517
ध र्म की र्ति ना प्र मा ण स मु च्च यो व्याख्यातुं प्रस्तुतस्तदा स एव व्याख्यायतां
किमित्यादावुत्क्रम्यानुमालक्षणं व्याख्यातवान् इति । अस्य परिहारः । आचार्यी
येत्यादि । आचार्योत्र दि ग्ना ग स्तेन प्रणीतं यत्प्रमाणलक्षणशास्त्रं प्रत्यक्षानुमानस्व
रूपप्रकाशकं प्र मा ण स मु च्च याख्यं तन्नीतेरेवोद्योतयितुं प्रस्तुतत्वात् तस्य विविध
प्रकारं विशेषेण च वार्तिकरूपेण पूर्वटीकाकारा सद्वयाख्यां तीर्थिकविम(ि)तञ्चाप
नीय यथास्थितव्याख्यानं व्याख्या । तस्या निबन्धनमनुमानं न प्रत्यक्षं तस्यान
भिलाप्यवस्तुभेदविषयत्वेन निर्विकल्पकतया स्वार्थोपयोगित्वात् ।
अनुमाने तु सा निबध्यते सर्वविमतिनिराकरणा(य) यथास्थिताविपरीतवस्तु
स्वरूपस्यानेनाख्यापनात् । व्यवस्थाप्येति विशेषेण प्रतिबन्धाख्यानतस्त्रिरूपतया
पूर्वमवस्थाप्येत्यर्थः । पूर्वकालभाविक्त्वाप्रत्ययेन हि पूर्वकालतास्य ज्ञाप्यते तथा 2b
चाशङ्कितचोद्यपरिहारः । स्वतः प्रामाण्यञ्चास्य सूच्यतेऽनुमानं हि सुनिश्चित
त्रिरूपतया विकल्पकत्वेनात्यन्तनिश्चायकत्वात् । स्वतः प्रमाणमनेनैव चाशेषविमत्य
पाकरणं तीर्थिकनिग्रहः (आ)प्तवचनार्थव्यवस्थानं सर्वज्ञतासाधनञ्च क्रियते न
प्रत्यक्षेणेति । एतदेव पूर्वं व्यवस्थापितं प्रत्यक्षस्याप्येतद्वलादेव प्रामाण्यनिश्चयः ।
प्रत्यक्षरूपं हि तदाभासेपि संभवति । बोधरूपताया अर्थाकार..............
३
१।२ सस्पष्टप्रतिभासस्य च निर्विकल्पकत्वेन द्विचन्द्रादिज्ञानेपि संभवा
न्नैवमनुमानस्य स्वाभासेषु निश्चितत्रैरूप्यसम्भव इत्यनुमानभूतकारणशुद्धिद्वारे- 3a
णैव प्रत्यक्षस्य प्रामाण्यं निश्चेयं । यद्यप्यान्ये(?)षितमात्रं यथावस्तु प्रवर्त्तते
प्रत्यक्षन्तदप्यसकृत्प्रवर्त्तितव्यवहारतयान्वयव्यतिरेकाभ्यां विवेचितवस्त्वाकारं
यथार्थं सम्वेद्यत इत्यनुमानपूर्वकमेवैतदन्वयव्यतिरेकयोरनुमानरूपत्वात् । दृश्यते
चाभ्यासातिशयात्प्रत्यक्षमुत्पद्यमानमेव प्रमाणं मणिरूप्यादिविषयज्ञानवत्तथा
विधतत्स्वत एव प्रमाणं भ्रान्तिनिमित्तस्याभ्यासेनैव निराकृतत्वात् । अन्यथा
कथं लिङ्गज्ञानं प्रमाणं स्यात् । यत्र तु क्वचिद्विषये भ्रान्तिनिमित्तापनयासमर्थन्तत्
तत्रानुमानानिश्चय इति तत्पूर्वमुक्तं । नन्वनुमानमपि प्रत्यक्षपूर्वमेव नायन्नियमो
व्याप्तेरनुमानेन निश्चयात् । न हि व्याप्तिर्व्यापकस्य तत्र भाव एव । व्याप्यस्य
वा तत्रैव भाव इत्ययं नियमोऽध्यक्षेणेक्षते । लिङ्गमपि गृहीतसम्बन्धेनैव पुंसा
निश्चीयते इति सम्बन्धापेक्षणात्तदप्यनुमानपूर्वकमेव । न चानुमानप्रतिभास
काले प्रत्यक्षं व्याप्रियते इत्युक्तं । न हि प्रत्यक्षप्रतिभासवत् स्वाभासेऽनुमानं सम्भव
तीत्यप्युक्तं । अतोनुमानमुक्तार्थसाधकत्वात् पूर्वमुक्तं । अथवा लक्ष्यन्ते स्कन्ध
धात्वायतनानि येन शास्त्रेण तल्लक्षणशास्त्रं त्रिपिटकं । प्रमाणञ्च तदविसंवा