2b
१।७ तत्त्वबोधासमर्थानां सद्व‍ृत्या मानमेययोः ।

व्यवस्थानमिदं शास्तुः प्रवचोनुगमुच्यते ॥

ये पुद्‍गलाः परमार्थाधिगमे झटित्यसक्‍ता धर्मानुसारिणो योगिनश्‍च तेषां
सत्संवृत्त्या प्रमाणप्रमेयव्यवस्थानं परमार्थेऽसंभवात् । यदाह नैयायिकचक्रचूडा
मणिः प्र मा ण वा र्ति के २।५


प्र (ा) माणं (?ण्यं) व्यवहारेण शास्‍त्रं मोहनिवर्त्तनमिति ।


भगवानपि परमार्थबोधेऽशक्‍तानवता (र) यितुमुक्‍तवात् क्षणिकाः सर्वसंस्कारा
अनित्यदुःखशून्यानात्मा
दीति । एतानि प्रमाणोपपन्‍नानीत्यपि प्रतिपादयितु
मिदमुच्यते ॥


525

परस्य प्रतिपाद्यत्वादित्या ४।१ दि । परो हि किलावबोधयितुमिष्‍टो
वादिना । स यदि स्वसिद्धेनोभयसिद्धेन वा वाद्यसिद्धेनापि स्वयमागमनसिद्धेनैव
साध्यमवबोध्यते लिङ्गेन तदा वादिनः का क्षतिः न हियं राजाज्ञा उभयसिद्धे
नैव साध्यं साधनीयमिति । पञ्‍चविंशतितत्त्वसंख्यानकुशलाः सां ख्या ऊचुः
बौ द्धा न् प्रति । अचेतनाः सुखादयो बुद्धिर्वा उत्पत्तेर्नित्यत्वाद्वा रूपादिवदिति ।
बौद्धेन ह्यान्तराश्‍चिद्रूपाश्‍च सुखादयो बुद्धिश्‍चेष्‍टाः । असद्वादी च बौद्धोऽसदेवोत्प
द्यते कारणवशेन कार्योत्पत्तेः न हि कार्यं स्वतन्त्रमुत्पद्यते निरन्वयञ्‍च नाशमि
च्छति । सांख्यस्तु सद्वादी तस्य सदेव कार्यमुत्पद्यते बीजभावेन प्रागवस्थायामपि
विद्यते कार्यमाविर्भावस्तूत्पत्तिव्यक्‍तिरूप (ः) तिरोभावस्तु विनाशः । स च
सान्वयोऽन्वयिद्रव्यस्य विद्यमानत्वादिति पराभ्युपगतसाधनेनैव स्वभिमतमचेतन
त्वादिकं साधयतीति तदपनयार्थं स्वदृष्‍टग्रहणं । स्वयमिति वादिना । अदृष्‍टेपि न
निश्‍चितः प्रमाणेनार्थ इति त्रिरूपं लिंङ्गं परैरिति प्रतिपाद्यतेऽनेन । आगमादिति
श्‍लोकेनुमातुमपि पर ।