529
प्रतिपादनोपायविधानार्थो धर्मधर्मिविभागः । गमकन्नु लिङ्ंग स्वलक्षणमेव ।
तथा चाह । धर्मधर्मितया भेदः कल्पितो नार्थोपीति । धूमाल्लिङ्गाल्लिङ्गि- b
नि ज्ञानमुत्पद्यमानं न धूम एवाध्यारोपेण प्रवर्त्तते किन्त्वन्यत्र प्रदेशे । मणि
भ्रान्तिस्तु मणिप्रभाख्य एव लिङ्गे लिङ्गिनमारोपयन्तीति चेत् । ततः किं न (:)
हीयतां । सम्बन्धादुत्पन्नत्वं हीयते देशभ्रान्तिरत्राधिकेत्येतावत्तु ब्रूमः । तत्रैव
देशे मणिप्राणकत्वे माभूत्प्रामाण्यं मणिमात्रप्रापणे तु केनानुमानत्वं वार्यते ।
सर्वञ्चानुमानं भ्रान्तमिष्यत एव । मणिभ्रान्तावन्वयव्यतिरेकस्मरणन्नास्तीति
चेत् । यदि नास्ति न तावतानुमानत्वाभावः यो ह्यन्वयव्यतिरेकावस्मृत्वा द्रागेव
धूमाद्वह्निं प्रत्येति तदा किं तज्ज्ञानमनुमानं नेष्यते । त्रिरूपात्तु लिङ्गात्तदुत्पद्यत
इत्येतावतानुमानमिति ब्रुमः । यद्यनुमानमेव मणिप्रभायां मणिभ्रान्तिः किमर्थं
तर्हि सा दृष्टान्तीक्रियते । न ह्यनुमानस्य सामान्येनाविसम्वादे साध्येऽनुमान
स्यैव दृष्टान्तत्वं युक्तं । अयमप्यदोषो यतो मणिभ्रान्ते भ्रान्तत्वेपि परो वक्तृविस
म्वादमात्रमिच्छति । अन्यस्य तु धूमादिलिङ्गस्याभ्रान्तत्वं वस्तुप्रतिभासित्वं चान्यथा
ह्यविसम्वादित्वं न स्यादित्यतो मणिभ्रान्तिर्दृष्टान्तत्वेनोपादीयते इति ।
तदेतद्वहुतरञ्च दुःखञ्च दुरुपपादञ्च विसम्वादकञ्चासम्बद्धञ्चचेति न विदुषां
प्रीतिकरमिति वयमत्र ब्रूमः ॥ ॥ ॥ ॥
मणिप्रभायां मणिज्ञानं न प्रमाणं सत्यार्थाजनितत्वान्न प्रत्यक्षं । नाप्यनुमानं 8a
तल्लक्षणाभावात् । यो हि यल्लक्षणहीनः स तेन रूपेण व्यवह्रियते यथा गौर्वाजिरू
पेणेत्यतिप्रसिद्धमेतत् । त्रिरूपाल्लिङ्गान्निश्चितादनुमेये ज्ञानमनुमानं । तदत्र
नान्वयो । न हि या या प्रभा सा सर्वा मणिरित्यन्वयः सिद्ध्यति । नापि व्यति
रेको ।यो मणिर्न भवति स प्रभापि न भवतीति । व्याप्यव्यापकभावासिद्धेः ।
नापि पक्षत्वं मण्याकारज्ञानस्य प्रभाजनितस्य मिथ्यात्वात् । न चागृहीत
सम्बन्धो लिङ्गादनुमेयं प्रत्येति । योप्यविधानेन द्रागेव प्रत्येति स पूर्वमेव गृहीत
सम्बन्धोऽनुमेयं लिङ्गात्प्रतिपद्यतेऽन्यथा प्रतिपत्तेरयोगात् । नापि धूमवद्वह्नेः
कार्यत्वेन मणेः प्रभा प्रतिभासते कारणरूपेणैव तस्याः प्रतिभासनाज्ज्ञापकत्वाच्च
। निश्चितं लिङ्गं भवति नानिश्चितं सन्दिग्धधूमवत् । न चात्र निश्चयोस्ति
मिथ्याज्ञानत्वात् ।
यत्तूक्तं । प्रभायामभ्रान्तमेव चक्षुर्विज्ञानमादौ जायते तेन कार्यत्वं प्रभाया
निश्चीयत इति । तदेतदतिसाहसमिन्द्रियज्ञानमेवेदं स्पष्टत्वात् विरक्तज्ञानवत्
भ्रान्तमिन्द्रियादिदोषात् प्रभां मणिरूपेणाविच्छिन्ददुत्पद्यते । न च तत्र प्रभाकारो
वेद्यते । न चासम्वेद्यमानाकारमालम्वनं सर्वेषामालम्वनत्वप्रसंगात् । न चेयं