524
अनुमानं द्विधा स्वार्थं त्रिरूपाल्लिङ्गतोर्थदृक्

पूर्ववत् फलमर्थः स्वरूपश्‍चातुल्यमेतयोरिति

अत्र प्र मा ण स मु च्‍च ये द्वितीयपरिच्छेदश्‍लोके पूर्ववदिति प्रत्यक्ष इव विषया
धिगतिरूपं प्रमाणादव्यतिरिक्‍तं फलमनुमानेपि ज्ञेयमर्थस्त्वालम्वनं प्रत्यक्षस्य
स्वलक्षणमितरस्य तु सामान्याकारोन्यापोहो विषयः स्वरूपञ्‍च स्पष्‍टास्पष्‍टप्रतिभा
समतुल्यं प्रत्यक्षानुमानयोरित्येतद्वक्ष्यमाणानुमिति त्यक्‍त्‍वातिविवादास्पद..


2a २।१ अधुना शेष प्र मा ण स मु च्‍च य प्रथमद्वितीयपरिच्छेदव्याचिख्या
सुस्तदादिनमस्कारश्‍लोकं च व्याख्यातुं शास्‍त्रकारो द्वितीयपरिच्छेदं प्रस्तौति ।
अनन्तरञ्‍चागमचिन्तायाम ३।२१२ पौरुषेयमागममपाकृत्य यत्प्रतिज्ञातं सर्वस्य
दृष्‍टादृष्‍टप्रकर्षार्थस्य स्वर्गापवर्गादेः परलोकस्य च देशकः पुरुषातिशय एवेति स
इदानीं प्रमाणभूतः साध्यते नेश्‍वरादिरिति कथ्यते प्रवचने चार्यसत्यचतुष्‍टयं दुःख
सत्यपूर्वकमुक्‍तं निरूपणक्रमेण योगी हि सांसारिकदुःखार्त्तः प्रथमं दुःखसत्यं
निरूप्य हेयोपादेयं सोपायं पर्येषत इति कृत्वा शास्‍त्रकारस्तूत्पत्तिक्रममाश्रित्य यथा
संसारः प्रवर्त्तते निवर्तते च तथा प्रथमं समुदयसत्यं तद्विमतिनिराकरणतः
कथयंस्तदनुक्रमेण शेषसत्यत्रयमशेषविमतिनिराकरणतः कथयतीति द्वितीयपरि
च्छेदार्थः । सर्वत्र च प्रेक्षावतां सम्बन्धं विना वाञ्छाप्रवृत्तिरिति पूर्वापरपरि
च्छेदसंघटानार्थं सम्बन्धोऽवश्यवाच्यः स चानन्तर्यलक्षणोऽनन्तराणामपि
पूर्वैर्विद्यमानोपकारकत्वादानन्तर्यञ्‍च द्विधा ग्रन्थतोऽर्थतश्‍च शास्‍त्रादेर्वागर्थ
रूपत्वात्तत्रानन्तरपरिच्छेदसम्बन्धोयं द्वितीयपरिच्छेद इति


2b
१।७ तत्त्वबोधासमर्थानां सद्व‍ृत्या मानमेययोः ।

व्यवस्थानमिदं शास्तुः प्रवचोनुगमुच्यते ॥

ये पुद्‍गलाः परमार्थाधिगमे झटित्यसक्‍ता धर्मानुसारिणो योगिनश्‍च तेषां
सत्संवृत्त्या प्रमाणप्रमेयव्यवस्थानं परमार्थेऽसंभवात् । यदाह नैयायिकचक्रचूडा
मणिः प्र मा ण वा र्ति के २।५


प्र (ा) माणं (?ण्यं) व्यवहारेण शास्‍त्रं मोहनिवर्त्तनमिति ।


भगवानपि परमार्थबोधेऽशक्‍तानवता (र) यितुमुक्‍तवात् क्षणिकाः सर्वसंस्कारा
अनित्यदुःखशून्यानात्मा
दीति । एतानि प्रमाणोपपन्‍नानीत्यपि प्रतिपादयितु
मिदमुच्यते ॥