्ति हेतोर्भावगतिः कुतः ।। ६४५ ।।

तदेव यदि तत्कार्यमन्यत् कार्यं कुतो भवेत् । तत एवेति चेदन्यत् कस्मात् तद्भावतो न तत् ।

अन्यतो यदि तत्कार्यं सैवेयं व्यभिचारिता ।। ६४६ ।।
121

तस्माद् यदि वातादिधर्म्माव्यभिचारो न स्यात् । अन्यप्रकृतेरपि तत्प्रकृतिकल्पनायां
कार्यमपि कल्पनीयं । कार्यमदृष्टं न कल्प्यत इति प्रकृत्यन्तरमपि न कल्पनीयं । यथा कार्य्यतः
कारणपरिकल्पना तथाऽप्रतिबद्धसामर्थ्यात् कारणतः कार्यस्यापि । अथाऽप्रतिबद्धसामान्य
कारणं नास्ति । दृष्टमपि कारणाभावेन कार्यं स्यात् । तस्य तत् कारणमेव वां मा भूत् । किंच ।

कारणं दृष्टमुत्सृज्य यद्यदृष्टस्य कल्पना । कफस्य रागहेतुत्व न स्यादन्यः प्रकल्प्यतां ।। ६४७ ।।

अथापि स्यात् । यो य एव दृश्यते स स एव रागादेर्हेतुः । ननु सर्वतो दृश्यते रागादि
स्तत् किं सर्वो हेतुः । एवमेतदेवमेव दृष्टत्वादिति चेत् । असदेतद् यतः ।

न सर्वधर्म्मः सर्वेषां समरागप्रसङ्गतः ।
रूपादिवददोषश्चत् तुल्यं तत्रापि चोदनं ।। १४९ ।।
आधिपत्यं विशिष्टानां यदि तत्र न कर्म्म/?/णां ।

सर्वधर्म्मत्वेहि रागादीनां सर्वस्य प्राणिनः केनचिद् भवितव्यं । ततो य एव कश्चित्
कफादिषु सम्भवी स एव रागाद्याश्रय इति समरागादिप्रसङ्गः । इत्याह ।

सर्वप्रकृतिधर्म्मत्वे रागादीनां समीहिते । अशक्ताप्रकृतिर्नास्ति कुतः कार्यासमानता ।। ६४८ ।।

यदा हि रागादयः सकलप्रकृतिभाविन इष्यंते । तदा कफादिप्रकृतिस्तदुत्कर्षापकर्षेपि
रागादिहेतुरिति समरागादिता निवारयितुमशक्या ।

अथ सर्वप्रकृतित्वेपि विशेषान्तरस्य भावात् न समरागता(।)तदा तर्हि सविशेषः सर्व
हेतुर्न भवतीति न सर्वधर्म्मः । अथापि सकलकफादिप्रकृतिहेतुत्वात् सर्व्वधर्म्मा रागादयः ।
तेषामेवावान्तरपरिणतिविशेषात् न समरागादिता । तदपि यत्किञ्चित् । यतः ।

यथा यः परिणामस्य विशेष उपलभ्यते । तम्यापि व्यभिचारित्वमिति सम्यग्विदर्शितं ।। ६४९ ।।

योहि परिणतिविशेषो यतो हेतो रागादिहेतुरुपलब्धः । स एव यदा द्वेषादिहेतुरपीति
व्यभिचारस्तदा सर्व्वधर्मप्रतिपादने सकलविशेषहेतुतापि प्रतिपादिता । सकलरागादिविशेषा
णामिति समरागादिता परिस्फुटैव । ततः परिणतिविशेषादित्ययुक्तो/?/ हेतुः ।439 तस्यापि
सकलरा(गा)दिविशेषहेतुत्वात् ।

अथ कार्यविशेष उन्नीयमानः परिणतिविशेषो दृष्ट एव रागाद्यसङ्करहेतुः (।)
तदप्ययुक्तं । यतः ।

अदृष्टवह्निदर्धूमो यः स न स्यादग्निहेतुकः । प्रदेशस्यैव कश्चित् स विशेषो धूमकारणं ।। ६५० ।।
बह्निप्रदेशे धूमश्चेत् न विशेषोऽपरस्य च । ततो विशेषरहितान्न धूमोऽन्यत्र सम्भवी ।। ६५१ ।।

यद्यदृष्टेरपि सर्वदा विशेषः कार्यदर्शनमात्रकात् परिकल्प्यते । सर्वत्र तर्हि प्रति
नियतकार्यकारणभावो विशीर्यते । अथ तत्र विशेषपरिकल्पना न क्रियते । दृष्टस्य वह्नेः
परिकल्पनेन बाधनात् । अत्रापि तर्हि दृष्टोऽभ्यासः परिकल्प्यतां । न परिणतिविशेष
परिकल्पना युक्ता ।

122

ननु भूतहेतुका रूपादयः इष्यन्ते । अथ भूतविशेषे विशिष्यन्ते एतदपि भवत एव चोद्यं
नास्माकं । कर्म्माधिपत्यस्य विशेषहेतुत्वात् । अन्यथा तेषामपि पक्षीकरणात् । न
तैरनेकान्तः ।

विशेषेपि च दोषाणामविशेधाद; असिद्धता ।
न विकाराद्विकारेण सर्वेषां न च सर्वजाः ।। १५१ ।।
कारणे वर्त्तमाने च कार्यहानिन/?/ युज्यते ।
तापादिष्विव रागादेर्विकारोपि सुखादिजः ।। १५२ ।।

यदुक्तं अन्यहेतुसद्भावेपि यदन्यकार्यदर्शनं तस्य विशेषसद्भावात् अदृष्टविशेष
कल्पनापि (।) अत्रोच्यते । भवतु नाम कार्यान्तरं विशेषोन्यस्तत्रेपि । यदा तु पुनः फलोत्क
र्षस्तदा हेतूत्कर्षात् कार्यस्योत्कर्षः कथं निवार्यः । तत्रापि तदन्यस्य विशेषस्यभावादिति
चेत् । एवं तर्हि स विशेषः कारणं न भवतीति कार्यंकारणग्रहणं कुतः । न च दृश्यस्या
दृष्टविशेषता युक्ता । तस्मात् ।

तद्विशेषात् विशेषस्य ग्रहणे कार्यताग्रहः । ततश्चेन्न विशेषोस्ति कुतः कार्यादिताग्रहः ।। ६५२ ।।

ननु विशेषादित्यसिद्धो हेतुः । पित्तोत्कर्षे तद्दु खपीडितस्य द्वेषोत्कर्षात् नास्त्य
सिद्धता । सर्वेषामेव कफादीनामुत्कर्षपीडया द्वेषसम्भवात् । न भवत्यपि प्रकृत्यामन्द
द्वेषस्येति चेत् । पित्तोद्रेकेपि समानमेतदित्यवाच्यं । अथ सर्वजत्वं440 तदपि न युक्तं । न च
सर्वजा इत्युक्तत्वात् ।

किञ्च यदि नामापरो विशेषो नास्ति । तथापि तद्विशेषकृतविशेषो माभूत्कार्यस्य तु
हानिः कुतः । यतः । कारणवृद्धौ कार्यस्य बृद्धिरेव युक्ता न हानिः । अन्यथा तस्य न
कारणत्वमित्युक्तं यथा तापादयः पित्तादिवृद्धौ वृद्धिमन्तः ।

ननु रागस्य बृद्धिर्बृद्ध्य441द्रव्योपयोगे कफसद्भावादुपलभ्यत एव । नैतदस्ति । द्वेषस्यै
व व्याधिपीडया भावात् । सुखादिजो हि रागादिर्न कफदिभावी । सुखञ्च कस्यचित्
कथञ्चिदुपलब्धमान्तरवासनाप्रबोधात् । ततो न रागादय दोषेभ्य इति युक्तं ।

ननु यद्यपि श्लेष्मोत्कर्षे न रागः । तथापि न तावता हेतुरसौ वैषम्यजदुःखप्रति
बद्धशक्तिकत्वात् । न च योऽन्यप्रतिबन्धेन न जनयति । स न हेतुः । सर्वस्यैवाहेतुत्व
प्रसङ्गात् । अत्राप्युच्यते ।

वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ।
वाच्यं केनोद्भवः साम्यान् मदवृद्धिः स्मरस्ततः ।। १५३ ।।
रागी विषमदोषोपि दृष्ट साम्येपि नापरः ।
क्षयादसृक्‌स्रुतोप्यन्ये नैकस्त्रीनियतो मदः ।। १५४ ।।
ते नैकस्यां न तीव्रः स्यात् अङ्गरूपाद्यपीति चेत् ।
न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् ।। १५५ ।।
123
अगुणग्राहिणोपि स्यादङ्गं सोपि गुणग्रहः ।
यदि सर्वां गुणग्राही स्याद्धेतोरविशेषतः ।। १५६ ।।
यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः ।
तयोरसमरूपत्वात् नियमश्चात्र नेक्ष्यते ।। १५७ ।।

यदि कफादिसाम्याद्विरुद्धव्याध्यसम्भवे मदस्य शुक्रापरनाम्नोऽभिवृद्धिस्ततः स्मरो
रागापरव्यपदेशभागी442 । एवं सति विषमदोषः सुरतक्षतजोऽत्यन्तस्त्रीसेवापरो रागी न स्यात्
शुक्रक्षयतः । शुक्रस्य सर्वस्त्रीषु साधारणत्वात् नैकस्त्रीनियता रागिता भवेत् । तेन
समानमदभावात् एकस्यां तीव्रता रागस्य न स्यात् ।।

अथ विषयस्यापि कारणत्वं स्त्रियः । तद्रूपादिविशेषाविशेषो यतो रूपाद्यपि कारण
मेव । तथाहि

रूपातिशयपाशेन विवशीकृतमानसाः । स्वां योषितं तिरस्कृत्य कामिनो योषिदन्तरे ।। ६५३ ।।
कदाचिदुपचारस्य हेतुना रागितां प्रति । न मदः केवलो रागकरणं नियमस्ततः ।। ६५४ ।।

तस्मादेकस्यां तीव्रतासहकारिसद्भावादपरत्र न तथेति न दोषः । नैतदपि साधीयो यतः ।

सर्वत्र व्यभिचारस्य दर्शनान्नैव हेतुता । रूपादिकस्य रूपेण हीनायामपि रागतः ।। ६५५ ।।
उपचारस्य भावाच्चेत् रूपं तर्हि न कारणं । उपचारविहीनायामपि रूपस्य सम्भवात् ।। ६५६ ।।
रागस्तदुपचारोपि रागहेतुर्न युज्यते । द्वयेनापि वियुक्तायां क्वचिद्रागस्य दर्शनात् ।। ६५७ ।।

न सर्वहेतुः सर्वेषां समरागप्रसङ्गतः ।

अथानियतहेतुतैवेष्यते । तदप्ययुक्तं । न चाप्यनियतस्ततो भवतीति युक्तं । एकस्यां
नियतो रागो रूपग्रहणलालसस्य अतर्कितोपनतायां विरूपायां रागपीडितस्य न प्रवर्तकः
स्यात् । किञ्च । मदस्य रागहेतुत्वेऽगुणग्राहिणोपि रागो भवेत् । अथ गुणग्रहणमपि अङ्गं ।
तथा सति सर्वो गुणग्राही प्रसङ्गः । सर्वस्य गुणहेतोर्भावात् । अथ गुणभावमात्रान्न गुणग्रहणं ।
कुतस्तर्हि गुणग्रहणं । यदि निर्विषयं गुणग्रहणं अनादिवासनात इत्यभ्यासादेव रागादय इति
प्राप्तं । अपि च यस्यामवस्थायामवस्थितस्य रागस्तदवस्थस्य द्वोषो न स्यात् । रागद्वेषयोर
समत्वेन विरुद्धप्रकृतित्वात् । न च तद्विरुद्धप्रकृतौ व्यवस्थितस्य तद् भवति । अथ न भवत्येव
तदप्ययुक्तं । नियमश्चात्र नेक्ष्यते ।

अथवा । यदि द्वयोरपि सा प्रकृतिस्तदा द्वयोरपि समानताप्रसङ्गः । एवमेवेति चेत् ।
न(।)एतन्नियमस्यादृष्टेः । न ह्यत्र समानकालतानियमेक्षणं । अथ यथा पित्तप्रकृत्यवस्थितस्य
स्वेदादयः कदाचित् न सर्व्वदा । तथा रागादयोपीति । तदसत् ।

तेजः संसर्ग्गजः स्वेदः तदभावे भवेन्न सः ।। ६५८ ।।
रागादीनान्तु रूपादिकारणादपरं न तत् । तद्भावे हेतुसाकल्याद्रागादि/?/र्नास्ति नास्तिता ।। ६५९ ।।

अथान्तरोपकारकृतवासनासमागमतो नियमविपर्ययस्तथा सति वासनैव रागादिकारणं ।
रागस्याप्युकारभावनाभावात् । अथापि स्यात् । यस्यापि वासनाभेदादुत्पद्यन्ते रागादयः ।
तस्यापि कथमयं न दोष इत्याह ।

124
स्वजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ।। १५८ ।।
यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः ।

रागादयो हि यदा वासनाबलाद् भवंति तदा यस्य यत्र जन्मान्तरसङ्गता वासना तत्रैव
तस्य प्रबोधः कथञ्चित् कदाचित् केनचित् हेतुनेति । वासनानियमे रूपादीनां रूपाद्य
पेक्षिता नास्तीति न प्राक्तनदोषावकाशः ।

(c) रागादीनां भूतधर्मत्वनिरासः

मा भूवन् वातादिधर्म्मा रागादयो भूतधर्मा भविष्यन्तीत्याह ।

एतेन भूतधर्मत्वं निषिद्धं निश्रयस्य च ।। १५६ ।।
निषेधान्न पृथिव्यादिनिश्रिता धवलादयः ।

य आह भूतानां पृथिव्यादीनां एते धर्म्मास्तथाहि । पृथिव्यम्बुभूयस्त्वे रागोऽनल
वाय्वोर्द्वेषः । अब्बाय्‌वोर्मोह इति । तदपि निषिद्धं । सर्वत्रानैकान्तात् । तथा चोक्तं । यदवस्थो
मतो रागीत्यादि(।)आश्रयाश्रयिभावश्च निषिद्धः । अनाश्रयात्सदसतोरित्यादिना ।

ननु यथा धवलादयो महाभूतनिश्रिताः तथा रागादयोपि । तदाह । न पृथिव्यादि
निश्रिताः धवलादयः । यदि पृथिव्यादिनिश्रिताः स्युः । तदा भूतेभ्यो रूपादिव्यतिरेका
भ्युपगमो भूतमात्राभ्युपगमं बाधते । नहि भूतमात्राभ्युपगमे आश्रयाश्रयिभावः । यदि भूता
श्रितं ज्ञानं तदा तत्त्वबहुत्वप्रसङ्गः । अव्यतिरेके भूतानामैकतैव विज्ञानाव्यतिरेकात् ।

ननु भूतान्युपादाय रूपादय इत्युपगमे आश्रयप्रतिषेधविरोधः । नाश्रयार्थ उपादा
यार्थोपि तु हेत्वर्थंः/?/ । तदाह ।

तदुपादाय शब्दश्च हेत्वर्थः स्वाश्रयेण च ।। १६० ।।
अविनिर्भागवर्त्तित्वाद् आश्रयाऽयुक्तमन्यथा ।

नाश्रयार्थ उपादायार्थः । अपि तु हेत्वर्थस्तथाहि ।

हेतोः समानकालत्वं न कार्येंणावगम्यते । समानकालयोर्नास्ति कार्यतादिविनिश्चयः ।। ६६० ।।

ततो वाधाराधेयभावः ।

भवतु वा समानकालयोरेवाश्रयाश्रयिभावः कार्यकारणभावो वा । तथापि स्वाश्र
येणाविनिर्भागवर्तवनात् । तथाहि ।

आश्रयाश्रयिभावेन रूपादेर्नियमो यदि । अविनिर्भागवर्त्तित्वमेतेषामिति गृह्यतां ।। ६६१ ।।

यदि तयोराधाराधेयभावस्तदाधेयाभावे तदाधारस्य विनाशोऽविनाशे वा पश्चादिव
पूर्वमति नाघारता । ततोऽविनिर्भागवर्त्ती रागादिरपि प्राप्तः । न च रूपादिव्यतिरेकेण महा
भूतरूपं नामास्तीति पराभ्युपगमेनैव इदमुच्यते । न च रागादीनामविनिर्भागवृत्तिः कस्य
चित्कदाचिद् भावात् ।

मदादिशक्तेरिव चेत् विनिर्भागो न वस्तुनः ।। १६१ ।।
शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितमाश्रये ।
125
तिष्ठत्यविकले याति, तत्तुल्यं चेत् न भेदतः ।। १६२ ।।
भूचेतनयोर्भिन्नप्रतिभासावबोधतः ।

सुरासवादेर्द्रव्यस्याश्रिता मदशक्तिर्विनिर्भागेन443 वर्तते । स्थिते द्रव्ये निवृत्तेः
पश्चाच्च भावात् । तथाहि । कषायमधुरद्रव्यसम्भवे प्राग्भाविनी शक्तिराविर्भवत्येव ।
पुनरप्यपगच्छति ।

न चानाश्रितरूपासौ तथात्त्वेन प्रतीतितः । रागादयोपि तद्वत्स्युर्दैहमेव समाश्रिताः ।। ६६२ ।।

तदप्ययुक्तं । शक्तेरर्थान्तरत्वाभावान्नहि शक्तिरर्थान्तरभूता भूताद् द्रव्यस्य शक्ति
रिति व्यतिरेकव्यपदेशो व्यपदेशिवद्भावाच्छिलापुत्रकशरीरमित्यादिवत् । यथा चैवं तथा
प्रतिपादयिष्यते ।

ननु पावकादीनां यदि नास्ति शक्तिरन्या तदा मन्त्रतन्त्रादीनां कस्य प्रतिबन्धो
न तावत्पुरुषस्यान्यत्र दाहात् । शक्तिप्रतिषेधे तु तस्याप्रतिषेध इत्यन्यस्य दाहः । तदसत् ।

शक्तेरपि निषेधेऽयं विभागः कथमाप्यते । नहि सापि क्वचिन्नास्ति क्वचिदस्तीति शक्यते ।। ६६३ ।।
बहृत्वे ननु शक्तीनां विभागः किमसम्भवी । शक्तिस्तद्दाहिका नास्ति तदन्या तु न वार्यते ।। ६६४ ।।
दाह्यस्यैवाथवान्यत्त्वं क्रियते तो न दह्यते । अन्येन दह्यतेऽन्यत्र शक्तरेप्रतिबेधतः ।। ६६५ ।।

न सदेतत् ।

तावत्यः शक्तयस्तस्य भावस्य कुत आगताः444 ।

ताभिः किम्वास्य कर्त्तव्यं येन तासामपेक्षणं ।। ६६६ ।।
नासावपेक्षते भावः कारणादेव तास्तथा । कार्य्याणि च विभागेन न स्युस्त श्चेन्न शक्तयः ।। ६६७ ।।
नहि शक्त्य (ा) वहुत्वेन कार्य्य नानात्वसम्भवः । दहनादिविभागेन दहनादेर्यदीक्षते ।। ६६८ ।।
तन्न स्यादेकरूपस्य वह्नयादेः सम्भवो न वा । सम्भवे सर्वदाह्यत्वं तदभावे न कस्यचित् ।। ६६९ ।।

एकस्य भावाभावौ च संस्तो न युगपत् क्वचित् ।

तदपि न परिहर्त्तव्यं ।445 यतः ।

यथैककारणादेव नानाशक्तिर्भवत्यसौ । नानाकार्योपि किं नेष्टः किमदृष्टं प्रकल्प्यते ।। ६७० ।।
कार्य्यनानात्वदृष्टेश्च नानाशक्तिप्रकल्पना । यदि तान्येव सन्त्वत्र स्वभावनियमोऽस्य सः ।। ६७१ ।।
जातः स्वकरणादीदृग् येन मन्त्रादिसंयुतः । विभागात् कार्य्यकरणे समर्थः शक्तयो वृथा ।। ६७२ ।।
वंचकः सर्वदहनो विनामन्त्रेण कारणात् । स एव कस्यचिद्दाहसमर्थो मन्त्रसंयुतः ।। ६७३ ।।
दाह्यद्रव्यस्य तद्रूपं येन तेन न दह्यते । अन्येन दह्यते तस्य स्वहेतोरेव सम्भवात् ।। ६७४ ।।
इति शक्तिनिषेधेन नाश्रयाश्रयिसम्भवः(ा) ततः स दृष्टो दृष्टान्तः प्रकृतस्य न साधकः ।। ६७५ ।।

अतो वस्त्वेव तन् नश्यति । न त्वाश्रितं तिष्ठत्यविकल एवाश्रयेऽपगच्छति ।

अथापि स्याद् (ा) अत्रापि भूतचेतनयोरेवमेव भवेत् । अत्र परिहारः । भूतचेतेनयो
र्भेदात् । न खलु चेतनानां शक्तिवद्भूताव्यतिरेकः । एतदेव कुत इति चेत् । भिन्न
प्रतिभासावबोधात् ।


126

446 प्रतिभासभेदः सर्व्वत्र वस्तुभेदस्य साधकः । भेदसिद्धेरुपायो हि न कश्चित्447 पर ईक्ष्यते ।। ७७६ ।।

भिन्नेन्द्रियभिन्नप्रतिपत्तृग्राह्यत्वेपि यद्यभेदावभासिता ।

तदा तत् कथमेवं प्रतिपत्तिर्हि भेदिका प्रतिभासरूपा न प्रतिपत्तिकारणभेदः । अथ
कारणभेदात् प्रतिपत्तेरपि भेदः । स एव तर्हि प्रतिपत्तिभेदो भेदको व्यर्थकमपरं । तत्र च
भिन्नः प्रतिभासोऽन्तःसातादिरूपेण संवेदनं विज्ञानस्य नोष्णादिरूपेण448 ग्राह्यतयाऽर्थस्य । अथान्तः
स्प्रष्टव्यविशेषरूपा एव सुखादयः तेनान्तःसंवेदनरूपा ।

योहि यत्र स्थितो भावः स तथैवानुभूयते । दूरादूरादिभेदेन यथा वृक्षादिवेदनं ।। ६७७ ।।

अन्तःस्प्रष्टव्यविशेषो हि न दूरं भाति449 । तेनासावात्मैकदेशतया450 न्तःशरीरस्य स्थिते
र्न बाह्यवृक्षवदनुभूयते । न न्याय एष ।

यदि स्प्रष्टव्य एवासौ तस्य केन प्रवेदनं । अन्येन वेदने भिन्नवेद451 नत्वं प्रसक्तिमत् ।। ७७८ ।।

अथ स्ववेदनं तस्य न महाभूतरूपता । स्वविद्रूपं किमन्येन452 तथैव न453 विभाव्यते ।। ७७९ ।।

उदरान्तर्ग्गततत्त्वाच्चेत् अन्तःस्पर्शोस्तु वेदनं ।

यो ह्यन्तरवयवस्पर्शी तस्य वेदनप्रसङ्गः । बहिरा454 लिङ्गनस्पर्शोपि सुखरूप एव ।

द्वयोरन्योन्यसंस्पर्शे द्वयोरप्यस्तु वेदनं । पर455 रूपं परो वेति नात्म456 रूपं कथं परः ।। ७८० ।।

अथ परैः स्पृश्यमानं तदेवात्मरूपं सुखीभवति । तथा सति परेण तथा प्रतिपत्तिप्रसङ्गः ।
परस्य सर्व्वाकारप्रतिपत्तेरिति चेत् । यद्येकोसावर्थः कथं न सर्वाकारप्रतिपत्तिः । अथानेकः
प्रतिपरमाणु भिद्यते । तथा सति सुखपरमाणुभेदे सुखवद् दुःखे457 कस्यचित्प्रतिपत्तिः सुखादेः
स्यात् । न परसुखस्य लेशोपि विद्यते । स्वयं च प्रतिसंविदितानामेकस्यैव प्रतिपत्तिरिति
समानानुभवौ स्त्रोपुंसौ स्यातां । सर्वप्रवेदनेऽनेकपरमाणुप्रवेदनप्रसङ्गः458 ।

अथ परस्परसंसर्गो विभागाभावात् । न (।)तद्‌व्यतिरेकेण संसर्ग्गाभावात् । भावे
वा विवेकप्रतिपत्तिरनिवारिता स्यात् । संसर्ग्गाद्वि459वेकाप्रतिपत्तिरिति चेत् । नहि
तर्हि तेषां स्वरूपप्रतिपत्तिरिति भिन्नाभूतेभ्यश्चेतनाभेदेन भासनात् । अथैक एवावयवी
तथा सति परस्यापि तथा प्रतिपत्तिः । अथ परः सर्वात्मना प्रतिपत्तुमशक्तः । न तर्हि तस्य
रूपं प्रतीयते । भ्रान्तिरेवैषा भ्रान्तिरप्यन्तःस्प्रष्टव्यविशेषरूपैव । ततः परेण तथा
प्रतीयेत । एकं स्प्रष्टव्यमपरं यदि तत्र सुखादिकं । परेणैकप्रतीतिश्चेत् सुखाद्यन्यत(:)तथा
सति । तस्माद् ।


127

भूतचेतनयोर्भिन्नप्रतिभासावबोधतः । विरुद्धधर्म्माभ्यासेन460 स्वभावस्यास्ति भिन्नता ।। ६८१ ।।

परेण स्पृश्यमानस्य सुखभावो यदीष्यते । वस्तुत्वेनैव किन्तस्य स्पृश्यमानस्य सा स्थितिः ।। ६८२ ।।
कान्तत्वे न स हेतुश्चेत् कान्तत्वं किमिदं मतं । स्वभागधेयतः कश्चित् कस्यचित् कान्ततः परः461 ।। ६८३ ।।

कर्म्मैव भाग्यशब्देन व्यवहारपथ462
स्थितं । उपकाराविशेषस्तु नेह जन्मनि दृश्यते ।। ६८४ ।।

एवमव्यतिरेकेपि चेतनाया व्यवस्थितः । परलोकः परेणात्र बहुना जल्पितेन किं ।। ६८५ ।।
यदि वा कान्तता तस्य करणादुपजायते । परेणापि प्रतीयेत न चेत् विज्ञानमेव तत् ।। ६८६ ।।
प्रतिपत्तृशरीरान्तर्ग्गता साथ प्रकल्प्यते । बहिःप्रतीयमानासौ शरीरान्तर्ग्गता कथं ।। ६८७ ।।
रूपावभासनस्यापि परेणाप्रतिपत्तितः । स्वसंवेदनरूपस्य भूतेभ्यः स्याद् विभिन्नता ।। ६८८ ।।

सविकल्पकेऽन्यत्र463 वा परेण न प्रतीयते । ततः स्वसम्वेदनं ज्ञानमेव तत् ।

अथ परशरीरान्तर्गतमिति न वेद्यते । परशरीरस्याप्यवेदनप्रसङ्गः ।

शरीरान्तर्गतत्वे च केवलस्य कथं गतिः । अन्धकारस्थितस्यान्यविषयस्य विकल्पने ।। ६८९ ।।
विकल्पेन विना वेत्ति शरीरं चेतनं विना । सहोपलम्भनियमो नात एकत्वसाधकः ।। ६९० ।।

अथापि स्यात् (ा)भवतु भिन्नं तत् । अथापि देह एव तस्य कारणमतः सुखादयो
न वासनाप्रतिबद्धजन्मानः ततः पारमार्थिकाः । देहोपि शुक्रादेरतो न परलोकः । इहलोक
परम्परयैव परिसमाप्तेरतो न संसारित्वमित्याह ।

अाविकारञ्च कायस्य तुल्यरूपं भवेन्मनः ।। १६३ ।।
रूपादिवद् विकल्पस्य कैवार्थपरतंत्रता ।

यदा हि कायः कारणं स्वभावो रागादीनां तदा देहविकारात्464 प्राक् तुल्यरूपमेव
मनो भवेत् । कारणस्य स्वभावस्य चाश्रयस्य तुल्यत्वात् । अन्यथाश्रयाश्रयिभावस्य कार्यकारण
भावस्य चायोगात्465 । अन्वयव्यतिरेकाननुविधानात् । नहि शरीरगता रूपादयो देहसमानतायाम
समानाः । अथापरापरविषयसमवधानाभिधीयमानविशेषतायामदोषः । तदपि न युक्तं ।
मनोविज्ञानस्य सुखादेश्च कैवार्थपरतन्त्रता । वासनाप्रबोधमात्रत उत्पत्तेरित्युक्तं ।

अनपेक्ष्य यदा कायं वासनाबोधकारणं ।। १६४ ।।
ज्ञानं स्यात्466 कस्यचित् किञ्चित् कदाचित्467 तेन किञ्चन ।

कायकारणत्वे हि पूर्वको दोषः468 । यदा तु पुनः कायकारणमनपेक्ष्य469 वासना
बोधकारणं किञ्चिदपेक्ष्य ज्ञानं कस्यचित् मनोविज्ञानमभ्युपगम्यते जन्मवत् । तदा तेन कारणेन
किञ्चन ज्ञानं स्यादविकृतेपि देहे नतु देहकारणत्वे । तस्माद्विज्ञानादेव विज्ञानं न देहादिति
संसारित्वं470 (ा)

हेत्वम्तरमप्याह ।

अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति ।। १६५ ।।

471
128
विज्ञानशक्तिसम्बन्धादिष्टश्चत् सर्ववस्तुनः ।
एतत्सां ख्य पशोः कोऽन्यः सलज्जो वक्तुमी/?/हते ।। १६६ ।।
अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतं ।
यद्रूपं दृश्यतां जातं तद्रूपं प्राङ् न दृश्यते ।। १६७ ।।
शतधा विप्रकीर्ण्णेपि हेतौ तद्विद्यते कथं ।

विज्ञानवैगुण्यावैगुण्याभ्यामुत्तरविज्ञानवैगुण्येतरदर्शनान्नियमेन तद्विकारानुवर्तनात् । विज्ञा
नोपादानरहिताद्देहान्न विज्ञानमिति472 सिद्धयति परलोकः । रागादीनाञ्च युगपदुत्पादप्रसङ्गाच्च ।

अथापि स्यात् । यद्यपि विज्ञानादेव विज्ञानं तथापि न परलोकः सिध्यति । सर्वस्य
वस्तुनो विज्ञानशक्तियोगात् । न च तथाभूताऽनारब्धकार्या शक्तिः परलोकः । नन्वेत
त्सांख्यमतं473 कुतो भवतः सकलतार्किकचूडारत्नाभिमानिनः474 सांख्यपशुरेव एवं वक्तुं समीहते,
य आगमैकशरणोऽनपत्रपः । सलज्जस्तु, नैवं अदष्टपूर्वं हि तृणाग्रे करिणां शतं । न
सां ख्या दन्यस्य वचनगोचरः सत्त्वेन । तथाहि ।

दध्यादीनां हि यद्रूपं प्राक् तद्‌दृष्टं न पार्यते । शतधाविप्रकीर्य्यापि हेतुं तत्रास्ति तत्कथं ।। ६९१ ।।
रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः475 । विज्ञानादन्यरूपस्य भावे तद्विद्यते कथं ।। ६९२ ।।
यदि मात्रादिविज्ञानादुपादानात्तदिष्यते । तस्य संस्कारसाद्‌गुण्यमनुवर्त्त्येत सर्वथा ।। ६९३ ।।

अथापि पुत्रे पित्रादेः476 संस्कारो यदीष्यते । नानन्तरस्य सर्वत्र संस्कारस्यानुवर्तनं ।। ६९४ ।।

तस्माद्विज्ञानात् स्वसन्तानवर्त्तिनो विज्ञानमिति सिद्धः परलोकः ।

किञ्च ।

रागाद्यनियमोपूर्वप्रादुर्भावे प्रसज्यते ।। १६८ ।।

यदि परलोको न स्यात् तदापूर्वसत्त्वप्रादुर्भावः तथा सति रागादीनां न नियमः स्यात्
वीतरागोपि कश्चित् स्यात् । यदा तु जन्मान्तरादागतिस्तदा तृष्णैव कारणं मतः477 प्राणिनो
जन्मनः(ा)ततो न जन्मी वीतरागः । रागादिकमन्तरेण जन्माभावात् ।

भूतात्मतानतिक्रान्तेः सर्वो रा(गा)दिमान् यदि ।

अथापि स्यात् (ा) भूतात्मता478 रागादिहेतुः सा च नापैति ततः कारणवैकल्याभावात् न
रागादिवैक्ल्यं । यद्येवमत एव हेतोः ।

सर्वः समानरागः स्यात् भूतातिशयतो न चेत् ।। १६९ ।।

तथा हि भवेत्सर्वः समानरागो यदि परस्परं भूतानामतिशयो न स्यात् । अस्ति
479 ततो न सकलः समानरागः । यद्येवं ।

भूतानां प्राणिताभेदेप्ययं भेदो यदाश्रयः ।
तन्निर्ह्रासातिशयवत् तद्भावात् तानि480 हापयेत् ।। १७० ।।

481 129

यदुक्तं रागाद्यनियम इत्यत्र परेण भवत्येव वीतरागः पृथिव्यादिसंघातः । अथ
प्राणिनो वीतरागता भवेत् कस्यचित् न । प्राणिनो यथाऽप्राणिता न भवेत्482 तथा वीत
रागतापीति चोद्यं यद्येवं । यथा प्राणिता न विशिष्यते, तथा रागितापीति सर्वःसमान
रागो भवेत् । प्राणितावत् । यदि वा कश्चित्प्राणी कश्चिदन्यथा । तथा रागीतरो वा
स्यात् । अथ प्राणिताऽभिन्ना रागादयो भिन्नास्तदा यतः कारणाद् भूतातिशयत्वाद्भेदः तथा
निर्ह्रासातिशयमन्तरेऽत्यन्तापचयोपीति वीतरागः स्यात् ।

अथापि स्यात्(ा) यद्यपि तदतिशेयनिर्ह्रासवत् कारणं । तथापि रागादिहेतोः तुल्या
त्मता न क्षीयते । अत्रोच्यते ।

न चेद्भेदेपि रागादिहेतुतुल्यात्मताक्षयः ।
सर्वत्र रागः सदृशः स्याद् हेतोः सदृशात्मनः ।। १७१ ।।

यदि हिं रागादिहेतोर्या समानता सा न हीयते । ततो रागस्य सामान्यमेव हेतुः ।
सामान्यहेत्वर्थे च रागकार्यस्य समानता सदृशात्मनो हेतोः । कार्यमपि सदृशार्थकमिति
युक्तं । यदि तु हेतुसमानत्वे कार्यमसमानं तारतम्ययोगात् । तदा तस्य तत्कार्यमेव न
भवेत् । तदन्वयव्यतिरेकानुविधानाभावात् । तस्माद्यत्र तारतम्यं तत्रात्यन्तमभावोपि
अपकर्षतारतम्यभावात् धवलादिगुणवत् समानत्वाद्वा न प्रच्यवेत । किं कारणं ।

नहि गोप्रत्ययस्यास्ति समानार्थभुवः क्वचित् ।
तारतम्यं पृथिव्यादौ प्राणितादेरिहापि वा ।। १७२ ।।

गोप्रत्ययो हि समानात्मनः सम्भवति । अथ प्राणितां प्रति न विशेषः । भूतानां
रागादीनपि । विशेषे कश्चिद्...........। तद्रूपव्यावृत्तेरन्यतोपि वा न चासौ तारतम्य
योगी भवति, गौर्गोतरो गोतम इति लोकायत दर्शंनापेक्षया पृथिव्यादौ प्राणी प्राणीतरः
प्राणितम इति483 । तस्मात्समानहेतोः समानत्वमपकर्षे त्वत्यन्तमुच्छेदोपि ।

औष्ण्यस्य तारतम्येपि नानुष्णोऽग्निः कदाचन ।
तथेहापीति चेत् नाग्नेरौष्ण्याद्भेदनिषेधतः ।। १७३ ।।

अस्त्येवेहाग्नेरौष्ण्यस्य तारतम्यं न च सर्वात्मनौष्ण्यमसम्भवि तथापि न रागादीनां
तद्वदेव सर्वथा सम्भवाभावो न रागादीनां कायाद् व्यतिरेकात् । नात्रौष्ण्यादग्नेर्भेंदः । औष्ण्य
स्यैवाग्निव्यपदेशात्484 यद्यौष्ण्यं न स्यादग्निरेवासौ न भवेत् । न तु रागाद्यभावे भूतमेव485
तन्न भवति । यदि तु भूतसंघातोऽन्यो धर्मी तस्य धर्म्म औष्ण्यं परिकल्प्यते । तदा तस्य उष्मा
वस्थायामुच्छेद एवौष्ण्यस्य486 । अथ ज्वालायाधर्मित्वं परिकल्प्यते । औष्ण्यं धर्मः स च तत्र
न विच्छिद्यते तारतम्येपीति, परस्य परिहारः । सोप्ययुक्तः ।।


130

मन्त्रतन्त्रादिसामर्थ्यात् ज्वालौष्ण्येन विना भवेत् ।

मणेर्ज्वाला विनैवौ487 ष्ण्यं दृश्यते तत् न युक्तिमत् ।। ६९५ ।।

ज्वालाया न च धर्मित्वमौष्ण्यं प्रत्यविमुक्तितः ।

ज्वालादिवर्ण्णसंस्थानं तद्धि नौष्ण्यस्य सम्भवात् ।। ६९६ ।।

न तस्या धर्मिता युक्ता तेन नैतन्निदर्शनं ।

ज्वाला नौष्ण्यं विना नौष्ण्यं ज्वाला विना भवति । तेन न सा धार्मितया युक्ता । न
चात्यन्तमवियोगे ज्वालातदौष्ण्ययोर्द्धर्मधर्मिभावः । तेन सविशेषणो हेतुः ।

तारतम्यानुभविनो यस्यान्यस्य सतो गुणाः ।
ते क्वचित् प्रतिहन्यन्ते तद्भेदे धवलादिवत् ।। १७४ ।।

यस्यान्यस्य गुणाः सन्तस्तारतम्यमनुभवन्तः (न) ते488 क्वचित् प्रतिघातवन्तः । यथा
घटादिषु489 धवलादयः । ननु धवलादिरूपव्यतिरेकेण क इवापरः पटादिः । येन तस्या
न्यस्य सतो धवलादीनामुच्छेदः । सत्त्यमेतत् । तथापि स्पृश्यरूपा घटादयो490 न वर्णविशे
षरूपाः491 । तदभावे पटस्य492 भावात् । तेनान्यस्येत्ययमर्थः । यस्य सन्तानेनानुवर्तमानस्य
य उच्छेदधर्म्माण उदयधर्म्माणश्च ते अत्यन्तमुच्छेदधर्म्माणोपि यथा धवलादय इति
वाक्यार्थः ।

अथवानग्नित्वेनुवर्तमाने औष्ण्यस्योदयव्यययोः तारतम्येपि493 । न चैवं रागादीनामु
च्छेदसद्‌भावात् शक्तेरनुच्छेद इति चेत् । न(ा) शक्तेरर्थान्तरत्वात् । न(ा) रागादय एव
शक्तिः । शक्तेरपि क्वचिदुच्छेददृष्टेः । अत एवाह ।

रूपादिवत् न नियमस्तेषां भूताविभागतः ।
तत्तुल्यञ्चेत् न रागादेः सहोत्पत्तिप्रसङ्गतः ।। १७५ ।।

न खलु रूपरसादिवदविभागिनो भूतेभ्यो रागादयः तदभावेपि भूतानां भावात्, न तु
रूपाद्यभावे । अथ तत्राप्येवमेव । तदप्यसत् । रागादीनां शरीरेण सहोत्पत्तिप्रसङ्गात् ।
भूतेभ्यो494 न विशिष्टता495 । रूपावभासनमपि496 न च रागादीनां देहसहभाविता सर्वदा ।
न च महाभूतत्वमात्रवादिनो रूपादीनां भूतेभ्योऽन्यत्त्वं । तत्त्वबहुत्वप्रसङगात्497 । ततोऽवि
निर्भागभागी सहोत्पादः498 । विषयहेतुकत्वात् ।


131

विषयासन्निधाने कदाचिदभावोपीति चेत् । तन्न ।

विकल्प्यविषयत्वाच्च विषया न नियामकाः ।
सभागहेतुविरहाद्रागादेर्नियमो न वा ।। १७६ ।।
सर्व्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः ।

न खलु विषयान्वयव्यतिरेकानुविधानप्रसङ्गतत्‌सन्ताना499 रागादयः । तदभावेपि
भवनानुभवात् । सभागहेतुश्च नेष्यते । ततो न रागादीनां तदभावात्500 कदाचिदनुत्पत्तिः ।
ततोऽनियमेनैकैकरागादिसहभावी देहः स्यात् । अथवा सर्व एव रागादयो देहसहभाविनो
भवेयुः । सर्वेषां हेतोर्देहस्य सन्निधेः । अथ देहस्य परिणतिविशेष एव तादृशो येन न रागादि
सहभावः । यद्येवं ।

कुतः परिणतिस्तस्य तादृशी येन तु तथा । यतः कुतश्चिदिति चेन्न भवेदपिं सर्वदा ।। ६९७ ।।
अदर्शनेन नैवं चेत् न स्यात् कश्चित् सहेतुकः । अनग्नेरपि धूमः स्यात् सर्वतः किन्न सम्भवः ।। ६९८ ।।
तस्य काचित्परिणतिरिति वक्तुं हि शक्यते । अहेतोरपि भावस्य देशादिनियमो भवेत् ।। ६९९ ।।
दृश्यते नियमो नेति वक्तुं तत्रापि शक्यते । दृष्टमात्रपरिष्वङ्गः क्रियते यदि सर्वथा ।। ७०० ।।
दृष्टमद्वैतमेवात्र व्यवहारो विशीर्यते । व्यवहारः परित्यक्तुमशक्यः कल्प्यते यदि ।। ७०१ ।।
परलोकादिकेप्येष व्यवहारोऽन्यथा कथं । व्यवहारोऽनुमानेन सकलः क्रियते यथा ।। ७०२ ।।

परलोकादिकेप्येवमेव तत्त्य501 ज्यते कथं । न ज्ञानार्थतया भेदो नापि नीलादिताकृतिः ।। ७०३ ।।

न पूर्वापरभावेन प्रत्यक्षेण प्रसिध्यति । ततोऽनुमानतो भेदः सकलो व्यवहारवत् ।। ७०४ ।।

तेनानुमानमुत्सृज्य न कश्चिज्जीवितुं क्षमः ।

तत इदं प्रत्युक्तं502 ।

दृष्टमर्थं विधूयान्यददृष्टं कल्पयन्ति ये ।। ७०५ ।।
मूढाः पिण्डं परित्यज्य ते निहन्ति करं वृथा । हेयोपादेयविषयो न विवेकोऽक्षवृत्तितः503 ।। ७०६ ।।
हेयमेतन्न भवति कुतः प्रत्यक्षमात्रतः । उपादेयत्वभावाद्वा हेयत्वस्य निषेधतः ।। ७०७ ।।
उपादेयव्यवस्थानं हेयत्वस्य विपर्ययात् । अर्थक्रियार्थिनामर्थक्रियोपादेयता सदा ।। ७०८ ।।
प्रत्येक्षण न दृष्टा सा ततो वृत्तिं विधित्सतां । प्रत्यक्षत उपादेयभावस्यातो न वेदनं ।। ७०९ ।।
न भाव्यर्थक्रियांवेत्ति प्रत्यक्षं नाप्यप्रतीतिकां । हेयत्वस्य निषेधोपि हेया (क्षादत्ययः)504 कुतः ।। ७१० ।।
तदत्र वस्तु नास्तीति प्रतीतिर्नेयमक्षतः । द्वयोरध्यक्षयोर्नास्ति हेयोपादेयतागतिः ।। ७११ ।।
अत्रापि पूर्वको न्यायः प्रत्यावृत्य प्रवर्तते । अत्यन्ताभ्यासतोध्यक्षाद्यदि सर्वं प्रतीयते ।। ७१२ ।।

अप्रतीतेऽस्ति नाभ्यासः ततोऽन्योन्यसमाश्रयः ।

अभ्यासाद् यावदध्यक्षं नास्ति नास्तिप्रतीतता ।। ७१३ ।।

यावत् प्रतीतता नास्ति नाभ्यासेऽध्यक्षतोदयः ।

अध्यक्षमात्रं यदि मानमस्मिन्नहेयतत्त्वेतरयोर्विवेकः ।

स्वरूपमात्रप्रतिवेदनं तदद्वैततत्वेस्य ततः प्रसक्तिः ।। ७१४ ।।

132
अनुमानं समाश्रित्य हेयादिप्रविभागिता । व्यवहारं प्रतीतं तन्न परं परिमृग्यते ।। ७१५ ।।
अथाद्वैतं समाश्रित्य परलोकनिराक्रिया । अस्यापि क्रियतान्नेदमियत्येवावतिष्ठते ।। ७१६ ।।
इह लोकोपि नैवास्ति नास्ति नास्तिकता ततः । चेतःसर्वोपसंहारात् युक्तमेव तथा सति ।। ७१७ ।।
अथ व्यामोह एवायमिह लोके य आदरः । अस्यापि क्षयमिच्छन् को व्यामोहान्तरमिच्छति ।। ७१८ ।।
व्यामोहः कुत एवायं यद्यनादिरनन्तकः । प्रसिद्धः स परो लोकः किमन्यद् भाषितं वृथा ।। ७१९ ।।
अथाहेतुक एवायं सर्वमेवास्त्वहेतुकं । तथा सति वृथा प्राप्तं नास्तिकेनोदितं त्वया ।। ७२० ।।

उदितं नोपयोगीदं यदि क्वापि किमर्थिता ।

अथार्थः कश्चिदस्यास्ति तत्रैवास्यास्तु हेतुता ।। ७२१ ।।
परपर्य्यनुयोगोऽथ यद्येवं क्रियते परैः । कोर्थस्तेन कृतेनापि यदि हेतुर्न कस्यचित् ।। ७२२ ।।
अविद्याकृत एवायमिति कस्यापराधिता । यदि नोच्छिद्यतेऽविद्या वृथैव परभाषितं ।। ७२३ ।।
अथाप्युच्छिद्यतेऽविंद्या परोदितमनर्थकं । अविद्याहेतुकत्वे वाऽनाद्यविद्यागतिर्भवेत् ।। ७२४ ।।
तथा च सति संसारः सिद्ध एवाविवादतः । विकल्पान्नापराऽविद्या सोपि पूर्वविकल्पतः ।। ७२५ ।।

भात्यनादिप्रबन्धोयं विकल्पस्य प्रसिध्यति ।

तस्मादनादिवासनापरिपाकोपनीता एवं सुखादयो न परमार्थतः (।) ततो दुःखमेव
परमार्थतः सकलमिति ।

(d) चतुराकारं दुःख-सत्त्यम्

तत्र दुःखं ।

कदाचिदुपलम्भात् तदध्रुवं दोषनिश्रयात् ।
दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितं ।। १७७ ।।
नाकारणमधिष्ठाता नित्यं वा जनकं505 कथं ।
तस्मादनेकमेकस्मात् भिन्नकालं न जायते ।। १७८ ।।

अनित्यतो दुःखतः शून्यतोऽनात्मतश्चेति चतुराकारं दुःखसत्यं । तत्कदाचिदुपलभ्य
मानतयाऽनित्यं । नहि नित्यस्य नित्यमेवोपलभ्यमानतयाऽनित्यं । नहि नित्यस्य नित्यमुप
लभ्यमानस्य कदाचिदुपलम्भो युक्तः । उपलभ्येतरस्वभावयोः परस्परपरिहारस्थितत्वेन
विरोधात् । उपलभ्यतयैव स इति प्रतिपादनात् । न च सर्वदा सर्वमुपलब्धुं शक्यं, क्रमोपलभ्यस्य
नित्यत्वात् न च क्रम एकत्वे सम्भवति । क्रमवत एकत्वेनाप्रतिभासनात् । प्रत्यक्षस्याप्रवृत्तेः ।
अनुमानस्य तदभावेऽभावात् । प्रत्यक्षपूर्वकत्वात् । अनुमानपूर्वकत्वेऽन्धपरम्पराप्रसङ्गात् ।
तस्माद ध्रुवता संसारिस्कन्धानां506 । दुःखता च रागादीनां दोषाणां निःश्रयात् । हेतुवशत्वाच्च ।
हेतुप्रतिबन्धाच्च दुखं । सर्व परवशं दुःखमिति न्यायात् । चकारादभ्यासमात्रनिश्रयात्507 इत्यव
गन्तव्यम् । नात्मरूपं नाप्यनात्माधिष्ठितं508 । अकारणस्याधिष्ठातृत्वाभावात् । अवश्यमधिष्ठात्रा
सोपयोगेन भवितव्यं । उपयोगहेतोर्हेतुत्वात् । यदि चात्मरूपत्वं स्कन्धानां नित्यता भवेत् ।
न च नित्यं जनकमजनकस्य भावस्तत्वमुपलब्धुमशक्यत्वात् । अनेकञ्च भिन्नकालं ज्ञानमेक
स्मान्नित्यतया नोत्पत्तिमत् । न चाप्यात्माधिष्ठायकतया प्रतीयते509यच्च प्रतीयते स्कन्धानां रूपं


133

तदध्रुवं । अथानधिष्ठितानि कारणानि कथं स्वकार्ये प्रवर्तन्ते । तेनाधिष्ठातानुमीयते ।
न । अनित्यचेतनाधिष्ठानमात्रात्समाप्तत्वात् (।) चेतना चानादिरिति ततः (।)

[ कार्या[नु]त्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ।
हेत्वन्तरानुमानं स्यान्नैतन्नित्येषु विद्यते ।। १७६ ।।

यद्यन्ये हेतवः समुदिता अपि कार्यस्याजनकाः तदा हेत्वन्तरमपि विद्यते यदभावात्कार्यम
जातं । न चैवं । समनन्तरप्रत्यययोग्यताविशेषमात्रेण सिद्धेः । न च नित्यव्यापिनां
कदाचित् क्वचिद्वाऽभावः, येन तदभावात् अभावः प्रतीयते510 । अन्वयमात्रेण जनने सर्व
एव आकाशादयोऽधिष्ठातारो भवेयुः । तेष्वपि सत्सु कारणानां निजकार्येषु प्रवृत्तेः तेषामपि,
व्यापिनित्यतया समानत्वात् तेषामनधिष्टातृत्वादिति चेत् । तदेव व्यापिनित्यतया न सिध्यति ।

अव्यापिनोपि नित्यस्य भवेत्सर्वत्र हेतुता । सामीप्यादेव नो हेतुर्हेतुर्दूरेपि दृश्यते ।। ७२६ ।।
दूरदेशोपि शब्दादिः स्वकार्यस्य विधायकः । तस्मादन्वयमात्रेण कारणं सकलं भवेत् ।। ७२७ ।।
(ख) समुदय-सत्त्यम्
(a) चतुराकारः समुदयः
कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता ।। १८० ।।
नित्त्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्511 ।

समुदयसत्त्यमपि चतुर्विधमेव हेतुतः समुदयतः प्रभवतः प्रत्ययतश्चेति । तत्र हेतुरहेतु
परिहारेण समुदय एककारणपरिहारेण । अप्रभवः असामर्थ्यपरिहारेण प्रभवत्यस्मादिति
प्रभवः । प्रत्ययः प्राधान्यपरिहारेण । तत्र दुःखस्य हेतुरस्तीति प्रतिपाद्यते । न ।

कादाचित्कतयान्यस्य हेतुयोगो हि दृश्यते । अहेतोर्हि पदार्थस्य सत्त्वमेवान्यथाऽथवा ।। ७२८ ।।
यथा यथाहि हेतुनामभावो नित्यता तथा । तिमिरज्ञानकेशादेर्विषयेण विनोदयात् ।। ७२९ ।।
स्वसंवेदनगम्यस्य धर्म्मधातोरहेतुकः । दृश्यते नित्यसद्‌भावोऽकादाचित्कत्वलक्षणः ।। ७३० ।।

बन्ध्या सुताद्यसन्नित्यमभावात् कारणात्मनः ।

अत्र चोद्यं ।

तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ।। १८१ ।।
तथाऽकारणमेतत् स्यादिति केचित् प्रचक्षते ।

अहेतुकवादिनः स्वभावेन महाभूतरूपं न क्रियते । विशेषा एव देशकालावस्था
विशेषयोगितया क्रियन्ते । तत्र विशेषाणामहेतुक(त्व)मुपलभ्यते । तोमरसूचीशूलतूलिकादीनां
हि न लोहादिरूपता क्रियते लोहकारादिभिः तीक्ष्णतैव क्रियते । लोहादीनामप्यपरैर्न
पृथिवीत्वादिकं क्रियते । लोहतादिरूपतायाः करणात् । लोहकाराद्यभावेपि तु कण्टकादीनां
तैक्ष्ण्यस्य तदभावेपि भावात् । नायमेव चानियतहेतुकताऽहेतुकता512 । तथान्येपि जगतो वैचित्र्य
कारिणो विशेषाऽहेतुकता(?) एव भवेयुः । क एवात्र विरोधः । तदप्यसत् ।


134
सत्येव यस्मिन यज्जन्म विकारे वापि विक्रिया ।। १८२ ।।
तत्तस्य कारणं प्राहुस्तत्तेषामपि विद्यते ।

अत्राभिप्रायः । यदि विशेषा एव जन्यास्तेषां नाकारणत्वं । न खलु बदरीकण्टकानां
वक्रत्वतीक्ष्णत्वे बदरीकण्टकमन्तरेण स्तः । तदन्वयव्यतिरेकानुविधानात् तत्कार्यतेति ना
हेतुकता । अथ लोहकारेणापि क्रियते ततो व्यभिचारादेवमुच्यते । तदपि न यथावत् ।

बुद्धिपूर्वक्रियादृष्टेर्बुद्धिमत्कारणं भवेत् । स्यात्तथेश्वरकर्तृत्वं नास्त्यहेतुकता ततः ।। ७३१ ।।
बदरीकण्टकादीनां तत एव निदर्शनात् । विशेषकल्पनान्नो चेद्विशेषोऽस्तु सहेतुकः ।। ७३२ ।।
बदरीबीजतः किञ्चित् लोहकारादितः परं । विशेषो लक्ष्यते नो चेद्विशेषो नैव विद्यते ।। ७३३ ।।
नहि दर्शनमात्रेण विशेषः परिगृह्यते । तदेवाद्वैतमायातं तदेवाहेतुकं भवेत् ।। ७३४ ।।
तस्माद्यतो विशषास्ते तत एव सहेतुकाः । नहि हेतुविहीनस्य विशेषत्वं प्रसिध्यति ।। ७३५ ।।

तस्माद्यदि भेदा यदि बाह्यार्थता सर्वंथा सहेतुकत्वमन्यथा विपर्ययः ननु सत्येव
यस्मिन् यज्जन्म तस्य हेतुत्वे स्पर्शस्य दर्शनहेतुता प्रसक्ता स्पर्शाभावेऽस्वभावात् । तदसत् ।

एकसामग्र्यधीनत्वादवियोगः परस्परं । रूपस्पर्शतयोस्तेन तदभावे न दर्शनं ।। ७३६ ।।

तत्र हि स्पर्शमन्तरेण रूपमेव न भवति । यदि तु रूपं भवेत् भवेदेव दर्शनं । न
चैवंविधात् व्यतिरेकात् कारणत्वमपि तु रूपमुपदर्श्य । यदि स्पर्शाभावेऽभावमुपदर्शयेत्
दर्शनस्य । अथवा ।

स्पर्शस्य रूपहेतुत्वात् दर्शनेऽस्ति निमित्तता ।। १८३ ।।

परस्परावियोगेन समानकालयोरपि हेतुत्वात् उपादाय रूपस्य रूपस्य स्पर्शरूपाणि
भूतानि
हेतुस्ततः पारंपर्येण दर्शने स्पर्शस्यास्त्येव हेतुतेति न विपक्षवृत्तिताहेतोरित्यव्यभिचार
एव । एवं तावदहेतुकत्वं प्रतिषिद्धमिति हेतुत इत्येकाकारो व्यवस्थितः ।

समुदय इति द्वितीयमाकारमाह ।

नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः ।

सहेतुकत्वेपि दुःखस्य ततो नित्यैककारणनिषेधेन समुदयाकारतानिर्ण्णयः । यदि
कारणमेकं नित्यमेव भवेत् । अनपेक्षणान्नित्यस्यानाधेयविशेषत्वात् । तेषाञ्च नित्यानां
प्रधानादीनां प्रागेव निषेधः । कुत एतदिति चेत् । असामर्थ्यात् क्रमयौगपद्याभ्यामर्थक्रिया
शक्तिवैकल्यात् न प्रभवत्वं । तृतीय आकारस्तृष्णाया एव स आकारः । एतदेवाह ।

असामर्थ्यादतो हेतुर्भववाञ्छापरिग्रहः ।। १८४ ।।
यस्माद्देशविशेषस्य तत्प्राप्त्याशाकृतो नृणां ।

अन्यस्य कारणस्य कर्म्मणोऽन्यस्य वा न प्रभवत्वं । न खलु कर्म्मशरीरमविद्या वा
प्रभवः । समर्थकारणापरनामा । तृष्णाऽभावेऽभावात् जन्मनः । दृश्यते च तृष्णायाः
प्रभवनं । यतः परिग्रह आग्रहापरव्यपदेशः तत्प्राप्तितृष्णाकृतः परिग्रहश्चायं जन्मसमागमः ।
तस्मादस्य तृष्णाप्रभवः । भववाञ्छानागतजन्मप्रार्थनाकारा ।

ननु न देशविशेषादिप्रार्थना समुदयसत्त्यं । उक्तं हि भगवता ।

135

तत्र कतमत्समुदय आर्यसत्त्यं । येयं तृष्णा पौनर्भविकी नन्दी रागसहगता तत्र तत्राभिनन्दिनी । यदुत काय
तृष्णा । भवतृष्णा । विभवतृष्णा चे
ति513 । नायं विरोधः । यस्मात् (।)

सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ।
यतोपि प्राणिनः कामविभवेच्छे च ते मते ।। १८५ ।।

येयं स्थानोपकरणादितृष्णा सा भवेच्छा संसारतृष्णा नन्दी रागसहगता तत्र तत्राभिनन्दिनी
सा सर्वैव कामतृष्णा भवतृष्णा विभवतृष्णा(।)या स्थानादितृष्णा सा भवतृष्णा सा भवेच्छा । या
स्वर्गप्रार्थनाकारा सा कामतृष्णा । या दुःखवियोगेच्छा सा विभवतृष्णा । तस्मादविरोध एव
समुदयसत्त्यनिर्देशः । नागमविरोधः कश्चिदिति ।

सर्वत्र चात्मस्नेहस्य हेतुत्वात् संप्रवर्त्तते ।
असुखे सुखसंज्ञस्य तस्मात् तृष्णा भवाश्रयः ।। १८६ ।।

अहङ्कारसन्निश्रयात् एकत्वेनारोपितं (? ता) चित्तमाला तत्र यः स्नेहः सर्वत्र संप्रवर्तने
स्थानोपकरणादौ असुखे सुखादिरूपरहितत्वेन परमार्थतः । चित्तविपर्ययोपहतस्य प्रवर्तनात्
हेतुत्वमतः तृष्णाप्रभवाश्रयः । न ह्यदृष्टः क्वचिदपि प्रवर्तनसम्बन्धितः करूणायोगतो
ऽन्यत्र न संसारकारणं । अत एव प्रवर्तनं प्रति तृष्णायाः सहकारित्वात् । प्रत्ययमात्रता
नोपादानत्वं । तत्र चित्तमेवोपादानं । तस्य प्रत्ययस्तृष्णा कदाचित् करूणा । अनेन प्रत्ययत
इति आकारः कथितः ।

ननु प्रत्ययत्वेपि न तृष्णा प्रत्ययोऽपि तु देहस्ततो देहसङ्गतो न वीतरागः ।।
एतदेव दर्शयति ।

विरक्तजन्मादृष्टेरित्याचार्याः संप्रचक्षते ।
अदेहरागादृष्टेश्च देहाद्रागसमुद्भवः514 ।। १८७ ।।

यथैव हि वीतरागस्य जन्म न दृष्टमिति रागो जन्मनो हेतुरत एव युक्तो देहो रागादेर्हे
तुरदेहस्य रागादृष्टिः । अत्रोच्यते । रागमन्तेरणापि जन्म भवति । करुणावशादभिरति
विषयत्वं तु तस्य तृष्णया ह्रियत इति विशेषमात्रहेतुत्वात् तृष्णाप्रत्ययमात्रं । एवं यदि
देहोपि प्रत्ययमात्रं रागादीनामयोनिशोमनसिकार एव तूपादानकारणं तदेष्टमेव संगृहीत
मिति दर्शयति ।

निमित्तोपगमादिष्टमुपादानं तु वार्यते ।
इमान्तु युक्तिमन्विच्छन् बाधते स्वमतं स्वयं ।। १८८ ।।

देहोपि रागस्यायोनिशोमनस्कारमनुवर्तमानो हेतुरिष्यत इव । स कदाचिद्वासना
प्रबोधस्य हेतुर्विषयवत् । एषा तु युक्ती रागहेतुत्वमपि देहस्य सम्पादयति । ततोऽन्योन्य
हेतुत्वात् तथाभूतानादिसामग्रीप्रभवं जन्मेति जन्मान्तरप्रसिद्धिरिति चर्च्चितं चा र्व्वा क
चर्च्चितमर्च्चिष्मता ।

ननु सगुणं द्रव्यमेवोद्यते । ततोऽनयोरन्योन्यमहेतुता ।


515 136
जन्मना सहभावश्चेत् जातानां रागदर्शनात् ।। १८९ ।।
सभागजातेः प्राक्‌सिद्धिः कारणत्वेपि नोदितं ।
अज्ञानमुक्ता तृष्णैव सन्तानप्रेरणाद् भवे ।। १९० ।।
(b) तृष्णाकर्मणी जन्मसमुदयः—

यदि हि जन्मना सहभावो रागादीनामिति न रागादयो देहस्य हेतुः तदा देहोपि
न रागादीनां । न चाहेतुकता ततः । समानजातीयकारणजनिता रागादय इति सिद्धमभिमतं ।

ननु न तृष्णा कारणमेकैव । अविद्या तृष्णा कर्म्म चेति त्रयस्य कारणत्वात् । तृष्णैव
तत्र तत्राभिनन्दिनीति समुदयसत्त्यनिर्देशः कथं ।

नैतदस्ति । कारणत्वेपि नानन्तरकारणत्वं । तृष्णैवानन्तर्येण कारणं संसारे सन्ता
नस्य प्रेरणात् । नहि मोहकर्म्मणोः सतोरपि तृष्णामन्तरेण कश्चित् प्रेरयिता । नहि विपर्य
स्तोपि सङ्गतृष्णामन्तरेण प्रवर्त्तते । अत एवाह ।

आनन्तर्यात् न516 कर्मापि सति तस्मिन्नसम्भवात् ।

कर्म्मोपात्तमपि राज्यादि परित्यजत्यतृष्णः ।

ननु बुद्धिः कर्मानुसारिणीति परित्यागः कर्म्मैव तत्तादृशं येन उपनतमवधीरयति ।
अथ मुक्तात्मनां जन्मनोऽसम्भवः इत्युच्यते । तेषामपि कर्मक्षय एव मुक्तिरन्यथाऽभावात् ।
अत्रोच्यते ।

तृष्णाविरहितस्यास्य यदि कर्म्म परिक्षयः । प्रधानं कारणं तृष्णेत्येतदेवात्र युक्तिमत् ।। ७३७ ।।

अथ तृष्णास्ति नैवास्ति कर्म्मणोऽस्य परिक्षयः ।

सतृष्णस्यास्य हि भवेत् पुनः कर्मापरापरं ।। ७३८ ।।

एवं तावत् चतुराकारमार्यसत्त्यं व्याख्यातं समुदयलक्षणम् । इदानी तद्द्ुःखं निरोध
सम्भवीति निरोधसत्त्यं चतुराकारमाह ।

(ग) निरोधसत्त्यम्
(a) संसार्यभावे मुक्तिव्यवस्था
तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ।
संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः ।। १९१ ।।

निरोधतः शान्ततः प्रणीततः निःशरणतश्चेति चत्वार आकाराः निरोध एव नास्तीति
वादिनं प्रति निरोधता ह्युच्यते । मुक्तानामपि रागादिसम्भव इति परैरभ्युपगम्यते । तत्प्रतिषेधेन
शान्ततः । अतः परोपि सम्भवति मोक्षतातिप्रतिक्षेपेण प्रणीतत इत्याकारः । मुक्तोपि
पुनरमुक्तो भवतीति निरस्य एतत् निःसरणत इति चतुर्थ आकारः । तत् प्रथम आकार-

137

तात्यनात्यन्तिकं517 नात्यन्तं भवति निरुध्यतेपि । न च संसारित्वादसम्भवो मोक्षस्य दोषः ।
इष्टत्वात्(।) नहि कस्यचित् मोक्षोस्ति । योहि बद्धो नहि तस्य मोक्षोस्ति । तत्त्स्वभाव
त्वात्(न) मुक्त518 स्यापि बन्धः । सदा तस्य मुक्तस्वभावत्वात् । केवलचित्तसन्तानस्या
परिशुद्धस्य सतः सामग्रीविशेषतः परो भागो विशुद्ध उत्पद्यते । तदपास्य519 परिशुद्धस्य
संसारितैवासिद्धा । न च संसारी परमार्थतः कश्चिदस्ति क्षणानामसंसरणात् । सन्तानस्य च
परमार्थतोऽभावात् ततः संसारित्वादित्यसिद्धो हेतुः । न चापि मोक्ताविद्यते यस्य मोक्षः ।

ननु यदि बद्धो न मोक्ताऽन्यस्य बन्धोऽन्यस्य मौक्षः । अन्यस्य क्षुदन्यस्य तृप्तिः ।
अन्यः चिकित्सादुःखम(नु)भवति, अन्यो व्याधिरहितः (।) अन्यस्तु यः परिक्लेशवानपरः
स्वर्गसुखमनुभवति । परः शास्त्राभ्यासायस्तोऽन्योऽधिगतशास्त्रः तदा किमिति हेतोरभियोगः
प्रेक्षावतः । अत्र समाधिः । यस्मात्

यावदात्मनि न प्रेम्णो हानिः स परितस्यति ।। १६२ ।।
तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ।
मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि ।। १९३ ।।
(b) मुक्तानां संसारे स्थितिः—

अवस्थावीतरागाणां दयया कर्म्मणापि वा ।

अत्रायमभिप्रायः । यदि तावत् तत्त्वदर्शिनःप्रति एतदुच्यते । तदा सिद्धसाध्यतैव ।
नहि ते क्वचित्प्रवर्तन्ते यत्नं वा कुर्वन्ति । धर्म्मा एव प्रहातव्या इति वचनात् । अथा
स्मदादीनं तदा तस्यैकत्वाभिमानात् स एव बध्यते स एव मुक्तिमानित्येकाधिकरणतैव
तयोः । नहि परमार्थतो वस्त्वस्तीत्ये520 तावतैव तथा व्यवहारः । प्रतीत्यपेक्षत्वाद् व्यवहारस्य ।
तथाहि । न परमार्थतः सर्पः परिहारविषयः । अपि तु । सर्पं/?/तया विमोक्षविषयः ।

अथ यदि नाम संवृत्या एकत्वं । तथापि संवृत्या व्यवहारोस्तु । परमार्थैकत्वाभावात्
कथं पारमार्थिको व्यवहारः । तदसत ।

संवृत्यास्य यथकत्वं व्यवहारोपि स संवृतिः । न तत्त्वेन यथैकत्वं व्यवहारोप्यतात्विकः ।। ७३९ ।।
यत्नोपि खलु नैवास्तिस्वरूपादपरः क्वचित् । कार्यकारणभावस्तु न चोद्यस्यावकशकृत् ।। ७४० ।।
कस्मादस्मादिदं कार्यमिति केयं विदग्धता । नैवं प्रेक्षावतः क्वापि प्रवर्तननिवर्तने ।। ७४१ ।।
पौर्वापर्योपलम्भस्य प्रमाणेनाप्रवेदनात् । क्षणमात्रस्य च क्वापि न प्रवर्तनसम्भवः ।। ७४२ ।।

ततो यत्नोपि नास्त्येव कस्यचिद् विभ्रमस्ततः ।

अभ्युपगम्याप्युच्यते । अवस्थेत्येवमादि ।

पारमार्थिकबोधे हि यदि नैव प्रवर्तते । विरागाणां न चेष्टा स्यात् पूर्वोत्तरविभागभाक् ।। ७४३ ।।
चेष्टाज्ञानांवबोधेपि करुणातः प्रवर्तनं । यथा प्रजाहितो राजा स्वसन्तान521 यत्नवान् ।। ७४४ ।।
प्रणिधानप्रधानस्य कार्यं तत्प्रणिधानतः । कर्म्मसामर्थ्यतो जातं कोऽत्र पर्यनुयुज्यतां ।। ७४५ ।।

138

तस्मान्मिथ्याध्यारोपस्य एवंविधस्य प्रहाणाय यत्नः । अन्यथा मूढस्य न दुःखसं
वेदनहानिः ।

यदि तर्हि कर्म्मणावस्थानं जन्मान्तरकर्म्माप्यस्तीति जन्मान्तरसङ्गतिः स्यात् ।
अथासमर्थं कर्म्मं वीतरागस्यावस्थानं न भवेत् । अत्रोच्यते ।

आक्षिप्तेऽविनिवृत्तीष्टेः सहकारिक्षयादलं ।। १९४ ।।
नाक्षेप्तुमपरं कर्म्म भवतृष्णाविलंघिनां ।

नाक्षिप्तो यत्नमन्तरेण निवतयितुं शक्यः । यत्नश्च वीतरागस्य प्रतिहन्यते ।
उपेक्षया न तस्य क्वचिदास्थेति । अत एवास्थाऽभावात् नापरजन्मोपार्जनं । ततः सह
कारिणः तृष्णालक्षणस्याभावात् । तदेव पूर्वतृष्णाजनितमिदं जन्म नापरमिति । ननु दया
नामेयं सत्वे दुःखात् त्रातव्ये भवति नान्यत्र । नच सत्त्वः कश्चिदस्ति । नपि सत्त्वदर्शनं
प्रहीणात्मदर्शनानां ततो दयातो न प्रहीणात्मदर्शनाः । अत्र परिहारः ।

दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ।
वस्तुधर्मोदयोत्पत्तिर्न सा सत्त्वानुरोधिनी ।। १९५ ।।

यदाहि सकलमेव दुःखमिति साक्षात्कृतं त्रिदुःखतायोगि । तदास्य समुदयलक्षणा
तृष्णाऽपैति प्रहीणसमुदयस्य न रागादय इति । समताऽविरोधिता । सकलेनैव सत्त्वसंघातेन ।
ततो दुःखितदर्शनात् वस्त्वाश्रयादयोत्पत्तिर्महतां । न तस्यामवस्थायां सत्त्वग्रहानुरोधतः तथा
भूतसत्त्वग्रहपरित्याजनाय य आशयः सा दया । सा च प्रहीणात्मदर्शंनस्यैव । अप्रहीणात्म
दर्शनो हि कथं तत्त्यागाय परेषां यतेत ।

ननु रागस्य दयायाश्च को विशेषः । अयं विशेषः ।

अात्मान्तरसमारोपात् रागो धर्म्मेतदात्मके ।
दुःखसन्तानसंस्पर्शमात्रेणैव दयोदयः ।। १९६ ।।

दयाया रागस्य च महान् भेदः । हेतुभेदविषयभेदात्522 । तथा हि । राग आत्म
नोऽनागतसुखासङ्गसन्धानपरवशीकरणमनागतसन्तमारोप्य तस्मात् प्रवर्त्तते । विषयेप्यतदात्मके
तदात्मना दृश्यमाने । चतुर्विधविपर्यासवासितमानसस्य रागिता नान्यस्य । दया तु दुःख
सन्ततिमात्रसाक्षात्करणादेव मिथ्याभिमानव्यपगमाय ।

नन्वहमस्य दुःखनिवर्तनं विधास्य इति आशयमन्तरेण कथं भवेत् । अत्र परिहारः ।

आत्मार्थे यदि वृत्तिः स्यादेवमेव प्रसज्यते । परार्थमात्रवृत्तीनां नहि कारकदर्शनं ।। ७४६ ।।
दर्शितो राजदृष्टान्तस्तदेतन्नासमंजसं । पूर्वपूर्वाहितोत्कृष्टसंस्काराद्वा प्रवर्तनं ।। ७४७ ।।
न च पश्यति संतानं नापि कश्चित् प्रवर्तते । न तिष्ठति प्रभाऽभावात् केवलं भवतो भ्रमः ।। ७४८ ।।

तदयं दयारागयोर्विशेषः इत्यलमतिविस्तरेण ।

ननु दया माभूत रागरूपातत्त्वदर्शिनामुदयात् । द्वेषरूपा तु भवेदशुच्यादिदर्शनात्,
वैमुख्याभावात् । नाशुभाभावनातो मुक्तिरपि तु अनित्यादिदर्शनात् । आत्मनि हि सति स

139

स्वतन्त्रः परदुःखविधायीति कोपः स्याद्(?) यदा तु पुनरसौ हेतुपराधीनः प्रवर्तते स्वरूप
मात्रेण । न चापकारस्तस्य शक्यः कर्त्तुमपकारकाले तस्यैवाभावात् वृथा कोपपरिग्रहः ।

मोहश्च मूलं दोषाणां स च सत्त्वग्रहोविना ।। १९७ ।।
तेनाद्यहेतौ न द्वेषो न द्वेषोऽतः कृपा मता ।।

यद्यात्मानमपक्रियमाणं पश्येत् कोपो भवेत् । न चात्मा कश्चित् । अपि तु सत्त्व
मन्तरेणापि सत्त्वग्रह एव केवलः कोपस्य कारणं, विना च सत्त्वग्रहं न द्वेषः । मोहस्तु नास्ति
स्वयमेव सत्त्वदर्शनस्य मोहस्याभावात् । अतः सर्वदोषविरहिता कृपा न दोषः ।

ननु यदि वीतरागः सशरीर एवास्ते । तदाऽमुक्त एव भवेत् । न दोषरहितस्य चेतसो
भावात् । किञ्च ।।

नामुक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धितः ।। १९८ ।।
अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः ।

जन्मान्तरप्रतिसन्धानविरुद्धे हि मनसि वर्तमानः कथममुक्तः । पूर्व्वसंस्कारस्य च
तज्जन्मसम्भविनः क्षयादप्रतिसन्धानं । येषान्तु पुनरप्रतिसन्धिकरणाय संस्कारक्षयेच्छा नास्ति
तेऽक्षीणसंस्कारा अनघा एवावतिष्ठन्ते । यावत्संस्कारमनुवृत्तेः ।।

मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ।। १९९ ।।
तिष्ठन्त्येव पराधीनाः येषान्तु महती कृपा ।

संस्कारहानेः करुणायाश्च मन्दत्वात् न स्थापने यत्नः । इति न सदा तिष्ठन्ति ।
महाकरुणायोगातु स्थानमेव । तत्रास्थासम्भवात् ।

(c) सत्कायदृष्टेर्विगमः

यदि मार्ग्गस्य सामर्थ्य तदाद्य523 एव स्रोतआपन्नमार्ग्ग एवाभवो भवेत् । सत्कायदृष्टे
र्विगयात् । तथाहि सत्कायदृष्टेर्विचिकित्सायाः शील524 व्रतपरामर्शस्य च प्रहाणात् स्रोत
आपन्नो भवति ।

मोहश्च मूलं दोषाणां स च सत्वपरिग्रहः । इति चोक्तं । ततोमार्ग्गान्तरं व्यर्थकं
भवेत् । अत्रोच्यते ।

सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ।। २०० ।।
मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः ।

न खलु सत्कायदर्शनप्रहाणमाभिसंस्कारिकस्यैव प्रहाणात् । सहजस्य प्रहाणाभावः ।
सत्यदर्शनमात्रं हि स मार्ग्गः । दर्शनेन चाभिसंस्कारिकस्यामूलक्लेशत्वादात्मग्रहस्य प्रहाणं ।
तद्ध्यात्मदर्शनमौपदेशिकं दर्शनमात्रेणैव विपर्ययस्स्य प्रहीयते । सहजस्यतु सत्कायदर्शनस्य
विरूढत्वादनाद्यभ्यासतः प्रतिपक्षेण भावनामार्ग्गेणैव प्रहाणमतः सहजाहानेः ।

यस्य तु मते न सहजस्यापि हानिः । तत्र मते न हानौ वापि भवः कुतो भवति ।
पटुप्रज्ञस्य हि प्रर्थममार्ग्ग एव सकलसामर्थ्ययोगीति तस्य स एव सकलमार्ग्गस्वभावः ।।

140

ननु सहजं सत्त्वदर्शनं । यद्यात्माकारं तदाऽत्माभावे तत्राभिसंस्कारादेव बुद्धिर्नान्यथा ।
वस्तुनो जनकस्याभावे यदि परमुपदेशः कारणं । अत्राह ।

सुखी भवेयं दुखी वा मा भूवमिति तृष्यतः ।। २०१ ।।
यैवाहमिति धीः सैव सहजं सत्त्वदर्शनं ।
नह्यपश्यन्नहमिति स्निह्यत्यात्मनि कश्चन ।। २०२ ।।
न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति ।

अनादिवासनाबलात् उदयमासादयन्ती अहमिति बुद्धिः सहजमेतत् सत्त्वदर्शनं सुखी
भवेयमहमित्येवमाकारा मा भूवमन्यथेति वा । तदप्रहाणा525 न्नाभवः । अहमिति चापश्यन्ना
त्मनि स्निह्यति न तु पश्यन् । न च सुखकामस्याभिधावनं विनात्मस्नेहेन । यस्य तु
सहजं सत्त्वदर्शनं, प्रवर्त्तितात्मस्नेहसंगति तस्य कथं पुनर्जन्माभावः । ततः सहजसत्त्वदर्शना
दाद्य एव मार्ग्गे न संसाराभावः । सत्त्वदर्शनप्रहाणादवश्यमेवेति निश्चयः । अनेन शान्त
इत्याकारः कथितः ।

ननु आत्मनि सति बन्धः तस्यैव मोक्षः । ततः परितोषविशेषादात्मनः । स प्रणीतो
मोक्षः । आत्माभावे तु कस्य परितोषः ।

(d) बन्धमोक्षव्यवस्था—

यदि भवेत् भ्रान्तिरेव सेति सदोषता नासौ मोक्षः । अत्र समाधानं ।

दुःखोत्पादस्य हेतुत्वं बन्धः; नित्यस्य तत्कुतः ।। २०३ ।।
अदुःखोत्पादहेतुत्वं मोक्ष ; नित्यस्य तत्कुतः ।

यद्यात्मा नित्यस्तथा व्यापी तदान्वयव्यतिरेकाभावात् नासौ स्वयमात्मनो दुःखमुत्पा
दयितुं शक्तः । आकाशवत् । यदि च स्वतन्त्रः शक्तश्च कथमात्मनो दुःखमुत्पादयेत् ।
न खलु स्वबधाय कृत्योतथापनं प्रेक्षावतः युक्तं । अथासौ मूढस्तदात्मानमजानानः कथमात्माऽ
नुपलम्भादसत्त्वमेवास्य स्यात् । अथ तत्स्वभाव एवासौ तदा न कदाचिदन्यथेति । न सा
मुक्तिर्भाविनी । अथ जानानस्यापि तस्यार्था न स धर्म्मेणोत्पाद्यते526 दुःखं तथापि ।
नित्यस्य व्यापिनश्च न कस्यचित् दुःखो527 त्पादहेतुत्वं । यद्यसौ तदा दुःखस्वभावः । तदा न
दुःखस्य दुखं युक्तं । तत्स्वभावत्वे च नाऽन्यथाभावः । ततो न मोक्षः । अन्यस्वभावभावे च
न नित्यः इति नात्मा भवेत् । अथ व्यतिरिक्तं दुःखं सुखं वा, तदात्मा न सुखी दुःखी वा ।
नह्यन्येन सुखेनान्यः सुखी भवति । अथ तत्र समवायात् । ननु समवायोप्यन्य एव ।
अनन्यत्वे स एव दोषः । सुखासुखादिस्वभावत्वे च, अरापरस्वभावादनित्यत्वं । अथ निर्वि
कारोऽसौ परमार्थतः भ्रान्तिरेव तु सुखित्वादिप्रतिपत्तिः । तदप्यसत् ।

आत्मनोव्यतिरेकश्चेद् भ्रान्तेर्नात्मा अवित्तितः ।528

तत्स्वरूपस्य वित्तिश्चेत् कथं भ्रान्तिः स्ववेदने ।। ७४९ ।।

141

सुखित्वं यदि मोक्षेपि मुक्तेर्न स्यात्प्रणीतता ।

मोहस्तत्रास्ति तस्येति तस्मादात्मा न मुक्तिभाक् ।। ७५० ।।
परितुष्टः क्षणो यस्य सम्भवत्यपरापरः । तस्य मोक्षः प्रणीतोसौ भ्रान्त्ययुक्ति विनार्थतः ।। ७५१ ।।
नैकाधिकरणत्वं चेत् प्रसक्तं बन्धमोक्षयोः । सवृत्यैकाधिकरणभावो नैव निवार्य्यते ।। ७५२ ।।
यो मुक्तस्य बन्धेन तदा किम्वा प्रयोजनं । पूर्वं ममासीदिति चेत् तदपि क्वोपयुज्यते ।। ७५३ ।।
अपेक्षापूर्वकारी स्यात् प्रागेकत्वस्य निश्चयात् । अयुक्तञ्चैतदिति चेदे तदिष्यत एव हि ।। ७५४ ।।
परार्थो वा प्रयोगोयमिति चावेदितं पुनः । प्रणीततास्य मोक्षस्य पस्रय तु विपर्ययः ।। ७५५ ।।

अथापि स्यात् न नित्य आत्मा पूर्वोक्तदोषान्नापि अनित्योऽप्रेक्षापूर्वक्रियाप्रसङ्गात् ।
अतो नित्यत्वानित्यत्वाभ्यामवाच्यः । तदपि न युक्तं ।

अनित्यत्वेन योऽवाच्यः स हेतुर्नहि कस्यचित् ।। २०४ ।।
बन्धमोक्षाववाच्येपि न विद्येते कथं च न ।

अनित्यत्वेनावाच्य इति अनित्यत्वमस्य नास्ति तस्य न हेतुता । अनित्यतया हेतुत्व
व्याप्तमिति चान्यत्र निर्ण्णयः(ा) ततो व्यापकस्याभावात् हेतुताप्यस्यासम्भविनी । यस्य तु पुनर्नि
त्यताऽपि नास्ति । तस्यात्यन्तमभाव एव । (अथ)529 बन्धमोक्षयोरेकाधिकरणत्वादनित्यता । न ।
हेतुत्वात् नित्यता नेति समाधिः । स चायुक्तः ।।

नित्यानित्यविनिर्मुक्तः स्वभावो नोपलभ्यते । व्यावृत्तानुगतत्वेन सर्वस्यैवोपलम्भनात् ।। ७५६ ।।

अथापि स्याद्(ा) उभयरूपतास्तु यदि नान्यथा । तथापि न दोषः । यस्मात् ।

नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ।। २०५ ।।
त्यक्त्वेमां ह्रेपणीं दृष्टिमतो नित्यः स कथ्यतां ।

नाशी च नित्यश्चेति व्याहतं । यस्मान्न नश्यति यः स नित्यः । नाशोऽभावोऽनुप
लब्धिरित्येकार्थता प्रसाधयिष्यते । अनाशो नित्यतोपलब्धिरिति च । ततो नित्यानित्ययोरे
कत्वमिति उपलभ्यानुपलभ्ययोरित्यर्थः। उपलभ्यानुपलभ्ययोश्च कथमेकत्वं ।

एकत्वेन प्रतीतेर्यः स एवैक इति स्थितिः । अप्रतीतं प्रतीतञ्चेत् तदेतदतिसाहसं ।। ७५७ ।।

यदि नित्यमनित्यञ्चैकमेव । तदा प्रतिपन्नमप्रतिपन्नञ्चैकमिति प्रसक्तं । तथा
चासम्बद्धं । प्रतीयमानमेकत्वेनान्यथा न शक्यं प्रतिपत्तुं । नाप्रतीतमेव प्रतीतं शशविषा
णमप्रतीतं केनचित् प्रतीतेन सहैकं शक्यं निश्चेतुं । तत्रैकस्याप्रतीतेरिति चेत् । इहाप्य
प्रतीतेऽवश्यमप्रतीतिः । यस्यैकत्वेन प्रतीतिर्न तस्य प्रतीतिरेव नश्यति । नोत्पद्यते वा ।
अथान्यप्रतीतिरप्रतीतिः, तेनान्यप्रतीतिरूपा नास्ति प्रतीतिर्नास्ति तदन्यरूपप्रतीतिरेव
तस्याप्रतीतिः530 । एवं तर्हि यदन्यरूपं531 तत एव तस्याभावः इति प्राप्तं । तच्चायुक्तं । यतः ।

अन्यतां प्रतिजानानः कथं ब्रूयादनन्यतां । अन्यता तस्य नेत्येवमनित्यत्वं न सिध्यति ।। ७५८ ।।
अनित्यत्वेऽनुपलब्धिः स्यान्नोपलब्धावनित्यता । अनन्यत्त्वे चोपलब्धिरुपलब्धौ च नित्यता ।। ७५९ ।।

142
केनचित्तस्य रूपेण नोपलब्धिः परान्यथा । अवित्तिर्येन रूपेण तदस्येति कथं मतं ।। ७६० ।।
पूर्वत्वेनास्य वित्तिश्चेत् पूर्वमेव तथा भवेत् । इदानीन्तनतद्रूपमस्येति कथमेकता ।। ७६१ ।।
एकः पूर्वापराभ्याञ्चेत् रूपाभ्यामवियोगतः । वियोगे दृश्यमानेपि वियोगो न कथं मतः ।। ७६२ ।।
क्रमेणास्या वियोगश्चेत् वियोगोपि तथाभवेत् । अत एवोभयात्मत्वमवियोगवियोगतः ।। ७६३ ।।
यथैवास्याक्रमं सत्त्वं दष्टिरस्य तथा भवेत् । अक्रमस्य च सत्त्वस्य न योगः क्रमभाविकः ।। ७६४ ।।
नपूर्वापररूपस्याप्रतीतौ व्यापितागतिः । क्रमेण व्यापितायाञ्च तस्यैव व्यापिता नहि ।। ७६५ ।।
नहि दृष्टमदृष्टञ्च तस्यैकस्योपपत्तिमत् । तदैव तस्य दृष्टत्वमदृष्टत्वं च दुर्घटं ।। ७६६ ।।
कालाभेदेन सकलं नासमञ्जसमीक्ष्यते । एकत्वादेकदैवास्य कालभेदः कथं भवेत् ।। ७६७ ।।
पुनः पुनः प्रतीतौ च गृहीतं ग्रहणं भवेत् । गृहीतमिति यद् ग्राह्यं स्मर्यमाणं हि तद् भवेत ।। ७६८ ।।
स्मरणस्याप्रमाणत्वान्न क्रमग्रहसम्भवः । न चाप्रतीतं तद्रूपं येन प्रत्यक्षता भवेत ।। ७६९ ।।
इदानीन्तनमस्तित्वं चेन्न न पूर्वधियागतं532 । भेदाभावात्कुतस्तस्य विभागोऽयं प्रमान्वितः ।। ७७० ।।
दृष्टत्वं तस्य नास्तीति सर्वदा वर्तमानता । यदि पूर्वापरीभावः केन तस्य प्रतीयतां ।। ७७१ ।।
प्राक्‌परप्रत्ययाभ्याञ्चेत् तयोर्भेदगतिः कुतः । स्वसंवेदनभावाच्चेत् न स्याद् द्वित्वगतिस्ततः ।। ७७२ ।।
न चाप्यविद्यमानस्य परपूर्वस्य तद्गतिः (।) एकं संवेदनं तच्चेत्533 परपूर्वतयेष्यते ।। ७७३ ।।
एकत्वे परपूर्वत्वं साक्षात्कृततयाकथं । न साक्षात्त्क्रियमाणस्य पूर्वता भावितापि वा ।। ७७४ ।।
न पूर्वत्वं यदि भवेत् कथं पूर्वतया गतिः । नास्त्येवास्य गतिः साक्षात्स्मरणञ्च न तद्गतिः ।। ७७५ ।।
तस्य स्मरणमेतच्चेत् तस्येति कथमुच्यते । यदा तेन विनाप्येतत् स्मरणं भवदीक्ष्यते ।। ७७६ ।।
कार्यकारणभावाच्चेत् न ग्रहस्तावता भवेत् । साक्षात्कारणतार्थस्य ग्राह्यता न विपर्ययात् ।। ७७७ ।।
न चार्थात्स्मरणं साक्षात्संविदा व्यवधानतः ( ) संवेदनं न पूर्णन्तत् पूर्वत्वग्रहणक्षमं ।। ७७८ ।।
न परं तेन पूर्वत्वं स्मरणान्नैव साध्यते । अतीतसाक्षात्करणं पूर्वमित्यभिधीयते ।। ७७९ ।।
भावी साक्षात्कृतौ भावे भावित्वस्य व्यवस्थितिः(ा)अथोत्पादव्ययध्रौव्यं युक्तं यत्तत् सदिष्यते ।। ७८० ।।
एषामेव न सत्त्वं स्यात् एतद्भावावियोगतः (ा) यदा व्ययस्तदा सत्त्वं कथं तस्य प्रतीयते ।। ७८१ ।।
पूर्वप्रतीते सत्त्वं तत्तदा तस्य व्ययः कथं । ध्रौव्येपि यदि नास्मिन् धीः कथं सत्त्व प्रतीयते ।। ७८१ ।।
534
प्रतीतेरेव सर्वस्य तस्मात्सत्त्वं कुतोऽन्यथा । तस्मान्न नित्यानित्यस्य वस्तुनः सम्भवः क्वचित् ।। ७८२ ।।

अनित्यं नित्यमथवा वस्त्वेकान्तेन युक्तिमत ।।

इदानीं मार्ग्गप्रसङ्गे निरोधस्यैव चतुर्थमाकारं दर्शयन्नाह ।।

(घ) मार्गसत्त्यम् चतुराकारम्
उक्तो मार्गस्तदभ्यसादाश्रयः परिवर्तते ।। २०६ ।।
सात्म्येपि दोषभावश्चेत् मार्ग्गवन्नाविभुत्वतः ।

प्रागेव मार्ग्ग उक्तः तस्याभ्यासादाश्रयस्य चित्तसन्तानस्यालयस्य वा परिशुद्धत्वं
भवति । आत्मात्मीयग्रहविपर्ययभूतस्य नैरात्म्यस्य सात्म्ये सकलदोषविश्लेषः ।

(सत्कायदृष्टिः)—

ननु यथा दोषयोगे गुणयोगः तथा गुणयोगेपि दोषयोग इति न निःसरणं संसारतः । न(ा)

143

दोषाणां गुणसम्भवेन बाधनात् । विपर्ययः कस्मान्न भवति । गुणानां वस्तुस्वभावत्वात् ।
कथमेतदिति चेदुच्यते ।।

विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः ।। २०७ ।।
गृह्यते सोऽस्य जनको विद्यमानात्मनेति च ।

विज्ञानं मार्ग्गः प्रेरको जन्मिनां तस्य धर्म्मः स्वरूपं विषयग्रहणं । येन तद्विज्ञानं भवति ।
न विज्ञानमसंवेदने भवति । असंवेदनानां तथाऽभावात् । यथा चास्ति तथा स गृह्यमाणो
जनकः । आकारार्पणक्षमं । हि कारणं विज्ञानस्य विषयः । तत् स्वरूपप्रतिपादनं विज्ञानस्य
धर्मः । तथैव प्रतीयमानत्वं विषयस्य ।535 ततोऽनित्यानात्मादिरूपो विषयो विज्ञानं तथाभूत
ग्राह्येव नान्यस्तत्स्वभाव इत्याह ।

एषा प्रकृतिरस्यास्तु निमित्तान्तरतः स्खलद ।। २०८ ।।
व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् ।

यस्य यो धर्मोऽनात्मकत्वादिग्रहणस्वभावः । असौ प्रकृतिः । तस्याः स्खलन्त्या आग
न्तुकप्रत्ययवशात् अमूलकात् स्खलितञ्च(ा) ततः स्खलनाद् व्यावृत्तौ प्रत्ययापेक्षमतोऽमू
लकत्वात् अदृढं536 फणिबुद्धिवत् । ननु फणिबुद्धेः सादृश्यदूरदेशत्वादयो रज्वां कारणानि ।
नित्यबुद्धेस्तु किं कारणं । न प्रत्यक्षं नित्यतायां प्रवर्तते । नाप्यनुमानं । नाशंका निःप्रमा
णिकेति । प्रत्यक्षतश्च क्षणिकत्वं प्रतीयते इति साधयिष्यते । ततः कुतो नित्यत्वग्रहः ।
अत्राह । तां पुनरनित्यतां पश्यन्नपि मन्दबुद्धिर्नाध्यवस्यति सत्तोपलम्भेन सर्वदा तद्भावशङ्का
विप्रलब्धः सदृशापरोत्पत्तिविप्रलब्धो वा अन्त्यक्षणदर्शिनां537 निश्चयात् ।

एतदुक्तं भवति । यदा तावदुपलब्धे पदार्थात्मनि पुनरनुपलम्भस्तदा पश्यत्येवा
नित्यतां । अतादवस्थ्यमनित्यतां ब्रूमः । किन्त्वनुपलब्धेपि मन्दबुद्धेराशङ्का न व्यपैति ।
ततः तद्भावं शङ्कत इति तद्भावशङ्कः । पूर्वं किमयमद्याप्यास्ते न वेति । ततः पुनर्दर्श
नादर्थक्रियावाप्तेः । अविप्रलब्धः सन् किमयं न व्यवस्यति । विप्रलब्धो हि तदनवाप्तेर्व्य
वस्येत् तन्न इव घटे ।538 अर्थक्रियालक्षणसत्तोपलम्भे तु को विपर्ययविवेचनस्यावसरो व्यवहारिणः(ा)
प्रतिभासभेदेन तु तत्त्वचिन्तकोध्यवस्यत्येव । व्यवहारी तु पुनरर्थक्रियार्थी । तदवाप्तेः
परितुष्टः परं न विवेचयति । कृतार्थत्वात् । सदृशापरोत्पत्तिविप्रलब्धो वा सद्र्शे/?/ हि
तदेवेदमिति बुद्धिर्यमजे ।539 पूर्वंत्र मायागोलकतदर्थक्रियायामर्थादमात्रमेव540 विवक्षितं ।
यतः परापरतृणादिकारणजातस्य वह्नेरेकताध्यवसायविषयता इन्धनमेव तत्रोपादानं न वह्निः
न खलु वह्नेरेवोत्पद्यते वह्निः (ा) आदावनुत्पत्ति541 प्रसङ्गात् । उपलास्फालनेन प्राग्
वह्नेरभावात । अथवा तत एव वह्नेरुत्पत्तिः । एवं सर्वे पदार्थाः पूर्वसमानजातीयादुत्पद्यन्ते ।
न वा समानजातीयं कारणं । कर्म्माधिपत्यादेवोत्पत्तेः । अत एतदपेक्षया विकल्पः । तच्च
कर्म्मवादिमतेन पूर्वमुक्तं । अन्यमतेन परमिति निर्ण्णयः ।


144

अथवा अतद्भावशङ्काविप्रलब्ध इति व्याख्यातव्यं । न हि तद्भावे शङ्का काचिद्वि
द्यते । सर्वदा सत्तोपलन्धेः । अनुपलम्भे हि तद्भावे शङ्का भवेत् । यदा तु मध्ये अनुपलम्भस्त
दा को वृत्तान्तः । अत्रापि सदृशापरोत्पत्तिविप्रलब्धो लूनपुनर्जातकेशनखादिवत् । मृत
प्रत्यभिज्ञात एकत्वमिति चेत् । न(ा) प्रत्यभिज्ञाया अप्रमाणत्वात् । प्रत्यक्षत्वानुमानत्वा
योगात् । तथा च प्रतिपादयिष्यते । तस्मादान्तरा542 दविद्योपप्लवादागन्तवो मलाः ।

अत एवाह ।

प्रभस्वरमिदं चित्तं प्रकृत्या; (ऽऽगन्तवो मलाः) ।

नित्यत्वविरहितस्यैव तेन ग्रहणादागन्तवो मलाः ।

असद्भूतसमारोपस्यामूलकत्वेन तौतमुद्रामात्रकत्वात् । न परमार्थतो नित्यत्वं क्वचित्
प्रतिभाति । ततो विचारशून्यत्वादागन्तवो मलाः ।

तत्प्रागप्यसमर्थानां पश्चात् शक्तिः क्व तन्मये ।

प्रागप्यसमर्था एव श्रुतचिन्ताकाले यतः(ा) ।

नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ।। २१० ।।
बाधकोत्पत्तिसामर्थ्य543 गर्भे शक्तोपि वस्तुनि ।

नन्वहेतोरपि मृदुश्रद्धादिकस्यार्हत्वात् प्रहाणिर्भवत्येव । तत्कथमनुत्पत्तिर्दोषाणां ।
यद्यपि चोत्पत्तिर्दोषस्य तथाप्यन्तर्ग्गतबाधकोत्पत्तिसामर्थ्ये शक्तोप्युत्पत्तुं । नात्यन्तं प्ररोदुं
समर्थो मलः । यथा स्यन्दिन्यां भुवि अग्निरुत्पन्नो न प्ररोहति । सात्म्ये तु544 स्थितस्य न दोषो
त्पत्तिः । तथाहि ।

निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।। २११ ।।
न बाधा यत्नवत्त्वेपि बुद्धेस्तत्पक्षपाततः ।

नहि स्वभावो यत्नरहितेन निवर्त्तयितुं शक्यः । यत्नश्च दोषदर्शिनो गुणेषु वर्तते, दोषेषु
च गुणदर्शिनः । न च सात्मीभूतनैरात्म्यदर्शनस्य । दोषेषु गुणदर्शनं । न गुणेषु दोषदर्शनं ।
अदर्शनं वा गुणेषु । नैरात्म्यदर्शन545 स्य निरुपद्रवत्वात् ।

ततः स्वभावो भूतात्मा निरुपद्रव एव च । कथमस्य परित्यागः कर्त्तुं शक्यः सचेतसा ।। ७८४ ।।
पक्षपातश्च चित्तस्य न दोषेषु प्रवर्तते । ततः तस्य न दोषाय यत्नः कश्चित्प्रवर्तते ।। ७८५ ।।

निखिलपदार्थस्वभावपर्यालोचनसमर्थस्य यदि नाम दोषोत्पतिस्तथाप्यसौ सत्त्योऽर्थः ।
प्रहीण इव पथिकः सम्वेगसमागमात् मध्यस्थभावे वर्तमानो मार्ग्ग एव यत्नमारभते
गुणपक्षपातात्, नतु दोषेऽभिरमते ।

ननु च रागद्वेषयोर्विपरीताकारत्वेपि नैकस्यैव बाधा । बाधितस्य रागस्य द्वेषेण पुन
र्बाधकत्वदृष्टेः । तथा द्वेषस्य । तथा नैरात्म्यात्मदर्शनयोरपि546 स्यात् । नैतदस्ति यस्मात् ।

आत्मग्रहैकयोनित्वात् कार्यकारणभावतः ।। २१२ ।।
रागप्रतिघयोर्बाधा भेदेपि न परस्परं ।

145

द्वयोरध्यात्मग्रहकारणत्वात् सत्यात्मग्रहेनात्यन्तमेकस्याप्युच्छेदः । सत्यपि परस्पर
वैपरीत्ये अयुगपद्भावश्च स्यात् । किञ्च(ा) ।

कार्यकारणभावादपि यो हि यत्र विवक्षितो(।) । दुःखहेतौ स पीडितो नियमेन
सुखहेत्वर्थमिच्छति तत्रान्यत्र वा । तेनानयोः कार्यकारणभावः सुखहेतौ अनुगृहीतो नियमेन
तदुपघात इति प्रतिघवान् । अतः कार्यकारणभावात् न बाधा भेदेपि रागप्रतिघयोः । अत एव ।

मोहाविरोधान्मैत्र्यादेः नात्यन्तं दोषनिग्रहः ।। २१३ ।।
तन्मूलाश्च मलाः सर्वे ; स च सत्कायदर्शनं ।

यद्यपि द्वेषस्य प्रतपक्षो मैत्री(ा) रागस्याशुभा(ा) विहिंसाप्रतिपक्षः करुणा(ा) ईर्ष्या
प्रतिपक्षो मुदिता । सर्वस्य प्रतिपक्षउपेक्षा । तथापि नात्यन्तं दोषनिग्रहः मोहाविरोधात् ।

ननु सत्यपि मोहेऽहङ्कराभावात् सकलदोषप्रहाणमेव ।

नैतत्साधीयः । स एव मोहः सत्कायदर्शनं । क्लिष्टो हि मोहः सत्कायदर्शनमेव ।

अर्हतान्तु यदज्ञानं न तत् क्लिष्टमतो न ते । मोहेप्ययुक्तसन्ताना हीनसत्कायदर्शनाः ।। ८८६ ।।
विद्यायाः प्रतिपक्षत्वात् चैत्तत्वेनोपलब्धितः ।। २१४ ।।
मिथ्योपलब्धिरज्ञानयुक्तेश्चान्यदयुक्तिमत् ।

नन्वसंप्रख्यानरूपाऽविद्या सत्कायदर्शनन्तु प्रतिपत्तिरूपं तत्कथं सत्कायदर्शनमेवा
विद्येति(ा) न दोषो यतः ।

असंप्रख्यानरूपादेरविद्यानिर्वृत्तेरपि । तत्त्वं स्यादुपधीनां हि क्षये किमवशिष्यते ।। ७८७ ।।

असंप्रख्यानं हि निरुपधिशेषे निर्वाणे । निरोधसमापत्तौ च मुख्ये । अथ तस्य
क्लेशनिदानत्वं नास्ति । न तर्हि तदविद्यालक्षणं । सत्कायदृष्टिरेव तन्निदानत्वादविद्या
नापरा(ा) यतः ।

विद्याविरुद्धो धर्मोऽन्योऽविद्याऽधर्म्मा नृतादिवत् । विद्या नैरात्म्यदृष्टिषु तद्विरोध्यात्मदर्शनं ।। ७८८ ।।

न तावद्विद्याभावोऽविद्या तद्भावस्य निर्वाणेपि भावात् । न चाभावो हेतुः । नापि
तदन्यो, रूपादीनामविद्यात्वप्रसङ्गात् । तस्माद्विद्याविरुद्धो धर्मोऽविद्याऽधर्म्मानृतवत् । तच्च
सत्कायदर्शनमेव । तथाहि (ा) परानुग्रहलक्षणो धर्मस्तदभावमात्रं नाधर्मोपि तु तदन्यमात्रं ।
अपितु अनुग्रहविरुद्ध उपघातोऽधर्म्मः । तथा न भूतार्थप्रतिपादनाभावोनृतमपि त्वभूत
प्रतिपादनमसत्त्यवचनं । एवं सति सत्यार्थे यदा भ्रान्त्या नास्तितां मन्यमानोऽस्तीति प्रति
पादयति । तदाऽसत्यता न स्यात् । असति च सत्यतां मन्यमानः तदा मृषा स्यात् ।
नैतदस्ति ।

विकल्प्यविषयाः शब्दाः यद्यथा वस्तुनिश्चितं । तथैव वचनं सत्त्यमन्यथा वचनं मृषा ।। ७८९ ।।

अध्यवसीयमानवस्तुविषया हि शब्दाः । अध्यवसायानुरूपप्रतिपादनमेव सत्त्यताऽन्यथा547 146 असत्यतेति न्यायः । बोधिसत्त्वानान्तु भ्रान्त्यापि सत्त्वविसम्बादनं परमवद्यं । अत
एव ते सर्वाकारज्ञतायामभियोगिनो भवन्ति । ततः सत्कायदृष्टेरेवाविद्यान्यस्य विद्याप्रतिप
क्षत्वाभावात् । चैत्तत्वेन च कारणेनोपलब्धितः । मिथ्योपलब्धिरेवाविद्या । आश्र548 याल
म्बनाकारकालद्रव्यसमताभिः समं प्रयुक्ताः । इति सम्प्रयुक्ताः उक्तञ्च प्रज्ञाकारविपरीत
प्रतिपत्तिरुपैवाविद्येति
 । तत्र तत्र सूत्र उक्ताः । तत्र कतमोऽज्ञानविगमो यो यथाभूतानां
धर्माणामध्यारोपाधिगमः । तथा याः काश्चन लोकोपचारोपपत्तयः सर्वास्ता आत्मा
भिनिवेशतो भवन्ति । आत्माभिनिवेशनिगमतो न भवन्ति
 । नन्वात्माभिनिवेशो दृष्टिः ।
सा चाविद्यासंप्रयुक्ता । ततो दृष्टिद्वारेणाविद्यैवोक्तेति मन्तव्यं । नान्तरीयकत्वात् न तु
सत्कायदृष्टिरेवाविद्येति । नैतदपि साधीयः ।

अविद्याङ्ेगहि निर्देश्ये तत्स्वरूपप्रकाशनं । युक्ता तदन्यनिर्देशः कौशलं न निवेदयेत् ।। ७९० ।।
प्रमाणमत्र न किञ्चित् अविद्यैवं निवेदिता । विपर्यये प्रमाणन्तु यथावदुपदर्शितं ।। ७९१ ।।

दृष्टिद्वारेणाविद्यैव निर्दृष्टेति न किञ्चिदत्र प्रमाणं । सत्कायदृष्टिरेव त्वविद्या सर्व
दोषनिदानं इत्युपदर्शितमत्र प्रमाणं ।

ननु सत्कायदृष्टिर्मोहजदेशभूता549 । मोहस्तु सकलक्लेशानुगतोऽसंप्रख्यानलक्षणो
ऽन्यथा वा स कथं सत्‌कायदृष्टिरुच्यते । विशेषशब्दस्य सामान्यार्थत्वाभावात् । तथा
यद्यविद्यादृष्टिरेव तदा दृष्टिसंप्रयुक्ताऽविद्येति संप्रयुक्तार्थो न स्यात् न स तेनैव संप्रयुक्तः ।
अत्र चोद्ये परिहारः ।

व्याख्येयोऽत्र विरोधो यः तद्विरोधाच्च तन्मयैः ।। २१५ ।।
विरोधः शून्यतादृष्टेः सर्वदोषैः प्रसिध्यति ।

सामान्यविशेषभावेन हि भेदप्रकल्पनया संप्रयुक्तार्थः । तद्यथा पलाशयुक्तं वनमिति ।
परमार्थतः पलाशस्वभावतैव कथिता एवं विशेषाभिधानेन तत्स्वभावोऽविद्यानिदानभूता
प्राधान्येन निर्दिष्टा । यत आत्मदर्शनमविद्या, ततः तन्मूलकाः सर्व एव क्लेशाः । नैरात्म्य
दर्शनात् मूलच्छेदकारिणो मूलच्छेदादुच्छिद्यन्ते । यतः सकलक्लेशविरोधि नैरात्म्यदर्शनं
तच्च योगिनो न व्यपैतीति न पुनः क्लेशोदयः । ततो निःसरणाकारता निरोधस्य कथिता ।

नाक्षयः प्राणिधर्म्मत्वाद्रूपादिवदसिद्धितः ।। २१६ ।।
सम्बन्धे प्रतिपक्षस्य त्यागसंसर्जनादपि ।
न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः ।। २१७ ।।
सात्मत्वेनानपायत्वात् अनेकान्ताच्च भस्मवत् ।

—इत्यन्तरश्लोकौ ।

नन्वात्मभावनादपि भवत्येव मोक्षः । तत् किं नैरात्म्यदर्शनेन । अत्राहागमः । आत्मा . . . . मन्तव्य550 इत्यादिः । तदप्यसत् । यतः ।

यः पश्यत्यात्मानं तत्राहमिति शाश्वतः स्नेहः ।। २१८ ।।
स्नेहात् सुखेषु तृष्यति तृष्णा/?/ दोषाँस्थिरी कुरुते ।

147

आत्मदर्शी हि नियमेन आत्मनि शाश्वतेन स्नेहेन सम्बध्यते । स्नेहाच्च तत्सुखेषु तृष्णा
वान् । यस्य यत्र स्नेहः स तत्सुखे परितर्षवान् । यथा पुत्रादिसुखे ।

नन्वात्मदर्शनादात्मनि स्नेहः इत्युक्तं । किं काष्टदर्शनादेः काष्टे स्नेहः स्त्री
दर्शनादेव स्त्रियां । तस्मात् यः पश्यत्यात्मानं तत्र तस्य स्नेह इत्ययुक्तं । नैतदस्ति ।

यस्यान्यत्र स्नेहः तस्यात्मनि न भवतीति कुतः ।

स्नेहो दृश्यत एवात्मन्यत्र नास्ति विवादिता । आत्मस्नेहं विनान्यत्र स्नेह इत्यतिदुर्घटं ।। ७९२ ।।

यद्यात्मदर्शनमात्रकेण न स्नेहः स्नेह एव कस्यचिन्न स्यात् अन्यस्य कारणस्याभावात् ।
काष्टञ्च आत्मोपयोगि न पश्यति । तेन न स्नेहः । यस्य चात्मोपयोगिनि स्नेहः
स कथमात्मनि न स्नेहवान् । अथ सत्त्वविशेषादात्मनि स्नेह एव नास्ति । परत्र तु महानु
भावतया करुणातः स्नेहवान् । तदसत् ।

महानुभावता नाम परोपकरणं यदि । अप्रेक्षापूर्वकारित्वे तथा सत्यसमंजसं ।। ७९३ ।।

आत्मानं परित्यज्य परोपकारणीकुर्वता स्वार्थं महदप्रेक्षापूर्वकारित्वं आत्मनि प्रकटितं
स्यात् ।

अथ परार्थक्रियैव सुखं । तथा च सति ।

सुखत्वासङ्गसम्मूढ़ः कथं मुक्तः तथा च स । गणिकास्वाङ्गसम्मर्दमपि कुर्यात् स तादृशः ।। ७९४ ।।

असत्त्यव्यवहारोयमिति चेत नास्त्यसत्त्यता ।।

स्वात्मव्यवस्थितो यथा ध्यानसुखमाकांक्षति तथा गणिकाङ्गसङ्गमसुखमपि । न
खलु सुखस्य तस्यापरस्य वा विशेषः । असत्त्यता तथा स्यादिति चेत् नासत्त्यता विशेषा
भावात् । नरकादिगमनान्न युक्तमिति चेत् । न (ा) महानुभावताविशेषात् परार्थं नरक
गमनाङ्गीकरणं । महती महानुभावतेति तथाभ्यासादसत्त्यव्यवहारोऽन्यश्च सुखहेतुः । ततो
वरं सत्त्यव्यवहारोऽङ्गीकृतः । न विशेषाभावात् । तथा चात्मनि सतृष्णस्तद्वशाद्दोषादोषौ
समीकुर्य्यात् । ततो दोषतिरस्करणे ।

गुणदर्शी परितृष्यन्ममेति तत्साधनान्युपादत्ते ।। २१९ ।।
तेनात्माभिनिवेशो यावत् तावत् स संसारे ।

आत्मनि परमार्थतया विद्यमाने यस्तत्रोपकारः सोपि परमार्थः । ततः परमार्थो
पकारी यः स एव गुणवानिति प्रतीयात् । ततो गुणदर्शी ममेति साधनान्युपादत्ते । तेनात्माभि
निवेशात् संसार इति । सुखसाधनं गर्तसूकरीसंस्पर्शमपि प्रार्थयते ।

तस्माद्(ा)

आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रह द्वेषौ ।। २२० ।।
अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ।

आत्मपरविभागो हि परिग्रहद्वेषौ जनयेत् । ततः परिग्रहद्वेषसंप्रतिबद्धा ईर्ष्यामात्स
र्यादयो दोषा भवन्ति ।

अथापि स्यात् । आत्मन्येव स्नेहो नात्मीये तेनात्मीयस्नेहाभावात् असत्त्यव्यवहारा
भावः । अत्रोच्यते ।

148
नियमेनात्मनि स्निह्यँस्तदीये न विरज्यते ।। २२१ ।।
न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणं ।

आत्मनि हि स्नेहः प्रवर्तमानो न दोषमन्तरेणापैति । न च स्नेहवान् आत्मनि आत्मीये
निःस्नेहः । तस्मादात्मनि आत्मीये च स्नेहवान् सकलदोषतिरस्करणेन सर्वत्रावृत्तिमानिति
संसारसङ्गम एवास्याविरतः । अथात्मनि आत्मीये च स्नेहस्य संसारहेतुत्वात्, स्नेंहसङ्ग
तस्य च दुष्टत्वात् । आत्मीयस्य न तत्र स्नेहः ।

(मार्गभावना)—

अन्यदोषदुष्टत्वेपि स्नेहो न क्रियते किं पुनर्यत्र स्नेह एव दुष्टो भवति । तत्राह ।

स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनं ।। २२२ ।।
अदूषितेऽस्य विषये न शक्यं तस्य वर्जनं ।

अन्यदोषेण हि स्नेहो नेति विषयदोषाद्युक्तमेतत् । अदुष्टे तु विषये स्नेहाभावो न
युक्तः । सुखहेतौ नास्ति दोषो गुणस्य भावात् । अथ स्नेह एव दोषः । भवतु किं भविष्यति ।
दुष्टत्वात् स्नेहस्य वर्जनमिति चेत् । नैतदस्ति । विषयदोषमन्तरेण स्नेहपरित्यागा
भावात् । तस्मात् ।

प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धिनः ।। २२३ ।।
तयोरदृष्टिर्विषये551 ; न तु बाह्येषु यः क्रमः ।

इच्छाद्वेषौ हि गुणदोषदर्शनाद् भवतः, तदभावान्न भवत इति न्यायः । आत्मसुख
साधनञ्च गुणः । तद्दुःखसाधनं दोषः । तच्चेद्विद्यते । नास्तीच्छाद्वेषप्रहाणं ।

अथापि स्यात् । बाह्यं वस्तु गुणवदपि परित्यज्यते ।

तदप्यसत् । बाह्यं वस्तुहि बाह्यकारणाधीनं परित्यज्यते स्नेहात्मदर्शनबलादुपजा
यमानोऽपरापरः कथं परित्यक्तुं शक्यः । विषयस्य हि स्नेहविषयत्वमुपादानञ्च गुणत्वेन तद
भावात् । तत्र स्नेहपरित्यागोऽनुपादानञ्च । स्नेहस्य तु न गुणवत्त्वात् उपादानमपि तु
विषयगुणात् । ततो विषयगुणकारणसद्भावात् कुतः स्नेहस्यानुदयः ।

नहि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात् ।। २२४ ।।
कारणे (ऽ) विकले तस्मिन् कार्यं केन निवार्यते ।

—इति संग्रहः ।

अपि च ।

का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ।। २२५ ।।
तथापि न विरागोत्र स्वत्वदृष्टे552र्यथात्मनि ।

आत्मा हि प्रथमं दुःखसमाश्रयः । आत्मनि सति पश्चात् स्नेहो दुःखस्य कारणं ।
अत्माभावे तु कस्य दुःखं । तत उभयस्यापि दुःखहेतुत्वात् द्वयोरपि न विरागो न वैकत्रापि ।

अथापि स्याद्(ा) आत्म नि दुःखहेतुत्वं परोपाधिकं न तस्यापि स्वगतो दोषः । आत्म
स्नेहधर्माधर्म्मसंस्कारसहायः आत्मा दुःखहेतुरत्राह ।

149
न तैर्विना दुःखहेतुरात्मा चेत् तेपि तादृशाः ।। २२६ ।।
निर्दोषं दुःखमप्येवं वैराग्यं न द्वयोस्ततः ।

नखल्वनिर्दोषे वैराग्यं कस्यचित् न चात्मस्नेहोदय आत्मानमाश्रयमन्तरेण दुःख
हेतवोऽतो न तेप्यात्मवत् सदोषाः । अतो न वैराग्यसम्भवः ।

दुःखभावनयास्याच्चेदहिदष्टाङ्गहानिवत् ।। २२७ ।।
आत्मीयबुद्धिहान्यात्र त्यागो न तु विपर्यये ।
उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु ।। २२८ ।।
सत्त्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः ।

ननु सुखहेतुत्वं स्नेहस्य ।553 हेतुतस्तद्विपर्ययसम्भवाद् वैराग्यं । न खल्वपकारिणि स्नेहः ।

अत्रोच्यते । नात्मीयबुद्धिविषये दुःखहेतावपि स्नेहविगमो दृष्टः । तस्मादात्मीय
बुद्धिपरित्यागे वैराग्यं । आत्मीयबुद्धेरेव परित्याग इति चेत् । नोपभोगाश्रयत्वेन प्रतिपन्नेषु
शरीरादिषु कस्यचित्554 आत्मीयबुद्धिविगमः । तथा हि देवः स्यां नागः स्यामिति विशिष्टं
शरीरादि मम स्यादिति तेष्वात्मीयबुद्धिं विधत्ते । तत एवंभूतबुद्धिमानेव कथं विरक्तः । तथाहि ।

प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ।। २२६ ।।
च्युतेषु सा घृणा बुद्धिर्जायतेऽन्यत्र सस्पृहा ।

यदाहि555 केशादिषूपभोगविषयता तदा सस्पृहतात्मीयबुद्धिजन्मिका । यदा तु विपर्ययः
तदा वैराग्यं सस्पृहताविगमस्वभावं नान्यथेति विभागः ।

किञ्च । वै शे षि का दीनां ।

समवायादिसम्बन्धजनिता तत्र हि स्वधीः ।। २३० ।।
सम्बन्धः स तथैवेति दृष्टावपि न हीयते ।

सुखादिना समवायसम्बन्धः । शरीरेण संयोगः । शरीराश्रितै रूपादिभिः संयुक्तसम
वायः (ा) रूपत्वादिभिः समवेतसमवायः । श्रोत्रेन्द्रियेण संयोगः (ा) चक्षुरादिना सांयोगि
संयोगः । इत्यात्मसम्बन्धो न व्यपैति । ततो दोषदर्शनेपि न हीयते तेषु स्नेहः । अथ
समवायादिसम्बन्धं नाङ्गीकुर्य्यात् । तत्रापि परिहारः ।

समवायाद्यभावेपि सर्वत्रास्त्युपकारिता ।। २३१ ।।

उपकारप्रभावितो हि सर्वत्र स्नेहः । तेन कुतो वैराग्यादयः ।

अथ परः प्रत्यवतिष्ठेत ।

दुःखोपकारानुभवेदङ्गुल्यामिव चेत् स्वधीः ।
न ह्येकान्तेन तद् दुःखं भूयसा सविषान्नवत् ।। २३२ ।।

यथा तद् दुःखं तथा सुखमपि । सविषान्नवत् । नहि सविषमन्नं दुःखमेव । सुख
त्वस्यापि सम्भवात् । तथा गर्तसूकरादिशरीरं दुःखमपि सुखमेव । कथञ्चिदतो न परि
150 त्यागविषयः इन्द्रियादिः । ननु तादृशं दुःखसम्मिश्रं दुःखमेव । एवं तर्हि सुखसङ्गतं सुखमेव
इति प्राप्तं । किञ्च (ा) ।

विशिष्टसुखसङ्गात् स्यात् तद्विरुद्धे विरागिता ।
किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया ।। २३३ ।।
नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते ।
अलाभे मत्तकाशिन्या दृष्टा तिर्यत्क्षु/?/ कामिता ।। २३४ ।।

यदि विशिष्टं सुखं लभ्येत स्यादन्यथा वैराग्यं । न चाविवेकिनो विशिष्टसुखतृष्णा
विवेकाभावादेव । विवेको भविष्यतीति चेत् । विवेक एव तर्हि दुःखहेतुरिति विवेक एव
वैराग्यं स्यात् । अथ विवेकोऽवश्यमेव हेतुबलादेवं तर्हि नैरात्म्यावबोधतोपि विवेकवतोऽनि
वार्य्य एवेति नात्मदर्शनान्मोक्षः । आत्मभावना त्वसम्भविनी ।

यादृशः खल्वसावात्मा सुखादीनां समाश्रयः । तादृशे भावनाभावात् तादृशोसौ कुतोऽन्यथा ।। ७९५ ।।

बुद्धिसुखदुःखेत्यादिसमाश्रयो ह्यसावात्मा । भाव्यमानोप्यसौ तादृश एव भवेत् । अथ
पुरुषकाराश्रयाद् दोषरहितोऽसौ क्रियेत । तदसत् ।

घृष्यमाणोहि नाङ्गारः शुक्लतामेति जातुचित । निजः स्वभावसम्पर्क्कः केनचिन्न निवार्यते ।। ७९६ ।।
न च दुष्टः स्वयंस्वस्य दोषव्यावर्तनक्षमः । दुष्टोऽदुष्टः कथं भावी न सोऽन्यो भवति क्वचित् ।। ७९७ ।।

अत एवाह ।

(आत्मवादे दोषाः)—

यस्यात्मा वल्लभः तस्य स नाशं कथमिच्छति ।

दुष्टो रागादिना नात्मा तेन योगे पृथक् स्वयं । न दण्डयोगे दण्डत्वं दण्डिनो भाविकं भवेत् ।। ७९८ ।।
असंविदितरागादे र्नरागित्वादिसम्भवः । सम्वेदना द्रागिता चेत् स्त्रीमान् स्यात् तन्निरुपणात् ।। ७९९ ।।
सम्बन्धाद्रागिता तस्य न तु रागादिवेदनात् । रागादिवेदने योगी रागी स्यात् पररागतः ।। ८०० ।।
व्यतिरेके विशेषः कः संयोगसमवाययोः । भेदस्याप्रतिपत्तिश्चेत् भेदस्तर्हि कुतो मतः ।। ८०१ ।।

भिन्नमात्मस्वरूपञ्चेत् न वेत्यात्मा स्ववित् कथं ।

नहि स्वरूपसम्वित्तौ भ्रान्तिरस्तीति साधितं ।। ८०२ ।।

अथासम्वेदनस्यास्य वेदनं घटरूपवत् ।

ग्राह्यत्वात् ग्राहकं तत् स्यात् नेति नास्यास्ति भोक्तृता ।। ८०३ ।।

रसादीनां हि भोग्यत्वे भोक्तृता नोपलभ्यते ।

भोक्ता ततोऽन्य एव स्यात् एवञ्चेत्यनवस्थितिः ।। ८०४ ।।
भोगस्तत्समवेतश्चेत् तेन भोक्ता स कथ्यते । न भोगोनुभवादन्यः स च भोग्येप्यवस्थितः ।। ८०५ ।।
मयि बुद्धिर्ममात्रेति प्रबोधो लोक ईदृशः (ा) तेनाधार्याधारभाव उभयत्रापि विद्यते ।। ८०६ ।।
अथानुमीयमानोऽसौ भोक्तेति व्यपदिश्यते । प्रत्यक्षासम्भवे तत्र नानुमानमिति स्थितिः ।। ८०७ ।।
अथासौ योगिनामेव गम्य इत्युपदिश्यते । अतिसूक्ष्मतया तस्य वेदनं नास्मदादिभिः ।। ८०८ ।।
इदानीं तावदस्माभिर्वेदनं नास्य संभवि । तामवस्थागतानान्तु न विद्मः किं भविष्यति ।। ८०९ ।।
योगिभावमुपक्षिप्य वस्तूनां यदि निर्ण्णयः । अस्माकं ते योगिभिस्तस्य नाभावस्य न वेदनं ।। ८१० ।।
151

तस्मात् स्वसम्वेदनरूप एवात्मा उपशान्तो556 ऽन्यथा तस्याभावप्रसङ्गात् । स च सुखादि
सम्वेदनस्वभावो यद्यन्यथा भवेत् नाश एवास्य स्यात् (ा) यस्य चात्मा वल्लाभः स तस्य नाशं
कथमिच्छेत् ।

दुःखे च तेनात्मैष्टव्यो यदि दुःखी सुखी नतु । दुःख्यवस्थाविनाशे हि नष्ट एव स्वयं भवेत् ।। ८११ ।।

अवस्थास्तस्य नाशिन्यो नावस्थातेति557 चेन्मतं । तद्रूपव्यतिरेकेण नावस्थातोपलभ्यते ।। ८१२ ।।

अथापि स्यात् (ा) सम्विद्रूपता न विनश्यत्येव । सुखादीनामेव विनाशः । नैतदस्ति ।

सुखादिभेदात्सम्वित्तेरपि भेदः प्रसज्यते । सुखादिव्यतिरेकेण सम्वित्त्यनुपलम्भनात् ।। ८१३ ।।
आत्मभूतेन भिन्नेन नाभिन्न उपलक्ष्यते । यथा तस्यैव भेदस्य नाभेद उपलक्ष्यते ।। ८१४ ।।
सम्वित्सम्विदितिज्ञानाद्भेदो यदि विभेद्यते । अतएव परात्मापि परस्यात्मा स्वयं भवेत् ।। ८१५ ।।
नैव सम्वेदनं तस्येत्येतदप्यतिदुर्घटं । असंवेदनभावो हि सर्वोन्यः स्यादनात्मकः ।। ८१६ ।।
पृथक् संवेदनं तच्चेत् एकता न क्वचिद् भवेत् । ततो न पूर्वापरयोरकतेति विनाशिता ।। ८१७ ।।

तथा च ।

यस्यात्मावल्लभस्तस्य विनाशं कथमिच्छति । कूटस्थनित्यतायां हि तत्रैवास्थितिरिष्यतां ।। ८१८ ।।
प्रत्यभिज्ञाप्रभावाच्चेत् नात्रातीव प्रसज्यते । तद्रूपसम्भवे सैव प्रत्यभिज्ञा न किम्मता ।। ८१९ ।।
विषयासम्भवेनादिवासनामात्रभाविनी । प्रत्यभिज्ञा पदार्थानां भवेन्नस्थितिकारणं ।। ८२० ।।
ननु कूटस्थनित्यत्वे नोत्तरोत्तरवेदनं । तथापि तस्य नित्यत्वं प्रसिध्यतु मते तव ।। ८२१ ।।
समानतोपलम्भे वा स्यादेकत्वमिदं मतं । असमानोपलम्भेतु स्पष्टे भेदे विनाशिता ।। ८२२ ।।

यद्यपि नाम कूटस्थनित्यतया नोत्तरोत्तरोपलम्भस्तथापि तस्य नित्यताऽविकारितैव ।

तथा क्रमाभावेन चोपलम्भस्य ।558 तस्माद्यदि क्रमभाव्युपलम्भस्तस्य त्रुट्यत्तयो559
पलम्भनाश एव प्रसक्तः । एवं च क्रमोपलम्भेच्छायां नाशेच्छैव प्रसक्ता । ततश्च ।

यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति ।

अनुपलम्भं कथमिच्छतीति चेत् । मृताद्वरं दुर्बलता । वल्लभत्वेस्य जीवितं वरमस्तु
न मृद्दृष्टिः560 जीवितस्योपरोधिनी । नन्वदृष्टेन तेन किं कर्तव्यमिति । पुनर्दर्शनमेषि
तव्यं । तथा च सति क्रमभावित्वे स एव विनाशः । अयमपरोऽस्त्येवात्मवादिनो दोषः ।
अथवा समानरूपोपलम्भाद् एकता पूर्वापरयोर्युक्ता । भिन्नरूपोपलम्भे तु भिन्नतैव स्पष्टा(ा)तथा
च सति पूर्वकस्य विनाशः । एवं च यस्यात्मा वल्लभस्तस्य विनाशं कथमिच्छति ।

अथवा बोधरूपतया आत्मा सर्व एक एव । सतु पुनरुपाधिभेदाद् भेदमाश्रयते । यथाकाशस्य
एकत्वे घटाकाशं पटाकाशमिति भेदावभासः । तस्मादात्मनामविद्याकृत एव भेदः । यद्येवं ।

मुक्तस्य भ्रान्त्यभावेन यद्यन्यात्मतया स्थितिः । न स्यादात्मा स एवैकः तदवस्था भवस्थितिः ।। ८२३ ।।

यदि घटाकाशं घटाभावे न भवति यथा तथाऽविद्याभावे न भवेत् प्राणी (ा)
तथा सति घटाकाशाभावे सत्यन्येन सहैकमाकाशं जातमिति । आकाशविभागाभाववदात्म
152 विभागोपि न स्यादिति न स्वपरविभाग इति विनष्ट एवात्मा स्यादहमिति । परव्यवच्छेदेना
त्मत्वात् । आकाशतामुपगतस्य न क्रियाभोगादय इति नाकाशाद्विशेषः । ततो यद्यात्मा
वल्लभस्तस्य स नाशं कथमिच्छति । वस्तुबलादिदमायातमिति चेत् । नैरात्म्यमेव तर्हि
प्रसक्तं ।

स्वरूप(सं)विन्मात्रस्य व्यापिता केयमुच्यते । अनेकदेशावष्टम्भे व्यप्तिरुच्येत मुख्यतः ।। ८२४ ।।
अनेककालव्यपित्वे नित्यता व्यपदिश्यते । न व्यापित्वं न नित्यत्वं कथमात्मा व्यवस्थितः ।। ८२५ ।।

अथापरघटादिरूपेणासौ व्यवस्थितः तथा सति सुतरामेव संसारी देवदत्तादिरूपेणापि
व्यवस्थानात् तस्मान्मुक्तत्वे सत्यभाव एव तस्याकाशवदिति । न च तादृशां मोक्षेण किञ्चित्
प्रयोजनमित्यहो महत्प्रेक्षापूर्वकारित्वं योगिनां ।

अथ परमार्थतो नात्मा क्रियाभोगाद्याश्रयस्तत्वं । तस्याविद्यावशादेव तथा स्नेहा
दयः । अत्र परिहार उच्यते ।

निवृत्तसर्वानुभवव्यवहारगुणाश्रयं ।। २३५ ।।
इच्छेत् प्रेम कथं; प्रेम्णः प्रकृतिनेहि तादृशी ।

सर्वव्यवहारातीताद्यात्मोपलम्भतूलावलम्बि561 गगनात्मैवाऽतो यस्य यत्र प्रेमासौ न तं
तादृशमिच्छति । प्रेम्णः प्रकृतिरेवैतादृशी न भवति । भवन्ती वाऽप्रेक्षापूर्वकारितां परिदी
पयेत् । तद्वरं संसार एव प्रार्थितः । संसारसुखस्यापरितोषजनकत्वादिति चेत् । उच्यते ।

निर्वाणेंपि सुखं नैव परितोषक्रियाक्षमं । प्रार्थनीयतयाऽत्यन्तं सुखत्वात्सकलं सुखं ।। ८२६ ।।

नहि सुखमप्रार्थनीयं नाम किञ्िचदस्ति । ततः सकलसुखसम्पदासीनस्यापि ततः परं
सुखातिशयवाञ्छा विद्यत एव । तदेव सुखं पुनः पुनः प्रार्थयत इति नाप्रार्थनं562 चित्तमस्यास्ति ।
प्रार्थना च नाम तृष्णाऽपरव्यपदेशा । महदेतन्महतां दुःखं, ततः सर्वं सुखमपरितोषजनक
मेव । ततः सुखी न कश्चिदपि परिनिर्वृतः । यतः पर्यायेण सकलसुखाकांक्षैवास्य भवति ।
ततः दृष्ट्वा वानुपादानं ततः सुखस्य कर्मोपचिनोतीति संसार एवानेन स्थातव्यं(ा) ।

ननु वैराग्यमपि दृश्यत एव न नाम न दृश्यते । तत्तु सुखाशयैव यतः परिखिन्नः । तदु
पायान्वेषणप्रयासेन दुःखमेव मन्यमानः सुखाभिमुखः प्रकारान्तराभिलाषी वैराग्यमभिमुखी
करोति नत्वात्मनि निस्नेहः । अत एवाह ।

सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलं ।। २३६ ।।
आत्मीयस्नेहबीजं तत्तदवस्थं व्यवस्थितं ।

अयमत्र परमार्थः ।

यावदात्मग्रहस्तावदात्मस्नेहान्न मुच्यते । आत्मीयेपि ततः स्नेह उपकारसमाश्रयात् ।। ८२७ ।।

नन्वात्मग्रहमेवायं परित्यज्य दोषपरिहाराय वर्त्तिष्यते । ततः कथमात्मीय
स्नेहादयः । उच्यते । यद्यात्मग्रह एवास्य नास्ति दोषनिराक्रिया किमर्थं । नह्यनर्थित्वे
किञ्चित् कर्तुं प्रवर्तते ।

दुःखभाग्यन्यथा स्याच्चेत् न तं दुःखिनमिच्छति । न च तत्र ग्रहस्तस्येत्येतदन्योन्यबाधितं ।। ८२८ ।।
153

परार्थकरणेच्छायां सुखिनं तं यदीच्छति । परेण क्रियतामेव563 रुचावात्मग्रहः पुनः ।। ८२९ ।।

आत्मनःक्षणिकत्वेपि विशिष्टक्षणसम्भवात् (ा) परार्थः564 सम्भवत्येवतस्मादात्मग्रहो वृथा ।। ८३० ।।
महानुभावता योगात्तेनैव यदि तत् क्रिया । महानुभावता कैव तस्य मिथ्याभिमानिनः ।। ८३१ ।।
तस्मात् दुःखिनमात्मानं यो न वाञ्छति भावतः । स एवात्मग्रहस्तस्य तथात्मीयग्रहोदयः ।। ८३२ ।।
अथ दीर्घकालसुखाकांक्षो नात्मीयग्रहवान् यदि । दीर्घकालसुखादृष्टेरिच्छा तत्र कथं भवेत् ।। ८३३ ।।
कदाचित् स्यादिति यदि प्रवृतिर्न भवेदपि । न स्यादपि कदाचित्तन् नष्टा मर्कटचान्द्रिका ।। ८३४ ।।
योग्यवस्थागतस्यास्य न विप्रः किं भविष्यति । अन्योन्यसंश्रयादेवं वृत्तिस्तत्र भवेत् कथं ।। ८३५ ।।

तस्माद् (ा)

यत्नेप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ।। २३७ ।।
वृत्तिमान् प्रतिबध्नाति तद्‌दोषान् संवृणोति च ।

यस्य नामात्मग्रहः स यत्किञ्चित् आत्मोपकारिणं गुणलेशमाश्रित्य तत्राभिमुखीभूत
आत्मीये वैराग्यं प्रतिबध्नात्येव दोषदर्षी (ा) नैवमिति चेत् न दोषदर्शनस्यैव तेनगुण दर्शनेन
प्रतिबन्धात् । तस्मादात्मन्यविरक्तो विरक्त एवात्मीये ।।

आत्मन्यपि विरागश्चेत् नेदानीं यो विरज्यते ।। २३८ ।।
त्यजत्यसौ यथात्मानं व्यर्थातो दुःखभावना ।

स्यादेतद् (ा) आत्मानं परित्यक्तुमसमर्थः । नहि स एव तेन लक्ष्यते । तथाहि
यथास्ति न तथा त्यागो यथा नास्ति तेन नात्मपरित्यागः रागस्य केवलः । ततो
रागिता परित्यागात् सदैव सुखी । अत्रोच्यते ।

सुखेष्वस्थापना सैव राग आग्रहलक्षणः । सा चास्ति राग एवास्तीत्येतत् पूर्वं विवेचितं ।। ८३६ ।।

यदि चात्मनि विरागः कस्य स विरागः । नेदानीमस्ति यो विरज्यते । अन्योह्यन्य
स्तत्र विरक्तः भवति । स एव चेदविरक्तस्वभावः स न विरक्तो भवति । अत्रोच्यते ।

नात्मा आत्मनि(? किं यथास्ति स विरज्यते । न तथा न यथा सोस्ति तथापि न विरज्यते ।। ८३७ ।।
नहि तस्यान्यथाभावो नाप्यन्यस्य तथा स्थितिः । सर्वात्मनैकदेशेन सर्वथा दुर्घटं ततः ।। ८३८ ।।
एकस्य नैकदेशोस्ति नैकदेशोस्त्यभिन्नता । यस्यैकदेशः सोन्यः स्यात्तथासत्यनवस्थितिः ।। ८३९ ।।
स्यादनन्यः कथं चिच्चेत्तथाप्यस्त्वनवस्थितिः । अपरापरकल्पानां तत्रापरिसमाप्तितः ।। ८४० ।।

तस्मादात्मैव तेन परित्यक्तव्यो यथा त्यजत्यसावात्मानं तथा व्यर्था दुःखभावना ।
येनाप्याकारेण न परित्यजति तथापि व्यर्था दुःखभावना वैराग्यं कर्तुमशक्यत्वात् । अथवा ।

आत्मन्यपि विरागश्चेन्नेदानीं यो विरज्यते ।। ८४१ ।।

यत्र त्यजत्यसौ तं यथात्मानमतोऽभावत् त्यागस्य व्यर्थदुःखभावना । न दुःखभावनार्था
त्यागात् समर्था । न खलु विरागस्यास्य कारणं । यथात्मनस्तथात्मीयस्यापि । ततो
न तादृशा विरागेण मुक्तो भवति । इतोपि व्यर्था दुःखभावना । यतः ।

दुःखभावनयाप्येष दुःखमेव विभावयेत् ।। २३६ ।।
प्रत्यक्षं पूर्वमपि तत्तथापि न विरागवान् ।
154

यदि दुःखभावना विरागाय स्यात् युक्तं । यदा साविष्येत, न चासौ विरागाय । दुःख
भावना हि दुःखसाक्षात्‌करणहेतुरेव । नान्यथासौ विरागाय । भावनाविभावितदुःख
सन्तानो विरागी यथा स्यात् न चैवं । यतः पूर्वमिति तद् दुःखं प्रत्यक्षमेव । प्रत्यक्षपूर्वकनिश्चय
सम्भवात् । अन्यथा न संसारपरित्यागार्थी भवेत् । नह्य साक्षात्कृतं दुःख पीडयति ।
न च तथापि विरागः । ततो व्यर्थिका दुःखभावना । प्रियविप्रयोगादिदुःखं हि सकललोकस्य
प्रत्यक्षं तदा चेदविरक्तो दुःखभावनया कथं विरागो भवेत् ।

ननु दुःखभावना सकलस्य दुःखस्य स्मरणसंकलने भवन्ती महतीं दुःखसंहतिं विभावयति ।
ततो विरागितेति चेत् । तत उद्वेगात् विरागः स्यात् । नैतदस्ति । यस्मात् ।

यथैव दुःखप्रचयः स्मर्य्यमाणो विभावयेत् । तथा सुखस्य प्रचयस्ततो रागी भवेदयं ।। ८४२ ।।

यथा दुःखसन्तानं विभाव्य विरागस्तथा विपर्ययात् सरागोपीति कथं मुक्तिः ।

ननु प्रशमसुखस्यान्नो (?) द्वेजनात् न संसारसुखसतृष्णः (ा) तदप्यसत् । यतः ।

नात्मदृष्टिनिविष्टस्य शमउद्वेगकारणं । श्मशानवासः काकस्य किमुद्वेगस्य कारणं ।। ८४३ ।।
काकः पद्मवने प्रीतिं प्राप्नोति नहि तादृशीं । यादृशीमशुचिस्थानविनिवेशितसङ्गमः ।। ८४४ ।।

ननु दृश्यत एव । प्रीतिहेतौ दोषदर्शनाद्वैराग्यं । तत् कथं दोषदर्शनेपि दुःख
भावनया न विरक्तः । नैतद्यतः ।

यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ।। २४० ।।
विरक्तौ नैव तत्रापि कामीव वनितान्तरे ।

यद्यपि क्वचिदपराधकारिणि जनें विरक्तिः क्षणं तथाप्यसौ न सर्वथा विरक्तिः । न
खलु कामी क्वचित् कामिन्यां विरक्तस्तथापि वनितान्तरेऽविरक्त एव तत्र च पर्यायेण ।
तथाहि । रागविरोध्यवस्थानादेवासौ विरक्तस्तदविरोध्यवस्थात (:) जनो पुनरविरक्त
एव । तस्माद्रागशक्तिसंङ्गतः एवासौ विरक्तः, नतु सर्वथा । पुनस्तत्रैव रागदर्शनात् ।
अत एवोक्तं । तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया । तस्मादस्य ।

त्याज्योपादेयभेदेन सक्तिर्यैवैकभाविनी ।। २४१ ।।
सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे ।

यस्य हि हेयोपादेयविभागस्तस्येच्छाद्वेषौ । न सर्वंः/?/ सर्वदा हेयो नाप्युपादेयः ।
पर्यायेणेच्छाद्वेषौ परस्परबीजकौ पर्यायेणास्य भवत एवेति कथमात्मधी (?)युक्तः565 । नैरात्म्य
दर्शिनः पुनः सर्वत्रोपेक्षा हेयोपादेयविभागस्ततः सकलसक्तिनिर्मूलने व्यवस्थितस्य कुतो
रागादिसम्भवः । अपि च । विरागभाविरूपे वस्तुनि भवेन्नान्यथा न चात्मदर्शिनिः क्वचिद्वि
रूपता । न तावदस्य आत्मा सदोषः । तत्र स्नेहोपि निर्दोषविषयत्वाददोषः । उपलब्धि
साधनान्यपि निर्दोषाणि । एतावदेव सकलं जगत् क्वेदानीं स विरज्यते ।

निर्दोषबिषयः स्नेहो निर्दोषः साधनानि च ।। २४२ ।।
एतावदेव (च) जगत् क्वेदानीं स विरज्यते ।

—इति संग्रहः

155

अथापि स्यात् ।

सदोषतापि चेत् तत्र तस्यात्मन्यपि सा समा ।। २४३ ।।
तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते ।

ननु विषयस्य सदोषतापि दृश्यते शरीरादेश्च । ननु का तेषां सुखहेतूनां सदोषता
दुखहेतुता । ननु पर्यायेण सर्वस्य सुखहेतुता कदाचति् दुःखहेतुता चेत् । नन्वात्मन्यपि सा
समानैव । तत्र चेदात्मनि तद्दोष एवाविरक्तः । क्व विरागवान् भवेत् । आत्मा परित्यक्तुमशक्य
इति चेत् । आत्मीयेपि न विरागः । दोषाँस्त्यक्तुं शक्यत्वाच्चात्मीयस्यैव त्याग इत्यपि मिथ्या ।
यदा यदा यस्य दोषस्तदा तस्य त्यागो न सर्वदा । यथा दोषाणां त्यागः तथा दोषानित्यतया
त्यागानित्यतापि । सुखहेतावपरित्यक्ते पश्चादभावे महद् दुःखमिति चेत् तस्मात् मूलत एव
परित्यागो युक्तः । एवं तर्हि दुःखेपि सति तदनन्तरं महत् सुखं भवतीति दुखमप्युपादातव्यं ।
तस्मान्न क्वचिद्विरागोस्त्यात्मदर्शिनः । अपि च ।

गुणदर्शनसम्भूतं स्नेहं बाधेत दोषदृक् ।। २४४ ।।
स चेन्द्रियादौ न त्वेवं बालादेरपि दर्शनात् ।

तथा ।

दोषवत्यपि सद्भावात् स्वभावाद् गुणवत्यपि ।। २४५ ।।
अन्यत्रात्मीयतायां वा व्यतीतादौ विहानितः ।

न गुणदर्शनादिन्द्रियादौ स्नेहः, अपि त्वात्मीयदृष्टेः ; तथाहि दोषवत्यपि आत्मीयतया
परिगृहीते स्नेहस्य भावात् इन्द्रियादौ गुणवत्यपि परत्राभावात् बालपश्वादीनां चापरिकलित
गुणदोषाणां भावात् । आत्मीयेपि च व्यतीते अभावादनागते च । तस्मान्न दोषदर्शनान्निवर्तते
स्नेहः । एवं तर्हि दोषदर्शनादात्मीयबुद्धिरेव न भविष्यति । तद्भावाच्च स्नेहः । गुण
दर्शनसम्भूतस्य आत्मीयदर्शनस्य दोषदर्शनेनापाकरणात् । न किञ्चदेतत् । यतः ।

तत एव च नात्मीयबुद्धेरपि गुणेक्षणं ।
कारणं हीयते सापि तस्मान्नागुणदर्शनात् ।। २४६ ।।

दोषवत्यपि क्वचिदात्मीयबृद्धेर्भावात् । गुणवत्यपि चाभावात् व्यतीतादौ चेति ।

अपिचा सद्गुणारोपः स्नेहात्तत्र हि दृश्यते ।
तस्मात्तत्कारणाबाधी विधिस्तं बाधते कथमिति ।। २४७ ।।

स्नेहो हि नामापि दोषदर्शनेन हीयेत यदि तावता । यावता स्नेहेन तदेव दोषदर्शन
मपाक्रियते सद्गुणारोपविधायिना । मध्यस्थतया चेतसो दोषदर्शनमनारोपश्च गुणाना
मिति चेत् । न (ा) स्नेहेन स एव मध्यस्थभावो न लभ्यते । विषयान्तरे स्नेहान्तरेण यदि
परमसौ बाध्यते नान्यथा । तथा च ।

उपघातः स एवास्य तथा सति विवर्तते । यादृशो भक्षितो मात्रा स डाकिन्यापि566 तादृशः ।। ८४५ ।।

तस्मान्न दुःखभावनया स्नेहपरित्यागतो मुक्तिरात्मदर्शिनः ।

156

अत्र सां ख्याः प्राहुः । नात्मदर्शिनां दुःखभावनासम्भवत्यपि तु प्रकृतिपुरुषान्तर
परिज्ञानतो मुक्तिः । तथाहि ।

शुद्धबोधस्वभावोयं पुरुषः परमार्थतः । प्रकृत्यन्तरमज्ञात्वा मोहात् संसारमाश्रितः ।। ८४६ ।।

प्रकृतिः सुखादिस्वभावायाः विवेकेनाग्रहणादमुक्तिरात्मनः । ततः केवलज्ञानोदय
एवमुक्तिरात्मनः । तदप्यसत् । यतः ।

परापरप्रार्थनातो विनाशोत्पत्तिबुद्धितः ।। २४८ ।।
इन्द्रियादेः पृथग् भूतमात्मानं वेत्त्ययं जनः ।
तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि ।। २४९ ।।
उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते ।

हाम्युदयदर्शनमेव भेद(द)र्शनम् (ा) अन्वयव्यतिरेकभावतो हि भेदः । आत्मा
न्वयी सुखादयो नान्वयिनः । ततो विरुद्धधर्म्माध्यासाद्भेद इति । अथैतदेव न पर्यालोचयति
संसारी । तथा सत्यमुक्तिरेव । विवेकाध्यवसायस्यासम्भवात् । न खलु सुखार्थी तस्य
हानावाद्रियते । सुखादिरहितेनात्मना न कश्चिदर्थी प्रेक्षावान् । केवलस्यार्थिनः संसर्ग्गात्
प्राक् न संसारः प्रधानेन सह एकतामात्मनि पश्यतः स इति चेत् । तदसत् ।

चेतनस्य(च) स्वपितस्य कथमेकत्वविभ्रमः । विषयाभिलाषः कुतो यतः संसारसङ्गतिः ।। ८४७ ।।
प्रधानानुप्रवेशो हि न तत्रास्त्येकता कुतः । आत्मन्येवहि न भ्रान्तिः प्रागेतत्प्रतिपादितं ।। ८४८ ।।
विषयत्वेन दृष्टिश्चेत् नाभेदग्रहणं भवेत् । बुद्धेरभावाद् दृटिश्च न युक्ता सांख्यदर्शने ।। ८४९ ।।
अभिलाषश्च दृष्टेर्थे पुरुषाणां प्रवर्तंते । स्मरणस्य च सद्भावः सर्ग्गवृत्तेः पुरः कुतः567 ।। ८५० ।।
अभिलाषस्मरणयोः प्रकृतेरेव वृत्तितः । अभिलाषाच्च तद्व्ृत्तिरित्यन्योन्यसमाश्रयः ।। ८५१ ।।
अनादिवासनातश्चेत् तथास्य सुखितादयः । वासनापि प्रधानस्य विक्रियातः पुरः कुतः ।। ८५२ ।।
तस्मात्स्वबोधरूपस्य प्रकृतिः सा यदीष्यते । न सा शक्याऽन्यथा कर्तुमिति संसार्यसौ सदा ।। ८५३ ।।

ननु दुःखसंवेदनाद् दृश्यत एव निर्वेदः स कथमन्यथा क्रियेत । अत्राह ।

प्रत्युत्पन्ना तु यो दुःखान्निर्वेदो द्वेष ईदृशः ।। २५० ।।
न वैराग्यं ; तदाप्यस्य स्नेहोऽवस्थान्तरेषणात् ।

यतः ।

द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ।
तस्मिन्निवृत्ते प्रकृतिं स्वामेव भजते पुनः ।। २५१ ।।

दुःखसंवेदनोद्विग्नोपि न वैराग्ययोगी स्नेहेनैव ह्यसावात्मन्यात्मीये च प्रतिकूलदर्शनात्
विद्वेषवानेव हि तदा । अशुभादिवस्तुप्रत्ययमात्रमेतत् । वैराग्यस्य पारमार्थिकस्यात्म
दर्शिनस्तु स्नेहादमुक्तिरेवावस्थान्तरप्रार्थनातो द्वेष एव सर्वदा भावी तत्र तु वैराग्यं(ा)
नैतदस्ति ।

यावत् कालं(च) तद् दुःखं तावद्‌द्वेषः प्रवर्तते । कारणस्य तु दुखस्य निवृत्तौ द्वेषिता कुतः ।। ८५४ ।।
दुःखस्याप्यनुवृत्तिश्चेत् शिवं मुक्तिः करोत्वसौ(ा) दुःख द्वेषाभिभूतस्य सदा स्थानमधोगतिः ।। ८५५ ।।
157

ननूद्वेगमन्तरेण कथं मुक्तिः

अनुद्विग्नो हि संसारात् मुक्त्यर्थी नास्ति चेतनः । न च दुःखापराभूत उद्वेगी जायते जनः ।। ८५६ ।।

तदसत् ।

तत एव च ।

औदासीन्यं तु सर्वत्र त्यागोपादानहानि/?/तः ।
वासीचंदनकल्पा568 नां वैराग्यं नाम कथ्यते ।। २५२ ।।

धर्मतामात्रदर्शनेन हि ममतामवाप्यते चेतसो(ा)ननु नय569 प्रतिधप्रहाणेन वैराग्ययोगि
तायोगिनामस्मत्पक्षे नान्यथा(ा) कथं तर्हि दुःखभावनोक्ता भगवता । अत्र प्रतिवचनं ।

संस्कारदुःखतां मत्वा कथिता दुःखभावना ।। २५३ ।।
सा च नः प्रत्यययोत्पत्तिः सा नैरात्म्यदृगाश्रयः ।
युक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ।। २५४ ।।
अनित्यात् प्राह तेनैव इत्थं दुःखान्निरात्मतां570 ।

न खलु दुःखदुःखतामात्रमभिसन्धाय दुःखभावनोक्ता । रागिनां हि तावन्मात्रेण
वैराग्यसुखभङ्गे सति पक्षपातपरित्यागात् संसारदुःखभावना योग्यता यथास्यादिति तूक्ता ।।
सा च संस्कारदुःखता शून्यतैव परमार्थतः । ततः शून्यता दृष्टेरेव मुक्तिः ।

शेषास्तु भावनास्तदर्था एव । अत एव नैरात्म्यदर्शनावसाना भगवतो देशना ।
यदाह । रुपं भिक्षवो नित्यमनित्यम्वा । अनित्यं भदन्त । यदनित्यं तद् दुःखं सुखम्वा ।
दुःखं भदन्त । यदनित्यं तद् दुःखं विपरिणामधर्म्मकं कल्प्यन्तु तदेवं द्रष्टुं एतन्मम, एषोऽहमस्मि
एष ममात्मेति । नो हीदं भदन्त
इत्ये571 वं हेतुफलभावेनानात्मदर्शनमेव मुक्तेरुपाय इति कथितं
भवति । यः पुनरात्मदर्शी सोऽविरक्त एव ।

अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ।। २५५ ।।
सोऽमुक्तः क्लेशकर्म्मभ्यां संसारी नाम तादृशः ।

आत्मदर्शनबीजे हि व्यवस्थिते आत्मीयदर्शनमनुपहतं संसारहेतुः । तत आत्मनि
आत्मीये चाविरक्तो नियमेन तृष्णावांस्ततः सर्वकर्म्मारम्भसमाश्रितः । क्लेशकर्म्मभ्याममुक्तः
संसार्प्येवासाविति कुतः तस्य मुक्तिगन्धोपि ।

अथापि स्यात्(ा) अत्मीयमेव परमार्थतो नास्ति । तेन कुतः स्नेहसम्भवः(ा)स्नेहो हि
नाम विषये भवति । न निर्विषयः । तदप्यसत् ।

आत्मीयमेव यो नेच्छेत् भोक्ताप्यस्य न विद्यते ।। २५६ ।।
आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणं ।

158

दृश्यमानमात्मीयं कथमिव शक्यं नास्तीति प्रतिपादयितुं । अविद्यानिबन्धनत्वात्
सर्वस्येति चेत् । ना अविद्याया आत्मव्यतिरेकेणाभावात् । नाविद्या पुरुषादन्या पुरुष एवेदं
सर्वमिति
572 वचनात्(ा)ततोऽविद्यास्वभावत्वात् अस्य भ्रान्तता न कदाचिदपेयात्(ा)नहि
तदात्मभूता भ्रान्तिस्ततोऽपैति । तस्यैवापायप्रसङ्गात् ।

प्रतिक्षिप्तश्चस्या द्वा दः । किञ्च आत्मीये असति क्रियाभोगौ न स्तः क्रियाभोगा
त्मकत्वादात्मनः । अथ परमार्थत एतदपि नेष्यत एवेति चेत् । आत्मनोपि परार्थत्वे कोऽव
ष्टम्भः । सम्वेदनेन तस्य परिच्छेदादिति चेत् सर्वसम्वेदनप्रसङ्गः । अभ्यासात्स्वप्नादिवदसत्त्व
मिति । न युक्तमात्मनोपि न पारमार्थिकत्वं अथाद्वैतं । तदा चित्राद्वैतमिति । नात्मा
नामास्ति, नित्यत्वस्य प्रत्युत्पन्नस्वभावमात्रग्रहिणा प्रत्यक्षेणाग्रहणात्(ा) पूर्वापरप्रत्यक्षयो
र्युगपदभावात् । एकैकेन नित्यतात्मनः । अथपरमार्थ एतदपि नेष्यत एवेति चित् प्रतीतिः573 ।
न च संघटनं स्मृतेरप्रमाणत्वात् । प्रत्यक्षाभावेऽनुमानाभा(वा)च्चेति । ततो नात्मदर्शना
त्समीहितार्थसिद्धिः ।

तस्मादनादिसन्तानतुल्यजातीयबीजिकां ।। २५७ ।।
उत्खातमूलाङ्कुरुत सत्त्वदृष्टि मुमुक्षवः574 ।

नैरात्म्यदर्शनादेव मोक्षो नान्या गतिः प्रामाणिकीत्युपसंहारः ।

(आगममात्रेण न मुक्तिः)—

नन्वागमादात्मास्तित्वं तस्य च मोक्षः । स च मोक्ष एकान्तसुखरूपो न कदाचि
त्तस्याभावः । संसारसुखं तु विच्छेदवदिति न ततः परितोषः । स च दीक्षादिविधेरित्यचोद्यमेव
पूर्वकं सकलं । तथा चोक्तं ।

अतीन्द्रियानसम्बेधान् पश्यंत्यार्षेण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन बाध्यते ।। ८५७ ।।

अपौरुषेयं वा वचनमिति । तदप्ययुक्तं ।

आगमस्य तथा भावनिबन्धनमपश्यतां ।। २५८ ।।
मुक्तिमागममात्रेण ब्रुवन्न परितोषकृत् ।

सत्त्यमेतदनीन्द्रियदर्शिनां वचनमनुमानेम बाध्यते । तदेव तु तत्प्रयुक्तत्वं वचनस्य
न गम्यते । सर्वागमसाधारणत्वादस्य । न च सर्वागमप्रमाणत्वं । न तदर्थानुष्टानसम्भवः ।
अपौरुषेयत्वन्तु न युक्तमित्युक्तं ।

(दीक्षाऽकिञ्चित्करी)—

ननु बीजादीनामप्ररोहणधर्म्मता दीक्षाविधिसंसर्ग्गादुपलब्धा । तदप्ययुक्तं ।

नालं बीजादिसंसिद्धो विधिः पुंसामजन्मने ।। २५९ ।।
तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः ।

159

अथ तैलाभ्यङ्गस्य तावन्मात्रमेव सामर्थ्यं एवं सति दीक्षायामपि समानं । तथा(ा)

(a) आत्मनोऽमूर्त्तत्वे न पापगोरवलाघावम्—
प्राग्गुरोर्ल्लाघवात् पश्चात् न पापहरणं कृतं(ा) ।। २६० ।।
मा भूद्गौरवमेवास्य न पापं गुर्वमूर्तितः ।

यदि नाम दीक्षितस्य सतः प्राग् गुरोर्ल्लाघवं भवतु । न तावता पापापहारः । लाघवं
हि गौरवविरोध्युपलभ्यमानं गुरुत्वाभावमेव गमयति न पापाभावं । पापस्य गौरवा
भावात् । पापेनैवासौ गुरुरिति चेत् । कुत एतद्(ा)आगमादिति चेत्(ा)उक्तमत्र । अपि च ।

तावन्मात्रस्य पापस्य मुक्तिर्नास्ति विनाशतः । सामर्थ्यादपरत्रापि शक्तिरित्यनिरूपणं ।। ८५८ ।।
दर्शंनं देवतादीनां क्व च नाम न विद्यते । सर्वतो मुक्तिरस्तीति को विशेषस्तथा सति ।। ८५९ ।।

ननु भवत्पक्षेपितृष्णाच्छेदो यदि नाम नैरात्म्यभावनातः, मुक्तिस्तु कथमिति चिन्त्यमेव ।
तदपि न यथावत् । तथाहि ।

मिथ्याज्ञानतदुद्भूततर्षसंचेतनावशात् ।। २६१ ।।
हो/?/नस्थानगतिर्जन्म तेन तच्छिन्न जायते ।
तयोरेव हि सामर्थ्यं जातौ तन्मात्रभावतः ।। २६२ ।।

यतः ।

ते चेतने स्वयं कर्म्मात्यखण्डं जन्मकारणं ।

तृष्णावशादेव देशादिसंप्राप्तिरुपलभ्यते ।

ननु जन्मनः कर्म्मापि कारणं ततः कथं तन्मात्रभावः । तदप्यसत् । ते एव चेतने स्वयं
कर्म्म । यत्पूर्वकं चेतनालक्षणं । दानादिकर्म्मतत्संस्कारादन्त्ये जन्मान्तरभाविनी चेतने ।
मिथ्याज्ञानतद्भूततर्षसंचेतने । त एव साक्षात्कर्म्म तदनन्तरभावित्वात् जन्मनः । पूर्वकन्तु
तत्कारणत्वात् उपचारात्कर्म्म न साक्षात् स्वतः संपूर्ण्णजन्मकारणं(ा) दीक्षितस्यापि तदस्तीति
न मुक्तिः ।

अथापि स्यात् ।

गतिप्रतीत्योः कारणान्याश्रयस्तान्यदृष्टतः ।। २६३ ।।
अदृष्टनाशान्न गतिस्तत्संस्कारो न चेतना ।

दशविधं कुशलमकुशलमपि दशविधमेव न चेतनालक्षणं । तस्य च दीक्षादिना विधानेन
नाश इति । तदप्यसद्(ा) अर्थस्यासिद्धत्वात् । अपि च ।

सामर्थ्यंकरणोत्पत्तेर्भावाभावानुवृत्तितः ।। २६४ ।।
दृष्टं बुद्धे575 र्न चान्यस्य तानि सन्ति न सन्ति किम् ।

बुद्धेरन्वयव्यतिरेकावनुविधीयमा(ना)नि करणानि चक्षुरादीनि तानि बुद्ध्या विधी
160 यमानानि सन्ति परम्परयोत्पद्यन्ते । ततः कस्मान्न जन्म । अथ दीक्षयोपघातान्न जन्मनि
सामर्थ्यमेवं सति ।

धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः ।। २६५ ।।
न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरं ।

बुद्ध्यादयो ह्यात्मगुणा यदि दीक्षयोपहताऽनलं जन्मनि सामर्थ्यभाजः । तदा दीक्षानन्तरमेव
बुद्धिरुपहता सती धारणं स्वेच्छावृत्तिर्विषयेषु निवर्त्तनं प्रेरणमभिमते क्षोभो विसंस्ठुलत्वं । निरोधो
विनाशः । एते न स्युः । अथ मरणानन्तरमसामर्थ्यं परिणतिविशेषापेक्षत्वात्कारणानां ।
तदप्ययुक्तं ।

इदानीं नास्ति सामर्थ्यं दीक्षादीनामजन्मने । यदि स्यान्मरणादूर्ध्वमिति नास्ति प्रमेदृशी ।। ८६० ।।

इदानीमेव यदि सामर्थ्यं लेशतः प्रतीयते तत उत्कर्षलाभादपरमपि स्यादिति
स्याद्(ा) यदा त्वनुगम एव तारतम्यभागी नोपलब्धः । तदा निर्निंबन्धनमेव मुक्तिपरि
कल्पनं । अथेदानीं बुद्धिसद्भवात् रागादयोस्य समानस्वभावा भवन्ति । मरणानन्तरन्तु
बुद्धेरभावादेव संसारधर्माभावः ।

तदप्यसत् । बुद्धिरेव जन्मान्तरे नास्तीति कुतः । मरणादिति चेत् । व्यर्थता दीक्षा
विधेः सर्वस्य मरणे बुद्ध्यभावे सति मुक्तेः ।

अथ बुद्धेस्तदाभावात् न स्युः सन्धीयते मलैः ।। २६६ ।।
बुद्धेस्तेषामसामर्थ्ये जीवतोपि स्युरक्षमाः ।

रागादयो हि मला बुद्धेः सन्तो न हेतवः सन्तीति न बुद्धेरभावः । अथोपहतारागादयो
दीक्षया न समर्थास्तदा जीवतो बुद्धेः प्रतिसन्धिहेतवो न स्युः । ततो दीक्षानन्तरमेव मुक्तिः
स्यात् । अस्त्येवेति चेत् । तन्न ।

निह्रॉसातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ।। २६७ ।।
दोषा (:) स्वबीजसन्ताना दीक्षितेप्यनिवारिताः ।

दोषा हि स्वबीजभाविनः कुत एतत् । निर्ह्रासादतिशयाच्च प्रतिपक्षस्य नैरात्म्यस्य पुष्टौ
निर्ह्रासात् । स्वपक्षस्यायोनिशोमनस्कारस्यातिशयात् । एवंभूताश्च दोषा दीक्षितेपि अनि
वारिताः । इह जन्मनि अन्यत्र च तत् कथमसौ मुक्तः ।

(b) आत्मनो नित्यत्वे न पुनर्जन्म—

ननु नैरात्मदर्शनञ्चेत् कस्यासौ मुक्तिः । आत्माहि रागादिमलोपहतः शुद्धो यदा
कुतश्चिद् भवेत् तदा मुक्तः । बन्धविगमोहि मुक्तिः । नैरात्म्यदर्शने च यो बन्धः स बन्ध एव ।
न स एव मुक्तो नित्यतयात्मदर्शनभावात् । तदप्यसत् ।

शुद्धिर्यस्य न तस्यान्यानिर्वाणोग्निर्नपावकः(ा)तथापि व्यपदेशोयं निर्वाणोऽग्निरिति स्थितः ।। ८६१ ।।

तत्रास्मत्पक्षे वाचोयुक्तिमात्रमेव न घटते । तच्च दृष्टान्तेन समाहितं । आत्म
वादे तु अर्थ एव न घटते । वाचोयुक्तिमात्रेण तु घटते । नापि न किञ्चित् प्रधानस्य वस्तुनो
विघटनात् न चात्र दृष्टान्तोस्ति । यतः ।

161
नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुद्‌ध्यते ।। २६८ ।।
क्रियायामक्रियायाञ्च क्रिया च सदृशात्मनः ।

अवस्थाभेदे ह्यात्मनः मुक्तता । अशुद्धावस्थस्य सतः शुद्धिसम्भवे । न क्रमेणा
वस्थानां कार्यतात्मनो निरपेक्षस्य युगपदेवावस्थाभावित्वप्रसङगादिति प्रदेशान्तरे निर्णयात् ।
अपि च । क्रिया विरूध्यते कियाक्रियावस्थयोः सदृशत्वात्

ऐक्यञ्च हेतुफलयोः व्यतिरेके ततस्तयोः।। २६६ ।।
कर्तृभोक्तृत्वहानिः स्यात् सामर्थ्यञ्च न सिव्यति ।

तादात्म्ये सति हेतुफलयोरैक्यं प्रसक्तं । एकात्मान्तर्ग्गतत्वात् तदात्मवत् । भेदे
तयोर्हेतुफलयोर्नासौ कर्त्ता न भोक्ता । करणभोगसम्बन्धाभावात् । अपरात्मवत् अनुभव
तोपि न सम्बन्धः । आत्मान्तरवदेव योगी परात्मकरणभोगसाक्षात्करणात् कर्त्ता भोक्ता
च स्यात् । अथ समवायसम्बन्धा एवं न समवायस्याभावादेव न च योगिनामपि समवायाद्
एकत्वबुद्धिहेतुः । अथ कार्यकारणभावात् कारणफलाभ्यां कर्त्ता भोक्ता चासौ भवेत् ।
तदप्ययुक्तं । सामर्थ्यञ्च न सिध्यति । न नित्यस्य सामर्थ्यमस्तीति प्रतिपादितं ।

(c) नैरात्म्ये स्मृतिसंगतिः—

नैरात्म्येपि तर्हि स्मरणभोगादयो न सिध्यन्ति । तन्न ।

अन्यस्मरणभोगादिप्रसंगाश्च न बाधकाः ।। २७० ।।
अस्मृतेः; कस्यचित् तेन ह्यनुभूतेः स्मृतोद्भवः ।

न कस्यचित् स्मरणं स्मर्त्तुः तदभावादेव । नापि भोगो भोक्त्रभावादपि तु स्मरणमेव ।
तदेव स्मर्तृस्मरणविषय एवं भोगेपि वाच्यं सुखमेव भोग्यं भोगो भोक्ता च तच्च स्मरणं
हेतोरनुभवादुत्पद्यते । नन्वन्यतोप्यनुभवात् परकीयाभिमतात् कस्मान्नोत्पत्तिमत् । परकर्म्मणोपि
च भोगः । कार्यकारणभावनियमात् आत्मवादेपि वा कस्मान्न भवत्येष दोषः । आत्मनो भेदात्
स एव भेदः कुतः ।

यथैवात्माऽविशेषेपि नान्यतः स्मृतिसम्भवः । तथा मनोविशेषेपि नान्यतः स्मरणोदयः ।। ८६२ ।।
मनसां हेतुभेदेन भेद एष भवेदपि । आत्मनान्तु कुतो भेदविभागोयमहेतुकः ।। ८६३ ।।

नन्वसत्येकस्मिन्नात्मनि ।

पश्याम्यहं स्मरामीति कुत एकत्वसङ्गतिः । आत्मन्यपि समानोयं दोषो नात्र प्रमोदयः ।। ८६४ ।।

आत्मापि केन प्रमाणेन स्मरणं दर्शनञ्चैकाधिष्ठानतया वेत्ति । प्रत्यक्षेणेति चेत् ।

पूर्वापरत्वेनाध्यक्षगतिरस्तीति साधितं । प्रत्यक्षासम्भवात्तत्र नानुमानं प्रवर्तते ।। ८६५ ।।
पूर्वरूपतयात्मानं यद्यात्मा वेत्ति तत्त्वतः । सम्वेदनस्य पूर्वस्य सत्त्वं स्यादधुनातनं ।। ८६६ ।।
ततः पूर्वतया तस्य सम्वित्तेः सम्भवः कुतः। नहि सम्वेद्यमानस्य पूर्वभावः प्रतीयते ।। ८६७ ।।
स्मरणादेव पूर्वत्वं न प्रमाणं स्मृतिर्नहि । स्मरणादेव तत्त्वञ्चेदन्यत्रापि न किं मतं ।। ८६८ ।।
तस्मादात्मप्रवादेपि नैकत्वं तत्त्वतः स्थितं । तयोश्च युगपद्‌भावादेकत्वमभिमन्यते ।। ८६९ ।।
162
एकत्वमात्राभिमते व्यवहारो विभागतः । एककार्यतया चैकव्यवहारोयमीक्ष्यते ।। ८७० ।।
अनाद्यविद्याभ्यासस्य सामर्थ्यमिदमाञ्जसं । नात्मास्ति वेदेनैवैका तथात्मग्रहकारिणी ।। ८७१ ।।

कथन्तर्हि आत्मानमन्तरेण संसारप्रवर्तनं । आत्मानमन्तरेण सत्कायदर्शनस्याभावात् ।
स्मरणमपि पूर्वापररूपविरहादेकता नित्यानित्यतयोर्न ग्रहण समर्थमतः संसाराभाव एव ।

उक्तमत्र । न परमार्थतः संसारो नामास्ति स्वरूपस्य स्वतो गतिरिति वचनात् ।
तथापि व्यवहारत एतदेवं भवति । तथाहि ।

स्थिरं सुखं ममाहं चेत्यादि सत्यचतुष्टये ।। २७१ ।।
अभूतान् षोडशाकारान् आरोप्य परितृष्यति ।
(iii) सम्यग्दृष्टिर्नैरात्म्यदृष्टिः
तत्रैव तद्विरुद्धात्मतत्त्वाकारावरोधिनी ।। २७२ ।।
(a) तृष्णाक्षयान्मोक्षः—
हन्ति सानुचरां तृष्णां सम्यग्‌दृष्टिः सुभाविता ।

अभूतारोप एव खलु संसारो न परमार्थतः संसारः । अभूताश्च षोडशाकारास्तदारो
पात्परितर्षवतः कर्म्मसंसरणाभिमानोऽन्यथा न संसारस्य सम्भवः । अभिमानोपि न कश्चि
त्परापरसंवेदन576 व्यतिरिक्तोऽतोऽवेदनेप्येकत्वस्यात्मनश्च वेदनाभिमानः । तेनैवम्भूतत्वे न
योनिशोमनसिकारसम्भवेनात्र किञ्चिदिति । परामर्शंवतः स्थिरत्वेभ्यासतो नैरात्म्यस्य
विशुद्धत्वमिति सकलाविद्याविनिवृत्तिलक्षणं निर्वाणापरनामकं साक्षात्‌करणविषयः । तस्मात्त
त्त्वदर्शिनां तृष्णाविनिवृत्तितो मोक्षः ।

ननु कर्म्मणि देहे च स्थिते कथं मोक्षः । नैतदस्ति यतः ।

त्रिहेतोर्नोद्भवः कर्म्मदेहयोः स्थितयोरपि ।। २७३ ।।
एकाभावाद् विना बीजं नांकुरस्येव सम्भवः ।

एवन्तर्हि कर्म्मदेहयोरगप्येन्यतरस्य क्षये भवत्येव मोक्षो यथाहुः । कर्म्मक्षयान्मोक्ष इति ।
न सदेतत् । यतः ।

असम्भवाद्विपक्षस्य न हानिः कर्म्मदेहयोः ।। २७४ ।।
अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् ।
द्वयक्षतार्थं यत्ने च व्यर्थः कर्म्मक्षये श्रमः ।। २७५ ।।
(b)अक्षीणकर्मणो न मोक्षः—

न हि तृष्णानिवर्तनमन्तरेणापरो विपक्षः कर्म्मदेहयोः । दीक्षादिविषया व्याख्याताः ।
आगमो न प्रमाणमिति । न च तृष्णासंगतःकर्म्म न करोति । रागद्वेषादयो हि ततोऽनायासत
एव भवन्ति577 । द्वयक्षये च वरं तृष्णैव विनिवर्त्तिता । कर्म्मापि क्षपयितव्यमेवेति चेत्
नासम्भवात् प्रतिपक्षस्येत्युक्तं । यतः ।

163
फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते ।
कर्म्मणां तापसंक्लेशात् नैकरूपात्ततः (क्षय:) ।। २७६ ।।

अनेकफलदान578 सामर्थ्यमभिमुखमादधाने कर्म्मण्यात्मनि कथमेकाकारफलोपभोग
मात्रतः परिणहनः (ा) परिक्षयः579 । एकाकारञ्च तापसंक्लेशलक्षणफलं ततो न परिक्षयो
युक्तः । यतः ।

फलं कथञ्चित्तज्जन्याल्पं स्यात् न विजातिमत् ।

येन हि कर्म्मणा तज्जातीयमेवफलमुपजनयितव्यं । तस्य फललेशानुभवात् तत्कर्म्म
जमेव । फलमवहीयते फलानुभवेन । न तद्विलक्षणफलापचयः ।

अथापि तपसः शक्त्या शक्तिसंकरसंक्षयैः ।। २७७ ।।
क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः ।

यदि तपसः शक्तिरस्ति तदाऽशेषमे580 वाक्लेशात् लेशनः चैकलोमोत्पाटात्581 परिहीयते
फलं । तत्राप्युच्यते ।

यदीष्टमपरं क्लेशात् तत्तपः क्लेश एव चेत् ।
तत् कर्म्मफलमित्यस्मात् न शक्तेः संकरादिकं ।।

यदि क्लेशादपलं तत्तपस्तदा582 तत एव कर्म्मक्षयः किं पञ्चतप आदि583 क्लेशेन ।
तत एव परिहीयतामशेषं कर्म्म । न खल्वन्येन कृते नान्यस्य सामर्थ्यावगतिः । न च क्लेश एव
तपस्तस्य कर्म्मफलत्वात् । न च कर्म्मफलमेव तपः । शीतातपसेविनां पश्वादीनामपि
तापसत्वप्रसङ्गात् । अथ नैतत् कर्म्मफलमिच्छया प्रवर्तनात् । कर्म्मफलन्तु तदिच्छाविर
हितस्यापि । तदप्ययुक्तं ।

इच्छया राज्यलाभादि भवेत् कर्म्मफलं न किम् ।

कर्म्म तादृशमप्यस्ति बुद्धिः कर्म्मानुसारिणी ।। ८७२ ।।

यदि च तत्कर्मफलं न स्यात् कथं तर्हि फलोपभोगतः कर्म्मक्षय इति भवतोच्यते ।
तस्मात् कर्म्म फलमेवैतत् । ततश्च पापस्यैव क्षयः स्यान्न राज्यादिकर्म्मणः । ततो राज्या
दिकमप्यनुभवनीयमेव । अथ राज्यादिकं निःस्पृहत्वादेव परित्यज्यते । नरकादिदुःखन्तु
बलादापतदनुभवितव्यमेव । तेन सन्ताप एवेष्यते । एवं तहि नारकदुःखमप्यनुभवितव्यं ।
अथ दुःखत्वात्तयोर्दुःखत एवापाक्रियते ।584 नारकादिकेशोल्लुञ्चनतः ।585 तदप्यसत् । इदमपि
यतः प्रमाणमस्ति ।

दुःखत्वात् न क्षये हेतुः कर्म्मणां पशुदुःखवत् । अनैकान्तिकमेतच्चेत् त्वदुक्तावपि किन्नतत् ।। ८७३ ।।

अपि च ।


164

निःस्पृहस्य यथा राज्यसुखाभावो न बाधकः ।

तथाभ्यासात् न तद् दुःखं नारकं तस्य बाधकं ।। ८७४ ।।
भावनाबलतःसर्वं लोके दुःखसुखादिकं । ततो मोक्षस्थितस्यास्य नास्ति दुःखसुखादिकं ।। ८७५ ।।

अथापि स्याद(ा) अस्ति कर्म्म कर्मक्षयाय सम्वर्त्तते। स एव भवतोभ्युपगम इत्यभयुप
गमबाधा । तदसत् । यतः

उत्पित्सुदोषनिर्घाताद्येपि दोषविरोधिनः ।। २७८ ।।
तज्जे586 कर्म्मणि शक्ताः स्युः कृतहानिः कथं भवेत् ।

न ख(लु) कृतस्य कर्मणो हानिः, नहि कृतनाशोस्ति । कथं तर्हि कर्मक्षयः
उक्तः । अत्रोच्यते ।

कर्मं तत्तादृशं येन सामग्र्/?/यन्तरसंभवे587 । फलं ददाति सद्भावे नतु कर्म्म विरोधिनः ।। ८७६ ।।

यत्तु पुनर्नियोगतः फलदानसमर्थं तदवश्यमेवफलं ददाति । तदर्थमपि न तपस्वि
मामभियोगः । बलादेव तस्यागमात् । रागादिपरिक्षये त्वनागतरागकार्यफलपरिक्षय एव
न कृतस्यावश्यंभाविवेदनीयस्य कर्म्मणः । ननु यथा तृष्णायां स्थितायां पुनरुद्‌भूतिः कर्म्मणां
तथा कर्म्मणि स्थिते पुनः तृष्णोदय इति चेत् । तदसद्यतः ।

दोषा न कर्म्मणो दुष्टः करोति न विपर्ययात् ।। २७८ ।।
मिथ्याविकल्पेन विना नाभिलाषः सुखादपि ।

तृष्णायां सत्त्यां फलार्थी कर्म्म करोत्यन्यथा वा तृष्णासम्भवे हि नकिञ्चत्कुर्य्यात् ।

अथ शुभं कर्म्म सुखदानसमर्थमिति सुखाभिलाषी नियोगतो भवेत् । तन्न(ा) सुखमेव
परमार्थतः किञ्चित् संसारेऽपि तु मिथ्याविकल्प एव केवलः । तेन मिथ्याविकल्पेन विना
कुतोऽभिलाषः कस्य वा तत्सुखमिति । तस्मात् सत्कायदृष्टिलक्षणाविद्यापरिक्षयादेव मोक्षो
नान्यथेतिचतुरार्यसत्त्यप्रकाशनमेव तायः ।

(च) तायात् सुगतत्त्वसिद्धिः—

तस्माच्चतुःसत्योपदेशलक्षणात् कार्यभूतात् ।

तायात् तत्त्वस्थिराशेषविशेषज्ञानसाधनं ।। २८१ ।।
बोधार्थत्वाद् गमेर्बाह्यशैक्षाशैक्षाधिकस्ततः ।

तायाद्धि भगवान् सुगत ताभिज्ञायते588 । तच्च सुगतत्वं । तत्त्वस्थिराशेषविशेषज्ञानं ।
तत्त्वज्ञानं । प्रशस्तज्ञानं । स्थिरज्ञानं । अपुनरावृत्तिज्ञानं । स्थिरं हि न पुनरावर्तते ।
अशेषविशेषज्ञानं । सर्वाकारज्ञानं । निःशेषज्ञानं । बोधार्थो हि गमिरत्र । तदस्ति भगवत इति
तायादेव ज्ञायते । न खल्वनुमानादेव तायित्वं । न ह्यन्येषामेवम्भूतं तायित्वं स्म्भवति । अनुमाने
प्रवर्त्तनेऽन्येषामपि स्यात् । अथानुमाने परम्परयागतमे589 तदिति प्रतिवचनं । तथा सत्यन्येषामपि


165

स्यात् । नानुमानं क्वचिद्भवति क्वचिन्नेति विभागोस्ति । न चैकस्यापि भगवदुपदेशात्ये
वेप्यस्ति590 । तेन सर्वपदार्थानां सर्वाकारदर्शनं भगवत इति ज्ञायते । नहि सर्वपदार्थानां
सर्वाकारदर्शनमन्तरेणेदं सम्भवति । सर्वपदार्थाः क्षणक्षयिण इत्यादि यदेव न दृष्टं तेनैवाने
कान्तसम्भवात् । अथ यथास्माकं तथा भविष्यति तस्यापि । नास्माकं तदुपदेशंविना । तस्माद्यः
साक्षाद्दर्क्षी यस्य च परोपदेशस्तस्यायं निश्चयो नान्यस्य । न च निश्चयं विनोपदेशः ।

अथ भ्रान्त्यापि सम्भवति । तदसत् । यतः ।

नित्यत्वे भवति भ्रान्तिः सदृशापरसम्भवात् ।

क्षणिकत्वे तु किं भ्रान्तेः कारणं येन सा भवेत् ।। ८७७ ।।

सदेहोपि नैव भवति । उभयदर्शनाभावादुभयांशावलम्बितत्वात् । तस्मादयं निश्चया
देवोपदेशः । स च निश्चयो न साक्षात्‌करणं विनानुमानस्यास्माकमुपदेशमन्तरेणाभावात् ।
न च सन्देहेन भगवतेदमुक्तं । उभयस्यापि निर्देशप्रसङ्गात् । तस्मात्तत्वस्थिराशेषज्ञान
योगाद्भगवान् सुगतः तत एव बाह्यशौक्षाशैक्षाधिकत्वं भगवतः । ततः सुगतत्वात् ।

परार्थज्ञानघटनं तस्मात्तच्छासनं दया ।। २८२ ।।
ततः परार्थतन्त्रत्वं सिद्धार्थस्या विरामतः ।

सत्यमस्ति सुगतत्वं भगवतः तत्तु कुतो591 हेतोरिति । परिहारः ।

परार्थज्ञानघटनं शास्तृत्वसंज्ञकं कारणमनुमीयते । अन्यथा सुगतत्वस्यासम्भवः ।
ततोपि दया नान्यथा परार्थज्ञानघटनं ।

नन्वनेनैव किं साधितेन सुगतत्वमात्रेणैवासौ प्रमाणं । नैतदस्ति यतः ।

न ज्ञानमात्रतस्तस्य प्रामाण्यमुपदेशतः । सदा प्रामाण्यमस्यास्ति नान्यथास्मासु सा प्रमा592 ।। ८७८ ।।

तदाह ।

ततः परार्थतन्त्रत्वं सिद्धार्थस्याविरामतः ।

दयया हि परार्थज्ञानघटने सर्वदा परार्थमेव करोति । दयातो न परिनिर्वाति । यथोक्तं
प्राक् । किञ्च ।

(७) संवादकत्वाद् भगवान् प्रमाणम्

दयया श्रेय आचष्टे ज्ञानाद्भ्ूतं ससाधनं ।। २८३ ।।
तच्चाभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता ।

दयावतो हि श्रेयः कथनं सम्भति ज्ञानाच्च भतमवितथं कथयति तच्च ज्ञानं ससाधनं ।
तच्च ससाधनमभियोगवान् वक्तुं यतः कारणचतुष्टयं तस्मात्प्रमाणता । अनेनैतत्कथयति ।

अदिरन्त उपादेरुपान्त इत्येषु हेतुफलभावः ।

तस्मात्प्रमाणभावो भगवत इति निश्चितं कथितं ।।


166

तत एव भगवतोऽनेनैव गुणेन स्तुतिः । प्रमाणभूतत्वलक्षणेन । तदाह ।

उपदेशतथाभावस्तुतिस्तदुपदेशतः ।। २८४ ।।
प्रमाणतत्त्वसिध्यर्थमनुमानेप्यवारणात् ।
प्रयोगदर्शनाद्वास्य
यत्किञ्चिदुदयात्मकं ।। २८५ ।।
निरोधधर्म्मकं सर्वं
तदित्यादावनेकधा ।

कस्मादुपदेशस्य तथाभावप्रामाण्यलक्षणास्तुतिः । तदुपदेशतः प्रमाणतत्त्वसिद्धिर्यथा
स्यादिति । तत्र प्रत्यक्षं भगवतैवोपदिष्टं । नीलज्ञानसमङगी पुद्गलो नीलं जानाति ।
नो तु नीलमेवेति
 । अनुमानमपि न वारितं । अतोऽनुमानमेव निवारितन्तु शाब्दादिकं । शन्याः सर्वपरप्रवादा अहमेवैकस्तत्ववादीति । अथवा प्रयोगस्य परार्थानुमानलक्षणस्य
दर्शनमस्ति । यदाह ।
यत्किञ्चिदुदयात्मकं निरोधधर्म्मकं तत्सर्वमिति ।

82a2 तदेवाह ।

अनुमानाश्रयो लिङ्गमविनाभावलक्षणं ।। २८६ ।।
व्याप्तिप्रदर्शनाद्धेतोःसाध्येनोक्तः स च स्फुटः ।

साध्येन व्याप्तो हि हेतुर्ग्गमकः । सा च व्यप्तिरनेकधा प्रदर्शिता भगवता हेतोः । यत् किञ्चित्समुदयधर्म्मकं तत्सर्वं निरोधधर्म्मकमि ति । ततोऽनुमानमपि भगवतोक्तमेवेति
भगवदुपज्ञमेव प्रमाणतत्त्वं । तच्च भगवतः प्रमाणत्वादित्यतः प्रमाणमेव भगवतो गुणः
परमः स पूर्वोक्तः ।

प्रमाणतत्त्वं भगवाँस्तथागतो दिदेश यस्मादुभयेन युक्तं ।

अतः परं नास्ति ततः प्रमाणं तथागतादेव समस्तसिद्धिः ।। ८७९ ।।

(इति) प्रमाणवार्त्तिकालङ्कारे प्रमाणसिद्धिपरिच्छेदः प्रथमः ।। १ ।।

  1. १. T. इह प्रारभ्यते वम्-पो-दङ्-पो(प्रथमाह्निकम्)। टिप्पणियां भोट-भाषान्तरपाठाः

  2. २ T. प्रमाणं हि अविसंवादि तत्र सति प्रमेयसिद्धेः

  3. ३ अविसंवादित्वं

  4. १ बोधस्वरूपमात्रेण

  5. २ T

  6. १ बाधकभावःT

  7. २ पीतशंखविज्ञानादि

  8. ३ आभासः ।

  9. ४ क्रियासिद्धिः

  10. ५ अन्वेषणा

  11. ६ यथा स्पर्शादिको भिन्नविषय (:)

  12. ७ त्यक्तः— ज्ञाने ।

  13. १ अभिमता नानर्थक्रिया

  14. २ मरीचिकायां

  15. ३ बाधकप्रमाणस्य

  16. ४ यतः

  17. ५ T. भेदस्तु

  18. ६ मतं

  19. १ केवलाभावप्रत्यक्षे

  20. २ प्रतीयते—अधिकः

  21. ३ व्यवहारे—अधिकः

  22. १ व्याख्यातु॰

  23. २ एव सदर्थः

  24. ३अभीष्टार्थान्त॰

  25. ४ व्याख्यातृ॰

  26. ५ चैवम॰

  27. ६ प्रवृत्तिः

  28. ७ मेद्-मोद्-दे

  29. १ निष्पन्नस्यानिष्पन्नस्वभावायोगात्

  30. २ तावित्ति ।

  31. १ न चोपलब्धिमात्रेण

  32. २ नहि तत्र

  33. ३ लोक आशय॰

  34. ४ वृत्त्युपलम्भः

  35. १ तद्गोत्रस्य हि

  36. १ द्विजत्वादि

  37. २ निष्क्रियस्वरूपस्य

  38. ३ सदसदर्थयो॰

  39. ४ नियोज्योऽपि (नि) योज्यस्यात्मनि स हि न स्यात् ।

  40. १ आचार्यदेशनात्

  41. २ पद्यबद्धमेतद् वाक्यम् ।

  42. ३ ॰वादे

  43. १ नियोगेच्छावादिनां

  44. २ सिद्धं ॰

  45. ३ ऊचुरित्यधिकम्

  46. ४ उपयोगो न कस्यापि

  47. ५ इतः प्रारम्यते बम्-पो-ग्ञिस्-प (द्वितीयामाह्निकम्)

  48. १ श्लोकवार्तिके †

  49. २ तमपेक्ष्य कारकः शब्दो न वाच्यः । अथ प्रतिपादकः ।

  50. ३ स्वव्यापाररहित॰

  51. १ व्यर्थतेक्ष्यते

  52. २ परिशुद्धार्थं

  53. ३ पाणिनिः २।३।१८

  54. ४ पाणिनिः २।३।१

  55. ५ अधिकं—एकत्वाद् व्यापारस्य

  56. १ शवबरभाष्ये (?)

  57. २ त्यक्तः—तस्य

  58. ३ साफल्याधिगमः

  59. ४ T. पद्मनिबद्धं—शिलापुत्रेत्यारभ्य दृश्यन्त इत्यन्तं वाक्यम् ।

  60. १ अधिकः—तस्मात् करोतीति

  61. २ त्यक्तः—तथा

  62. ३ यदि संस्थानस्य ऊर्ध्वतो
    सामान्यदर्शनात् अयं स्थाणुरस्ति नवेति समानाकारानुभवभावे संशयो न दृश्यत इति
    पुरुषस्थाण्वाकारोऽत ऊर्ध्व सामान्यं क्वापि नोपलभ्यते—अधिकम्

  63. ४ द्वयाकारो भावः

  64. ५ स्थाणुपुरुषविकल्पानुभवेन तेन ।

  65. १ तस्मात् तद्व्यतिरेकश्चेत्

  66. २ सुतरामवभासत एव

  67. ३ त्यक्तः—अस्पष्ट॰

  68. ४ T. तदस्पष्टप्रतिभासिता वा

  69. ५ T. तद्विपर्ययरूपोपलब्धिः

  70. १ T. चेत्

  71. २ विरुद्ध धर्मस्थानाभेदः

  72. ३ मीमांसा-भाष्ये

  73. ५ T. त्यक्तं—प्रतिबन्धमन्तेरण

  74. २ T. यागादिकारणतामात्मनः

  75. ३ T. त्यक्तः—यागे

  76. ४ T. मीमांसा . . .

  77. ६ T. त्यक्तं—प्रथम

  78. ७ T.

  79. ८ T. त्यक्तः—न

  80. ९ T.

  81. १०. T. वर्त्तमान॰

  82. १ T.

  83. १ T.

  84. २ T. न्तरेणाप्यभ्यासात्

  85. ३ T. विषयाकारभेदात् प्रमाणफलं
    बुद्धिप्रतिपत्तिभेदात् ।

  86. ४ T. अव्यभिचारित्वादज्ञाने

  87. ५ विषय इव वा

  88. १ T. त्यक्तं—यथाकारका तथाकारोपीति

  89. २ T. पाणिनिः १। ४। ४२

  90. ४ T. अथात्मेति (स्व) रूपत्वात्

  91. ३ T. बाधकत्वलक्षणमपोद्यते

  92. १ T. निर्बोधस्वप्नाद्यवस्थासु (सुषुप्त्याद्यवस्थासु)

  93. २ T. पश्चादबाधः

  94. ३ T.

  95. ४ T. पद्यबद्धं—स्वयं॰ समर्थं

  96. ५ T. युक्तं

  97. ६ श्लोकवार्त्तिके

  98. १ T. व्यतिरेकात्

  99. २ T. त्यक्तं—कथन्तर्हि॰ एव

  100. ३ T त्यकं—किञ्च॰ भवति

  101. ४ T सिद्धिमिच्छत्यसन्देहं

  102. १ T

  103. २ T अवयविमात्रमेकं । अत्र यन्-लग्-चम् इसि यन्-लग्-चम् स्थाने प्रमादपाठः

  104. ३ T तत्सामर्थ्यजननसामग्रयाः

  105. ४ T प्रतिपत्त्वेन

  106. ५ T प्रमाणमिष्यते

  107. ६ T प्रापकमर्थस्य । (इह बम्-पो-गसुम्-प प्रारभ्यते)

  108. ७ T कार्ये

  109. ८ T एवं

  110. १ T केशादौ

  111. २ T इतः

  112. ३ T तत्र

  113. ४ T. सामान्यम् । स्वलक्षण॰ अन्यदिति न व्यपदेशः

  114. ५ ॰करण

  115. ६ T सत्तोत्पादावुभौ भावस्वभावान्न परात्मकाः

  116. ७ T कारणस्य

  117. ४ T ज्ञापयतीति

  118. १ T

  119. २ T

  120. ३ T त्यक्तं—तथा

  121. ४ T विभागस्तु

  122. ५ T त्यक्तः—यथा

  123. ६ T त्यक्तं—कार्य

  124. ७ T कार्यकारणनिबन्धमिति

  125. १ T

  126. २ T तथाप्यसत् १ एवं ।

  127. ३ T विरुद्धस्वभावोपलब्धेर्नान्यस्य

  128. ४ T अधिकः—न

  129. ५ T

  130. ६ T. त्यक्तः—परमार्थतः

  131. ७ T. सर्वज्ञ एव प्रमाणं

  132. ८ T. असर्वज्ञस्य

  133. ९. T. वर्त्तमानसन्निहितमात्रग्रहणात्

  134. १ T.

  135. २ T. अर्थाक्षिप्तस्या॰

  136. ३ T. वस्तुप्रभृते

  137. ४ T नार्थगतिः

  138. १ T परभूतं सामान्यज्ञानादथ तदात्मभूतेपि युक्तं

  139. २ T

  140. ५ T. अधिकं—अभिप्रायेण यज्ज्ञानाविदो ज्ञाते स्वलक्षणे ।

  141. ६. T एतत्सदृशता

  142. ७ T तादृशमपेक्ष्य

  143. ८ T अथ बहिः पक्षस्य कथं

  144. ३. T. नाज्ञानं

  145. १. T अधिकं—प्रमाणवार्त्तिकालंकारे प्रमाणसिद्धिवार्त्तिकं द्वितीयम्

  146. १ T अथ स भवतु प्रमाणार्थः

  147. २ T तदेवैदं परिचोदितं न वा कथं दृष्टमिति

  148. ३ T

  149. ४ T पुरा

  150. ५ T विवक्षाऽतः

  151. १ T

  152. २ T नह्यदुःखित:

  153. ३ T संसारमूलप्रपञ्च॰

  154. १ T.

  155. २ T. ननु नास्ति

  156. ३ T. त्यक्तं—न च॰ भवतीति

  157. १ T. अभिधर्मकोशे ४।१।

  158. २ T. कर्मव्यतिरिक्तचेतनेश्वर॰

  159. ३ T. ॰भिव्यक्ताद् कर्मादेव

  160. ४. T. चेश्वरचेतना॰

  161. ५ T. चेच्चेतनारूपं स्वतोऽस्ति

  162. ६ T.

  163. ७ ॰सिद्धिरनवस्थितिः

  164. ८ T. जनं सद्‌व्यवहारे—इति प्रमादपाठः

  165. ९ T. ततः प्रमाणफलदायी—इति प्रमादपाठः

  166. १ T.

  167. २ T. धर्म्मादि

  168. ३ T. सर्वः

  169. ४ T.

  170. ५ T. लोहित (?) गुडकारकः; गुडगोमयकारक—इत्यपेक्ष्यते ।

  171. ६ T. विज्ञता च

  172. ७ T. यदीष्यते ।

  173. १ T. त्मनोभिवदन्नसौ

  174. २ T. त्यक्तः—स्थित्वा

  175. ३ T. संस्थानविशिष्टत्वाद् ।

  176. ४ T.

  177. ५ T: बीजकार्यकाले

  178. ६ T. बालकन्ये

  179. ७ T. वत्सोत्पत्त्यै

  180. १ T.

  181. २ T. पदार्थेनुपलब्धितः

  182. ४ T. वर्णाद्य॰

  183. ६ T. कारणत्वानुमानवत्

  184. ७ T.

  185. ८ T. त्यक्तः—उक्त

  186. ९ T. जलादि

  187. ३ T. इह बम्-पो ब्‌शि-पा प्रारभ्यते ।

  188. ५ T. अधिकः—अन्यथा

  189. १ T. अथापि

  190. २ T. दृश्यते

  191. ३ T. नरकादिदुःखन्न

  192. ४ T. र्‌ग्यल-पो=राजा

  193. ५ T.

  194. ६ T. त्यक्तं—पक्षादिति

  195. ७ T. त्यक्तं—शरीर

  196. १. T. ॰तथाभूत

  197. २ T.

  198. ३ T. सागरः

  199. ४ T. अधिकं—यद्यनुमानतोस्तीति तदन्यस्य
    कुतो गतिः

  200. ५ T.

  201. ६ T. स कुत एव स—इति युक्तः पाठोन्यथा छन्दोभङ्गः

  202. १. T. अथैकोवयवी

  203. २ T. त्यक्तः—हि

  204. ३ T.

  205. ४. T. त्यक्तः—सन्निवेशादि

  206. १ T. अग्न्यन्वयव्यतिरेकानुविधानस्य पाण्डुत्वादिति यदि तदन्वयव्यतिरेकानु॰

  207. २ T. भेदतो

  208. ३ T.

  209. ४ T. न्यायसूत्रे ५।२

  210. १ T. त्यक्तः

  211. २ T.

  212. ३ T. केनापि—इति प्रमादपाठः

  213. ४ T कार्यान्यत्वं हि प्रयत्नाहेतुत्वं

  214. ५ T. ॰लब्धिः प्रयत्नानन्तरं भवति । तेनोपलब्धिलक्षणाभिव्यक्तिर्भवति ।

  215. ६ T.॰साधने इत्यादि

  216. ७ T. प्रमाणसमुच्चये

  217. १ T. अस्यार्थो ह्येतत् स्याद् । यदि कार्यत्वात् शब्दोऽनित्त्यो घटवदिति कृत्वा
    कार्यान्तरेण घटोऽनित्त्य इत्यत्र शब्दे किं स्यादिति हि कार्यसमः । अयं हि वक्त्रभिप्रायतः
    त्रिधा । यदि हि वक्तुः घटकार्यत्वं शब्दे नास्तीति वादेऽसिद्धसमः । अथ शब्दस्यकार्यंत्वं
    घटाद्यनित्त्येषु नास्तीति चेत् । ततो बिरोधाभासः । अथ तन्नित्य(त्वे)पि नेतीति चेत् ।
    असाधारणत्वाद् अनिश्चतसमः

  218. २ T. न्यायभाष्ये (?) ५।१।४

  219. ३ T. ननु संस्थानत्वादिकार्यसामान्येन न साधनं भवति ।

  220. ४ T.

  221. ५ T. तस्मादसदपरमतं

  222. १ T. त्यक्तः— सतः

  223. २ T. अधिकः—न

  224. ३ T. मि-म्‌गोन-प-ञिद्ः अनभिव्यरेव

  225. ४ T. अभिधर्मकोशे २।४५

  226. ५ T. तरूणां—अधिकः

  227. ६ T. एव विषाणिनि

  228. ७ T. तथा सत्तासंस्थानादिभावेनापि न साध्यसिद्धिः

  229. ८ T. विकल्पनं

  230. १ T.

  231. २ T. पक्षस्तं

  232. ३ T-

  233. १ T. शब्दः सिद्ध उपयोगी

  234. २ T. वक्ष्यते

  235. ३ T. व्यापित्वनित्यत्त्वादयो

  236. ४ T. यदि कर्म्माद्य (भि)व्यक्तिकरणं

  237. ५ T. ॰स्वतन्त्रजनितो

  238. ६ T. तत्सिद्ध्यै

  239. २ T. (?) ग्सर्-प म-यिन-प ग्नऽ-म=अनभिनवबधू

  240. १ T. अधिकः—न

  241. १ T, कस्माददर्शनात्

  242. २ T. ईश्वरनिषेधवार्त्तिकं (समाप्तं), बम्-पो. ल्ङ-प (पंचमाह्निकं) प्रारभ्यते

  243. ३ T. अशुच्यादिरसास्वादसङ्गमो दुर्निवारितः

  244. १ T.

  245. २ वदन्ति

  246. १ T. प्रमाणदृष्टार्थकथनात्

  247. २ T. ॰परिज्ञानात्

  248. ३ T.

  249. ४ T. त्यक्तः—हेयोपादेय

  250. १ T. शेस्-स्थाने शेस् इति प्रमादपाठः

  251. २ T. धूमो न वह्नयन्तराद्॰ नापि वह्न्यन्तरं

  252. १ T. व्यवहारविषयः

  253. २ T. तेभ्यः शरीरेन्द्रियबुद्धिभ्यश्चैतन्यं

  254. ३ T. ॰पारिणामता

  255. ४ T. ननु न

  256. ६ T. त्यक्तः—यतः

  257. ७ T. न युक्तं

  258. ५ T. ॰शरीरान्वय

  259. १ T. अधिकः—कुक्षेर्

  260. २ T. परस्परविशेष उपलक्ष्यमाणः

  261. १ T. समानजातीयपूर्व्वकाः

  262. २ T. ततस्ततोऽपि न पूर्वजन्मसिद्धिः । तस्माद् अनादिजन्मप्रबन्धो न सिद्धः । अनादि
    त्वाभावे हि धूमादिव धूमान्तरसम्भवेऽपि न सर्व्वदा प्रतिबन्ध (अनुध्रुवसंबंध) एव ।

  263. ३ T.

  264. ४ T. आदिजन्मन्यपि

  265. ५ T.

  266. ६ T. ननु नायमेव

  267. ७ T.

  268. १ T. एवमदर्शनात्

  269. २ T. कस्यचिदुभयव्यतिरिक्तस्य

  270. ३ T. परलोकसाधनं

  271. ४ T. ॰हि हित॰

  272. ५ T.

  273. ६ T. काठिन्या॰

  274. ७ T. ब्चग्स्-नस्

  275. १ T. संग्रहः (ब्सद्-बऽो)—अधिकः

  276. २ T. प्रत्येकमुपघातेऽपि इन्द्रियाणामित्यादि

  277. ३ T.

  278. ४ T. अधकि—नान्यत्रास्तीत्यवगमवत्, तस्माद् ।

  279. १ T. अनुसन्धानरूपा पूर्वां

  280. २ T. आश्रयो

  281. ३ T. संसारौघपतितानां

  282. ४ T. अधिकः—न

  283. १ T. तस्मात् स्वभावलक्षणं

  284. २ T. मनोबुद्धेर्न

  285. ३ T.

  286. ४ T. यदि भूतभविष्यतोः (व्युङ-व दङ् व्युङ्-वर्-ऽग्युर्-व ऽफ्यिर्)

  287. १ T. एवं न स्यात् कार्यं यदि

  288. २ T. स्वपर (= रङ्-ग्श/?/न् इति रङ्-ब्‌शिन् स्थाने) प्रमादपाठः

  289. ३ T. कार्यकारणतायाः

  290. ४ T. त्यक्तः—न

  291. ५ T. ननु तदभावे नोत्पद्यत इत्येव
    कार्यं न भवति । तद् अपि (= यङ्? योद् = भावे) भवत्यवश्यमिति

  292. ६ T.

  293. ७ T.

  294. ८ T. यो यस्य (=गङ गि? रङ गि=स्वयं) निरोध्यः

  295. १ T.

  296. २ T. चेत्तथापेक्षा

  297. ३ T. तस्मादन्येन सोऽपीत्य

  298. ४ T. कार्यकारणे

  299. ५ T. जन्मिविज्ञानादेव (ग्‌शन् = अन्तरः, अन्यः इतिस्थाने चन् = वत्, इति
    प्रमादपाठः प्रतिभाति)

  300. ६ T. जन्मिना विज्ञानादेव सत्येतद्विज्ञान ऐहिकादपि ।

  301. १ T. मृत्युवेदनं

  302. २ T.

  303. ३ T. त्यक्तः—साध्यते, येन तस्याभावे को विरोधः

  304. ४ T. बम्-पो द्रुग्-प (षष्ठाह्निकं) इतः प्रारभ्यते

  305. ५ T. अधिकं—कार्यत्वन्तु प्रतिसन्धानाभावासिद्धं

  306. ६ T. विरोध-प्रसिद्धेर्विरोधभावो न न प्रसिद्ध इति चेत्

  307. ७ T.

  308. ८ T. चित्तत्वमपि ।

  309. ९ T. क्लेशाविसंयोगे प्रतिसन्धानाभावेऽभ्युपगमात् तदाह ।

  310. १ T.

  311. २ T. सर्वं

  312. ३ T. अथ हेतुः फलं च इति । दङ् ऽब्रस्-बुिऽ/?/‌ (=फलं च) इति तु दङ्-ब्रल्-बिऽ/?/
    स्थाने प्रमादपाठः

  313. ४ T कायहेतोरेवोत्पद्यते

  314. ५ T. ॰ प्राप्तेर्मनोज्ञानं

  315. ६ T. ॰सामर्थ्यभेदान्न

  316. ७ T. हेतुः

  317. १ T. पाणिनिः १।४।३०

  318. Typo in edition, numbered as 450.
  319. १ T. लम्=मार्गः? —लन् (उत्तरम्)

  320. २ T. काय-

  321. ३ T. णः शस्त्रा॰

  322. ४ T. अन्यविज्ञान-

  323. १ T. सालु

  324. १ T. कायस्य

  325. २ ताम्रस्य

  326. ३ एकसामाग्रिसम्भ॰

  327. ४ स चोदक॰

  328. १ T. वीतरागतया

  329. २ T. घटादिषु

  330. ३ T. संस्कारा-

  331. १ T. जलाद्याधारो

  332. २ T. विकल्पकारणेन

  333. Wrongly numbered as 480 in the edition.
  334. १ T. बुद्धिः

  335. २ बुद्धेरुत्प

  336. ३ T. यदा

  337. १ T. विज्ञान

  338. २ T. ततः

  339. ३ T. जनकस्या

  340. १ T. नाद्य

  341. २ T. नाद्य(?)

  342. ३ T. विज्ञानाकारस्य

  343. ४ T. द्यस्यैव नियमः

  344. ५ T. वट वीजाद्

  345. ६ T. ऽदोन्-व-पो

  346. ७ T. संस्कारस्या

  347. १ T. यद्येवं

  348. २ T. उक्तत्वाद्

  349. ३ T. उपादानत्वेन

  350. ५ T. संस्वेदजेषु

  351. ६ T. बुद्धि

  352. ७ T. स्वकारणं

  353. ८ T. उपलम्भात्

  354. १० T. मातापितरो

  355. ११ T. श्रतादिके

  356. १२ T. कार्ष्ण्यादयः

  357. ४ T. शरीरान्तर्गत

  358. ४ T.

  359. ९ T. पारलौकिक॰

  360. १ T. स्वसंवेदनस्य तल्लक्षणत्वात्

  361. २ T. विज्ञानस्य

  362. 3 T. तस्य भावादे॰

  363. ४ T. तत्रापि तथा भवति ।

  364. ५ T. वासनामात्रकृतं हि विकल्पमात्रस्य भवति न महाभूतत्वेऽपि

  365. १ T. अनिष्टासमर्थाभ्यामिति

  366. २ T. वत् सूत॰

  367. ३ T. अभिधर्मकोशे ३।११

  368. ४ T. तत्रैव ३।१०

  369. १ T. स्वप्नस्थिते.

  370. २ T. व्यर्थतैव॰

  371. १ T. स्वरूपव्यति॰ ।

  372. १ T. सोऽपि न

  373. २ T.क्रियाऽस्ति

  374. ३ नित्यत्वात्

  375. ४ T. तत्रैव—विजातीयानामव(य)विनोऽभावात्

  376. ६ संयोग

  377. ५ ऽदृश्या॰

  378. १ T. प्रतिघादयोपि

  379. २ T. अत्रोच्यते, असंसृष्टाः कथं

  380. ३ T. यथा सच्छिद्रचषके

  381. १ T. दृष्टेरपि ( )--भोटभाषायामस्यापद्ये भाषान्तरम्

  382. २ T. स्थूलतादि॰

  383. ३ T. संयोगादिकल्प॰

  384. ४ T. बुद्धिरनादिवास॰

  385. १ T. नीलादि॰

  386. २ T. तथैवा॰

  387. १ T. वैशेषिकसूत्रे

  388. २ ॰सोरनाक्षिप्ता॰

  389. ३ T. ग्‌शुङ-लुग्‌स् ग्‌शन्.ग्यि गो.स्कब्‌स्.नि

  390. १ T. भेदोयमीदृशो

  391. २ T. समुदायविवक्षायां

  392. ३ T. वस्तु॰

  393. ४ T. पूर्व॰

  394. ५ T. विंशतीनां गावः (?) इति न शक्तिभेदो॰

  395. १ T. कल्पना शब्द॰

  396. २ T. अत्रैवं

  397. ३ T. स्यार्थ॰

  398. १ T. संभवान्न

  399. १ T. द्वैतं

  400. १ T. विषयिणो॰

  401. २ T. विज्ञानादेकं वा

  402. १ T. नुर्-नूर्-वो

  403. २ T. उत्पलस्य

  404. ३ T. देहहेतोः

  405. १ T. अधिकः पाठः—प्रमाणवर्त्तिकालंकारे परलोकसिद्धिवार्त्तिकम्

  406. १ T. दहनाहितो

  407. १ T. व्यव॰र्षिता—नायं पाठः

  408. १ T. निरुत्साहेन

  409. २ T. स्वपरदु॰

  410. १ T. अथ

  411. २ T. आत्मात्मीय॰

  412. १ T. र्लुङ्-ल-द्रो-व दङ् स्नुम्-प-ल-सोग्‌स -प

  413. २ T. अणुस्थूलमध्यवर्त्ति

  414. ३ T. यदा

  415. १ T. स च

  416. १ T. ग्रीष्मादिः

  417. २ T. अप्रतीता॰

  418. ३ T. श्चेद्वयो

  419. ४ T. तदद्यावर्त्तमान

  420. ५ T. अक्रमा

  421. ६ T. वेदादन्येन

  422. १ T. सत्त्वार्थहितैषिणः किंचिन्मात्रोपि दोषः बाधकः

  423. २ T. देयि ब्दग्-तु ऽग्युर्

  424. ३ T. उपायाभ्यास

  425. १ T. आत्मादि॰

  426. १ T. एव नास्ति वा

  427. २ T. दूष्टं

  428. ३ विपक्षस्य

  429. १ T. वितथमभिदध्यात्

  430. २ T. ऽफेन्-पऽि/?/ शुग्‌स्-लस्अ=ाक्षेपबलात्॰

  431. ३ तस्मात्॰

  432. ४ T. तथापि

  433. ५ T. उपशम॰

  434. I think this is not really a new section, but only a marker. See the toc in the print edition
  435. १ T. द्रेगस्-पऽि/?/-र्ग्यु

  436. २ T. परिश्रान्त्या सुखक्षताः

  437. ३ T. परिकल्पनामात्रं

  438. ४ T. वा वरं

  439. १ T. विषयस्य तुल्यत्वात् स व्यापिस्पर्शस्तेनार्थः—बहिः

  440. १ T. — सर्वजत्व

  441. २ — सस्. ब्‌शुन्. पो. सो

  442. १ T. ततो राग उत्पद्यते

  443. १ T. ॰क्तिरविनिर्भागेन

  444. २ T. आगताः

  445. ३ T. तदपि परिहर्त्तव्यम्

  446. १ T. प्रतिभासभेदः

  447. २ T. कश्चित्पर

  448. ३ T. स्र.व.दङ्. द्रो.व.ल.सोग्‌स. र्पाऽ

  449. ४ T. भवति

  450. ५ T. ॰वात्मैकदेश॰

  451. ६ भिन्नज्ञानं—बहिः पाठः

  452. ७ पुरुषान्तरेण पुरुषान्तरस्य—बहिःपाठः

  453. ८ T. तथैव न

  454. ९ बहिरपि प्रसज्यते पुरुषान्तरेण पुरुषान्तरस्य स्पर्शविज्ञानं—बहिः

  455. १० विषयान्यत्त्वात् परत्वं—बहिः

  456. ११ T. सन्तानान्तरस्य—बहिः पंक्तेः ।

  457. १२ T. सुखबहुत्वे कस्य॰

  458. १३ T. ने न परमाणु प्र॰

  459. १४ संसर्ग्गसंसर्ग्गात्—बहिः

  460. १ T. धर्मावस्थेन

  461. ३ T. कान्तत्वेन

  462. २ T. विभेदपथ॰

  463. ४ T. भूतेभ्यः स्याद् विभिन्नता

  464. ६ T. देहाविकारात्

  465. ७ T. अन्वयव्यतिरेकाननुविधानात्

  466. ८ T. इति न भाटेभाषान्तरे

  467. ९ कुतश्चित्-पाठान्तरम्

  468. १० T. दोषः प्रसज्यते

  469. ११ T. कायमनपेक्ष्य

  470. १२ T. संसारित्वं स्कन्धस्य

  471. ५ T. रूपावभास्यपि

  472. १ T. न जायते

  473. २ T. न त्वेतत् सांख्यमतं

  474. ३ T. ॰चूडारत्नात्माभिमा॰

  475. ४ T. ॰ति मारटीः

  476. ५ T. मेस्-पोल-सोग्‌सप-िऽ/?/

  477. ६ प्रबंधेन—बहिः

  478. ७ T. भूतात्मता

  479. ८ T. न च नास्ति

  480. १० T. भूतानि रागजनकानि-बहिः

  481. ९ रागादिभावात्—बहिः ।

  482. १ अपकर्षवत् प्रकर्षवच्च—बहिः ।

  483. २ T. तद्‌रूपव्यावृत्तेरन्यतःऽपि वा समानात्मनः सम्भवति न चासौ तारतम्ययोगी भवति
    ग्रोप्रत्ययः गौः गोतरः गोतम इति लोकायतदर्शनापेक्षया पृथिव्यादौ प्राणी प्राणितरः
    प्राणितम इति वा ।

  484. ३ T. अग्निव्यपदेशात्

  485. ४ T. पृथिव्यादिरेव

  486. ५ T. तदा प्रसंगावस्थायां तत औष्ण्यात् कारणोच्छेद एव

  487. १ T. ज्वालाविनैव

  488. २ T. न ते

  489. ३ T. पटादि॰

  490. ४ T. पटादयो

  491. ५ T. वर्णविशेषः

  492. ६ T. पटस्य

  493. ७ T. औष्ण्योदयव्ययता॰ ।

  494. ८ T. भ्यो न

  495. ९ विभिन्नता—बहिः ।

  496. १० T. शक्तेरथन्तिरत्वात् त्वन्मते शक्तेर्भेदात् (ा) किञ्च शक्तिरपि न भवति । तैलाद्यबीजे

  497. ११ तत्तवस्य नानात्वप्रसङ्गात—वहिः

  498. १२ चर्वाकि आह—ऐहलौकिकविकल्पो यस्य व्यामोहस्य स परलोके विकल्पान्तर
    मिच्छति—बहिः

  499. १ T. ॰नुविधानसंबद्धाः

  500. २ T. नियमाभावात

  501. ३ परः शङ्कते पूर्वं परित्यज्य दर्शनं—वहिः

  502. ४ T. ततः

  503. ५ T. हेयादेयविशेषस्य न विवेकः प्रत्यक्षतः

  504. ६ T. हेयाक्षादत्ययः

  505. १ T. कारणं—पाठान्तरम्

  506. २ T. संस्कारस्कन्धानां

  507. ३ T. मात्रनि॰

  508. ४ T. नाप्यात्मना

  509. ५ T. लभ्यते

  510. १ T. तदभावाद् विकल्प्यते

  511. २ र् बाह्यानपेक्षणात्

  512. ३ T. इयमेव चानि॰

  513. १ T. दीर्घागमे

  514. २ T. जन्म—बहिः

  515. ३ T. वोद्यते

  516. १ र्याच्च॰

  517. १ T. आकारः स आत्यन्तिकः

  518. २ T. न

  519. ३ T. तत्र परस्य

  520. ४ T. वस्त्वस्ती॰

  521. ५ T. स्वसन्तान॰

  522. १ T. हेतुभेदाद् विषयभेदाच्च

  523. १ T. तदाद्य

  524. २ T. शील॰

  525. १ T. तत्प्रहाणात्॰

  526. २ अथ जानानस्याऽपि तस्यात्मानो धर्माधर्मत उत्पद्यते ।

  527. ३ आत्मनो दुःखरूपा स्याद्यस्य वा दुःखमुत्पाद्यमानव्यतिरिक्तमव्यतिरिक्तं वा ।
    अव्यतिरिक्तो यद्यसावित्याह—बहिः ।

  528. ४ ॰त्मा ह्यवि॰ ।

  529. १ T अथ

  530. २ तेन अप्रतीतिरेव न प्रतीतिः

  531. ३ एकत्वाध्यस्तं यद्रुपं तत एव रुपात् तस्यात्मीयस्य क्षणिकत्वस्याभाव एतच्च विरुद्धँ,
    आत्मापेक्षयान्यत्त्वं प्राप्तं । ——बहिः

  532. १ तदानीन्तनमस्तित्वं चेत् न पूर्वधियागतं ।

  533. २ साक्षात्कृततया ।

  534. Misnumbered in edition
  535. १ धर्म्मो व्यावृत्य बोधनीयः—बहिःपंक्ति पाठः

  536. २ T अदृढं

  537. ३ T अन्त्यक्षण॰

  538. ४ T छग्‌स्-ऽपि-बुम् ।

  539. ५ T म्‌छे-म दङ्-स्ग्रो-व-ब्‌शिन्

  540. ६ T तदर्थक्रियायां अविप्रलम्भमात्रमेव

  541. ७ T न खलु वह्नेरेवोत्पद्यते वह्निः

  542. १ ॰दान्तरा॰

  543. २ बाधकोत्पत्तिसामर्थ्यं वासनासंस्कारः—बहिः

  544. ३ तादात्म्ये तु॰

  545. ४ ऽदि ऽग्रोन्-पो-लस् ग्रोग्‌स्-ब्‌सङ्/?/-पो दङ्/?/-ब्रल्-ब्‌शिन्-दु

  546. ५ नैरात्म्यात्मदर्श॰

  547. १ T. असंप्रख्यान रूपादेरविद्यानिर्वृतेरपि । शरीरमुपधी॰

  548. २ T. त्यागसंदर्शनादपि.

  549. १ T. मोहैकदेशसंभूता.

  550. आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः—बृहदारण्यक ४।५।६

  551. १ T. तयोरदृष्टि॰

  552. २ T. स्नेहार्थदर्शनबलादु॰

  553. १ T. स्वयंदृ/?/ष्टेर.

  554. २ T. धर्माधर्मसंस्कार.

  555. ३ मनोरथ॰—सा तथैवेति सा दोष

  556. १ T. अभ्युपगन्तव्यो

  557. २ T. न अवस्थाता इति

  558. ३ T. नित्यता क्रम॰

  559. ४ दे-खोल्-बु-ञिद्-दु

  560. ५ न मृत्युदृष्टिः

  561. १ T. तोह्यात्मा उपलकाष्टतुलाव॰

  562. २ T. इति न प्रार्थि॰

  563. १ ॰क्रियतामेव कथमात्म॰

  564. २ परार्थः सम्भ॰

  565. १ T. कथमात्मवादी मुक्तः

  566. १ T. स डाकिन्यापि

  567. १ T. पुरः कुतः

  568. १ T. वासी चंदन॰

  569. २ T. सेम्‌स्-म्‌ञम्-प. ञिद् थोब्‌स्-ते र्जेस्-सु-छग्‌स्-प-दङ्. खोङ्-ख्रो. दङ-ब्रल्-वस्-न

  570. ३ T. निरात्मताम्

  571. ४ T. दीर्घागमे मध्यमागमे वा

  572. १ T. उपनिषदि

  573. २ T. एकैकेन न नित्यात्मनः प्रतीतिः,

  574. ३ T. ब्युङ्-वीऽ-सेम्‌स्-चन्-ल्त-व-दग् । र्च-व-ञिद्-लस् द्ब्युङ-वर्-ग्यिस्=उत्खातमूलां
    कुरुत सत्त्वदृष्टिं मुमुक्षवः ।

  575. १ T. इदानीमेव

  576. १ T. परापरसंवेदन॰

  577. २ T. द्वयक्षयार्थमिति कारिकाभागोऽत्र स्थापितः

  578. १ T. अनेकफलसाधन॰

  579. २ T. मात्रतः परिक्षयः

  580. ३ T. तदाऽशेषमेव

  581. ४ T. चैकललोमोत्पाटमात्रात्

  582. ५ T. तत्तपस्तदा

  583. ६ T. ग्‌दुङ्-व-ल्ङ-ल-सोग्‌स्

  584. ७ T. अथ दुःखत्वात्तयोर्दुःखमात्रत एवापाक्रियते

  585. ८ T. नारकादिकेशोल्लञ्चनतः

  586. १ T. तज्जे

  587. २ T. सामग्र्‌/?/यन्तरसंभवे

  588. ३ T. सुगत इति ज्ञायते

  589. ४ T. अथा॰ परम्परयाऽगतमे॰

  590. १ T. देशाभावोप्यस्ति

  591. २ T. तत्तु कुतः

  592. ३ T. देङ्-ल