530 मानसी भ्रान्तिरिन्द्रियदोषनिवृत्तौ पुनः स्वरूपेणैव विषयग्रहणात् । न च तादात्म्य
प्रतिबन्धो मणिप्रभयोर्भेदात् विषयो चाधिगते ज्ञानस्य प्रमाणाप्रमाणत्वञ्‍चेति ।


8b तेन हि निर्विषया कस्यचित्प्रवृत्तिरस्त्यत्र च मणिज्ञानं प्रभाविषयं
न च प्रभा मणिर्येन यथाध्यवसायं प्रवर्त्तमानः स कृती स्यात् । अनुमानन्तु लिङ्गरू
पतां न व्यभिचरति अनर्थजन्यतया च तन्मिथ्याज्ञानं भ्रान्तन्तु सामान्याकारेणा
विजातीयव्यावृत्तरूपता हि वस्तुनः स्थितैवान्यथा विजातीयतद्रूपमपि तद्वस्तु
स्यादिति तदाकारो वस्तुसन्धायी । प्रभायान्तु न मणिरूपता विजातीयव्यावृत्त
रूपास्ति प्रभामात्रालम्बनत्वात् अनुमानस्य त्वनुमेयाकारत्वेन वस्तुसंस्पर्शात्
सति प्रतिबन्धे प्रामाण्यं प्रभायान्तु मणिज्ञानं नैवमिति नेदमनुमानम्
अत एव वादिप्रतिवादिप्रसिद्धपक्षाद्वहिःस्थितमिति दृष्‍टान्तीकृतं प्रतिबन्ध
स्यात्यन्तमाहात्म्यप्रदर्शनार्थं यदेवं प्रकारमविसम्वादकं परमार्थेन त्वप्रमाणमेवेद
मि
त्यन्तं मिथ्याज्ञानत्वादत एव शास्‍त्रकारो वक्‍ति ।


मिथ्याज्ञानाविशेषेपि विशेषोऽर्थक्रियां प्रतीति ।


एतदेव व्याचष्‍टे । अत्र हि मिथ्याज्ञानात्प्रदीपप्रभायां मणिरूपेण ग्रहणान्‍नेदं
विशिष्यते किन्तु मिथ्याज्ञानमेवेदं कपा.......पुटकुञ्‍चिकाविवरदृश्यमानायां
प्रदीपप्रभायां मणिज्ञानवत्मिथ्याज्ञानत्वमनूद्य व्यतिरेकमाह विशेषोऽर्थ
क्रियां प्रती
ति । अपिशब्दस्त्वत्रातिशये । तदेवं शास्‍त्रकारवचनं न्यायञ्‍चोल्लंध्य
यत्प्रामाण्यप्रतिपादनं तदत्र कपटप्रकटनमित्यसारविचाराद्विरम्यते ॥


१२

एवमपि यदा सम्वति(?) तदानुमानस्य सुतरामविसंवादः


१३

१।३७ यद्यप्यपूर्वसत्वाप्रादुर्भावो बुद्धाश्‍चापर्यन्तास्त्र्यध्वसु तथापि
न संसारक्षयोस्त्याकाशाक्षयतापर्यन्ततेव । एकैकस्यां दिश्यन्तत्वात्सत्ववाहोः ॥


अन्यत्र गतचित्तोपि चक्षुषा रूपमीक्षते ।

तत्संकेताग्रहस्तत्र स्पष्‍टस्तज्‍जा च कल्पना ॥

सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।

अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥

तदुपेक्षिततत्वार्थैः कृत्वा गजनिमीलनम् ।

केवलं लोकबुद्‍ध्यैव बाह्यचिन्ता प्रतन्यते ॥