516

१।२ एतदाहप्र मा ण स मु(च्‍च)योत्र शास्‍त्रकृता व्याख्यातुं प्रस्तुत
2b स्तत्र प्रथमं तन्‍नमस्कारश्‍लोकार्द्धं व्याख्यानार्हं द्वितीयपरिच्छेदेन व्याख्यातं । तृतीय
परिच्छेदेन तु प्रत्यक्षलक्षणं सप्रभेदमशेषविमतिनिराकरणेन यथास्वरूपतो विभक्‍तम्
अवसरप्राप्‍तमनुमानं तच्‍च द्विधा स्वार्थं परार्थञ्‍च तत्राद्यमा (दा)
वेव व्याख्यातं प्रथमञ्‍च तद्व‍्याख्यानप्रयोजनमुक्‍तमर्थानर्थविवेचनस्यानु
मानायत्तत्वादि
त्यनेन प्रत्यक्षमपि ह्यनु(मान)बलादेव प्रामाण्यं लभते इत्यादि
व्याख्यातं व्याख्येयसूत्रन्त्वनुमानं द्विधा त्रिरूपलिङ्गतोर्थदृगित्यादिकं प्र मा ण
स मु च्‍च ये द्वितीयपरिच्छेद उक्‍तं । तृतीयपरिच्छेदप्रोक्‍तन्तु परार्थमनुमानं
स्वदृष्‍टार्थप्रकाशनमित्यादिकं वार्तिकचतुर्थपरिच्छेदेन व्याख्याय इत्ययमेव
वार्तिकप्रथमादिपरिच्छेदानामनुक्रमनिर्देशः ।


वार्तिकञ्‍च विशेषाभिधानादिरूपं यथोक्‍तं सूत्राणामनुपपत्तिचोदनात्तत्प
रिहारो विशेषाभिधानमि
ति लक्षणमयमेवार्थः परोक्‍तः ।


सूत्राणान्दोषमुद्‍भाव्य परिहारो यत्र दीयते ।

विशेषचोदना चापि वार्तिकं तत्प्रकीर्त्तितमिति ।

स मु च्‍च य सूत्रे स्वदृष्‍टार्थपदं व्याख्यातुं शास्‍त्रकृदाह । परस्य प्रतिपाद्यत्वा
दित्यादि । सुवचार्थस्तु वृत्तावुच्यते । स्वार्थमिति स्वस्मै इदं स्वार्थमर्थेन न नित्य
समासः सर्वलिङ्गता चेति वाक्येन चतुर्थी समासः । स्वप्रयोजनमित्यर्थः । येन
स्वयमनुमेयं प्रतिपद्यते ज्ञानेन तत्स्वार्थं परस्मै इदं परार्थं येन परेभ्यः प्रति
पादयति त्रिरूपवचनेन तत्परार्थं ।


ननु प्रमाणमविसम्वादीत्युक्‍तं अनुमानञ्‍च प्रमाणं ज्ञानं स्यात्कथं वचनं न दोषः
उपचारात् परमार्थतस्तु ज्ञानमेवात्रापि परिच्छेदकं त्रिरूपवचने तस्यैव सूचनात्
वचनेनैव हि परोवबोध्यते न ज्ञानेन महती चात्र विमतिः परेषामितीदं
विवेच्यते । स्वार्थानुमानमवसरप्राप्‍तमिति सङ्गत्यानन्तरं नेदिष्‍टत्वात्पूर्वमेवेति
2a प्रथमं भूतं पदद्वयं व्याचक्षाणेनान्वयव्यतिरेकविचारात्प्र मा ण स मु च्‍च यस्य चतुर्थ
परिच्छेदो [दृष्‍टान्तविचार उक्‍तोऽन्यापोहव्याख्यानेन पञ्‍चमपरिच्छेदोऽन्यापोह
विचारः समर्थितः सर्वस्य विशेषणविशेष्यादिशाब्दव्यवहारस्यान्यापोह एव
योगात् । हेत्वाभासास्ततो परइत्यनेन तु हेत्वाभासविचारः षष्‍ठः परिच्छेदः
समर्थितः


पुर्वापरपरिच्छेदयोरनुसन्धानं कु2b र्वन्नाचार्य दे वे न्द्र बु द्धिः । शिष्याणां
सुखबोधार्थं प्र मा ण वा र्ति क शरीरमाख्यातुमाशङ्कितञ्‍च परिहर्त्तुं प्रथम
परिच्छेदार्थानुसन्धानमप्याह । आचार्यीये त्यादि । इयञ्‍चात्राशङ्का यद्याचार्य