1

प्रमाणवर्त्तिकस्वव्रित्तिटीका

यो विध्वस्तसमस्तबन्धनगतिस्सम्यग् वशित्वे स्थितः ,
1b
सर्व्वज्ञेयविसारिनिर्म्मलतमज्ञानप्रबन्धोदयः ।

सत्त्वार्थोद्यतमानसश्च सुचिरं श्रीमञ्जुनाथो विभुः ,

तन्नत्वा बहुशोद्य वार्त्तिकगतं किञ्चिद्विवक्षाम्यहं ॥

टीकाकृतः सकल एव गुणः स एष ब्रूतेत्र वस्तुगहनेपि यदस्मदादिः ।

दिग्नागदन्तमु1 लैर्विषमेऽपनीते लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति

2यो मामवज्ञायति कोपि गुणाभिमानी जानात्यसौ किमपि तं प्रति नैष यत्नः ।

कश्चिद् भविष्यति कदाचिदनेन चार्थी नानाधियाञ्जगति जन्मवतां हि नान्तः ॥

यद्यपि हि शास्त्रारम्भे नमस्कारश्लोकोपन्यासमन्तरेण कायवाङमनोभिरिष्ट
देवतानमस्कारकरणेन पुण्योपचयादविघ्नेन शास्त्रस्य परिसमाप्तिर्भवति ।
तथापि व्याख्यातृश्रोतॄणां स्तुतिपुरस्सरया प्रवृत्त्या पुण्या
तिशयोत्पादात् पारार्थ्यं
सदाचारानुपालनं चालोच्य विशिष्टदेवतापूजाश्लोकमुपन्यस्तवानाचार्यः ।
विधूतकल्पनेत्यादि ।


यदा समन्तभद्रशब्दो रूढ्या बोधिसत्त्ववृत्तो न गृह्यते तदेयं बुद्धस्य
भगवतः पूजा । सा च द्विधा स्तोत्रतः प्रणामतश्च । नमःशब्देन प्रणामतः
परिशिष्टैः स्तोत्रतः । स्तोत्रमपि स्वार्थसम्पत्तितः परार्थसम्पत्तितः परार्थ
संप
दुपायतश्च त्रिधा । स्वार्थसम्पन्नश्च परार्थंप्रति समर्थो भवतीवि
2 प्रथमं पूर्व्वार्द्धेन स्वार्थसम्पदुक्ता । स्वार्थसम्पच्च कायत्रयलक्षणा त्रिभिर्व्विशे
षैर्व्विशिष्टोद्भाविता । आवरणप्रहाणविशेषेण । गाम्भीर्यविशेषेण । औदार्य
विशेषेण च ।


तत्रात्मात्मीयाद्याकारप्रवृत्ता ग्राह्यग्राहकाकारप्रवृत्ताश्च त्रैधातुकाश्चित्त
चैत्ताः कल्पना । सैव जालम्बन्धनात्मकत्वात् ।
तद्विधूतं विध्वस्तं सवासनं
पुनरनुत्पत्तिधर्मत्वमापादितं यासां मूर्त्तीनान्तास्तथोक्ताः । एतेनावरणप्रहाण
विशेष उक्तः । गाम्भीर्यौदार्यविशेषौ तु गम्भीरोदारपदाभ्यामुक्तौ । विधूत
कल्पनाजाला गम्भीराः श्रावकप्रत्येकबुद्धाद्यविषयत्वात् । उदारास्सकलज्ञेय
सकलसत्वार्थव्यापनात् । मूर्त्तयस्त्रयः कायाः स्वाभाविकसाम्भोगिकनैर्माणिका

यस्य भगवतः । असौ विधूतकल्पनाजालगम्भीरोदारमूर्त्तिः । भद्रं कल्याणमभ्यु
दयनिःश्रेयसलक्षणं । तत् समन्तान्निरवशेषन्तदर्थिनां यथा भव्यम्भवति यस्मात्
सकाशादसौ समन्तभद्रः । एतेन परार्थसम्पदुक्ता । अस्याश्च परार्थसम्पदः
समन्तस्फुरणत्विष
3 इत्यनेन सिद्ध्युपाय उक्तः । त्विषो रश्मय इह तु यथा
वस्थितवस्तुग्रहण
4
एवं साधर्म्येण धर्मदेशना । अभ्युदयनिःश्रेयससाधन
विषयास्त्विष इव त्विष उच्यन्ते । समन्तो निरवशेषः परार्थसाधनोपायः स्फर्यते
व्याप्यते विनयेभ्यः साकल्ये कथनात् याभिस्ताः समन्तस्फरण्यस्तत्र
तथाभूतास्त्विषो धर्मदेशना यस्य स समन्तस्फरणत्विट् । नमः शब्दयोगाच्च
सर्व्वत्र चतुर्थी ।
2a यदा तु रूढिरपेक्ष्यते तदायं समन्तभद्रश
5
ब्दो महायाने बोधिसत्वविशेषे
रूढ इति बोधिसत्वस्येयं पूजा पदार्थस्तु पूर्व्ववद् योज्यः । अयन्तु विशेषो
विधूतकल्पनाजालत्वं बोधिसत्वभूम्यावरणप्रहाणतो द्रष्टव्यं । गाम्भीर्यं श्रावक
प्रत्येकबुद्धपृथग्जनाविषयत्वतः । औदार्यन्तु बोधिसत्वमहात्म6तः ।
कायत्रयमप्यनुरूपं बोधिसत्वानां विद्यत ए
7व प्रकर्षगमनात्तु बुद्धानां व्यवस्थाप्यत
इति ॥


सन्त्येव हि सन्तोस्य
वा र्त्ति का ख्यस्य शास्त्रस्य ग्रहीतारस्तथापि श्रोतृदोष
बाहल्येन सन्तमप्युपकारमसन्तमिव कृत्वा सूक्ताभ्यासभावितचित्तत्त्वमेव शास्त्रारम्भे
कारणन्दर्शयन् । अयं च महार्थभ्रङ्शे हेतुदोषस्त्यक्तुं युक्त इत्येतच्च वक्रोक्त्या
कथयितुं द्वितीयं श्लोकमाह ।




3

प्रायःप्राकृतेत्यादि । अत्र चतुर्व्विधः श्रोतृदोष उद्भावितः । कुप्रज्ञत्वमज्ञत्वं
अनर्थित्वं अमाध्यस्थ्यञ्च । प्रायः शब्द ओकारान्तो
बाहुल्यवचनः । प्रायो जनो
भूयान् जनः । प्राकृतसक्तिः प्राकृतानि बहिःशास्त्राणि तत्र सक्तिर्यस्येति
गमकत्वाद् व्यधिकरणो बहुब्रीहिः । प्राकृता वा सक्तिर्यस्येति । समानाधिकरण एव ।
प्राकृतविषयत्वाच्च सक्तिः प्राकृता । अनेन कुप्रज्ञत्वं श्रोतृदोष उक्तः ।


अप्रतिबला शास्त्रग्रहणम्प्रत्यसक्ता प्रज्ञा यस्य सोप्रतिबलप्रज्ञः प्रायो जन
इति सम्बन्धः । अनेनाज्ञत्वमुक्तं
सुभाषितैर्नानर्थ्येव किन्तु सुभाषिताभिधायिन
म्विद्वेष्ट्यपीर्ष्यामलैः परिगतः सन् । अनर्थी च विद्वेष्टि चेत्यर्थः । एतेन यथा
क्रममनर्थित्वममाध्यस्थ्यं चोक्तं । अत्रापि प्रायो जन इति सम्बन्धनीयं ।


अन्ये तु प्रायश्शब्दस्या8कारान्तोप्यस्ति निपातः स च बाहुल्ये
नेत्यस्मिंस्तृतीयार्थे स्वभावाद्वर्त्तत इति व्याचक्षते । ईर्ष्या परसम्पत्तौ चेतसो
व्यारोषः । सैव मलश्चित्तमलि
नीकरणात् । व्यक्तिभेदाद् बहुवचनं । यत एवन्तेन
कारणेनायमारिप्सितो वा र्ति का ख्यो ग्रन्थः । परोपकारः परेषामुपकारः । उप
क्रियतेनेनेति करणे घञ् । परान् वोपकरोतीति परोपकारः कर्मण्यण्
पाणिनिः ३।२।१ । परोपकार इति नः अस्माकं चिन्तापि नास्ति । कथन्तर्हि
शास्त्ररचनायां प्रवृत्तिरित्याह । चेतश्चिरमित्यादि । चिरन्दीर्घकालं सूक्ताभ्यासेन
विवर्द्धितं व्य
सनं
सक्तिस्तत्परता सूक्ताभ्यासविवर्द्धितं व्यसनं यस्य चेतसस्त
त्तथोक्तं । इति हेतोरत्र वा र्त्ति क रचनायामनुबद्धस्पृहं जाताभिलाषं चेत इति ।
एवमेके व्याचक्षते ।


अन्ये त्वन्यथा । कस्मादयमाचार्य ध र्म्म की र्त्ति र्वार्तिकन्यायेन प्रमाणसमुच्च
व्याख्यां करोति न पुनः स्वतन्त्रमेव शास्त्रमित्यस्मिन् प्रश्नावसरे प्राह । प्राय
इत्यादि । अस्य श्लोकस्यायं समासार्थः । चिन्तया करुणया च
मे प्र मा ण स मु
च्च य व्याख्यायां चेतो जाताभिलाषमिति । चिन्ता करुणा च आचार्य दि ग्ना ग
रचितशास्त्रस्याल्पोपकारित्वेन । अल्पोपकारित्वञ्च श्रातृजनापराधेन । पदार्थ
स्तूच्यते । प्राय इति बाहुल्येन प्राकृतसक्तिर्जन इति सम्बन्धः । प्राकृत उच्यते

4 लोके नीचः । यस्य दुष्टोन्वयः । एवन्ती र्थि क शास्त्राणि परप्रणीतानि चाचार्यनीति
2b शास्त्रदूषणानि । विपर्यस्तज्ञानप्रभव
त्वाद् दुष्टान्वयाद् यतः प्राकृतानि । तेषु
सक्तिरनुरागो यस्य स तथोक्तः । कस्मात्पुनः प्राकृतसक्तिरित्याह । अप्रतिबल
प्रज्ञ इति । अतोसौ दुर्भाषितमपि सुभाषितमिति गृहीत्वा प्राकृते सज्यते । अप्रति
बलप्रज्ञत्वादेव चाचार्यसुभाषितानि स्वयं यथावदवबोद्धुमक्षमो दोषवत्त्वेन गृहीत्वा
तैराचार्यसुभाषितैरनर्थी । आचार्ये च विद्वेषवान् भवतीत्याह । केवलमित्या
दि ।
न केवलमनर्थी सुभाषितैराचार्यीयैरपि तु विद्वेष्ट्यपीर्ष्यामलैः परिगतः सन्नाचार्य
दि ग्ना गं किं भूतं सूक्ताभ्यासविवर्द्धितव्यसनं । व्यवहितेनापि सम्बन्धो भवत्येव ।


येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन स इति न्यायात् ।


शोभनमुक्तं सूक्तं भगवत्प्रवचनन्तत्राभ्यासस्तत्र विवर्द्धितं व्यसनन्तत्रैवात्यर्थमा
सक्तत्वं यस्याचार्यदिग्नागस्य स तथोक्तः । अनेनाचार्यदिग्नागस्यो
पचितपुण्यज्ञान
त्वमाह । उपचितपुण्यज्ञाना एव हि सूक्ताभ्यासविवर्द्धितव्यसना भवन्ति । येना
ऽप्रतिबलप्रज्ञ आचार्यसुभाषितैरनर्थी प्राकृतसक्तिश्च तेन कारणेनायं प्र मा ण स मु
च्च यो न परोपकारः । उपकरणमुपकारो भावे घञ् पाणिनिः ३।३।१८ । पर
उत्कृष्ट उपकारो नास्माद् भवतीति कृत्वा न परोपकारोऽल्पस्तूपकारोस्त्येव स च
प्रायशब्देन सूचित एव । इति शब्दो हेतौ
अस्माद्धेतोरस्माकं चिन्ता । महार्थ
मपीदं शास्त्रं न बहूनामुपकारकं जातन्तत्कथमस्यात्यर्थं साफल्यं कुर्यामित्येवमा
कारा । आचार्ये च बोधिसत्वकल्पे विद्वेषः स्वल्पोप्यनर्थहेतुरतोहमाचार्यनीतेरविप
रीतप्रकाशनेनाचार्ये बहुमानमुत्पाद्य ततोनर्थहेतोर्जनन्निवर्त्तयिष्यामीत्येवं दुःखवि
योगेच्छाकारा करुणाप्यपिशब्दात् । इत्यत्रानुबद्धस्पृहमिति द्वि
तीयेनेति शब्देन
चिन्ताकरुणयोर्हेतुत्वमाह । इत्याभ्यां चिन्ताकरुणाभ्यां चेतश्चिरं दीर्घ्रकालमत्र
प्र मा ण स मु च्च य व्याख्याभूत प्र मा ण वा र्त्ति क रचनायामनुबद्धस्पृहं सन्तानेन
प्रवृत्तेच्छमिति ॥


यदि प्र मा ण स मु च्च य व्याख्यां चिकीर्षुराचार्यधर्मकीर्त्तिः कस्मात् स्वात
न्त्र्येणानुमानं व्यवस्थापयतीत्याशङ्कामपनयन्नाह । अर्थानर्थेत्यादि । अर्थो हित

5 महितमनर्थस्त
योर्विवेचनन्तस्यानुमानाश्रयत्वादनुमानमाश्रयो यस्येति विग्रहः ।
अनुमानेन ह्यर्थानर्थौ निश्चित्यानुमानपृष्ठभाविना प्रबन्धप्रवृत्तेन ज्ञानेनार्थानर्थौ
यथाक्रमं प्राप्ति परिहारार्थम्विभागेन व्यवस्थापयति । तस्मादनुमानाश्रय
मर्थानर्थविवेचनं । तद्विप्रतिपत्तेरिति तस्मिन्न
9नुमाने विप्रतिपत्तेस्तद्व्यवस्था
पनायहि
त्येवमेके व्याचक्षते ।


अत्र त्विदं चिन्त्यं ।


यदि तावदेवमवधार्यतेर्थाऽनर्थविवेचनस्यैवानुमानाश्रयत्वादिति तन्न ।
अर्थानर्थाभ्यामन्यस्याप्युपेक्षणीयस्य तृतीयस्य विषयस्य यद्विवेचनन्तस्याप्यनुमाना
श्रयत्वात् अर्थानर्थविवेचनस्य चानियतत्वात् । प्रत्यक्षाश्रयत्वमनिवारितमिति
कोतिशयोनुमानस्य ख्यापितो येन तदादौ व्युत्पाद्यते ।
10 अथाप्येवमवधार्यते ।
अर्थानर्थविवेचनस्यानुमानाश्र
यत्वादेवेति । तथाप्ययुक्तमवधारणं । अर्थानर्थविवे
चनस्य प्रत्यक्षाश्रयत्वादपि । तथा ह्यर्थानर्थौ विभक्तरूपावेव प्रत्यक्षे प्रतिभासेते । 3a
तच्च प्रत्यक्षमभ्यासातिशयसमासादितपाटवतया अपसारितभ्रान्तिनिमित्तं पाश्चा
त्यमर्थानर्थविवेचनविकल्पं जनयति । एतदे हि प्रत्यक्षस्यार्थानर्थविवे11
चनाश्रयत्वं यदर्थानर्थौ विभागेनानुभूय यथानुभवन्तत्र निश्च
यजननं ।


न च शक्यम्वक्तुं पाश्चात्येनैवार्थानर्थौ विभक्ताविति । विकल्पेन वस्तु
स्वरूपस्याग्रहणाद् ग्रहणे वा विकल्पकत्वहानेर्विकल्पानुबद्धस्य प्रमातुः स्पष्टार्थ
प्रतिभासित्वविरोधात् ।


यत्र तु क्वचिद् विषये पाटवाभावाद् भ्रान्तिनिमित्तापनयनासमर्थं प्रत्यक्षं
तत्रानुमानान्निश्चयः प्रार्थ्यते न सर्वत्र तस्मात् प्रत्यक्षे स्वतः परतश्च
प्रामाण्यनिश्चयः । निश्चाययिष्यते चायमर्थो द्वितीय
परिच्छेद इति नेह
प्रतन्यते ।


अवश्यं च प्रत्यक्षस्याभ्यासबलादपसारितभ्रान्तिनिमित्तस्य यथानुभवन्नि
श्चयजननात् स्वतोर्थानर्थविवेचनाश्रयत्वमेष्टव्यमन्यथानुमानस्यापि व्यवस्था न
स्याद् धूमादेर्लिङ्गस्यानिश्चयात् । धूमादेरप्यनुमानात् प्रतिपत्तावनवस्था स्यात् ।
तत्रापि लिङ्गान्तरस्यानुमानान्तरेण निश्चयादिति ।


यदि च प्रत्यक्षमर्थानर्थविवेचनस्यानाश्रय
स्तदा शास्त्रकारेण प्रकरणान्तरे
यदुक्तं हिताहितप्राप्तिपरिहारयोर्नियमेन सम्यग्ज्ञानपूर्वकत्वादित्यादि
तद् बाध्येत । तथा न ह्यस्यामर्थम्परिच्छिद्येत्यादि । पुनश्चोक्तं


6 दृष्टेषु सम्वित्सामर्थ्यभाविनं स्मरणादि त्यादि ।


तस्मादन्यथा व्याख्यायत इत्यपरे । आचार्य दि ग्ना ग प्रणीतं प्रमाणलक्षणा
दिकमर्थो युक्तत्वात् । ती र्थि क प्रणीतं न युक्तत्वादनर्थस्त
योर्विवेचनं युक्ता
युक्तत्वेन व्यवस्थापनन्तस्यानुमानाश्रयत्वात् । अनुमानमेव ह्याश्रित्य लक्षणवा
क्यानां युक्तायुक्तत्वं व्यवस्थाप्यन्नं प्रत्यक्षन्तस्याविचारकत्वादिति ।


तदप्ययुक्तं । यतो लक्षणवाक्यानां न स्वरूपेण युक्तायुक्तत्वमपि त्वर्थद्वा
रेण स चार्थो यथानुमानेन युक्तः प्रतीयते तथा प्रत्यक्षेणापि । तथा च
वक्ष्यति


प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्र० वा० । १२३
तथा


पक्षधर्मत्वनिश्चयः प्रत्यक्षत इत्यादि ।

योपि मन्यते सत्यमर्थानर्थविवेचनं प्रत्यक्षानुमानाभ्यां क्रियत एव
केवलं यदर्थानर्थविवेचनस्यानुमानाश्रयत्वमुच्यते तत्प्रत्यक्षविषयेपि विवाद
सम्भवे सति नानुमानादन्यन्निर्ण्णयनिबन्धनमस्त्यतोनुमानस्य प्राधान्यात्तद्विवेचना
श्रयत्वमुक्तमिति ।


एतदप्ययुक्तं । यतः प्रत्यक्षस्य स एव विषयो व्यवस्थाप्यते यो निश्चितो

न च निश्चिते विवादः सम्भवतीत्ययुक्तमेतत् ।


अन्यस्त्वाह अर्थानर्थविवेचनमनुमानादेव भवति न प्रत्यक्षात् । यतो
येर्थानर्था अनुभूतफला अनुभूयमानफला वा न ते प्रवृत्तिविषया निष्पन्नत्वात् फलस्य ।
तस्मादनागतार्थक्रियार्थन्तत्समर्थेष्वर्थानर्थेषु प्रवृत्तिः । न च तत्सामर्थ्यन्तेषु प्रत्य
3b क्षेण प्रतीयते येन प्रवृत्तिविषयत्वं स्यात् । प्रवृत्तिसाध्यार्थक्रियाया भा
वित्वेन
तत्सामर्थ्यकुर्वद्रूपतास्यापि भावित्वात् । तस्मात् पूर्वानुभूतार्थक्रियासाधन
वस्तुसाधर्म्यात् प्रत्यक्षेष्वपि वस्तुष्वनागतफलयोग्यतानिश्चयो न प्रत्यक्षत
स्तेनानुमानादेवार्थानर्थविवेचनमिति ।


तदप्ययुक्तं । यतो यदि सा योग्यता कुर्वद्रूपता र्थेषु वर्त्तमानकालभाविनी
तदाभ्यासातिशयवतापि प्रत्यक्षेण निश्चीयेत । लिङ्गवत् । अथानागतैव सा
तदानुमानेनापिनिश्चीयेतानागतेर्थे
नुमानाभावादिति वक्ष्यति ।


एतेन यदुच्यते प्रवृत्तिविषयवस्तुप्रापणं प्रत्यक्षानुमानयोरविशिष्टमि ति
तदपि निरस्तं द्रष्टव्यं । अनागतार्थक्रियासमर्थो हि प्रवृत्तिविषयो न च तत्सा
मर्थ्यं प्रत्यक्षानुमानाभ्यां निश्चीयत इत्युक्तं । परिच्छिन्नश्च प्रवृत्तिविषय इष्यते
न च सन्तानः प्रत्यक्षादिक्षणेन परिच्छिन्नस्तत्कथं प्रवृत्तिविषयः ।



7

अथैकस्मिन् क्षणे प्रत्यक्षं प्रवृत्तमपि नि
श्चयवशात् क्षणसामान्यविषयत्वे
नैकसन्ततिविषयन्तदयुक्तं । प्रतिभासमानेनैव हि विषयेण निश्चयवशात् प्रत्यक्षं
सामान्यविषयं व्यवस्थाप्यते न परमार्थतः । स्वलक्षणविषयत्वात् । यथा लिंग
विषयं प्रत्यक्षं । तथा हि प्रतिभासमानमिदं धूमस्वलक्षणन्तार्ण्णम्वा पार्ण्णम्वा
न्यद्वा सम्भवति तत्र च विशेषानवधारणेन क्षणमात्रनिश्चयेन च स्वलक्षण
विषयमपि सामान्य
विषयं प्रत्यक्षं व्यवस्थाप्यते । प्रत्यक्षपृष्ठभाविनो निश्चयस्य
प्रत्यक्षविषयानुसारित्वात् । न पुनरेकक्षणविषयम्प्रत्यक्षमेवं व्यवस्थापयितुं
शक्यते यतो यः प्रत्यक्षे प्रतिभासते क्षणो नासौ निश्चितो नापि पूर्वक्षणरूपो परक्षण
रूपो वा सम्भवति भिन्नकालत्वात् । तत् कथन्तत्र विशेषानवधारणेन क्षण
मात्रनिश्चयेन च क्षणसामान्यविषयं प्रत्यक्षं व्यवस्थाप्येत । प्रत्यक्ष
पृष्ठभाविनः स
एवायमिति निश्चयस्य सामान्यविषयत्वेपि न सन्तानविषयत्वं । प्रतिपन्नप्रतीय
मानयोर्विषयीकरणेनानागतक्षणानिश्चयाद् विजातीयव्यावृत्तरूपविषयत्वाच्चात
एव क्षणस्य प्रतिभासेप्ययं घट इति ज्ञापननिश्चयः ।


ननु यद्यर्थक्रियासमर्थो वस्तुसन्तानोप्रत्यक्षानुमानाभ्यां परिच्छिद्यते
कथन्तर्हि तयोः प्रवर्त्तकत्वम् वस्तुस्वरूपमात्रपरि
च्छेदादिति ब्रूमः । तथा
ह्यग्न्यादिकम्वस्त्वेकत्र प्रबन्धवृत्त्या दाहाद्यर्थक्रियासमर्थं प्रत्यक्षेण निश्चिन्वन्नन्य
त्रापि देशादावेतदुपलभ्यमानं प्रबन्धवृत्त्यैवेदृग्विधार्थकारीति निश्चाययति ।
स एव पुनः कालान्तरे फलार्थी तत्स्वरूपम्पर्येषमाणोग्न्यादिकं प्रत्यक्षानुमाना
भ्यां दृष्ट्वा तदेवेदमिति निश्चयपूर्व्वकं प्रवर्त्तते । तेनायमर्थस्तत्स्वरूपमात्रपरिच्छेदे
प्रमाणव्यापारो न प्रबन्धवृ
त्तिपरिच्छेदे । नाप्यर्थक्रियासामर्थ्यपरिच्छेदे पूर्व
मेवास्य सर्वस्य परिच्छिन्नत्वात् । तेन प्रत्यक्षानुमानयोः प्रवर्त्तकत्त्वं युक्तमेव ।
कथन्तर्ह्यर्थानर्थविवेचनस्यानुमानाश्रयत्वमुक्तम् ।... ... ...
... ... ...
त नैवात्रार्था12 नाभिप्रेतमपि तु चतुरार्यसत्यं । यतो
मुक्त्यर्थिनो वयं मुक्तिश्च चतुरार्यसत्यदर्शनाद् भवतीति भगवतोक्तं तद्दर्शनञ्च

भावनाभ्यासतो निष्पद्यतेभावनायां प्रवृत्तिश्च चतुरार्यसत्यनिश्चयेन 4a
तन्निश्चयश्च परोक्षत्वादनुमानादेव भवतीत्यर्थानर्थविवेचनाश्रयत्वमनुमानस्यैव ।


अर्थो निरोधमार्गावुपादेयत्वादनर्थो दुःखसमुदयौ त्याज्यत्वात् । यद्वार्थः
परमार्थसत्यमनर्थः संवृत्तिसत्यं तयोर्यद् विवेचनं स्वरूपेण व्यवस्थापनन्तस्यानु
मानाश्रयत्वात् । अर्थानर्थविवेचनकारि च सर्वं ज्ञानं
न स्वलक्षणं गृह्णात्यपि
त्वध्यवस्यतीति भ्रान्तमेव तेन यदि शब्दादिज्ञानमर्थानर्थविवेचनाश्रयमिष्यते
तदपि भ्रान्तत्वादप्रमाणमेव अत एव न तस्येह व्युत्पाद्यताप्रसंगः । अनुमानस्य

8 तु भ्रान्तत्वे सत्यपि प्रतिबन्धवशात् प्रामाण्यं शब्दादिज्ञानस्य त्वेवं
प्रामाण्येभ्युपगम्यमानेऽनुमानेन्तर्भावादपक्षधर्मस्यागमकत्वादर्थानर्थविवेचनाश्रयत्व
मनुमानस्यैव ।


ननु प्रतिब
न्धवशादनुमानस्य प्रामाण्ये नित्यादिविकल्पस्यापि प्रामाण्यं
स्यात् क्षणिकाद्यर्थे प्रतिबन्धाद् अथाध्यवसितार्थप्रतिबन्धेन प्रामाण्यं मणिप्र
भायाम्मणिज्ञानस्य प्रामाण्यं स्यात् । तदपि ह्यध्यवसितेन मणिना सम्बद्धन्त
स्मात् सत्यपि प्रतिबन्धे यद्देशादिसम्बन्धितया योर्थोध्यवसितस्तद्देशादिसम्बन्धितया
सन्तानैकत्वाध्यवसायात् तमर्थं प्रापयदनुमानज्ञानं प्रमा
णमेव । न सर्वं ज्ञानं ।


अर्थानर्थविवेचनं चाधिगमरूपमाकारोनुमानम्प्रमाणत्वात् । यद्वा लिङ्ग
मेवानुमानमतोर्थानर्थविवेचनस्यानुमानाश्रयत्वं । तद्विप्रतिपत्तेरिति तस्मिन्ननुमाने
सम्मोहात् । तद्व्यवस्थापनाय तस्यानुमानस्य विप्रतिपत्त्यपनयनेनावस्थापनायाह
सू त्र का रः ।


पक्षधर्म इत्यादि ।


यद्यनुमानं व्यवस्थाप्यं कस्मात् पक्षधर्म इ
त्यादिना हेतुमेव व्यवस्थापयतीति
चेत् ॥ अदोषोयं । हेतुविप्रतिपत्तिद्वारेणानुमाने विप्रतिपत्तेस्तद्व्युत्पत्तिद्वारेणैव
तस्य व्यवस्थापनं । अनुमानज्ञानं च त्रिरूपलिंगादुत्पद्यमानं लोकप्रतीतमेवातो
विप्रतिपत्तिः प्रतीत्यैव निराक्रियते ।


यद्वानुमानशब्देन यदा लिङ्गमेवोच्यते तदा तद्विप्रतिपत्तेर्हेतुमेव व्यवस्था
पयतीत्यदोषः ।


अत्र
श्लोके लिंगस्य लक्षणं संख्यानियमः संख्यानियमकारणम्विपक्षनिवृत्ति
श्चोक्ता । पक्षधर्मस्तदङ्शेन व्याप्त इति लक्षणं ।


तस्य पक्षस्याङ्शः साधयितुमिष्टो र्मस्तेन व्याप्त एवेत्यवधारणं
त्रिधैवेति संख्यानियमः । अविनाभावनियमादिति संख्यानियमकारणं ।
त्रिष्वेवाविनाभावस्य नियतत्वादित्यर्थः । हेत्वाभासास्ततोपर इति विपक्षनिवृत्तिः ।

तस्माद्धेतुत्रयादन्ये हेत्वाभासाः ।



9

ननु यदि तदंशव्याप्तिर्दृष्टान्त एव गृह्यते । तदानुमानस्योत्थानन्न स्यात् ।
साध्यधर्मिणि साध्यधर्मेण हेतोर्व्याप्त्यग्रहात् । तदा च पक्षधर्मो हेतुरिति व्यर्थं
लक्षणमगमकत्वात् । सर्वोपसंहारेण व्याप्तिग्रहणेपि नानुमानस्य प्रामाण्यं
स्यात् । व्याप्तिग्राहकप्रमाणप्रतिपन्नविषयत्वेन स्मृतिरूपत्वात् । पक्षधर्मो
हेतुरिति
च न वक्तव्यन्तदङ्शव्याप्तिवचनेनैव गतत्वात् । तदङ्शव्याप्तिबलेन 4b
च पक्षधर्मस्य गमकत्वन्नं पक्षे सत्तामात्रेण तत्रस्थस्य गर्दभादेरगमकत्वात् । तस्मान्नं
पक्षधर्मो हेतुरिति पृथग् लक्षणम्वक्तव्यं ।


तदुक्तम् ।


अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ।

नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किमिति ।

किं चानुपलब्धेस्तावन्न पक्षधर्मत्वमन्योपलब्धेः पुरुषधर्मत्वात् । स्वभावहेतोश्च

र्मिरूपत्वात् कार्यहेतोरपि स्वातन्त्र्येण धर्म्यनपेक्षत्वात् । न च कल्पितस्य
पक्षधर्मस्य कार्यस्वभावहेतुत्वं साध्यव्याप्तिश्चेति न पक्षधर्मो हेतुरिति वक्तव्यं ।


तथा यदि हेतुत्वेन त्रित्वं व्याप्तन्तदा हेतुत्वस्यानियतत्वादन्यत्रापि संयोग्या
दिषु हेतुत्वमनिवारितमेवेति त्रिधैवेत्यवधारणं न युज्यते ।


अथ हेतुत्वं त्रित्वेन व्याप्तन्तदा त्रित्वस्य हेतावनियतत्वात् कार्यादीनामप्य
हेतु
त्वन्ततश्च कार्यादेरेव हेतुत्वमिति न घटते ।


किं च । यद्यनुपलम्भस्य साध्यप्रतिबन्धो नास्ति तदाऽप्रतिबद्धोपि हेतुर्गमक
इति त्रिधैव स इति नियमो न घटते


अथ प्रतिबन्धोस्ति तदा कार्यस्वभावयोरेवान्तर्भावात् त्रिधैव स हेतुरिति
तथापि न युज्यते । हेत्वाभासास्ततोऽपर इति न युक्तं हेत्वन्तरस्यात्यन्तपरोक्षत्वान्न
तदभावः प्रत्यक्षादिनिश्चित इत्ययुक्तमुक्तं ।


पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।
अविनाभावनियमाद्धेत्वाभासास्ततोऽपर इति

अत्रोच्यते । यद्यपि साध्यसाधनयोर्व्याप्तिः सर्वोपसंहारेण प्रतिपन्ना तथापि
न व्याप्तिग्रहणमात्रादिह साध्यधर्मिणीदानीं साध्यधर्म इति विशेषेण निश्चयो
भवत्यनुमानात्तु स्यात् । तस्माद् प्रतिपन्नविशिष्टदेशादिसम्बन्धिसाध्यार्थ
प्रतिपादकत्वेन प्रमाणमेवानु
मानन्तच्च पक्षधर्मत्वे सत्येव भवति नान्यथा । यतो
नान्यदेशादिस्थेन साध्यधर्मिणान्यदेशादिस्थः साधनधर्मः सम्बद्धोऽतो विशिष्टदेशा
द्यवच्छिन्नसाधनावगतिसामर्थ्यादेव विशिष्टदेशाद्यवच्छिन्नसाध्यप्रतीतिरेवा
नुमानं न तु धममात्रादग्निमात्रप्रतीतिस्तस्या व्याप्तिग्राहकप्रमाणफलत्वात् ।

10 नापि यत्र साधनधर्मस्तत्र साध्यधर्म इत्यविशेषेणावगमेपि सा
धनस्य
पक्षधर्मत्वं सिध्यति साध्यधर्मिधर्मतया विशेषेणाप्रतीतेः सामान्येनाभिधानात् ।
तस्माद् विशिष्टदेशाद्यवच्छिन्नसाध्यप्रतिपत्तये पक्षधर्मत्वन्दर्शनीयं ।


तेन यदुक्तं यत्र यत्र धूमस्तत्र तत्राग्निरित्यनेनैव पक्षधर्मस्योक्तत्वात् प्रदेश
विशेषेग्निसिद्ध्यर्थन्धूमश्चात्रेति न वक्तव्यमुक्तार्थत्वादि
ति तदपास्तं ॥


नन्वेवमनुमानस्यं प्रामाण्येऽपक्षधर्म्ममप्यनु
मानं प्रमाणं स्यादप्रतिपन्नाधि
गमात् । यथाऽधस्तान्नदीपूरन्दृष्ट्वोपरिवृष्ट्यनुमानं । तथा शिशुरयं ब्राह्मणः
मातापित्रोर्ब्राह्मण्यादिति । तदुक्तं ।


नदीपूरोप्यधो देशे दृष्टः सन्नुपरिस्थितां ।

नियम्यो गमयत्येव13वृत्तां वृष्टिं नियामिकां ॥

एवं प्रत्यक्षधर्मत्वं ज्येष्ठं हेत्वङ्ग14मिष्यते

तत्पूर्वोक्तान्यधर्मत्वदर्शनाद् व्यभिचार्यते ॥

5a
पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मण
तानुमा ।

सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ॥

क्लेशेन पक्षधर्मत्वं यस्तत्रापि प्रकल्पयेत् ।

न संगच्छेत तस्यैतल्लक्ष्येण सह लक्षणं ॥

यथा लोकप्रसिद्धं च लक्षणैरनुगम्यते ।

लक्ष्यस्य लक्षणमेवं स्यात् तदपूर्वन्न साध्यत इति ।

अत्रोच्यते । कस्मादुपर्येव वृष्ट्यनुमानं नान्यत्र पूरस्य तत्सम्बन्धि
त्वादि
15ति चेत् । यद्येवं यतोयं नदीपूर आयातस्तत्र
वृष्ट्यनुमानन्नान्यत्र व्यभि
चारात् । परस्य च तत्सम्बन्धित्वनिश्चये सति गमकत्वमन्यथानैकान्तिकत्वं
स्यात् । तथा शिशुरयं ब्राह्मणः मातापित्रोर्ब्राह्मण्यादित्यत्रापि यस्यैव शिशो
र्ब्राह्मण्यं साध्यन्तस्यैव मातापितृब्राह्मण्यलक्षणो धर्मः सम्बन्धी गमको न मातापितृ
ब्राह्मण्यमात्रमन्यसम्बन्धिमा16तापितृब्राह्मण्यस्यागमकत्वात् । तेनास्यापि
पक्षधर्मत्वे सति गमकत्वमतो
न क्लेशेन पक्षधर्मत्वकल्पना यद्वा य एवाव्यभि
चारे निमित्तं स एव हेतुर्यथा धूमस्याग्निकार्यत्वं ब्राह्मणभूतमातापितृजन्यत्वं
च शिशोर्ब्राह्मण्यनिमित्तमिति तदेव हेतुर्युक्तोन्यस्य तत्कल्पना क्लेशेन स्यादिति ।
तथा न चन्द्रोदयात् समुद्रवृद्ध्यनुमानं चन्द्रोदयात् पूर्वं पश्चादपि17
11 तदनुमानप्रसङ्गात् । चन्द्रोदयकाल एव तदनुमानन्तदैव व्याप्तेर्गृहीतत्वा

दिति चेत् ।


यद्येवन्तत्कालसम्बन्धित्वमेव साध्यसाधनयोः । तदा च स एव कालो धर्मीं
तत्रैव च साध्यानुमानं चन्द्रोदयश्च तत्सम्बन्धीति कथमपक्षधर्मत्वम् अथ
कालो नेष्यते न तदा तर्ह्येतदनुमानम्व्यभिचाराद् अथ बौ द्धा नामेतदनुमान
न्नास्ति कालाभावात्


तदयुक्तं । पूर्वाह्णादिप्रत्ययविषयस्य महाभूतविशेषस्य काल इत्यभिधेय
स्याभ्युपगमात् ।
एवमन्यत्रापि पक्षधर्मत्वं योज्यं ।


ननु भवतु पक्षधर्मत्वे सत्यनुमानस्य प्रामाण्यन्तथापि पक्षधर्म इति पृथग्
लक्षणं न कर्त्तव्यन्तदङ्शव्याप्तवचनेनैव गतत्वात् ।


सत्यं किन्त्वपक्षधर्मस्यापि साध्यव्याप्तस्य हेतुत्वनिरासार्थं कृतं । महान
सादिदृष्टधूमादि चोदधावग्न्यनुमाने ।


ननु व्याप्तस्य लिङ्गत्वं न च महानसादिगतो धूम उदधौ साध्येनाग्निना

व्याप्तः


सत्यं केवलं व्याप्तो हेतुरित्येतावन्मात्रकेण लक्षणवचनेन यत्रैव व्याप्यधर्म
स्तत्रैव व्यापकधर्मानुमानमित्येतन्न लभ्यते । ततश्चान्यत्रापि साध्यानुमाना
शङ्कानिवृत्त्यर्थं पक्षधर्मवचनं । अनुपलब्धेरपि पक्षधर्मत्वमस्त्येव । यदा ह्यन्यस्य
भूतलादेरुपलम्भजननयोग्यतैवान्यानुपलब्धिस्तदा योग्यतान्यभूतलादिस्वभावेति

कथन्नानुपलब्धेः पक्षधर्मत्वं । कृतकत्वादेरप्येवं शब्दादिधर्मत्वं । पुरुषधर्मरूपाया
अप्यनुपलब्धेरन्यभूतलादिकार्यत्वमेव परमार्थतस्तद्धर्मत्वन्तदायत्तत्वात् । धूमा
देरपि कार्यस्यैवं प्रदेशादिधर्मत्वङ्केवलम्विकल्पेन तेषां सम्बन्धिस्वरूपमेव
पक्षस्यायं धर्म इति व्यवस्थाप्यते ।


हेतुत्वं च धूमादेरविनाभावेन व्याप्तमज्ञातावि
नाभावस्यागमकत्वेनहेतु- 5b
त्वात् । अविनाभावश्च कार्यस्वभावाभ्यां व्याप्तः । विधिप्रतिषेधयोश्च साध्यत्वे
सत्यर्थान्तरविधाने कार्यहेतोः स्वभावहेतोः प्रतिषेधे चानुपलब्धेस्तेन हेतु
स्त्रित्वेन व्याप्तोऽतोसौ त्रिविध एव भवति । न तु त्रिविधो हेतुरेव कार्यादेरप्य
ज्ञातस्याहेतुत्वात् । कारणव्यापकानुलब्द्योरपि प्रतिबन्धादेव गमकत्वं ।

तथा हि यत एव प्रतिबन्धात् कार्यव्याप्ये कारणव्यापके गमयतः । तत एव
प्रतिबन्धात् कारणव्यापकानुपलब्धी कार्यव्याप्याभावङ्गमयतः । स्वभावानुपल
ब्धावपि यदा घटादेरुपलम्भजननयोग्य आत्मा उपलब्धिरुच्यतेन्यहेतुसाकल्ये
चोपलम्भाव्यभिचारादुपलब्धिः सत्ता तदानयोस्तादात्म्यन्तेनात्रापि पक्षे प्रति

12 बन्धनिबन्धनमेव गमकत्वं । न चानु
पलब्धेः कार्यादिहेतावन्तर्भावः स्वसाध्ये
प्रतिबन्धानपेक्षत्वात् । हेतोश्च सकाशात् साध्यप्रतीतिस्तदायत्तत्वे सति स्यात्
न च संयोगे सति तदायत्तत्वमसंयुक्तानां संयोगाभावात् संयुक्तानामपि न
संयोगतस्तदायत्तताऽन्यत एव संयुक्तानामुत्पत्तेः । एवं समवायेपि वाच्यं । तस्मा
त्तदायत्तत्वन्तादात्म्यतदुत्पत्तिभ्यान्तेन कार्यस्वभावानुपलम्भबहिर्भूतानां संयो

ग्यादीनामहेतुत्वन्तदायत्तत्वाभावेनाविनाभावाभावात् ।


अथ तदायत्तत्वमस्ति तदेव तर्हि गमकत्वे निमित्तमिति स हेतुस्त्रिधैवेति सिद्धं ।


ननु तथापि कथमनुमानस्योत्थानन्निर्विकल्पकप्रत्यक्षेण धर्मधर्मितत्सम्बन्धा
ग्रहात् स्वातन्त्र्येण वस्तुद्वयाधिगतेः ।


उच्यते सविकल्पकेनापि धूमप्रदेशादीनां धर्मधर्मिभावग्रहणमुपर्युपरि
भावप्रतिभास
एव स च निर्विकल्पकेप्यस्ति केवलं विकल्पेतरयोर्ज्ञानयो
रुल्लेखानुल्लेखकृतो विशेषः तच्च निर्विकल्पकं ज्ञानं यथागृहीतविषयमेवेद
मिहास्तीदं नास्तीति विधिप्रतिषेधं जनयत् प्रमाणमिष्यते । तेन धर्मधर्मिणोः
स्वरूपनिश्चयः सम्बन्धनिश्चयप्रत्यक्षकृत18 एव भवतीति ॥


पक्षधर्म इत्युक्तं सूत्रे पक्षधर्मश्च धर्मधर्मिसमुदायः । न च प्रतिवादि
नं
प्रति समुदायधर्मत्वं हेतोः सिद्धन्तेन स सर्वो हेतुरसिद्धः स्यात् । सिद्धौ वानुमानस्य
वैयर्थ्यमित्याह ।


पक्षो धर्मीति । अवयवे समुदायोपचारात् । एकदेशत्वं च समुदायोपचारनि
मित्तन्तेन न दृष्टान्तधर्मी पक्ष उच्यते ।


ई श्व र से नः प्राह । धर्मिध र्म्मो हेतुरित्येतावद् वक्तव्यं प्र19योजनाभा
वादनुपचार इति
। तदाह । प्रयोजनेत्यादि । नेत्यादिना प्र
तिषेधति । न प्रयो
जनस्याभावः । कथं । सर्वधर्मिधर्मप्रतिषेधार्थत्वादुपचारस्येत्यपेक्ष्यते । असत्युपचारे
धर्मिधर्म इति निर्देशः कार्यः । तथा च दृष्टान्तधर्मिणोपि धर्मो हेतुः स्यात् । उपचारे
तु सर्वस्य धर्मिणो धर्मः प्रतिषिद्धो भवति ॥ कथ मिति चेदाह । तदेकदेशत्वादि20
6a तथा हि समुदायस्यावयवेषूपचारः ।
तदेकदेशत्वंनिबन्धनत्वेन न सर्वत्रोपचारः ।
साध्यधर्मी च तदेकदेशत्वात् पक्षस्यावयवत्वात् पक्षोपचारयोग्यस्तस्य यो धर्म
स्तत्प्रतिपत्त्यर्थमुपचारकरणं । तथा चेत्युपचारयोग्यधर्मिप्रतिपत्तौ चाक्षुषत्वादि
परिहारः
। आदिशब्दात् काकस्य कार्ष्ण्यादित्यादि ॥
13 ननु यदि चाक्षुषत्वादिति
21 चक्षुर्विज्ञानविषयत्वादिति हेत्वर्थस्तदायं हेतु
रनैकान्तिकत्वात् तदङ्शव्या
प्तिवचनेनैव निरस्त इति किमुपचारेण । अथ
चक्षुर्विज्ञानजनकत्वादिति हेत्वर्थस्तदापि तज्जनकत्वं सत्त्वमेव तच्च शब्दे
प्यस्तीति न दृष्टान्तधर्मिधर्म एवायमिति कश्चित् ॥


तदयुक्तं । चक्षुर्विज्ञानजनकत्वं हि सत्त्वविशेषः स च घटादीनामेव धर्मो न
ब्दस्यातस्तन्निवृत्यर्थमुपचार22करणं । न त्वसत्यप्युपचारे व्याप्तस्य लिंगत्वं
न च शब्दानित्यत्त्वेन चाक्षुषत्वं
व्याप्तन्तत्कथमस्य लिङ्गत्वं ॥


नैष दोषः । अनित्यत्वमात्रेण ह्यस्य व्याप्तत्वन्तच्च शब्देप्यस्तीति कथम
हेतुत्वं स्यात् ॥


धर्मवचनेनेत्यादि । धर्मस्तदंशेन व्याप्त इति केवलेन धर्मवचनेनापि धर्मि
परतन्त्रत्वाद् धर्मस्यावश्यमसौ धर्मिणमाक्षिपति तेन धर्मिआश्रयणमाश्र
यः परिग्रहस्त23स्य सिद्धौ सत्यां यदेतद्धर्मिधर्म इत्यत्र धर्मिग्रहणन्तस्य सामर्थ्यात्
प्रत्यासत्तिरिह
विवक्षितेति गम्यते व्याप्तिविवक्षायां धर्मिग्रहणमनर्थकं
स्यात् । तस्माद् धर्मिवचनसामर्थ्यात् प्रत्यासत्तिः सिद्धा प्रत्यासत्तिश्च
साध्यधर्मिण एव तत्र प्रथमं हेतूपदर्शनात् । तया प्रत्यासत्त्या साध्यधर्मिपरिग्रहो
भविष्यति । न प्रत्यासत्तेः साध्यधर्मिपरिग्रहः कुतोः दृष्टान्तधर्मिणोपि न
केवलं साध्यधर्मिणः प्रत्यासत्तेः । कदाचिद् व्याप्तिदर्शनपूर्वके प्रयोगे दृ
ष्टान्त
धर्मिणोपि प्रथमं हेतुसद्भावोपदर्शनात् ॥


यदि न प्रत्यासत्तेः साध्यधर्मिसिद्धिः पारिशेष्यात्तर्हि भविष्यति । यतस्तदं
शव्याप्त्या
हेतुभूतया दृष्टान्तधर्मिणि धर्मस्य सत्त्वसिद्धिः । न हि दृष्टान्तमन्तरेण
हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते । ततो धर्मिग्रहणाद् व्यति
रिच्यमानात् साध्यधर्मिण एव परिग्रहः । तदंशेनेति च तच्छब्देन धर्मवच
नाक्षिप्तो
धर्मी सम्बध्यत इति तत्सम्बन्धनार्थमपि धर्मिग्रहणं नाशङ्कनीयं ॥


यत्र प्रयोजनानन्तरं न सम्भवति स पारिशेष्यस्य विषयो । धर्मिवचनस्य त्वन्य


14 दपि प्रयोजनं सम्भाव्यत इति मन्यमानः सिद्धान्तवाद्याह । सिद्धे तदङ्शव्याप्त्या
दृष्टान्तधर्मिणि सत्त्वे पुनर्द्धर्मिणो वचनन्दृष्टान्तधर्मिण एव यो धर्मः स हेतुरिति
नियमार्थमाशंक्यते । ततश्च चाक्षुषत्वा
दय एव हेतवः स्युर्न कृतकत्वादय इत्य
निष्टमेव स्यात् । तस्मादुपचारः कर्त्तव्य इति ।


किं पुनः क्वचित् त र्क्क शा स्त्रे दृष्टं नियमार्थम्वचनमित्यत आह । सजातीय
एवे
त्यादि । तत्र यः सन् सजातीये द्वेधा चासंस्तदत्यये स हेतुरित्यत्रा चा र्यी ये
हेतुलक्षणे । सजातीय एव सत्त्वमित्यवधारणेन सिद्धेपि विजातीयाद् विपक्षाद्धेतो
6b र्व्यतिरेके यदेत
दसंस्तदत्यय इति साध्याभावेऽसत्त्ववचनं तन्नियमार्थमा चा र्ये ण
व्याख्यातमसत्येव नास्तिता यथा स्यान्नान्यत्र न विरुद्ध इति । तथेहापि धर्मिवच
नम्भावनियमार्थमाशंक्यते ॥


नन्वपक्षधर्मस्याहेतुत्वान्न नियमार्था शङ्का । यतो व्याप्तस्य हेतुत्वं न चान्य
धर्मिस्थेन साध्यधर्मेणान्यधर्मिस्थः साधनधर्मो व्याप्तस्तस्मात्तदंशव्याप्तहेतु
वचनसामर्थ्यादेव साध्यधर्मिपरिग्रहो
भविष्यतीत्यत आह । सामर्थ्यादित्यादि
अनन्तरोदितात् सामर्थ्यादर्थस्य साध्यधर्मिपरिग्रहलक्षणस्य भवति प्रतीतिः
पटुधियां श्रोतॄणां किन्त्वशब्दकमर्थं स्वयमनुसरतां प्रतिपत्तिगौरवं स्यात् । अत
उपचारमात्रात् स्वयमशब्दकार्थाभ्यूहरहिताद् धर्मिधर्म इत्यनेन पक्षधर्म इति
समाननिर्देशात् प्रतिपत्तिगौरवं च परिहृतम्भवति । च शब्देनैतदाह । ये परो
पदे
शमाकांक्षन्ति तैरयमर्थो लक्षणवचनाद् बोद्धव्य इति ।


यथालक्षणं प्रतीतेरपक्षधर्मो न हेतुरिति कुत इयमाशङ्का । ततस्तेषां लक्ष
णानुसारिणां नियमाशंकापरिहारार्थञ्चोपचारकरणमिति ॥ इह व्यवच्छेदफलत्वा
च्छब्दप्रयोगस्यावश्यमेवावधारयितव्यं षष्ठीसमासाच्च पक्षधर्म इति नान्य
स्समासस्सम्भवति । तथा च पक्षस्यैव धर्म्म इत्येवमवधारणात् तदंशव्या
प्ति
र्विरुध्यत इति विरुद्धलक्षणतामुद्भावयन्नाह ।


पक्षस्य धर्मत्वे तम्पक्षं विशेषणमन्यतो व्यवच्छेदमपेक्षत इति । तद्वि
शेषणापेक्षस्य धर्मस्यान्यत्र पक्षीकृतादन्यस्मिन् सपक्षेऽननुवृत्तिः । तथा हि यः
15 पक्षेण विशेष्यते स पक्षस्यैव भवति । यथा देवदत्तस्य पुत्रः ततोन्यत्राननु
वृत्तेरसाधारणता
साधारणता न स्यात् । तदङ्शव्याप्तिविरोध इति या
वत् ।
साधारणतया तदंशव्याप्तिप्रतिपादनात् । ततो यदि पक्षधर्मो न तदंशव्याप्तिरथ
तदंशव्याप्तिर्न पक्षधर्म इति व्याहतं लक्षणमिति ।


ननु यदि साध्यधर्मिणि साधनधर्मस्य साध्यव्याप्तिर्न गृहीता तदा हेतोरनै
कान्तिकत्वमथ गृहीता किं दृष्टान्ते हेतो रन्वयेन कथञ्च पक्षध24र्मस्य तदंश
व्याप्तिर्विरुध्यते साध्यधर्मिण्यपि व्याप्तेः प्रतिपन्नत्वात् । सर्वपदार्थस्य
क्षणिकत्वे
साध्ये सत्त्वलक्षणस्य वा हेतोः को दृष्टान्तेन्वयः । तस्मात् स्वसाध्यप्रतिबन्धा
द्धेतुस्तेन व्याप्तः सिध्यति स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्यपि
सिध्यतीति न किंचिदन्यत्रान्वयापेक्षया तत्कथमिदमाशंकितमन्यत्रानन
वृत्तेरसाधारणतेति ।


सत्त्यं यद्यपि साध्यधर्मिणि हेतोः25 साध्यव्याप्तिमन्तरेण नानुमानस्यो
त्थानन्तथापि दृष्टान्ते साध्यसाधनयोः
प्रतिबन्धग्राहकप्रमाणमन्तरेण न साध्य
धर्म्मिण्यपि व्याप्तिः सिध्यतीति तदर्थमिदमाशंकितं ।


यत्तूच्यते कार्यहेत्वपेक्षया स्वभावहेतुविशेषापेक्षयैतदाशंकितं ततु क्षणिक
त्वानुमाने सत्त्वापेक्षया । तस्य हि विपक्षबाधकप्रमाणवृत्त्यैव गमकत्वा दिति
तदेतदुत्तरत्र निरूपयिष्या
26मः । तस्मात् पूर्वगृहीतप्रतिबन्धसाधकप्रमाणस्मृतये
हेतोरन्यत्र वृत्तिरपे
क्षणीया ।

7a

एतत्परिहरति नेत्यादिना अन्यत्राननुवृत्तिः कुतः । अयोगो
सम्बन्धस्तद्व्यवच्छेदेन विशेषणात् पक्षस्य । न ह्यन्ययोगव्यवच्छेदेनैव विशेष
णम्भवति किन्त्वयोगव्यवच्छेदेनापि । यत्र धर्मिणि धर्मस्य सद्भावः सन्दिह्यते
तत्रायोगव्यवच्छेदस्य न्यायप्राप्तत्वात् । अत्र दृष्टान्तो यथा चैत्रो धनुर्धर इति
चैत्रे हि धनुर्धरत्वं सन्दिह्यते किमस्ति नास्तीति । ततश्चैत्रो धनुर्द्ध
र इत्युक्ते
पक्षान्तरमधनुर्द्धरत्वं श्रोतुराकांक्षोपस्थापितं निराकरोत्ययोगव्यवच्छेदोत्र न्याय
प्राप्तः ।


पराभिमतव्यवच्छेदं निराचिकीर्षन्नाह । नान्ययोगव्यवच्छेदेन विशेषणा


16 दन्यत्राननुवृत्तेरसाधारणतेति सम्बन्धः । अत्रापि दृष्टान्तो यथा पार्थो धनुर्द्धर
इति
सामान्यशब्दोप्ययं
27 धनुर्द्धरशब्दः प्रकरणसामर्थ्यादिना प्रकृष्टगुणवृत्तिरिह
पा र्थे हि धनु
र्द्धरत्वं सिद्धमेवेति नायोगाशङ्का । तादृशन्तु सातिशयं किमन्यत्रा
प्यस्ति नास्तीत्यन्ययोगशंकायां श्रोतुर्यदा पार्थो धनुर्द्धर इत्युच्यते तदा सातिशयः
पार्थ एव धनुर्द्धरो नान्य इति प्रतीयते । तेनात्रान्ययोगव्यवच्छेदो न्यायप्राप्तः ।
तथा किं पक्षेस्त्ययं धर्मो न वेति संशये पक्षधर्म28 इत्युक्ते पक्षस्य धर्म एव नाधर्मः ।
धर्मश्चाश्रितत्वाद् विशेषणन्तेनायोगो व्यवच्छिद्य
ते नान्ययोगः । तदंशव्या
प्त्यान्ययोगस्य प्रतिपादनेन दृष्टान्ते सन्देहाभावात् । आक्षेप्स्याम इति निर्देक्ष्याम
श्चतुर्थे परिच्छेदे ४ । १९०


तदंशस्तद्धर्म इति तच्छब्देन पक्षः परामृश्यते न धर्मः ? । धर्मस्य धर्मासम्भवात् ।
तस्य पक्षस्यांशस्तस्यैव साध्यो धर्मः ॥ एकदेशे रूढोङ्शशब्दः कथं धर्मं प्रतिपाद
यतीति चेदाह । वक्तुरभिप्रायवशादिति । न वस्तुबलेन शब्दानां वाचकत्वं
किन्तु
वक्तुर्विवक्षावशान्न तदेकदेशस्तदंश इति प्रकृतेन सम्बन्धः


किं पुनरेवमिति चेदाह । पक्षशब्देन समुदायावचनादिति । यदि पक्षशब्देन
समुदायोभिहितः स्यात् तदा धर्मधर्मिसमुदायात्मकस्य पक्षस्यैकदेशो धर्मात्मकोङ्शो
भवति । उपचरितेन तु पक्षशब्देन धर्म्येवाभिधीयते तस्य चैकात्मकस्य कुत
एकदेशः ।


व्याप्तं पदम्व्याप्तिरित्यादिना व्याच
ष्टे । तस्य पक्षधर्मस्य सतो व्याप्तिर्यों
व्याप्नोति यश्च व्याप्यते व्याप्यव्यापकधर्मतया प्रतीतेः । यदा व्यापकधर्मतया
विवक्ष्यते तदा व्यापकस्य गम्यस्य भाव एवेति सम्बन्धः । तत्रेति सप्तम्यर्थ
प्रधानमेतन्नाधारार्थप्रधानं धर्माणां धर्मान्तरत्वाभावात् । तेनायमर्थः
यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र व्यापकस्य भाव एवेति व्यापकधर्मो व्याप्तिः ।
न त्वे
वमवधार्यते व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसंगात् । अव्यापकस्यापि
मूर्त्तत्वादेस्तत्र भावात् । नापि तत्रैवेत्यवधार्यते । प्रयत्नानन्तरीयकत्वादेरहेतु
त्वापत्तेः । साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् ॥ यदा तु व्याप्य


17 धर्मता व्याप्तेर्विवक्षिता तदा यत्र धर्मिणि व्यापकोस्ति तत्रैव व्याप्यस्य भावो
नान्यत्र । अत्रापि व्याप्यस्यैव ।
तत्र भाव इत्यवधारणं हेत्वभावप्रसक्तेरेव 7b
नाश्रितमव्याप्यस्यापि तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेत्यवधार्यते ।
सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः । साधारणस्य च हेतुत्वं स्यात् प्रमेयत्वस्य नित्ये
ष्ववश्यम्भावादिति । व्यापकस्य तत्र भाव इत्यनेन चान्वय आक्षिप्तो व्याप्यस्य
वा तत्रैव भाव इत्यनेन व्यतिरेक आक्षिप्तः ।


यद्वा व्याप्तेर्व्याप्यव्यापकधर्म्मसम्वर्ण्णनं नि
यतानियतत्वख्यापनार्थं । तेन
व्याप्तो हेतुर्भवति न तु व्यापकोऽनियतत्वात् ।


ननु यो धर्मो व्याप्यमन्तरेण भवति स कथं व्यापको व्याप्यासम्बन्धेनाव्या
पकत्वात् ।


सत्यं । केवलन्धर्मयोः सामान्येन व्याप्यव्यापकभावो निश्चीयते । यच्चा
नित्यत्वसामान्यं प्रयत्नानन्तरीयकत्वव्यापकं निश्चितन्तदप्रयत्नानन्तरीयकेपि
दृश्यत इति व्यापकोऽनियत उच्यते । अथ प्रय
त्नानन्तरीयकस्वभावमेवानि
त्यत्वं निश्चेतुम्पार्यते तदानयोः परस्परं व्याप्यत्वमिति व्याप्त एव हेतुर्भवति ।
यदा च यत्र विप्रतिपत्तिस्तदेव साध्यमितरत् साधनमिति न्याय एषः ॥


यदि तर्हि पक्षधर्मस्तदंशेन व्याप्त इत्येतावद्धेतुलक्षणं ततः पक्षधर्मत्व
न्तदङ्शव्याप्तिश्चेति द्विरूपो हेतुः स्यादन्यत्र च त्रिरूप उक्तस्तत्कथन्न व्याघात
इत्याह ।


एतेन तदं
शव्याप्तिवचनेनान्वयव्यतिरेकावुक्तौ । अन्वयव्यतिरेक
रूपत्वाद् व्याप्तेरिति भावः । तथा हि य एव येनान्वितो यन्निवृत्तौ च निवर्त्तते
स एव तेन व्याप्त उच्यत इति तदात्मकत्वाद् व्याप्तेर्व्याप्तिवचनेनान्वयव्यतिरेका
भिधानन्ततो व्याप्तिवचनेन रूपद्वयाभिधानान्न व्याघात इति । तौ च ज्ञापक
हेत्वधिकारान्निश्चितौ । निश्चयश्च तयोर्नैकेनेव प्रमाणेनापि तु
यथास्वं यस्य
यदात्मीयं प्रमाणं निश्चायकन्तेन । यस्य च यत्प्रमाणन्तदुत्तरत्र वक्ष्यते ॥


ननु भावरूपत्वाल्लिङ्गस्य कथं व्यतिरेकः साध्याभावेऽभावलक्षणोस्य
रूपमिति चेत् । न । य एव हि साध्य एव लिङ्गस्य भावः स एव साध्याभावे
व्यतिरेकः । तेनान्वयव्यतिरेक योरपि तादात्म्यं वि29कल्पकल्पितस्तु भेदः ।
साध्याभावे लिंगस्य निर्वृत्तिधर्मकत्वं व्यतिरेक इ
त्यपरे । यतश्च यत्र यत्र साधन
धर्म्मस्तत्र तत्र साध्यधर्म इत्येवं रूपोन्वयः । तेन यदुच्यते कु मा रि ल भ ट्टे न ॥




18
यः सवित्रुदयो भावी न तेनाद्योदयोन्वितः ।

अथ चाद्योदयात् सोपि भविता श्वोनुमीयते ॥

व्योम्नि दृष्टं च धूमाग्रं भूमौ बह्निः प्रतीयते ।

धूमाग्रमग्नेरन्वेति न च भूमौ प्रति30ष्ठितः ॥

एवन्न देशकालाभ्यां लिङ्गं लिङ्ग्यनुगच्छति ।

तस्मान्नास्यान्वयो नाम
सम्बन्धोङ्शः प्रतीयत इति

तदपास्तं । यतश्च यथोपवर्ण्णितः साध्यान्वयो हेतुर्विद्यते । तेनैतदपि
प्रत्युक्तं ।


प्रत्याख्येयैवमेवेह व्याप्तिसम्बन्धकल्पना ।

यो हि नान्वीयते येन स तेन व्याप्यते कुत इति ।

अत एवेदृशीम्परपरिकल्पितां व्याप्तिं निराकर्त्तुमा चा र्यो व्यापकस्य31 8a तत्र भाव इत्यादिना लौकिकीव्याप्तिन्दर्शितवान् । सम्बन्धग्राह
कं प्रमाणं
लिङ्गस्य साध्यायत्तताग्राहकं । यच्च तदायत्ततां गृह्णाति तदेवान्वयव्यति
रेकात्मिकाया व्याप्तेर्ग्राहकं । साध्यायत्तताया एव व्याप्तिरूपत्वात् । तस्माद्
व्याप्तिग्राहकादेव प्रमाणात् यत्र व्याप्यसम्भवस्तत्र व्यापकभावो यत्र व्यापका
भावस्तत्र व्याप्याभाव इत्य भावेपि निश्चयो भवति । तेन यदुच्यते32 कुमारिल भ ट्टेन ।33


सामान्यविषयत्वाच्च न प्रत्यक्षेन्वयम्भवेत्

न चानुमीयते पूर्वमविज्ञा
तान्वयान्तरात् ॥

अथान्वयेनुमानं स्यादन्वयान्तरवर्ज्जितं ।

सिद्धे तदनपेक्षेस्मिन्नन्यत्राप्यन्वयेन किं ॥

व्यतिरेकोपि लिङ्गस्य विपक्षान्नैव लभ्यते ।

अभावे स न गम्येत कृतयत्नैरबोधनात् ॥

यावत्सर्वविपक्षाणां पर्यन्तो नावधारितः ।

तावद्धेतोरवृत्तित्वं कस्तस्माज्ज्ञातुमर्हतीति

तदप्यपास्तं ।


19

पक्ष 34धर्मश्च किं यथास्वं प्रमाणेन निश्चित उक्तो वेदितव्य इति सम्बन्धः
पक्षधर्म्मव
चनेनैव । एवं च त्रैरूप्यमेवोक्तं लिंगस्येत्यविरोधः ।


तेन यदुच्यते ऽवि द्ध क र्ण्णेन । सत्यमनुमानमिष्यत एवास्माभिः प्रमाणं
लोकप्रतीतत्वात् केवलं लिंगलक्षणमयुक्त
मिति तदपास्तं । त्रैरूप्यस्यापि लिङ्ग
लक्षणस्य लोकप्रतीतत्वात् धूमादाविव ।


ननु कथं यथास्वं प्रमा णेन पक्षधर्मनिश्चयः35सामान्यस्य लिङ्गत्वात्
तस्य च प्रत्यक्षेण स्वलक्षणविषयत्वेनाग्रहणात् । अगृही
तस्य चालिंगत्वात् ।
गृहीतस्य च स्वलक्षणस्यानन्वयेनालिंगत्वात् । नाप्यनुमानेन सामान्यग्रहणन्त
ल्लिङ्गस्यापि सामान्यरूपत्वेन प्रत्यक्षेणाग्रहणादनुमानेन ग्रहणेऽनवस्थाप्रसङ्गात् ॥


तदाह ।


लिङ्गलिङ्ग्यनुमानानामानन्त्यादेकलिङ्गिनि ।

गतिर्युगसहस्रेपु बहुष्वपि न विद्यत36 इति37

अथ कार्यस्वभावविकल्पप्रतिभासि सामान्यं कार्यादिदर्शनाश्रयतया तदध्यव

सायाच्च कार्यादिहेतुरित्युच्यते ।


तदयुक्तं तस्यापि विकल्पाव्यतिरिक्तत्वाद् विकल्पवद् अन्यत्र विकल्पा
न्तरेऽननुगमात् कथं सामान्यं लिंगं । तस्माद् विजातीयव्यावृत्तमेव धूमादे रूपं
ज्ञापकहेत्वधिकारात् प्रत्यक्षनिश्चितम्विशेषानवधारणेन सामान्यलक्षणं लिंग
मुच्यते । न तु विजातीयव्यावृत्तिर्विकल्पाकारो वाऽवस्तुत्वात् । तेनायमर्थः ।
प्रत्यक्षपृष्ठभाविना निश्च
येनाधूमव्यावृत्तरूपावधारणेन धूमादिस्वलक्षणमिदं
प्रतिभासमानं कदाचित्तार्ण्णम्पार्ण्णमन्यद्वेति विशेषानवधारणेन चानेकस्वलक्षण
रूपं सामान्यलक्षणं लिङ्गं प्रत्यक्षविषये व्यवस्थाप्यते । यथा च लिङ्गस्य विशेषा
नवधारणेन सामान्यरूपत्वन्तथा साध्यस्यापि । तदाह ।


अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात्

सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेरिति ।

तथाभूतस्य
च सामान्यलक्षणस्य लिङ्गस्य साध्यकार्यत्वं साध्यस्वभावत्वं च
वस्तुत्वादविरुद्धं । तच्च लिङ्गं प्रत्यक्षादिनिश्चितमिति सर्वं सुस्थं ॥


त एत इत्यादिना त्रिधैव स इत्येतद् व्याचष्टे ।

20

त एत इति । पक्षधर्मत्वेन यथोक्तया च व्याप्त्या युक्ताः कार्यस्वभावानुपलब्धयो
लक्षणं
स्वभावो येषान्ते तथोक्ताः । धूमादिति कार्यहेतोराख्यानं । अग्निरत्रेति
साध्यफलस्य । न त्वयम्पक्षप्रयोगः


8b ननु यः प्रदेशोग्निसम्बन्धी सोप्रत्यक्षः । यश्च प्रत्यक्षो नभोभागरूप आलोका
द्यात्मा धूमवत्तया दृश्यमानो न सोग्निमानतः कथं प्रदेशे धूमस्य प्रत्यक्षतः सिद्धिस्त
स्माद् धूम एव धर्मी युक्तः ।


साग्निरयं धूमो धूमत्वादित्येवं साध्यसाधनभाव इत्यु द्यो त क र38ः । तस्यापि
साग्नेर्धूमावयवस्याप्रत्यक्षत्वात् । परिदृश्यमानस्य चोर्द्ध्वभागवर्तिनोग्निना
सहावृत्तेः कथं धूमसामान्यस्य साध्यध
र्मिणि प्रत्यक्षतो निश्चयः । धूमावयवी
प्रत्यक्ष इति चेत् । न अवयवव्यतिरेकेण तस्याभावात । लोकाध्यवसायः त
स्यैकत्वे वा प्रदेशस्यापि तावतः कल्पितमेकात्मकत्वं न वार्यते । प्रदेश एव च
लोकोग्निं प्रतिपद्यते न धूमे धर्मिणि । तेन यद्यग्नेरनुमानमिष्यते प्रदेश एव
धर्मिण्यनुमानमस्त्वित्येवम्परमेतत् ।


न त्वत्र पूर्वोक्तो दोषपरिहार इत्येके । यद्वा दृश्यमा
नः प्रदेशो धर्मी
अधस्तादग्निमानित्येतावत् साध्यधर्मो नाग्निमात्रं । ईदृग्विधेन च साध्यधर्मेण
पूर्वमेव व्याप्तिः प्रतिपन्ना । धूमश्चात्र प्रत्यक्षसिद्ध इति कथं नानुमानं । यतु
देशाद्यपेक्षया कार्यहेतोर्गमकत्वमत्रोच्यते । तदसङ्गतमेव देशादेर्विशेषणस्या
सिद्धत्वात् । धूममात्रदर्शनादेवास्य साध्यस्य सिद्धत्वाच्च । यद्वा प्रदेशेऽग्निं
दृष्ट्वा किंशुकादिरूपेण स
न्देहं यदा धूमदर्शनान्निवर्त्तयति । तदैतदुदाहरणं द्रष्टव्यं ।
तदा हि प्रत्यक्षेण धर्मी साधनधर्मश्च सिद्धो भवति ।


यत्तूच्यते प्रत्यक्षाप्रत्यक्षरूप एव धर्मिण्यनुमानमिति । तदयुक्तं ।
प्रत्यक्षाङ्शे यद्यपि हेतुः सिद्धस्तथापि न तत्र साध्यधर्मानुमानं प्रत्यक्षबाधितत्वात् ।
परोक्षाङ्शे तु स्यादनुमानं केवलन्तत्र हेतुरसिद्धः । न च प्रत्यक्षं प्रत्यक्षरूपस्य धंर्मि
णो
धर्मः प्रत्यक्षसिद्धोऽप्रत्यक्षेङ्शे प्रत्यक्षाव्यापारात् । यदा वा श्रवणग्राह्ये शब्देऽनित्य
त्वानुमानन्तदा कथं धर्मिणः प्रत्यक्षाप्रत्यक्षरूपतेति यत्किञ्चिदेतत् ॥


शिङ्शपात्वादिति स्वभावहेतोरुदाहरणं ।



21

उ म्वे क स्त्वत्राह । स्वभावहेतोर्गमकत्वं दूरोत्सारितमेव । भेदाधि
ष्ठान
39त्वाद् गम्यगमकभावस्य । न ह्यभिन्ने प्रतिबन्धो नाम । न शिङ्शपा
वृक्षात्मिका ।
ततो व्यावर्त्तमानत्वात् । यो हि यस्माद् व्यावर्त्तते न स तदात्मा ।
घटादिव पटः । व्यावर्त्तते च खदिरादिभ्यः शिशंपेत्यतदात्मिका । तदात्मत्वे
च लिङ्गग्रहणवेलायामेवाव्यतिरेकात् साध्यस्वरूपवल्लिङ्गाग्रहणवत्त्वं
साध्यस्य गृहीतत्वादनुमेयत्वहानिः । तादात्म्येन च शिं40शपात्वस्य गमकत्वे
तादात्म्याविशेषाद् वृक्षत्वस्य शिंशपां प्रति गम
कत्वप्रसङ्गः । अथास्यानियत
त्वादगमकत्वं नियततैव तर्हि गमकत्वे निमित्तं न तु तादात्म्यं व्यभिचारिण्यपि
वृक्षत्वे तादात्म्यस्य दर्शनात् । अथ तदात्मनैव वृक्षे नास्ति शिंशपा... ...
... ...
तदात्मिका । सर्वथा ययोरेव...तया गम्यगमकभावो
नानात्म्ये तु तादात्म्याभावः ।
41एवमशिंशपाऽवृक्षापोहयोरपोहबुद्ध्योर्वा गम्य
गमकभावो निराक
र्त्तव्य
इति ।

9a

तदयुक्तं । शिंशपा हि वृक्षविशेषस्वभावा । वृक्षविशेषोपि शिंशपास्वभाव
एवेत्युभयगतन्तादात्म्यं । तादात्म्येपि च कश्चिदवृक्षव्यावृत्ते स्वभावे कथंचिन्मूढो
नाशिंशपाव्यावृत्ते तेन शिंशपादेर्लिङ्गस्य ग्रहणान्नानुमेयत्वहानिः । यतश्च
न वृक्षमात्र
42स्वभावा शिंशपा तेन न वृक्षत्वस्य शिंशपां प्रति गमकत्वं ।
साध्यसाधनाद्य
भावदोषन्तु स्वयमेव शास्त्रकारो निराकरिष्यतीति
यत्किञ्चिदेतत् ।


प्रदेश इत्यनुपलब्धेः कथनं । प्रदेशविशेष इत्युद्दिष्टे देशे । क्वचिदिति वादि
प्रतिवादिप्रसिद्धे । न घट इति घटाभावव्यवहारः साध्यः । उपलब्धीत्यादिना हेतुनि
र्देशः । उपलब्धेर्लक्षणानि करणानि चक्षुरादीन्य43प्रतिबद्धसामर्थ्याद्युपलब्धि
लक्ष
णानि । तानि प्राप्तः स्वाभासज्ञानजननयो
ग्यः स्वभावविशेषः ।
स्वज्ञानजननसामग्र्यन्तर्भूतोर्थ इत्यर्थः । तस्यानुपलब्धेस्तथाभूतस्यासद्व्यवहार
सिद्धिः ॥


कथं पुनर्यो यत्र नास्ति स तत्रोपलब्धिलक्षणप्राप्तो भवति । उपलब्धिलक्षण
प्राप्तत्वं हि ज्ञानविषयत्वन्तस्मिंश्च सति कुतो नास्तित्वं ।


उच्यते । यावत्यां सामग्र्यां सत्यां पूर्वं प्रति44पन्नो भावस्तावत्यामेव


22 सामग्र्यां सत्यां यदि स्यात् पूर्वकालवदुपलभ्येतेत्येव
मुपलब्धिलक्षणप्राप्तत्वं
बुद्ध्या परामृश्य भावस्याप्रतिभासनान्नास्तीति निषेधः क्रियते । न त्वदृश्यस्य ।
प्रतिभासपरामर्शोपायाभावात् । सर्वदाऽप्रतिपन्नत्वात् ॥


ननु दृश्यस्याभावे सति सैव सामग्री कथं प्रतिपन्नेति चेत् ॥ न । एकज्ञान
विषययोर्भावयोरेकोपलम्भादिति45 ब्रूमः । स्वत एव च निषिध्यमानस्यो
पलब्धिलक्षणप्राप्तत्वन्निश्चीयते । एतदेवैक
ज्ञानजननयोग्यतयोपलब्धिलक्षण
प्राप्तत्वन्दर्शयितुमाह ।


यदि स्याद् घटादिरुपलभ्यं सत्त्वं यस्य स तथाभूत एव स्यात् । नान्यथेति न
कदाचिदग्राह्यस्तथाभूतोऽवश्यं ज्ञानन्न व्यभिचरतीति यावत् । यत एवन्तेन कारणेन ।
उपलब्धिलक्षणप्राप्त
स्येति यद्विशेषणमुक्तन्तदर्थादुपलब्धिलक्षणप्राप्तसत्त्वस्येत्युक्त
म्भवति । अत्र त्वयं बाह्यार्थः । लक्ष्यतेऽ
नेनेति लक्षणं । उपलब्धिरेव
लक्षणन्तत्प्राप्तमुपलब्धिलक्षणप्राप्तं ज्ञानेनाव्यभिचरितसम्बन्धमित्यर्थः ।
एवंभूतं सत्त्वं यस्य तत्तथोक्तं । तथाभूतं हि सत्त्वं ज्ञानं-निवृत्त्यावश्यं
निवर्त्तत इति भावः ॥ विधिप्रतिषेधाभ्यां सर्वं साधनं व्याप्तं । विधीयमानश्च
साध्यः प्रतिबन्धद्वयेन भिद्यत इति विधिप्रतिषेधौ हेतुत्रयायत्ताविति दर्शयन्नाह ।
तत्रेत्यादि ।



त्र
त्रिषु हेतुषु द्वौ कार्यस्वभावहेतू वस्तुसाधनौ विधिसाधनौ । द्वावेवेति
चावधारणं न तु वस्तुसाधनावेवेति । आभ्यां सामर्थ्याद् व्यवच्छेदस्यापि सिद्धेः ।
एकः प्रतिषेधहेतुरिति । उक्तलक्षणोनुपलम्भः प्रतिषेधहेतुरेव । न त्वेक एवेत्यवधार्यते
पूर्व्वाभ्यामपि व्यवच्छेदगतेः ॥


9b कश्चिदाह । व्यवच्छेदः शब्दलिङ्गाभ्यां प्रसाध्यते यावांश्चिद् व्यवच्छेदः

सर्वोनुपलम्भादेवेत्यनुपलम्भ एवैको हेतुरि
ति ।


तदयुक्तं । यतो न तावत् प्रमाणव्यापारापेक्षयैतदुच्यते । वस्तुन्येव
प्रमाणव्यापारात् । तदाहात एव वस्तुविषयं प्रामाण्यं द्वयोरिति । नाप्यध्यव
सायवशादेतदुच्यते वस्तुन एवाध्यवसायात् । व्यवच्छेदेन सह लिंगस्य
सम्बन्धाभावाच्च ।




23

यो पि मन्यतेऽनुपलम्भेऽसद्व्यवहारयोग्यता साध्यते न प्रतिषेधः ।
योग्यता
च स्वभावभूतैव । तथाग्निमति प्रदेशे साध्ये अग्निमत्ता प्रदेशस्य स्वभाव एव
साध्यो धूमवत्त्वादिति च हेतुः । प्रदेशाभिन्न इति सर्वो हेतुः स्वभावहेतुरेवेति
तदयुक्तम्एवं हि गमकत्त्वे गर्दभत्वादेरपि गमकत्वं स्यात् न भवत्यग्नि
कार्यत्वाभावाद् गर्दभस्येति चेत् । यद्येवं धूमस्याग्निकार्यत्वमेव गमकत्वे
निबन्धनमिति कथं न कार्यहेतुः ।


अन्य
स्तु मन्यतेऽनुपलम्भस्तु प्रदेशकार्य इत्यसद्व्यवहारे साध्ये कार्यहेतुरेव ।
कृतकविकल्पश्चानित्यशब्दकार्य इति सर्व एव हेतुः कार्यहेतुरि
ति ।


तदप्ययुक्तं कृतकविकल्पो हि कृतककारणत्वात् तस्यैवानुमापकः
स्यान्नानित्यस्य । कृतकस्यानित्यस्वभावत्वादनित्यत्वं साधयतीति चेत् । यद्येवं
कृतकत्वादेवानित्यत्वप्रतीतिः स्यान्न कृतकविकल्पात् । कृ
तकस्वभावतयैवा
नित्यत्वे गमकत्वात् । यद्वा कृतकविकल्पश्च स्यान्न वानित्य इत्यनैकान्तः ।
कृतकविकल्पजननसामर्थ्यं कृतकाव्यतिरिक्तन्तच्च न पूर्वन्न पश्चात्तेनासावनित्यो
ऽव्यतिरिक्तन्तर्हि सामर्थ्यमनित्यत्वं साधयतीति कथं न स्वभावो हेतुरिति
यत्किञ्चिदेतत् ॥


किं पुनर्द्वावेव वस्तुसाधनावित्याह । स्वभावेन प्रतिबन्धः साधनं कृते ति

मासः । स्वभावेन प्रतिबद्धत्वं । प्रतिबद्धस्वभावमिति यावत् । तस्मिन् सत्यर्थो
लिंगमर्थमिति लिङ्गिनं न व्यभिचरति


स च स्वभावप्रतिबन्धः कुत इत्याह । तदात्मत्वादिति साध्यस्व
भावत्वात् ॥ तदात्मत्वे साध्यस्वभावात्मत्वे साधनस्य । यदेव साध्यन्तदेव साध
नमिति साध्यसाधनयो46र्भेदाभावस्तेन प्रतिज्ञार्थैकदेशो हेतुरिति परमाशङ्
क्याह । नेत्यादि । सा
ध्यसाधनभूतानां धर्मभेदानां व्यावृत्तिभेदेन परिकल्पनादा
रोपाद्


एतदुक्तम्भवति । धर्मभेदः समारोप्यते तेन साध्यसाधनभेदः । यतो निश्चितो
गमको निश्चेतव्यश्च गम्य उच्यते । निश्चयविषयश्चारोपित एवेति निश्चयभेदा
रोपितो धर्मभेदः । एतच्च वक्ष्यामोऽन्यापोहप्र47स्तावे ।48


24

आचार्य दि ग्ना गे नाप्येतदुक्तमित्याह । तथा चेत्यादि । सर्व एवेति

यत्रापि साध्यसाधनयोरग्निधूमयोर्वास्तवो भेदस्तत्रापि स्वलक्षणेन व्यवहारा
योगादनुमीयतेनेनेत्यनुमानंलिङ्गमनुमेयः साध्यधर्मी साध्यधर्मश्च तेषां व्यवहारो
नानात्वप्रतिरूपः । बुद्ध्यारूढेधर्मधर्मिणोर्भेदस्ते बुद्धिप्रतिभासगतेन49
भिन्नेन रूपेण भेदव्यवहार इति यावत् ॥ यदि तर्हि बुद्धिपरिकल्पितो ध
र्मधर्मि
10a व्यवहार एवन्तर्हि कल्पिताद्धेतोः साध्यसिद्धिः प्राप्ता । ततश्च हेतुदोषो यावानुच्यते
स सर्वः स्यात् । तदाह भ ट्टः ॥50


यदि वा विद्यमानोपि भेदो बुद्धिप्रकल्पितः

साध्यसाधनधर्मादेर्व्यवहाराय कल्प्यते ॥

ततो भवत्प्रयुक्तेस्मिन् साधनं यावदुच्यते ।

सर्वत्रोत्पद्यते बुद्धिरिति51 दूषणता भवेदिति ।

अत्राह । भेद इत्यादि । एतदाहार्थ ए वार्थं गमयति केवलं धर्म
धर्मितया
ऽयं धर्मोऽयं धर्मीति यो भेदो नानात्वमयमेव बुद्ध्याकारकृतो बुद्ध्या परि
कल्पितो नार्थोपि न लिङ्गमपि बुद्धयाकारकृतम्विकल्पनिर्मितादेव लिङ्गात्
कस्माद् अर्थप्रतिपत्तिर्न भवतीत्याह । विकल्पेत्यादि । विकल्पभेदानां विकल्प
विशेषाणामिच्छामात्रानुरोधित्वेन स्वत52न्त्राणामनर्थाश्रयादर्थाप्रतिबद्धत्वे
साक्षादनुत्पत्ते53र्नार्थालम्बनत्वादित्यर्थः । तैरर्थी-नाश्रयै
र्विकल्पैः कल्पित
श्चासौ विषयश्चेति तत्कल्पितविषयस्तस्मादेवंभूताद्धेतोरर्थप्रतीतावभ्युपगम्य
मानायामनर्थप्रतिलम्भ एव स्यादर्थप्रतिलम्भ एव न स्यात् ॥


द्वितीयं प्रतिबन्धलक्षणमाह । कार्यस्यापीत्यादि । तत्स्वभावस्येति कार्यं
स्वभावस्य तदुत्पत्तेः कारणादुत्पत्तेर् योऽनुमानस्य प्रामाण्यं नेच्छति तं प्रत्याह ।
एतावनुमेयप्रत्ययौ प्रमाणमिति सम्ब
न्धः ॥ एताविति स्वभावकार्यलिङ्गौ ।
अनुपलब्धेः स्वभावहेतावन्तर्भावाद् द्वावित्याह । यद्वा प्रक्रान्तापेक्षया द्वावित्याह ।


25

स्वभावकारणयोरनुमेययोः प्रत्ययावित्यनुमेयप्रत्ययौ अतत्प्रतिभासित्वेपीत्य
नुमेयस्वलक्षणाप्रतिभासित्वेपि । अतत्प्रतिभासित्वन्ततः साक्षादनुत्पत्तेः । कथन्तर्ह्य
व्यभिचार इत्याह । तदुत्पत्तेरित्यनुमेयाभ्यां स्वभावकारणाभ्यां पा
रम्पर्येणोत्पत्तेः ।
तदव्यभिचारिणावित्यनुमेयांव्यभिचारिणौ । इति हेतोः प्रमाणं प्रत्यक्षवत्


तेन यदुच्यते ऽवि द्ध क र्ण्णे नानधिगतार्थपरिच्छित्तिः प्रमाणमतो नानुमान
म्प्रमाणमर्थपरिच्छेदकत्वाभावादि
ति तदपास्तं । यतः सर्व एव प्रेक्षावान् प्रवृत्ति
कामः प्रमाणमन्वेषते प्रवृत्तिविषयार्थोपदर्शकत्वेन प्रवृत्तिविषयश्चार्थोऽर्थक्रिया
समर्थ ए
व । न चानागतं प्रवृत्तिसाध्यार्थक्रिया सामर्थ्यम्वस्तुनः प्रत्यक्षम्परिच्छि
नत्तीत्युक्तमतः कथमस्यार्थपरिच्छेदमात्रात्प्रामाण्यं । तस्मात् स्वविषये तदुत्पत्त्या
प्रत्यक्षं यन्मया पूर्वप्रतिपन्नं प्रबन्धेनार्थक्रियाकारि तदेवेदमिति निश्चयं कुर्वत्
प्रवर्त्तकत्वात् प्रमाणन्तथानुमानमपि ।


प्रत्यक्षस्यापीत्यादिना व्याप्तिमाह । अर्थाव्यभिचार एवेति । पूर्वमभि
मतार्थ
कारित्वेन निश्चितस्यार्थस्य सम्भवे सति भाव एव प्रत्यक्षस्य प्रामाण्यमन्यथा
तदभावे अर्थाभावे भाविनः प्रत्यक्षस्य तद्विप्रलम्भान्निश्चितार्थासम्वादात् । एतदु
क्तम्भवति । यदार्थक्रियासमर्थम्वस्तु प्रत्यक्षं न परिच्छिनत्ति । यदि च तथाभूत
मपि वस्तु व्यभिचरेत्प्रमाणमपि न स्यात् । अव्यभिचारश्चान्यस्य कोन्यस्तदुत्पत्ते
रित्यन्यंस्यार्थान्तरभूतस्य
योन्येन सहाव्यभिचारः स तदुत्पत्तेः कोन्यो नैवान्यः । 10b
तदुत्पत्तिरेवाव्यभिचार इत्यर्थः ।


कस्माद्नायत्तरूपाणामप्रतिबद्धस्वभावानां सहभावनियमाभावादव्यभि
चारनियमाभावात् । तस्मादर्थक्रियाकारित्वेन निश्चितादर्थादुत्पत्तिरेव प्रत्यक्ष
स्याव्यभिचार इति प्रामाण्यन्तच्चानुमानेप्यस्तीति समं द्वयमिति भावः ॥


एतेनैतदपि निरस्तं प्रमाणस्यागौ
णत्वादनुमानादर्थनिश्चयो दुर्लभ
इति ।
यद्यगौणत्वमनुपचरितत्वमुच्यते तदानुमानमप्यनुपचरितमेवास्खलद्बुद्धिरूपत्वात् ॥


अथ धर्मधर्मिसमुदायस्य साध्यत्वे हेतोः पक्षधर्मत्वमन्वयो वा न सम्भवति
तेन पक्षधर्मत्वप्रसिद्ध्यर्थं धर्मिणः साध्यत्वमुपचरितव्यमन्वयसिद्ध्यर्थञ्च
धर्मस्येत्येवमुपचरितविषयत्वादनुमानमुपचरितं ।



26

तदयुक्तं
यतो लोके धूममात्रमग्निमात्रव्याप्तं यत्र धर्मिणि दृश्यते तत्रैवाग्नि
प्रतीतिर्भवतीति कस्यात्रोपचार एवं च समुदायस्यापि साध्यत्वं सिध्यति । यदाह ।
केवल एव धर्मो धर्मिणि साध्यस्तथेष्टसमुदायस्य सिद्धिः कृता भवतीति
न चानुमानविषये साध्यशब्दोपचारे सत्यनुमानमुपचरितन्नाम ॥


अथ प्रमाणस्यागौणत्वादभ्रान्तत्वादनुमानस्य तु भ्रान्तत्वादप्रा
माण्यमित्यु
च्यते ।


तदयुक्तं भ्रान्तस्याप्यग्न्यनुमानस्य तदुत्पत्त्या बाह्याग्न्यध्यवसायेन लोके
प्रामाण्यदर्शनात् प्रत्यक्षवत् । अथ प्रत्यक्षमपि प्रमाणन्नेष्यते तदा लोकप्रतीति
बाधा । प्रत्यक्षानुमानयोः प्रमाणयोर्लोकप्रतीतत्वात् ।


अथ नैव प्रत्यक्षानुमानयोः प्रमाणत्वं प्रतिषिध्यते । किन्तु लिङ्गन्त्रिलक्षणं
चतुर्लक्षणं वा न केनचित् प्रमाणेन सिद्धमिति पर्य
नुयोगे यद्यनुमानमुच्यते साधकं ।
पुनस्तत्रापि सं एव पर्यनुयोग इत्येवं सर्वत्र पर्यनुयोगपराण्येव सूत्राणि । तथा च
सूत्रं


विशेषेनुगमाभावः सामान्ये सिद्धसाधनमि
ति54

तदप्ययुक्तं । पूर्वमेव त्रैरूप्यग्राहकस्य प्रमाणस्य व्याप्तिवचंनेनाक्षिप्तत्वात् ।
न चाप्रमाणकेन परः55 पर्यनुयुज्यते वादिप्रतिवादिनोरसिद्धत्वात् ।


अथ वचनात्मकमनुमा
नं न वक्तुः प्रमाणमथ चनेन परं प्रतिपादयति
तथाऽप्रमाणकेन पर्यनुयोगः क्रियत इति ।


तदप्ययुक्तं । द्वयोरपि हि वचनादर्थप्रतीतिः प्रमाणभूतैवोत्पद्यतेऽर्थपरिच्छेद
कत्वात् केवलम्वक्तुरधिगमस्य निष्पन्नत्वात् प्रमाणं नो वा तेन पुनरप्रमाणं
भवत्यप्रामाण्ये वा द्वयोरप्यप्रमा
56णमिति कथन्ततोर्थप्रतीतिः ।


यदप्युच्यते परसिद्धेनानुमानेनानुमा
नन्निषिध्यत
इति तदप्येतेन
निरस्तमिति ॥ संयोगवशाद् गमकत्वे ।


न च केनचिदङ्गेन न संयोगी हुताशनः ।

धूमो वा सर्वथा तेन प्राप्तं धूमात् प्रकाशनमिति ।

यः सर्वथा गम्यगमकभावप्रसंग आचार्य दि ग्ना गे नाक्षिप्तं परं प्रति
तदिहापि कार्यहेतौ आशङ्कते यदीत्यादिना57 साध्यादुत्पत्तेः कारणात् कार्य-
27 ङ्गमकङ्कारणस्येत्यध्याहारः सर्वथा गम्य
गमकभावः प्राप्तः
। अग्नेः सामान्य- 11a
धर्मवद्विशेषधर्मा अपि तार्णपार्ण्णादयो गम्याः स्युः । धूसस्यापि विशेषधर्मबद्
द्रव्यत्वपार्थिवत्वादयोपि सामान्यधर्मा गमका भवेयुः । कुतः । सर्वथा जन्यजनक
भावा
त् तथा हि यथाग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्म्मैर्जनकः
तथा तार्ण्णपार्ण्णादिभि
58र्विशेषैरपि । यथा च धूमो धूमत्वपाण्डुत्वादिभिः
स्वनियतैर्विशेषधर्मै
र्युक्तो जन्यस्तथा सामान्यधर्मैरपि सत्त्वद्रव्यत्वादिभिस्ततश्च
यथानयोः कार्यकारणभावस्तथैव गम्यगमकभावः स्यादित्यत आह ।


नेत्यादि । न सर्वथा जन्यजनकभावस्ततश्च कुतस्तथा गम्यगमकभावः स्यात् ।
कस्मादिति चेत् । तदभावे तेषान्तार्ण्णपार्ण्णत्वादीनां विशेषधर्म्माणामभावे59
भवतो धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीत्येवमात्मनस्त
दुत्पत्तिनियम
स्याभावात् । तथा तदभावेऽग्न्यभावे भवतो द्रव्यत्वादेः सामान्यधर्मस्याग्नेरेवायं
भवतीत्येवं--रूपस्य तदुत्पत्तिनियमस्याभावात् । कुतः सर्वथा जन्यजनकभावो
यतः सर्वथा गम्यगमकभावः स्यात् ॥


यत एवन्तस्मात् कार्यं धूमादिकं स्वभावैर्या वद्भिर्धूमत्वादिभिः स्वगतै60
रित्थंभूतलक्षणा तृतीया । अविनाभावि । विना न भवति । क्वाविनाभावि
कार
णे
। कारणविषये । यद्वा कारणे इत्याधारसप्तमी । कारणस्थैः स्वभावै
र्यावद्भिरग्नित्वद्रव्यत्वादिभिरविनाभावि । तेषां कारणगतानां सामान्यधर्माणां
हेतुः कार्यं गमकमित्यर्थः । किङ्कारणं तत्कार्यत्वनियमात् । तेषामेव
कारणगतानां सामान्यधर्माणान्तत्कार्यमित्येवं रूपस्य निय61मस्य सद्भावात् ।
न हि तत्सामान्यधर्मात् कदाचिदपि कार्यं व्यभिचरति । एवन्ताव
त् कारणगताः
सामान्यधर्मा गम्या इत्याख्यातं ।


कार्यगतास्तु विशेषधर्मा गमका इति दर्शयन्नाह । तैरेवेत्यादि । कार्यमपि
तैरेव धर्मैः स्वगतैः कारणगतानां धर्माणां गमकाः । येर्थान्तरासम्भविनो धूमत्वपा


28 ण्डुत्वादयो विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर्विना न भवन्ति । अत्रापि
तत्कार्यत्वनियमादित्यपेक्ष्यते । तेषामेव कार्यगतानां विशेष
धर्माणां कारणगत
सामान्यधर्मापेक्षया कार्यत्वनियमात् ॥


यदि सामान्यधर्माणां कारणगतानां कार्यगतैर्विशेषधर्मैरेवाविनाभावाद्
गम्यगमकभावस्तदांशेन जन्यजनकभावः स्यात् । अग्नेः सामान्यधर्मा एव जनकाः
धूमस्य च विशेषधर्मा एव जन्याः स्युः । सर्वथा च जन्यजनकभावोभिमत
इत्यभ्युपगमविरोधः ॥ एतत्परिहरति नांशेन
जन्यजनकभावप्रसङ्गः ।
निरंशत्वेन वस्तुनः सर्वथा जन्यजनकत्वाभ्युपगमात् । गम्यगमकभावस्यापि
सर्वथाभिमतत्वात् । तदाह । तज्जन्येत्यादि । यदि हि कार्यस्य तैः
कारणगतैर्विशेषधर्मैर्जन्यो यो विशेषः स ग्रहीतुं शक्यते ज्ञापकहेत्वधि
कारात् । तदा तज्जन्यविशेषग्रहणेऽभिमतत्वात् कारणगतविशेषधर्माणां
11b गम्यत्वस्य । तथा ह्यगुरु
धूमग्रहणे भवत्येव तदग्नेरनुमानं । तथा लिङ्गविशेषो
लिङ्गमेव विशेषो धूमलक्षणः स उपाधिर्विशेषणं येषां द्रव्यत्वादीनान्तेषां
ग्रहणेऽभिमतत्वाद् गमकत्वस्य । न हि धूमेन विशेषिता द्रव्यत्वादयोऽग्निं
व्यभिचरन्ति ॥


ननु धूम एव तत्र गमको न तु तद्विशिष्टा द्रव्यत्वादयः । यथा कृतकत्वे सति
प्रमेयत्वादित्यत्र कृतकत्वमेव गमकं न प्रमेयत्वं ।


सत्यमेतद् । अव्यभि
चारमात्रप्रदर्शनार्थन्त्वेवमभिधानमित्येके । अन्यस्त्वाह ।
न धूमस्य व्यभिचारादिह सामान्योपादानं किन्तर्हि सर्वेषां प्रतिपत्तॄणां दृष्टे
वस्तुनि सामान्याकारे प्रतिपत्तिर्भवति पश्चाद् विशेषावसायः तत्र च यदुपात्तं
सामान्यन्तदपरित्यक्तमेव । तस्मात् प्रतिपत्तुरध्यवसायवशाद् विशेषोपहितं
सामान्यङ्गमकम्भवति न विशेषस्य व्यभिचारादिति ।


यु
क्तमेतत् । केवलं यद्येष नियमः सामान्यप्रतिपत्तिपुरस्सरैव विशेषप्रतिपत्तिः
कथन्तर्हि धूममात्रस्य द्रव्यत्वादिरहितस्य प्रतीतिः । पूर्वोक्तं च चोद्यन्तद
वस्थमेव । तस्मादिदमत्र साधु लिङ्गविशेषस्य सामान्यविशेषणत्वेनैवोपादाना
द् अहेतुत्वं हेतुत्वोपादाने हि हेतुत्वं स्यान्नान्यथा ।


कदा तर्हि लिङ्गगतानां सामान्यधर्माणामगमकत्वमित्याह
अविशिष्टे
त्यादि । यदा द्रव्यत्वादीन्यविशिष्टानि विवक्षितानि तदा तेषां व्यभिचाराद्

29 गमकत्वन्नेष्यते


स्वभावहेतुमधिकृत्याह ।


स्वभाव इत्यादि । हेतुरिति वर्त्तत इति तेषां हेतुरित्यतः । स्वभावे साध्ये
किम्भूते भावमात्रानुरोधिनि हेतुसद्भावमात्रानुरोधिनि भावो हेतुः62स्वभावो
हेतुः । मात्रग्रहणमर्थान्तरानपेक्षासन्दर्शनार्थं ॥ कस्मात्तन्मात्रा
नुरोधिन्येव स्वभावो
हेतुरित्याह । तादात्म्यं ह्यर्थस्य तन्मात्रानुरोधिन्येवेति । योसावर्थस्य साधनस्यात्मा
तद्भाविन्येव । नान्यायत्ते । न कारणान्तरप्रतिबद्धे पश्चाद्भाविनि तादात्म्यं ।
कस्मादिति चेदाह । तद्भाव इत्यादि । तस्य हेतोर्भाविनिऽभूतस्य कारणान्त
रायत्तस्य धर्मस्य पश्चाद् यो भा
63वस्तस्य नियमाभावात् । न हि कारणान्तर
प्रतिबद्धेन पश्चाद्भाविनाऽव
श्यं भवितव्यं । किङ्कारणं कारणानां कार्य
व्यभिचारा
त् । सम्भवत्प्रतिबन्धत्वात् कारणानां कुतस्तेभ्योऽवश्यम्भावः कार्यस्य ॥


ननु च साध्यस्वभावता साधनस्य न केनचिदिष्टं तत्कथमुच्यते तद्भावमात्रा
नुरोधिन्येव तादा
त्म्यमिति । एवम्मन्यते व्यतिरिक्तावपि कृतकत्वानित्यत्वा
ख्यौ
64 धर्मावप्युपगच्छद्भिरवश्यमभूत्वा भवनं भूत्वा चाभवनमभ्युपगन्तव्य

मन्यथात्मादेरिव कृतकत्वानित्यत्वे पटादेर्न स्यातां । तस्माद् यदेवाभूत्वा भवन
म्भावस्य तदेव कृतकत्वं यदेव च भूत्वाऽभवनमनवस्थायित्वन्तदेवानित्यत्वमस्तु
किमन्येन सामान्येन कल्पितेनेति ॥ अनुपल...इत्याह ।




30

अप्रवृ त्तिरित्यादि । केषामप्रवृत्तिः प्रमा65णानाम्वहुवचनं व्यक्तिभेदेन
प्रमाणानाम्बहुत्वात् । आगमापेक्ष
... ...66


13a सिध्यतीत्युच्यत इति ।


एवम्मन्यते । ज्ञानज्ञेययोर्बाधा बोधरूपत्वेन विशेषाद् । बोधरूपं प्रत्यक्षादिकं
प्रमाणं स्वत एव सिध्यति ज्ञेयन्तु घटादिकं जडरूपत्वात् प्रमाणमपेक्षते ।
ज्ञानज्ञेयाभावयोस्तु नीरूपत्वेन विशेषाभावात् कथं ज्ञानाभावस्य स्वतःसिद्धि
र्ज्ञेयाभावस्य च
67ज्ञानाभावात् सिद्धिरुच्यते । अथ ज्ञानाभावो नान्येन सिध्यति ।
तथा हि
ज्ञानानां स्वसम्विदितरूपत्वेनैकज्ञानसंसर्गित्वाभावात् । केवलं यदि
स्वसन्ताने ज्ञानं स्याद् उपलभ्येतानुपलम्भादसदेव तदिति स्वत एव ज्ञानाभावः
सिद्ध इष्यते ।


तथा सत्ताऽभावोपि सिद्धः स्यात् । तत्रापि हि यदि सत्ता स्यादुपलभ्येतानुप
लम्भान्नास्तीति निश्चीयते ततश्चा68पार्थिकानुपलब्धिरभावसिद्धौ । विज्ञानं
वान्यवस्तुनीति पक्षं दूषयितुमा
ह । अथेत्यादि । अन्यस्य घटादिविविक्तस्य
भूतलस्योपलब्ध्या घटानुपलब्धिसिद्धिरिति प्रत्यक्षसिद्धानुपलब्धिः


एतदुक्तम्भवति । घटग्राहकत्वस्य भूतलग्राहकस्य चैकज्ञानसंसर्गित्वाद्
यदा भूतलग्राहकमेव तज्ज्ञानम्भवति । तदा घटाग्राहकत्वाभावं निश्चाययतीति
प्रतीतिप्र
त्यक्षसिद्धैव घटानुपलब्धिः ॥


31

तथान्यसत्तयाऽसत्ता किन्न सिध्यति । तथेत्य
नुपलब्धिवत् । द्वयोरपि
घटप्रदेशयोरेकज्ञानसंसर्गित्वादित्यभिप्रायः । अन्यस्य घटविविक्तस्य भूतलादेः
सत्तया सिद्ध्या निषेध्यस्यार्थस्य सत्ता किन्न सिध्यति ॥


ननु भावनिवृत्तिरूपोऽभावः स कथं प्रत्यक्षसिद्ध इत्युच्यते ।


एवम्मन्यते । अभावो नाम नास्त्येव केवलं मूढस्य भावविषयमेव प्रत्यक्ष
मन्याभावं व्यवहारयति । तेन यदुक्त
म र्था प त्त्याऽभावः प्रतीयत इति तदयुक्तं ।
यतो न तावद् घटादीनामन्योन्याभावोऽभिन्नः घटविनाशे पटाद्युत्पत्तिप्रसङ्गात् ।
पटाद्यभावस्य विनष्टत्वात् । अथ भिन्नोऽभावस्तदा घटादीनां परस्परं भेदो न
स्यात् । यदा हि घटाभावरूपः पटो न भवति तदा पटो घट एव स्यात् । यथा वा
घटस्य पटाभावाद् भिन्नत्वाद् घटरूपता तथा पटा
देरपि स्यात् । घटाभावाद्
भिन्नत्वादेव ।


नाप्येषां परस्पराभिन्नानामभावे न भेदः शक्यते कर्त्तुं । तस्य भिन्नाभिन्न
भेदकरणेऽकिंचित्करत्वात् । न चाभिन्नानामन्योन्याभावः सम्भवति । नापि
परस्परभिन्नानामभावेन भेदः क्रियते स्वहेतुभ्य एव भिन्नानामुत्पत्तेः । नापि भेद
व्यवहारः क्रियते । यतो भावानामात्मीयात्मीय 69 रूपेणोत्पत्तिरेव स्वतो भे
दः
स च प्रत्यक्षप्रतिभासनादेव भेदव्यवहारहेतुः ।


तेन यदुच्यते वस्त्वसंकरसिद्धिश्चाभावप्रमाणाश्रितेति तदपास्तं । किञ्च
भावाभावयोर्भेदो नाभावनिबन्धनोऽनवस्थाप्रसंगात् । अथ स्वरूपेण भेदस्तथा
भावानामपि स स्यादिति किमभावेन कल्पितेन नापि प्रागभावाभावे कार्यस्या
नादित्वं प्रसज्यते । हेत्वभावेनानुत्पत्तेः ।


ननु
प्रागभावे सति हेतोः सकाशादुत्पत्तिः स्यान्नासति प्रागभावे विद्यमान- 13b
त्वात् ।


यद्येवन्न कदाचनापि कार्योत्पत्तिः स्याद् विरोधिनः प्रागभावस्य सन्निहितत्वात् ।
न च तद्विनाशात् कार्योत्पत्तिः प्रागभावमन्तरेण कार्योत्पत्त्यभ्युपगमप्रसङ्गात् ।
नापि कार्योत्पत्तिरेव प्रागभावविनाशस्तदुत्पत्तेरेव विरोधिसन्निधानेनासम्भवात् ।
कारणसत्ताकाले प्रागभावस्याविनाशात् ।
कार्योत्पत्तिकाले च तद्विनाशात्
कारणविनाशवत् । तस्मादुत्पत्तेः पूर्वं कार्यस्य न भावो नाप्यभावो धर्मोसत्त्वात् ।
निरंशत्वाच्च वस्तुनः । किन्तु यदोत्पद्यते तदा सत्त्वमस्यान्यदा नास्तीति व्यवह्रियते ।
तेनासदुत्पद्यत इत्युच्यते ।


प्र ध्वं सा भा व स्य चासत्त्वं स्वयमेवाचार्योभिधास्यते । यच्च यस्मादुत्पद्यते

32 तत्तस्य कार्यं कारणं चोच्यते । तेषां चैकक्षणस्थायि
त्वेनोत्पत्तेर्नाशित्वं स्वस्व
रूपेणैवोत्पत्तेः परस्परभिन्नता च सिध्यति । तेन प्रागभावाद्यभावेपि कारणा
दिविभागतो व्यवहारो भवत्येव । न च प्रागभावादीनाम्परस्परम्भेदः प्रतिभासते ।
यस्माद् घटादेः पूर्वम्पश्चादन्यत्र च निवृत्तिमात्रमभिन्नं प्रतिभासते । यदि नाम
कालभेदः प्रतीयते । न हि गोत्वमनेककालादिसम्बन्धित्वेन प्रतीयमानम
नेकम्भ
वति । निवृत्तेर्नीरूपत्वाच्च कथमभावस्य नानात्वं भावनिवृत्तिरूपत्वाच्चाभावस्य ।
केवलं यो मूढ उत्पत्तेः पूर्वं पश्चादन्यत्र च कार्यस्य भावमिच्छति तं प्रतीदमुच्यते
कार्यस्य पूर्वम्पश्चादन्यत्र चाभाव इति भावारोपनिषेधमात्रं क्रियते ।


तेन । न चावस्तुन एते स्युराकारा इत्यादि यदुक्तन्तन्निरस्तं ।


इतश्चैतन्निरस्तं द्रष्टव्यं यतो न प्राक्प्रध्वंसा
भावाभ्याम्भावस्य कश्चित्
तदुत्पत्तिलक्षणो विरोधलक्षणो वा सम्बन्धोऽसहभावित्वेनाद्विष्ठत्वात् । अत एव न
विशेषणविशेष्यभावः सम्बन्धः । नापि विशेषणविशेष्यभावोऽसहभावित्वादेव ।
विशेषणविशेष्यरूपतायाश्च वस्तुनोऽभावात् । केवलमन्यसम्बन्धद्वारेणा70यं
कल्प्यते । दण्डदण्डिनोरिव । यदि च विशेषणविशेष्यभावसम्बन्धबले
न भावस्य
प्रागभाव इति प्रतीतिस्तथा प्रागभावादेर्भाव इत्यपि प्रतीतिः स्यात् सम्बन्धस्या
विशेषात् । तस्मात् प्रागभावादेरसम्बन्धिनो भावसम्बन्धित्वेन प्रतीतिर्भ्रान्तिरेव ।


चा न्यो न्या भा वो भावानामस्ति । न हि घटस्य निवृत्तिः पटस्य निवृत्ति
र्भवत्यप्रतीतेः न च पटेऽवस्थानात्सा71 तत्सम्बन्धिनी युक्ता । एवं हि प्रागभावा
द्यप्यन्योन्याभावः स्यात् कारणादाव
वस्थानात् । तस्मादन्याभाव एवास्ति नान्यो
न्याभावस्तेनान्याभावात् प्रागभावादीनां न भेद इति कथं चतुर्विधोऽभाव उच्यते ।


प्रत्यक्षाभावनिराश72सश्च नै रा त्म्य सि द्धा वभिहित इति नेहोच्यते ।


न त्वभावस्यासत्त्वेनानुभूतत्वात् कथं प्रत्यक्षेण निश्चयः । नैष दोषो य73
14a स्मादेकज्ञानसंसर्गिणोः प्रत्यक्षेणैकस्य ग्रहणमेवान्यस्याग्रहण
न्तदग्रहणमेव च
तस्याभावग्रहणम्भावे हि तस्याग्रहणायोगाद् यदाहान्यहेतुसाकल्ये तदव्यभि
चाराच्चोपलम्भः सत्ता । तदभावोनुपलब्धिरसत्तान्योपलब्धिश्चानुपलब्धिरिति ।


तेनायमर्थः प्रत्यक्षमभावन्निश्चाययतीति तावन्न निश्चाय यतीत्यर्थः । स
च दृश्यस्य भावानिश्च
74योऽभावनिश्चय एव । एवं प्रत्यक्षपृष्ठभाविनो विकल्पस्य
प्रत्यक्षवि
षयानुसारित्वं समर्थितम्भवति । तदेवमुपलब्ध्यभावव्यवहारवद्
अर्थाभावव्यवहारस्यापि प्रत्यक्षसिद्धत्वान्न लिङ्गेनासौ साध्यते । एवन्तावदमूढं


33 प्रति दृश्यानुपलम्भो नाभावं व्यभिचरतीत्यभावव्यवहारः प्रत्यक्षसिद्धः ।


न चाप्यभावोनुपलब्धानामपि सत्त्वान्नित्यं शक्यमानानुप75लंभव्यभिचार
इति कृत्वा व्यवहर्त्तुमशक्य इति वक्तुं युक्तं । एवं ह्यभाव
स्य निश्चायकमपि
प्रत्यक्षन्न स्यात् । सन्देहान्न चान्यन्निश्चायकमन्यद् व्यवहाराङ्गं युक्तं । तस्मात्
प्रत्यक्षनिश्चायकत्वाद् भाववद् दृश्यस्याभावमपि व्यवहारयति ।


कथन्तर्ह्यसद्व्यवहारस्य साध्यत्वमित्याह । यदा पुनरित्यादि । एवं-विधे
ह्युपलम्भयोग्यानुपलब्धिरेवासतां पदा76र्थानामसत्ता नान्या । तवा सिद्धेपि
प्रत्यक्षेणाभावव्यवहारस्य विषये
। मोहाद् विषयिणो
ऽसतोविद्यमानस्य77
ज्ञानं । नास्तीत्येवमाकारं । नास्तीत्येवम्भूतश्च शब्दः निःशङ्कावगमनागमनलक्षणा
पुरुषस्य प्रवृत्तिर्व्यवहारः । तानप्रतिपद्यमानः पुमान् । विषयप्रदर्शनेनासद्व्य
वहारविषयस्य घटविविक्तप्रदेशस्योपलम्भमानस्य प्रदर्शनेन । समयेऽभावव्यवहारे
प्रवर्त्त्यते । दृष्टान्तमाह । यथेत्यादि । सास्नादिसमुदायात्म
क एव गौः । ततो न
तत्र गोत्वं साध्यते किन्तु गोव्यवहारः । यदायं मूढमतिः शावलेये प्रवर्त्तितगोव्य
वहारो बाहुलेये शावलेयरूपशून्यत्वाद् गोव्यवहारं न प्रवर्त्तयति स निमित्तप्रदर्श
नेन गोव्यवहारे प्रवर्त्त्यते । सास्नादिसमुदायनिमित्तको हि गोव्यवहारो न
शावलेयरूपनिमित्तिकः । बाहुलेयेऽपि तन्निमित्तमस्तीति कथमसौ न
प्रवर्त्त्यते ।
तद्वद् घटविविक्तेपि प्रदेशेनुपलम्भनिमित्तप्रदर्शनेनासद्व्यवहारे प्रवर्त्त्यते ।


तथा चेति येनैवं व्यवहारः साध्यते तेन दृष्टान्तासिद्धिचोदनापि प्रतिव्यूढा
प्रतिक्षिप्ता । अनुपलब्धेर्लिङ्गादभावे साध्ये येनैव लिङ्गो न साध्यधर्मिण्यभावः
साध्यस्तेनैव दृष्टान्तधर्मिण्यपि तत्राप्यपरो दृष्टान्त इत्यनवस्था स्यात् व्यव
हारे तु साध्ये ना
नवस्था । प्रवर्त्तितव्यवहारस्यैव पुनः समये प्रवर्त्तनात् ।


ननु यो हि विषयं प्रतिपद्यते स विषयिणमपि प्रतिपद्यत इति कथं व्यवहार
स्यापि साध्यत्वमित्याह । विषयेत्यादि । दृश्यन्ते हि लोके तथाविधा ये विषय
प्रतिपत्तावप्यप्रतिपन्नविषयिणः
। यथा सांख्यः सत्त्वे रजो नास्तीति प्रवर्त्तितास
34 14b द्व्यवहारोपि निमित्तनिश्चया
भावान्मृत्पिण्डे न प्रवर्त्तयत्यनुपलम्भनिमित्तप्रदर्शने
घटाभावव्यवहारे प्रवर्त्त्यते ।


एवमित्यादिनोपसंहारः । एवमुक्तेन प्रकारेणानयोरनुपलब्ध्योर्दृश्यादृश्ययोः
सद्व्यवहारप्रतिषेधफलत्वन्तुल्यं ।


कथं स्वविपर्ययहेत्वभावभावाभ्यां । स्वशब्देन सद्व्यवहारस्य स्वरूपं गृह्यते
विपर्ययशब्देन सद्व्यवहारविरुद्धोसद्व्यवहारो गृह्यते । तयोर्हे
तू । स्वविप
र्ययहेतू । तत्र स्वहेतुरुपलब्धिर्विपर्ययहेतुर्दृश्यानुपलब्धिः । तयोरभावभावौ ।
स्वविपर्ययहेत्वभावभावौ । ताभ्यां ।


एतदुक्तम्भवति अदृश्यानुपलब्धौ सद्व्यवहारनिमित्ताया उपलब्धेः
प्रत्यक्षानुमाननिवृत्तावभावात् सद्व्यवहारनिवृत्तिः । दृश्यानुपलम्भे तु सद्व्यवहार
विरुद्धस्यासद्व्यवहारस्य निमित्तसद्भावात् प्रवृत्तिस्तेन सद्व्यवहारस्य निवृत्ति-

रिति सद्व्यवहारप्रतिषेधफलत्वन्तुल्यं ।


ननूपलम्भनिवृत्तावप्यर्थस्य सन्देहात् कथं सद्व्यवहारो निवर्त्तत इत्याह ।
एकत्रेत्यदृश्यविषयायामनुपलब्धौ सत्त्वस्य संशयात् ततो निश्चयात्मकः सत्त्वव्यव
हारो निवर्त्तत एव । सन्दिग्धस्तु सत्त्वव्यवहारो न निवर्त्तते । अन्यत्र तु दृश्यानृपलब्धौ
विपर्ययादिति संशयविपर्ययो निश्चयस्तस्मात् । असत्त्वस्य निश्चया
दित्यर्थः ।


यद्यदृश्यानुपलब्धौ संशयः कथं सा प्रमाणमित्याह । तत्राद्येत्यादि । तत्र
द्वयोरनुपलब्ध्योर्मध्ये आद्या दृश्यानुपलब्धिः प्रमाणमुक्ता सद्व्यवहारनिषेधे उपयो
गाद् व्यापारात् ।


क्व तर्हि तस्या अप्रामाण्यमित्याह । न त्वित्यादि । व्यतिरेकस्याभावस्य दर्श
नन्निश्चयः । आदिग्रहणाच्छब्दो व्यवहारश्च गृह्यते । संशयाद् यतो नाभाव
निश्चय उत्पद्यते ।
तस्मान्न प्रमाणं । द्वितीया त्विति । दृश्यविषयानुपलब्धिः ।
अत्रेति व्यतिरेकदर्शनादौ निश्चयफलत्वान्निश्यच एव फलमस्या इति कृत्वा । सा
च दृश्यविषयानुपलब्धिः प्रयोगभेदाच्चतुर्विधेति सम्बन्धः । विरुद्धश्च विरुद्धकायं
चेति विरूपैकशेषः । सिद्धिरुपलब्धिर्दृश्यात्मनो78रित्यत्रापि सम्बन्धनीयं ।




35
एतेन स्वभावविरुद्धोपलब्धिर्विरुद्धकार्योपलब्धि
श्च द्वे निर्दिष्टे ।

असिद्धिर्हेतुभावयोः दृश्यात्मनोः

इत्युपलब्धिलक्षणप्राप्तयोः कारणस्वभावयोरनुपलब्धिरित्यर्थः ।

एतेनापि कारणानुपलब्धिः स्वभावानुपलब्धिश्च द्वे निर्द्दिष्टे इति
चतुर्धा भवति । अभावार्थेत्यभावोऽभावव्यवहारश्चार्थः प्रयोजनं यस्याः सा
तथा ।
79


ननु विरुद्धकार्ययोः सिद्धिरित्यत्रानुपलब्धिरिति न श्रूयते तत्कथमनयोर

नुपलब्धित्वमित्यत आह । यावान् कश्चिदित्यादि । यावान् कश्चिदिति व्याप्ता80
चैतत् कथ्येत । न कश्चित् प्रतिषेधव्यवहारो लिङ्गजोस्ति योनुपलब्धिमन्तरेण
शक्यते कर्त्तु । न तु प्रत्यक्षसाध्यत्वमभावव्यवहारस्य । निराकृतमेतच्च
प्रागेवोक्तन्तामेव व्याप्तिं दर्शयितुमाह । तथा हीति81 । स इति प्रतिषेधः ।
द्विधा क्रियेत व्यवह्रियेत कस्यचिदर्थस्य विधिना
निषेधेन वा कस्यचिद्विधा- 15a
वपि क्रियमाणे । विरुद्धो वा विधीयेताविरुद्धो वाऽविरुद्धस्य विधौ निषिध्यमा
नविधीयमानयोः सहभावविरोधाभावादप्रतिषेधो निषेध्याभिमतस्य । विरुद्धस्यापी
त्यादि । एवं ह्यसौ विरुद्धः स्याद् यदि तत्र स्वविरुद्धस्यानुपलधिः । तथा हीत्या
दिनैतदेवा
82ह । अपर्यन्तकारणस्येत्यक्षीणकारणस्य
भवतः सन्तानेनोत्पद्यमानस्य
शीतस्पर्शादेरग्न्यादिसन्निधानात् पूर्वमिति द्रष्टव्यं । अन्यभावेऽग्न्यादिभावेऽभा
वादनुत्पादाद् विरोधगतिः । न त्वभावादहेतुकत्वाद् विनाशस्य ।


एतदुक्तम्भवति । पूर्वपूर्वस्य शीतस्पर्शस्य स्वरसनिरोधे सत्युत्तरोत्तरस्य
36 चाग्नितारतम्येन शीतस्पर्श83स्यापचयतारतम्ययोगिनः क्रमेणोत्पद्यमानस्य
यावत्सर्वसर्वेणानु
त्पत्तिरुष्णस्पर्शलक्षणो भवति । तेन निर्हेतुकेपि विनाशेऽ
ग्निसन्निधानात् पूर्वं प्रबन्धप्रवृत्तस्य शीतस्पर्शस्य स्वरसनिरोधेऽन्यस्य च प्रबन्धे
नोत्पित्सोरग्निसन्निधाने सत्यनुत्पत्तेरग्निशीतयोर्विरोधावगतिर्लोके न तु परमा
र्थतो विरोधः । अत एव विरोधगतिरित्याह ।
यत्पुनरुच्य
84तेन कारणनिवर्त्तनमन्तरेण कस्यचिदग्न्यादिर्निवर्त्तको
नामेति ।


तदयुक्तं ।
निर्हेतुकत्वाद् विनाशस्य कथं कारणस्य निवर्त्तकः । अथ सहेतु
कविनाशमभ्युपगम्यैवमुच्यते तदा यथासौ कारणं निवर्त्तयति कार्यं किन्न निवर्त्त
यति । यदि च कारणनिवर्त्तनमन्तरेण न कार्यं निवर्त्तयितुं शक्यते तदा तत्कारण
स्यापि कथन्निवर्त्तकं यावत्तत्कारणं न निवर्त्तयति तत्कारणस्याप्येवमित्यनवस्थया
न कश्चित् कस्यचिन्निवर्त्तकः स्यात् न च सन्ताना
पेक्षयैतद्वक्तुं युज्यते सहे
तुके विनाशे सन्तानस्यैवाभावादिति यत्किञ्चिदेतत् । स चेत्यन्यभावे सत्यभावो
नुत्पत्तिलक्षणो विरोधहेतुरनुपलब्धेः सकाशाद् व्यवह्रियते ।


अनेन सहानवस्थालक्षणो विरोधो व्याख्यातः ॥


द्वितीयं विरोधन्दर्शयन्नाह । अन्योन्योपलब्धीत्यादि । अन्योन्योपलब्धिः
परस्परप्रतिपत्तिस्तस्याः परिहारो विवेकस्तेन
स्थितं लक्षणं स्वरूपं ययोस्तौ
तथोक्तौ । तयोर्भावोन्योन्योपलब्धिपरिहारस्थितलक्षणता । सा वा विरोधः
वा शब्दः समुच्चये । नित्यानित्यत्ववदिति दृष्टान्तः ।


ननु प्रथमविरोधेप्यस्त्येव परस्परपरिहारः । द्वितीयेपि सहानवस्थानं ।
तथा हि ययोरेव धर्मयोरेकत्रानवस्थानन्तयोरेव द्वितीयो विरोधः । तथा हि रूप
रसयोरयं नेष्यते ।
तत्कस्माद् विरोधद्वयमुक्तमिति चेत्


सत्यं विषयविभागार्थन्तूक्तं । पूर्वो विरोधो दृश्यवस्तुविषय एव । द्वितीय
स्त्ववस्तुविषयोप्यदृश्यविषयश्चेत्येके । यद्वा पूर्वकोन्यतोन्यस्याभावप्रतिपत्त्यान्येन
सह विरोधः । द्वितीयस्त्वन्येन सहैकत्वाभावेन स्वरूपविषय इत्यनयोर्विरोध
15b योर्महान् भेदः । तथा हि नित्यत्वनिवृत्तिरूपमनित्यत्वम
नित्यत्वनिवृत्तिरूप
ञ्चानित्यत्वमित्येवमन्योन्यपरिहार एव विरोधः स्वरूपनिष्ठः । न च नील


37 निवृत्तिरूपम्पीतम्पीतनिवृत्तिरूपं च नीलमनयोर्भावरूपत्वान्नीलाभावे पीतस्य
भावप्रसंगाच्चतस्मान्नानयोरयं विरोधः । नाप्यनयोरन्योन्याभावाव्यभिचारेणायं
विरोधोऽप्रतीतेः । अत एवाविरुद्धस्य विधानमुच्यते । नीलस्यापि नीलनिवृत्ति
रूपेणानीलेना
यं विरोधो न नीलाभावनियतेनानीलेन तथाभूतस्यानीलवस्तुनः
पीतादिव्यतिरिक्तस्याभावात् । कथन्तर्हि नीलादौ दृश्यमाने पीतादेस्तादात्म्य
निषेधः ।


नैष दोषो यस्मात् । नीलस्यैकस्योपलम्भेन्यस्यादृश्यस्याप्युपलम्भमान
स्वभावत्वे सति तथैवोपलम्भः स्यादित्येवमुपलब्धिलक्षणप्राप्तत्वम्परामृश्य
तादात्म्यं स्वभावानुपलम्भान्निषिध्यते । अ
त्रापि च विरोधे स चानुपलब्धे
रित्यपेक्षणीयन्तेनायमर्थःस चान्योन्यपरिहारो विरोधोनुपलब्धेरेव निश्चेत
व्यः । तथा हि विरोधिनाम्विरोध एकप्रतिभासे सत्यन्याप्रतिभासनमेवोच्यते
भावस्य च रूपे प्रतिभासमाने तदभावो न प्रतिभासते तस्माद् भावाभा
वयोस्तादात्म्येनाप्रतिभासनाद् विरोधो निश्चीयते । एवं नित्यानित्यादावय
न्निश्चेतव्यः ।


अप्रति
भासनं चैकप्रतिभासनमेवोच्यते । तदाह । तत्रापीत्यादि । तत्राप्य
नन्तरोक्ते विरोधे । एकोपलब्ध्या । एकस्य विरोधिन उपलब्ध्यान्यानुपलब्धिरेव
निषेध्यानुपलब्धिरेवोच्यते । अन्यथेति यद्येकोपलब्ध्यान्यानुपलब्धिर्नोच्यते । तदा
ऽनिषिद्धा उपलब्धिर्यस्य निषेध्यस्य तस्यैकोपलब्धावप्यभावासिद्धेः । ततश्चो
पलभ्यमानस्य विरोधित्वमेव न स्यात् ।
तस्माद् विरोधद्वयस्याप्यनुपलब्धि
कृतत्वाद् विरुद्धोपलब्ध्यादयो विधिमुखेन प्रयुक्ता अप्यनुपलब्धिस्वभावा
भवन्ति ॥


ननु विरोधिनोर्विरोधलक्षणसम्बन्धग्राहिकानुपलब्धिर्दृष्टान्ते । न च सम्बन्ध
ग्राहकस्य प्रमाणस्य रूपं सम्बन्धिनोर्भवति । न ह्यग्निधूमयोः सम्बन्धग्राह85कस्य
प्रत्यक्षस्य रूपं धूमस्य भवति नाग्नेः । तत्कथम्विरुद्धोपलब्धिरनुपलब्धिर्भवत्यु
पलब्धि
रूपतया प्रतिभासनात् । तस्माद् दृष्टान्ते गृहीतविरोधमग्न्यादिकमन्यत्र
प्रदेशे दृष्ट्वा शीताद्यभावोनुमीयत इति ।


अत्रोच्यते । यदि विरोधसम्बन्धद्वारेण गम्यगमकभावो विरोधिनान्ततश्चा


38 ग्निदर्शनाच्छीतस्य प्रतीतिः स्यात्तयोरेव विरोधसम्बन्धेन समुत्थित्वात् ।
न शीता
86भावस्यासम्बन्धित्वात् । यदा चाग्निना शीतो निवर्त्त्यते तदा कथं
विरोधः सम्बन्धो
द्विष्ठत्वाभावात् । न च शीताभावेन सहाग्नेर्विरोधः सहावस्था
नात् । नाप्यग्नेः शीताभावाव्यभिचारित्वात्ततः शीताभावाद्यनुमानं । अग्निभावेपि
शीतभावदर्शनात् । तस्माद् यथा यथाग्निसद्भावे शीतस्यानुपलम्भस्तथा तथा
दृष्टान्ते तदभावस्य प्रतिपन्नत्वात् । अन्यत्राप्यग्नेः87 शीताभावस्तथैवानु
16a मीयते । तेनायमर्थो
भवति साध्यधर्मिण्यप्यग्निसद्भावे यदा शीतस्यानु
पलम्भस्तदैवाग्नेर्विरोधित्वं नान्यदा । विरोधित्वेन च गमकत्वमित्यन्यानुपलम्भेन
गमकत्वमित्युक्तम्भवति अतो विरुद्धोपलब्धिरनुपलब्धिनियतत्वादनुपलब्धि
रूपत्वं । केवलभूतलोपलब्धेर्घटानुपलब्धिरूपत्ववत् । ए88वं परस्परपरि
हारेपि विरुद्धोपलब्धिरनुपलब्धिरेव । यथार्हतां स्याद्अनित्यो
घटः
स्यान्नित्य इत्यत्र ह्यनित्योपलब्धिरेव नित्यानुपलब्धिरतो न नित्यानित्य
रूपम्वस्तु ॥


एवमर्थान्तरविधावपि निषेध्यस्यानुपलब्धिङ्गमिकां प्रतिपाद्यार्थान्तरनिषे
धेपि प्रतिपादयितुमाह । एकस्येत्यादि । कस्मात् निषेधस्येत्यादि । न चार्था
न्तराभावादर्थान्तरनिषेधेति89प्रसङ्गः यतस्तत्रापीत्यन्यनिषेधे साध्ये
कार्यकाहणयोर्निषेधो हेतुः स्यात् ।
अनुभयस्याकार्यस्याकारणस्य वा निषेधो
हेतुः स्यात् । तत्र तेषु । अनुभयस्याकार्यकारणात्मकस्य निषेध्येन सह प्रतिबन्धा
भावात् तदभावे
ऽप्रतिबद्धस्याभावे । अन्येनेति प्रतिषेध्याभिमतेन । न भवितव्य
मिति कुत एत
त् । कार्यानुपलब्धावपि कुतस्तदभाव इति सम्बन्धः । तदभाव इति
कारणाभावः । यतो नानाकारणानि तद्वन्ति कार्यवन्ति
वैकल्य
प्रतिबन्धसम्भवात् ।
एतच्च कारणमात्र गृहीत्वोक्तमप्रतिबद्धासामर्थ्यस्य कारणस्याभावः कार्याभावाद्
गम्यत एव यतोनुभयस्य कार्यस्य चानुपलब्धिर्गमिका । तस्मात् कारणानुपल-


39 ब्धिरेवाभावं गमयति । कार्यस्येति सम्बन्धाद् गम्यते ॥


स्वभावानुपलब्धेरप्यभावहेतुत्वादवधारणमयुक्तमिति चेदाह । स्वभावानुपल
ब्धिस्तु स्वयमसत्तैव
नात्रार्थान्तरस्याभावः साध्यते । स्वभावान्तरस्य च निषेधे
साध्ये कारणानुपलब्धिरेवेत्यवधारणमतो न व्याघातः ।


किन्तर्हि तत्र साध्यत इत्याह । केवलमित्यादि । तत्रेति स्वभावानुपलब्धौ
विषयी असज्ज्ञानादिः । अस्यामपीति स्वभावानुपलब्धौ यदा व्यापको यो धर्मस्त
स्यानुपलब्ध्या व्याप्याभावमाह । यथा नात्र शिंशपा वृक्षाभावादिति । तदाऽभे
90

दोपि व्याप्यस्य साध्यते । अपिशब्दाद् व्यवहारोपि । यदा हि समुन्नतयोः पर्वत
प्रदेशयोरेकस्मिन् प्रदेशे तरुवनं दृश्यमानमतिगहनत्वादनवधारितवृक्षविशेषम्भवति ।
तत्रापरस्मिन् पर्व्वतोद्देशे शिंशपाभावो न निश्चेतुम्पार्यते शिंशपाया अदृश्यत्वाद्
वृक्षस्तूपलब्धिलक्षणप्राप्त इति शक्यतेऽभावनिश्चयः कर्त्तुन्तस्य । तदा व्यापका
भावा
द् व्याप्यस्याभावः साध्यते ॥


इयमित्यादिनाऽभावार्थेत्यादिकारिकाभागं व्याचष्टे । विरुद्धसिद्ध्येति ।
स्वभावविरुद्धोपलब्ध्या । यथेत्यादि । यत्र धर्मिणि शीतस्पर्शः परोक्षः । वह्निश्च
दृश्यते दूरात्तस्मिन् विषयेऽयं प्रयोगः । एतेनेति स्वभावविरुद्धोपलब्ध्युदाह
रणेन व्यापकविरुद्धसिद्धिरुक्ता वेदितव्या । यथेत्याद्युदाहरणं । शीत
स्पर्श- 16b
विशेष एव । हिमानुगतस्तुषारस्तस्य व्यापकः शीतस्तस्य विरुद्धोग्निः । तत्राग्नि
र्विरुद्धं शीतं निवर्त्तयन् तद्व्याप्यन्तुषारस्पर्शमपि निवर्त्तयतीत्यर्थतः स्वभावविरुद्धो
पलब्धावियमन्तर्भवति । यत्र च वह्निः प्रत्यक्षः शीतस्पर्शस्तुषारस्पर्शश्चाप्रत्यक्ष
स्तत्रायमपि प्रयोगो द्रष्टव्यः । विरुद्धस्य यत्कार्यन्तस्यासिद्ध्या । यथेत्यादि ।
न शीतस्पर्शोत्र धूमादिति शी
तविरुद्धोग्निस्तस्य कार्यं धूमः सोग्निं सन्निधापयति
स च शीतमपनयति । यत्र च शीतस्पर्शः परोक्षो वह्निरपि धूमश्च प्रत्यक्षस्तत्रायं
प्रयोगो द्रष्टव्यः । एवन्तावद्विरुद्धकार्ययोः सिद्धिरित्येतद् व्याख्यातं ।


अधुना




40
असिद्धिर्हेतुभावयोः ।

इत्येतदुदाहरणाख्यानेनाचष्टे हेत्वसिद्ध्येति कारणानुपलध्या । यथे
त्यादि । यदा महाह्रदस्योपरि
वास्पादौ धूमादिरूपतया सन्देहो भवति
तदाऽयं प्रयोगो द्रष्टव्यः । तत्र हि निष्कम्पे महाह्रदे यद्यग्निः स्यात् प्रभास्वर
तया प्रत्यक्ष एव स्याद् अप्रत्यक्षत्वादेव वह्नेरभावात् कार्याभावः
साध्यते । स्वभावासिद्ध्येति स्वभावानुपलब्ध्या न तत्र धूमोऽनुपलब्धेरिति ।
उपलब्धिलक्षणप्राप्तस्येति द्रष्टव्यं । एतेनेति स्वभावानुपलम्भप्रयोगेण । व्याप
श्चा
सौ स्वभावश्च तस्यासिद्धिरनुपलब्धिरुक्ता । यथा नात्र शिंशपा
वृक्षाभावात्
। स्वभाव एव वृक्षत्वं शिंशपात्वस्यातो वृक्षत्वेन शिंशपा
व्याप्ता ॥


ननु च स्वभावानुपलब्धावेव दृश्यनिषेधो न तु विरुद्धोपलब्ध्यादौ तथा
ह्यदृश्यस्यैव शीतस्पर्शस्य कार्यस्य चादृश्यस्यैव निषेधः साध्यते दृश्यत्वे हि
स्वभावानुपलब्धिरेव स्यात् । तेन यथाऽदृश्यस्य शीतस्प
र्शादेर्निषेधस्तथा पिशा
चादेरपि स्यादित्यत आह । सर्वत्रेत्यादि ।


एतदुक्तम्भवति । यथा स्वभावानुपलब्धावन्यत्रोपलब्धस्य घटादेः प्रदेश
विशेषेऽभावः साध्यते तथान्यत्र प्रतिपन्नविरोधस्य शीतस्पर्शस्य प्रतिपन्नकार्यत्वस्य
च कार्यस्य विरुद्धोपलब्ध्यादिना साध्यधर्मिण्यभावः साध्यते न तु सर्वदाऽदृश्यस्येति ।
सर्वत्रेति विधिमुखेन
प्रतिषेधमुखेन च प्रयुक्तायामभावसाधन्यामित्यभावश्चाभा
वव्यवहारश्चाभावशब्देनोक्तः ।


तेषामपि येषामभावेनाभावः साध्यते तेषां कारणादीनां दृश्यात्मनामेवासिद्धि
रनुपलब्धिः । तद्विरुद्धानां च प्रतिषेध्यार्थविरुद्धानाञ्च स्वभावविरुद्धादीनां

41 सिद्धिरुपल
91ब्धिलिङ्गत्वेन वेदितव्या । अत्र च दृश्यात्मनां सिद्धिरिति न
सम्बध्यते उपल
ब्धिवचनादेव दृश्यात्मताया लब्धत्वात् । किन्त्वेवं सम्बन्धः
कर्त्तव्यः । दृश्यात्मनान्निषेध्याभिमतानां ये विरुद्धास्तेषां सिद्धिरिति । किंङ्का
रणम् अन्येषामदृश्यात्मनां कारणादीनामभावासिद्धेः । अदृश्यानां निषे
ध्याभिमतानां स्वभावविरुद्धादिति विरोधाद्यसिद्धिः ॥
यदी
92त्यादि परः । शीतविरुद्धस्याग्नेः कार्यं धूमस्योपलब्ध्याप्यभाव
सिद्धिः
शीतस्य । तत्कारणोपलब्ध्या । तस्य शीतविरुद्धस्याग्नेर्यत् कारणं 17a
काष्ठादिस्तस्योपलब्ध्या किन्न सिध्यति शीताभावः ।


तद्विरुद्धस्येत्याद्याचार्यः । तेन शीतस्पर्शेन विरुद्धस्य वह्नेर्निमित्तं काष्ठादि
स्तस्य योपलब्धिः प्रयुज्यते सा व्यभिचारिणी । कदा निमित्तयोर्विरुद्धत्वा
भावे सति । अ93ग्निशीतनिमित्तयोर्विरोधाभावे सति । उदाहरणमाह ।
यथेत्यादि । अत्र हि काष्ठमा
त्रस्य दहनहेतोः शीतनिमित्तेन तुषारादिना विरोधा
भावात् । यत्पुनरप्रतिबद्धसामर्थ्यमग्निजनकं काष्ठन्तस्य यद्यपि शीतनिमित्तेन
विरोधस्तथापि तथाभूतस्य काष्ठस्य कार्यदर्शनादेव निश्चयात् कार्यविरोध एव
स्यात् । निमित्तयोः पुनर्विरोधे गमिकैव च कारणानुपलब्धिः । यथा नास्य पुंसः
रोमहर्षादिविशेषाः । आदिशव्दाद् दन्तवीणाक
म्पादयः । विशेषग्रहणं शीत
कार्याणां परिहारार्थं । पिशाचादिविकारकृता अपि हि ते सम्भवन्ति । सन्निहितो
दहनविशेषो
यस्य पुरुषस्य स तथा तद्भावस्तस्मात्अत्रापि विशेषग्रहणं यथा
भूतो दहनो रोमहर्षाद्यपनयनसमर्थस्तथाभूतस्य परिग्रहार्थं । अत्र हि परिताप
निमित्तस्य दहनस्य रोमहर्षादिनिमित्तेन शीतेन विरोधो
स्ति । तस्माद् दहनः
स्वविरुद्धं शीतमपनयंस्तत्कार्यमपि रोमहर्षादिकमपनयतीति । शीतस्पर्शस्य तत्का
र्यस्य च रोमहर्षादेः परोक्षत्वे सति वह्निदर्शनाच्छीतकारणनिवृत्त्या यदा रोम
हर्षादेर्निवृत्तिः साध्याभिप्रेता तदाऽयं प्रयोगो द्रष्टव्यः ।


एतेन कारणविरुद्धोदाहरणेन तत्कार्यादपीति विरुद्धस्य यत्कार्यन्तस्मादपि ।


42 तद्विरुद्धकार्याभा
वगतिरुक्तेति
। यस्य विरुद्धस्य कार्यमुपलभ्यते तेन विरुद्धो यो
द्वितीयः प्रतियोगी स तद्विरुद्धस्तस्य यत् कार्यन्तस्याभावगतिरुक्ता । यथेत्युदाह
रणं । रोमहर्षादिविशेषो यः शीतकृतस्तेन युक्तो यः पुरुषः स यस्मिन् प्रदेशे
विद्यते स तथा । प्रदेशोपादानं धूमादित्यस्य पक्षधर्मत्वप्रतिपादनार्थं । पुरुषे हि
धर्मिणि न पक्षधर्मो हे
तुः स्याद् धूमस्य प्रदेशधर्मत्वात् । अयं च प्रयोगः
यत्र वह्निः शीतस्पर्शो रोमहर्षादिविशेषश्च परोक्षस्तत्राभावसाधने द्रष्टव्यः ।
तत्र हि शीतविरुद्धाग्निकार्यस्य धूमस्योपलब्ध्या अग्निविरुद्धशीतकार्यस्य रोमह
र्षादेरभावः साधयितुमिष्टस्तेन तथाभूत एव साध्यः । धूमो हि दहनं सन्निधा
पयति स शीतन्निवर्तयति स निवर्त्तमानः
स्वकार्यं रोमहर्षादिकन्निवर्त्तयती
त्यर्थात् कारणविरुद्धोपलब्धिरियं ।


17b इयन्तद्विरुद्धोपलब्धि १ । ३२रिति सम्बन्धः । कारणविरुद्धोपलब्धिरित्यर्थः ।
हेत्वसिद्ध्यैव कारणानुपलब्ध्यैव प्रागेव निर्दिष्टा । यस्मादनयोरपि प्रयोगयोः
कारणानुपब्धेरेव कार्याभावगतिस्तस्मादियं कारणानुपलब्ध्यैवोक्ता ।


इतीयमित्यादि । मौलेन प्रभेदेन चतुर्विधापि सती अवान्तरप्रयोगभेदाद्
अष्टविधा
भवति । तथा हि स्वभावविरुद्धोपलब्धेर्व्यापकविरुद्धोपलब्धिः प्रभेद
उक्तः । स्वभावानुपलब्धेर्व्यापकानुपलब्धिः । कारणानुपलब्धेः कारणविरुद्धो
पलब्धिः कारणविरुद्धकार्योपलब्धिश्च । विरुद्धकार्योपलब्धिस्त्वेकप्रकारेत्यष्टवि
धा
भवति ॥


ननु चिरविनष्टेप्यग्नौ वासगृहादौ धूमस्य सद्भावात् कथम्विरुद्धकार्योपलब्धेर्न
व्यभिचार इत्यत आह ।


तत्रेत्यादि । तत्र विरुद्धकार्येपीष्टं देशकालाद्यपेक्षणं । नात्र शीतः कस्मिंश्चित्
काले यदाऽग्निर्वर्तमानीभूत इति कालापेक्षणं । व्योम्नि धूमात् कुत्रचिद्देशे नास्ति
शीतो यत्र सन्निहितो वह्निर्यतोयं धूम उत्थित इति देशापेक्षणं ।
आदिंशब्दाद्
अवस्थाविशेषापेक्षणं योवस्थाविशेषो धूमस्य सन्निहिताग्नेर्दृष्टस्तमपेक्ष्य
वर्त्तमानेपि काले शीताभावोनुमीयते । अग्निरत्र धूमादिति कार्यहेतावपि देशका
लाद्यपेक्षणमिष्टं । अस्यैवार्थस्य समुच्चयार्थोऽपिशब्दः ।


ननु देशकालाद्यपेक्षित्वस्य कार्यहेतुविशेषणत्वेऽसिद्धो हेतुः स्याद् धर्मिणो
ऽभावादिति चेत् न । प्रदेश ए
व धर्मिणि देशकालाद्यपेक्षित्वेन गमकत्वादि
त्युक्तत्वात् ।

43 अन्यथेति यदि न देशाद्यपेक्षणन्तदा व्यभिचारि विरुद्धकार्यं स्यात् । यथा भस्मा
नपेक्षितदेशकालं अशीतसाधने शीताभावे साध्ये व्यभिचारि । तद्वत् एवन्तावद्
विरुद्धाद्युपलब्धिरनुपलब्धिरिति प्रतिपादितं ॥


यस्तर्हीत्यादि परः । समगुणेति सन्निहितानुपहितेन यथा क्षितिवीजो

दकादिकारणकलापं दृष्ट्वांकुरः कार्योनुमीयते । स कथं कारणाख्यो हेतु
स्त्रिविधे स्वभावकार्यानुपलम्भाख्ये हेतावन्तर्भवति । न तावदनुपलब्धौ विधि
साधनत्वात् । कारणस्वभावत्वान्न कार्यहेतौ । अर्थान्तरेणार्थान्तरस्यानुमानान्न
स्वभावहेतौ ॥


अन्तर्भावमाह ।


हेतुनेत्यादि । समग्रेणेति यावतः कारणकलापात् कार्यमुत्पद्यमानं दृष्टन्तावता

नान्त्यावस्थाप्राप्तेन तत्र लिङ्गिग्रहणात् प्रागेव कार्यस्य प्रत्यक्षत्वात् । अप्रत्यक्षत्वे
वाऽन्त्यावस्थानिश्चयायोगादनुमानं । न च यस्तान् निश्चेतुं शक्ष्यति तस्यानुमान
मन्त्यक्षणानामर्वाग्दर्शनेनानिश्चयात् । यः कार्योत्पादोनुमीयते स हेतोः स्वभावो
वर्णितः
। कुतोर्थान्तरानपेक्षत्वात् । तेनायमर्थः कार्योत्पादनयोग्यतामात्रानुबन्धि
त्वात्
स्वभावभूता


ननु यदाऽन्त्यावस्थापेक्षः कार्योत्पादस्तदा कथमन्यानपेक्ष इत्याह । असावपीति
कार्योत्पादः । यथासन्निहितो यादृशः सन्निहितः । कारणकलापः । तादृशात्
सन्निहितान्नान्यमर्थमपेक्षत इति तादृग्मात्रानुबन्धी स्वभावः । कस्य भावः
समग्रस्य कारणकलापस्य सन्तानापेक्षयैतद् उच्यते न क्षणापेक्षया । जनकः

कारणकलापसन्तानोनपेक्ष इत्यर्थः । 18a


यद्यप्यनपेक्षः कार्योत्पादस्तथाप्यर्थान्तरत्वात् कथं स्वभाव इत्याह । तत्रेत्यादि ।
यस्मात्तत्र समग्रेषु कारणेषु समग्रात् कारणाल्लिङ्गात् कार्योत्पत्तिसम्भव
स्तथानुमीयते । सम्भवत्यस्मादिति सम्भवः । कार्योत्पादनयोग्यतानुमीयत इत्यर्थः ।
एतदेव व्यनक्ति । समग्राणां कार्योत्पादनयोग्यतानुमानादिति । योग्यता


44 सामग्रीमात्रानुवन्धिनी कारणान्तरानपेक्षत्वात् ।


यदि तर्हि कार्योत्पादनशक्तिस्तन्मात्रानुवन्धिनी नियतस्तर्हि कार्योत्पाद
इति स एव कस्मान्नानुमीयत इति परः पृच्छति । किं पुनः सामग्र्याः सकाशात्
कार्यमेवानुमीयत इत्यत्राह । सामग्रीत्यादि । सामग्र्याः फलञ्च ताः शक्तयश्चेति
सामग्रीफलशक्तयः । तथा हि पूर्वस्मात् समग्रादुत्तरस्यसमर्थस्य क्षण
स्योत्पत्तिस्तस्य
चात्मातिशयः शक्तिरिति सामग्री फलं शक्तिस्तासां परिणामः । उत्तरोत्तरप्रबन्धे
नोत्पत्तिस्तदनुवन्धिनि तदपेक्षिणि कार्ये । कारणेनानुमातव्येऽनैकान्तिकता ।
किङ्कारणं प्रतिबनधस्यसम्भवात् ।


तद्व्याचष्टे । न हीत्यादि । समग्राणीत्येव सन्निहितानीत्येव कारणद्रव्याणि
स्वकार्य जनयन्ति । किङ्कारणं । सामग्रीत्यादि । सामग्र्याः सकाशा
ज्जन्म
यासां शक्तीनान्तासामुत्तरोत्तरपरिणामः । पूर्व्वपूर्व्वक्षणादुत्तरोत्तरविशिष्टक्षणो
त्पादो यस्तदपेक्षत्वात् कार्योत्पादस्य । अत्रान्तरे चेति सन्तानपरिणामकाले ।
प्रतिबन्धसम्भवात् ।


ननु योग्यताप्युत्तरोत्तरक्षणपरिणामप्रतिवद्धा तत्रापि च प्रतिबन्धसम्भ
वात् कथन्तदनुमानमपीत्याह । योग्यतायास्त्वित्यादि । द्रव्यान्तरानपेक्षत्वात्
सन्निहि
तकारणकलापव्यतिरेकेण कारणान्तरानपेक्षत्वान्न विरुध्यतेऽनुमानं ।


तदेवानुमानमाह । उत्तरोत्तरेत्यादि । पूर्वपूर्वक्षणमुपादायोत्तरसमर्थक्षणोत्पाद
उत्तरोत्तरशक्तिपरिणामः । तेन हेतुभूतेन कार्योत्पादनसमर्थेति साध्यनिर्देशः ।
इयं कारणसामग्रीति धर्मी । शक्तिपरिणामप्रत्ययस्यान्यस्यापेक्षणीयस्याभावा
दिति हेतुः
शक्तेः परिणामस्य योऽपरः सहकारिप्रत्ययस्तस्यापेक्षणीयस्याभावात् ।



45

कुतस्तर्हि शक्तेः प्रसव इत्याह । पूर्वेत्यादि । पूर्वसजातिः सदृशः पूर्वः
कारणकलापस्तावन्मात्रं हेतुर्यस्याः शक्तिप्रसूतेः सा तथा । तद्भावस्तस्मात् ।
अतः कारणात् सा योग्यतानन्यापेक्षिणीत्युच्यते ॥


ननु कार्यं प्रति कारणस्य योग्यता यदि शक्तिरुच्यते तदा का
र्यव्यभिचारे
योग्यताया अपि व्यभिचार इति कथमेतदनुमानं । अथ योग्यतासम्भव उच्यते
तदायमर्थः स्यात् कार्यं स्याद्वा न वेति । तथापि कथमस्यानुमानं सन्देहादिति ।


अत्रोच्यते । परेण हि कथमेतदनुमानन्त्रिविधहेतुजन्यमिति चोद्यते । यद्ये
तदनुमानम्परेण समर्थ्यते तदा त्रिविधलिङ्गजमेवेत्या चा र्ये ण प्रतिपाद्यते । न त्वेत
त्परमा
र्थतानुमानमित्येवम्परमेतदित्येके । अथवा यद्येकान्तेन कार्योत्पादन- 18b
योग्यतानुमीयते । तदा व्यभिचारादनुमानं न स्यात् । यदा तु कदाचित् कार्यं स्यादि
त्येवंरूपः सम्भवोनुमीयते तदा कथमस्य व्यभिचारः । तेनायमर्थ उत्तरोत्तरपरि
णामे यदि प्रबन्धाभावस्तदा कार्यं स्यादन्यदा तु नास्तीति । परोक्ते त्वेकान्तेन
कार्यानुमाने व्यभिचार एव ।


अन्ये तु परि
णामवत्यां सामग्र्यां प्रतिबन्धकाभावे सत्येकान्तेन कार्योत्पाद
नयोग्यता भवतीति सैवानुमीयते । कार्योत्पादनयोग्यताप्रतीतिश्च कार्यमपि विशेष
णत्वेनाक्षिपतीति न पृथक् कार्यानुमानं क्रियत इति मन्यन्ते । केवलं सामग्रीमात्रात्
कार्यानुमाने व्यभिचार उच्यते प्रतिबन्धकाभावः कथम्प्रतिपन्न इति चेत्
सत्यं । यो हि तं ज्ञातुं शक्नोति तस्यैतदनु
मानं यो हि धूमस्याग्निजन्यत्वं ज्ञातुं
शक्नोति तस्य धूमादग्न्यनुमानं नान्यस्य तद्वत् ॥


या तर्हीत्यादिना पुनरपि त्रिधैव स इत्यस्य व्याघातमाह । अकार्यकारण
भूतेन
। अनुमेयादर्थादन्येनास्वभावेन रसादिना । आदिशब्दाद् गन्धादिना
रूपादिगतिः
। अत्राप्यादिशब्दात् स्पर्शादिग्रहणं । अन्धकारे हि मातुलुङ्गादिर
समास्वाद्य । चम्पकगन्धमाघ्राय । व
ह्नेश्च स्पर्शमनुभूय । तेषां रूपसामान्य
मनुमीयते । तथा वह्निरूपं दृष्ट्वा तत्स्पर्शः । सा कथन्त्रिविधे हेतावन्तर्भवतीति
प्रकृते ।



46

न चाप्रमाणमियन्ततो लिङ्गान्तरप्रसंग इत्याह । सापीत्यादि । सापि गति
रिति सम्बन्धः । रूपादेः किम्विशिष्टस्यैकसामग्र्यधीनस्य । रसस्य जनिका या
सामग्री तस्यामेव सामग्र्यामायत्तस्य रसतो लिङ्गाद्या गतिः सा हे
तुधर्मानु
मानेन । रसस्य यो हेतुः पूर्वमपादानन्तस्य यो धर्मों रूपजनकत्वन्तस्यानुमानेन
तेनायमर्थो रसात् सकशात् तद्धेतोरससमानकालभावि रूपजनकत्वन्निश्चीयते ।
एवं हि तस्य रससमानकालभावि रूपजनकत्वं निश्चीयते । यदि समानकाल
भाविनो रूपस्यापि निश्चयः स्यात्तेनातीतैककालानामेकैव गतिः कार्यलिङ्गजा


नन्वनभिहिताद् रसहेतोः सकाशात् पश्चात्समानकालस्य रुपस्यानुमानं हेतोः
कार्यानुमाने व्यभिचारात् । कार्योत्पादनयोग्यतानुमाने च न रससमानकालस्य
रूपस्यानुमानं स्यात् । अनुमितानुमानप्रतीतेरभावाच्च । तेन यदुच्यते
यदातीतानां गतिस्तदा कार्यश्च तल्लिङ्गश्च तस्माज्जातेति कार्यलिङ्गजा
यदा तु समानकालानाङ्गतिस्तदा का
र्यं लिङ्गं यस्य हेतुधर्मानुमानस्य तत्कार्य
लिङ्गन्तस्माज्जाता कार्यलिङ्गजेति तदपास्तं । तत्र परे मा... चावयविद्रव्ये
रूपादयो गुणा व्यवस्थितास्तेन तत्र रूपादेरसतो गतिर्युक्ता । न बौ द्धा नां रूपा
दिव्यतिरेकेणावयविनोऽनभ्युपगमात् न धर्मिणोऽभावात् । धर्मिणमन्तरेण चानुमाने
19a रसतो रूपादेः सर्वत्रानुमानप्रसङ्गात् ।
असमुदायश्च साध्यः स्यात् । अपक्षधर्मश्च
हेतुः स्यात् । नापि हेतुधर्मानुमानं युज्यते रूपादिकार्यत्वेन रसादेरप्रतिपन्नत्वात् ।
न च क्षणिकपक्षमनिश्चित्यैवमुच्यते । क्षणिकत्वे हि रूपादेः समानजातीयकार्यत्वं
स्यान्न रसादिकार्यत्वं प्रतिबन्धग्राहकाभावात् । न क्षणानामनुमानानुमेयव्यवहारः
सम्बन्धानिश्चयात् । सन्तानाश्रयेण त्वनुमानादिव्यवहारे रूपादिसन्ता
नानां न
परस्परं कार्यकारणभावः प्रतिपन्न इति कथमनुमानानुमेयव्यवहार इति ।


एवम्मन्यते न सर्वत्ररसादे रूपाद्यनुमानमपि त्वाम्रादौ धर्मिणि । तत्र च
रूपादीनां परस्पराविनिर्भागर्भाग 94 नियमः प्रतीयत एव स च प्रतिबन्ध
हेतुकोऽन्यथा घटपटादीनामपि परस्पराविनिर्भागनियमः स्यात् । प्रतिबन्धश्च
तेषां न तादात्म्यं
भेदेन प्रतीतेर्नापि तदुत्पत्तिः समानकालत्वात् । न चैकार्थ
समवायस्तेषां यतो न तावदसमवेतानां समवायबलादेकार्थसमवायः समवायस्यैवा
भावात् । अतिप्रसङ्गाच्च । समवेतानामपि किं समवायेन स्वहेतुभ्य एव तथा
निष्पत्तेः । तथा निष्पत्त्यैव वाच्याभिधानाद् गमकत्वम्तस्मादेकसामग्र्यधीनत्वं
प्रतिबन्धः । निश्चितप्रतिबन्धस्य चान्य
स्मिन् कालेनुमानं । यद्यपि चात्रावयवी
म विद्यते तथाप्याम्रादिप्रत्ययविषयस्य धर्मित्वन्तेन तत्र रसतो रूपादिगतिः ।


ननु तथापि कथमेषामेकसामग्र्यधीनत्वं । यतो यै95व स्वभावेन रूपं

47 रूपं जनयति न तेनैव रसादिकं जनयति तेषां परस्पराभेदप्रसंगात् । नाप्यन्येनान्यं
जनयति तस्य स्वभावभेदप्रसंगात् ।


नैष दोषो यस्मात् । न तत्र रूपस्य पूर्व्वमेक
कार्यजनकत्वं येनायन्दोषः
स्यात् । किन्त्वेककालमनेककार्यजनकत्वमेव । ततस्तस्यैवोत्पत्तिदर्शनात् ।
न च कारणस्य कार्याभाव एव कारणत्वं येनानेकमेकस्मादुत्पद्यमानमेकं प्रसज्येत
किन्तु कार्योत्पत्तौ प्राग्भाव एव तस्य कारणत्वं लोके । यथा चैककार्योत्पत्तौ तस्य
प्राग्भावकारणत्वन्तथा कलापोत्पत्तावपि
दृष्टत्वात् । यद्वा येनैव स्वभावेन रूपं
रूपं जनयति तेनैव रसादिकमपि स्वरूपभेदस्त्वेषामुपादानभेदकृतो न सहकारिकृतः ।
तथा हि वायौ स्पर्शसद्भावेपि रूपाद्यभावाद् रूपाद्यनुत्पत्तिः । अग्नौ च रूपादि
सद्भावेपि रसाभावाद् रसानुत्पत्तिः । अप्सु रसादिभावेपि गन्धाभावाद् गन्धानु
त्पत्तिस्तेन रसादेर्नियतं का
रणं रसादिरेवावसीयते । नियतं च कारणमुपादान
कारणं समानजातीयमभिन्नसन्तानवर्त्ति वा । तस्मादुपादानकारणभेदाद् रूपा
दीनां स्वभावभेदः ।


यत्पुनरुच्यते । तत्रानेकशक्तीनां समुच्चयः । तेन रूपमेकया शक्त्या रूपं
जनयत्यन्यान्यया रसादिकमिति ।


तदयुक्तम् अनेकशक्तिद्वारेणाप्ये
कस्यानेककार्यकारणाभ्युपगमेऽनेकत्व- 19b
प्रसङ्गोऽनिवारित एव भावस्यानेकशक्तीनामेवानेकस्वभावत्वात् । अभिन्नत्वाच्च
शक्तीनां शक्तिभेदे रूपस्य भेदप्रसङ्गः । भेदे वा शक्तीनां रूपस्याकारकत्व
प्रसङ्गात् । न च शक्तियोगात् कारकत्वमशक्तस्य शक्तियोगाभावात् । शक्तस्यापि
किं शक्तियोगेन स्वरूपेणै
व कारकत्वाच्छक्तेश्च कारकत्वं न स्याच्छक्तियोगा
भावात् । अथ शक्तित्वान्न सा शक्तिमपेक्षते भावोपि तर्हि शक्तत्वात्
किमिति शक्तिमपेक्षते ।


योपि मी मां स को मन्यते । भावस्य स्वरूपातिशय एव श क्तिः सा च भिन्ना
भिन्ना । यतो भावे गृह्यमाणे शक्तिर्न गृह्यतेऽतो भावाद् भिन्ना । कार्यान्यथानु
पपत्त्या तु सा भावस्याभिन्नाऽन्यथा भाव
स्य कारकत्वन्न स्यात् । तदुक्तं


शक्तयः सर्वभावानां कार्यार्थापत्तिकल्पिता इति

सोपि निरस्तः । एकस्याः शक्तेर्भिन्नाभिन्नरूपत्वविरोधात् । किं चार्था
पत्त्या कार्यात् प्राग्भाविन एव भावस्याभिन्ना शक्तिः कल्प्यतां इति प्राग्भाव
एव शक्तिः स च प्रत्यक्षसिद्ध इति कथं न शक्तिः प्रत्यक्षा । केवलं सा कार्य
दर्शनान्निश्चीयते । तस्मात् कार्याद् रसादेः कारण
धर्मानुमानाद् अस्य कार्यहेता
वन्तर्भावः । धूमेरधनविकारवदिति । यथा धूमादग्न्यादिसामग्र्यनुमितौ भस्मा

48 ङ्गारादीन्धनविकारानुमितिः तद्वत् ॥


ननु च रसकार्येणानुमितात् कारणात् सकाशात् समानकालिनः कार्यस्यानु
मानमिदं न तु हेतुधर्मानुमानमित्यत आह । तत्रेति रसाद् रूपे प्रतिपत्तौ हेतुरेव
तथाभूत
इति रूपजननसम्बन्धोनुमी
यते
यस्मिन्ननुमीयमाने कार्यान्तरमपि
तद्विशेषणन्निश्चितम्भवति । न त्वनुमितात् कारणात् पश्चात् कार्यान्तरमनुमेयं ।
कुत इत्याह । हि यस्मात् । प्रवृत्ता न प्रतिबद्धा शक्तिर्यस्य तत् प्रवृत्तशक्ति
तथाभूतं च तद्रूपोपादानकारणं चेति तथोक्तं । तस्य सहकारिप्रत्ययः सन् । रसहेतू रसं
जनयति
। तथाभूते च हेतावनुमितेर्थाद् रूपानुमानं रू
परसयोरेकसामग्र्यधीनत्वात् ।
इन्धनविकारविशेषो भस्माङ्गारादिः । तस्योपादानं काष्ठं तस्य सहकारिप्रत्ययोग्निः ।
तस्य यथा धूमजननन्तेन तुल्यन्तद्वद् रूपरसयोरेकसामग्र्यधीनत्वं ।


तथा हीत्यादिना समर्थयते शक्तिप्रवृत्तेति सूत्रं ।96 अस्य व्याख्यानं स्वकारण
स्ये
त्यादि । स्वकारणस्येति रसस्य यत् स्वकारणन्तस्य फलोत्पादनं प्रतीतिर

सोत्पादनं प्रत्याभिमुख्येनानुगुण्येन विना न रस उत्पद्यते । सैवेति शक्तिप्रवृत्तः ।
अन्यकारणमित्यस्य व्याख्यानं रूपोपादानेत्यादि । रूपस्य य उपादानहेतवः पूर्व
लक्षणसङ्गृहीता रूपपरमाणवस्तेषां रूपजननम्प्रत्याभिमुख्यं प्रवृत्तिस्तस्याः कारणं
20b रसहेतुनैव सहकारिणा रूपोपादानस्य स्वकार्यं प्रत्याभिमुख्यात् । सापि
सोपा
दानकारणप्रवृत्ती रूपोपादानकारण
स्य रूपजननम्प्रति या प्रवृत्तिस्तया सह कर्त्तु
शीलं यस्या रसोपादानकारणप्रवृत्तेः सा तथोक्ता । यत एवन्तस्माद् यथा
भूताद्धेतो
रिति प्रवृत्तशक्तिरूपोपादानकारणसहितात् पूर्वक्षणसंगृहीताद् रसा


49 ल्लिङ्गत्वेनाभिमतो रस उत्न्नस्तथाभूतमेव हेतुमनुमापयन् गमयन् समानका
लं
रूपं गमयति । तेनायमर्थो हेतुनिश्चय एवेदृशो नान्यः ।


न पुनरनुमितात् कारणात् पश्चात् कार्यानुमानं । यतश्च कार्यजनकत्वेनैव
हेतुधर्मनिश्चयो नान्यथा तेनैवाह । इति तत्रापीत्यादि । इति अनेन द्वारेण । तत्रापि
रसादे रूपाद्यनुमानेऽतीतानामेककालानां च गतिः । रसोपादानसमानकाल
भाविनोऽतीताः । लिङ्गभूतरससहभा
विन एककालास्तेषाङ्गतिः । नाऽनाग
ताना
म्वर्त्तमानेन लिंगेनानुमानं व्यभिचारात् । अनागतं हि कारणान्तरप्रतिबद्ध
न्तत्र प्रतिबन्धवैकल्यसम्भवान्न भवेदपि । यच्चाद्योदयात् श्वः सूर्योदयाद्यनुमानन्न
तदनुमानं नियामकलिङ्गाभावात् । अद्य गर्दभदर्शनात् श्वः सूर्योदयानुमानवत् ।
तस्मादियमपि रसादे रूपादिगतिः कार्य
लिङ्गजे
त्यनुमानं । यतश्च साध्यायत्त
त्वेन हेतुर्गमकस्तेन कारणेन त्रिविधाद्धेतोर्नान्यो हेतुः संयोग्यादिर्गमकोस्ति । कस्मा
त्तादात्म्यतदुत्पत्तिभ्यां लिङ्गिन्यप्रतिबद्धस्वभावस्याविनाभावनियमाभावात्


एतदुक्तम्भवति । न तावदश्लिष्टानां संयोगोस्ति । श्लिष्टानामपि किं संयोगेन
स्वहेतुभ्यः एव श्लिष्टानामुत्पत्तेः । तस्मान्न संयोगवशाद् ग
मकत्वमप्रतिबद्ध
त्वात् । घटघटयोरिव । तथा पृथक्सिद्धानान्न समवायः । अपृथक्सिद्धानामपि
किं समवायेन स्वहेतुभ्य एवोपर्युपरिभावेन निष्पत्तेस्तेन न समवायेनापि गमकत्वं
साध्यायत्तत्वाभावान्न च समवायोस्तीति वक्ष्यति । अत एवैकार्थसमवायि
नोरभाव इति पूर्वमेवोक्तं रसाद्यनुमाने । विरोधी चानुपलब्धावन्तर्भावि
तः ।


यच्च नै या यि कोक्तं पूर्ववच्छेषवत्सामान्यतो दृष्टं चानुमानं न्याय
सूत्रं १।१।५
। तत्र पूर्ववत् कारणात् कार्यानुमानं । तच्च व्यभिचारीति प्रति
पादितं । शेषवदनुमानं च कार्यात् कारणानुमानं तदिष्टमेव शास्त्रकृता । सामा
न्यतो दृष्टन्त्वनुमानं यदन्यत्र धर्मिणि साध्यसाधनयोर्व्याप्तिन्दृष्ट्वान्यत्रानुमानं ।
यथा देवदत्तस्य देशान्तरप्राप्तिं गतिपूर्विकां दृष्ट्वा
ऽदित्यस्यापि देशान्तरप्राप्त्या
गत्यनुमानं । एतदपि कार्यलिङ्गजमेव । देशान्तरप्राप्तेर्गतिकार्यत्वात् । सर्वमेवा
नुमानं सामान्यतो दृष्टमेवेति स्वयमेवा चा र्यंस्तृतीये परिच्छेदे वक्ष्यति ।


यदप्यु द्यो त क रे ण97 सामान्यतो दृष्टमुदाहृतं यथा वलाकातस्तो


50 यानुमानन्तदपि कार्यलिङ्गजमेवेति प्र मा ण वि नि श्च येऽभिहितं ।


20b तस्माद्धेतुत्रयव्यतिरेके
नान्यो हेतुर्गमकोस्तीति स्थितं ॥


एतेनेति रसादे रूपाद्यनुमानस्य कार्यलिङ्गजत्वकथनेन । पिपीलिकोत्सरण
न्तासां गृहीताण्डानामन्यत्र सञ्चरणं । मत्स्यानामुद्वर्त्तनम्मत्स्यविकारः । आदि
शब्दाद् विद्युद्विकासमण्डूकरुतादिपरिग्रहः । वर्षाद्यनुमानमित्यत्रापि आदिशब्दाद्
वाताद्यनुमानमुक्तं । यथा तदपि कार्यलिङ्गजहेतुधर्मानुमानात् ।


एतदेवाह ।
तत्रापीत्याद । तत्रापि पिपीलिकोत्सरणादौ । भूतपरिणा
म एव वर्षहेतुरिति । एवकारो भिन्नक्रमः । वर्षहेतुरेव भूतपरिणामः । पिपीलि
कासंक्षोभादेरुत्सरणादिलक्षणस्य हेतुः । तस्माद् यथाभूताद् भूतपरिणामाद्
वर्षहेतुः पिपीलिकादीनाम्विकारो जातः । तथाभूतस्य हेतोरनुमानात् समान
कालवर्षाद्यनुमानं । अन्यत्र तु योग्यतानुमी
यते न तु वर्ष एव प्रतिबन्धसम्भवेन
व्यभिचारात् । तस्मात् समग्रादपि कारणकलापान्नास्ति कार्यानुमानं केवलं योग्य
तानुमानमेव ॥


ये तु मी मां स का दयोऽसमग्रादपि कारणात् कार्यमनुमिमते । तेऽत्यन्त
न्यायबहिष्कृता इत्येतद् दर्शयन्नाह


हेतुना त्वसमग्रेणेत्यादि । असमग्रेणेति विकलेन । शेषवदनुमानमनैकान्तिक
मित्यर्थः । कुतो
सामर्थ्यात् ॥ अस्य व्याख्यानं समग्राण्येव हीत्यादि । कार्यस्य तावत्
सर्वथा नानुमानं । योग्यतामप्यनुमापयन्ति समग्राण्येवानुमापयन्तीत्येतदपिशब्देनाह ।
असमग्रस्यैकान्तेनासामर्थ्यादित्युत्तरोत्तरपरिणामेनाप्यसामर्थ्यान्न पाक्षिकमपि
कार्यानुमानं । देहाद् रागानुमानवद् इत्यस्योदाहरणस्य व्याख्यानं । यथेत्यादि ।
देहश्चेन्द्रियाणि च बुद्ध
श्चेति द्वन्द्वः । रागादिमानयं पुरुषो देहवत्त्वादिन्द्रियवत्त्वात्
बुद्धिमत्त्वात् । एवन्देहादिभ्यो रागाद्यनुमानं । आदिशब्दाद् द्वेषमोहादिपरिग्रहः ।
सूत्रे तु देहरागग्रहणमुपलक्षणं । न हीन्द्रियाद्येव कारणं रागादेः ॥ यस्मादात्मात्मीया
भिनिवेशपूर्वका रागादयः
। आत्मन्यात्मीये चाहम्ममेति योभिनिवेशः स पूर्वः कारणं
येषां रागा
दीनान्तेन तथोक्ताः । अयोनिश इत्याद्यस्यैव समर्थनं । योनिः पदार्था
नामनित्यदुःखानात्मादि । सम्यग्दर्शनप्रसतिहेतुत्वात् । तं शंसत्यालम्बत इति

51 योनिशः । योनिं योनिं मनस्करोतीति संख्यैकवचनाच्च वीप्साया 98मिति
शस् प्रत्ययो वा । तथाभूतश्चासौ मनस्कारश्चेति योनिशोमनस्कारो नैरात्म्य
ज्ञानं । तद्विरुद्धमात्मादिज्ञानमयोनि
शोमनस्कार
स्तत्पूर्वकत्वात् सर्वरागादि
दोषोत्पत्तेः


ननु देहेन्द्रियबुद्धयोपि रागादिनां हेतवस्तद्रहितेषु रागाद्यदर्शनादित्याह ।
देहादीनां हेतुत्वेपीति केवलानामित्ययोनिशोमनस्काररहितानां । रागादौ साध्ये ।
रागादिरहिता उपलखण्डादयो विपक्षस्तत्र हेतुर्देहादिमत्त्वस्य या वृत्तिस्तस्या

अदृष्टावपि । विपर्यये बाधकप्रमाणाभावाच्छेषवदनुमानमस्माच्च संशयो भवति 21a
न निश्चयः ॥ यथा चैतदनन्तरोक्तं न प्रमाणन्तथा विपक्षे हेतोरदृष्टिमात्रेण
कार्यसामान्य
स्य कार्यमात्रस्य दर्शनात्हेतुज्ञानम्विशिष्टकारणानुमानं
प्रमाणाभं प्रमाणाभासमनैकान्तिकमिति यावत् । किमिव वचनाद्रा
गितादिवत्


ननु सर्वमेव वचनं
रागादिकार्यमिति कथन्तत्कार्यसामान्यमित्यत आह ।
न हीत्यादि । ओष्ठयोश्चलनं स्पन्दो वचनकाले च तस्यावश्यंभावात् । आदि
शब्दाद् अन्यस्यापि वचनकालभाविनो मुखविकारादेर्ग्रहणं । अविशिष्टविवक्षामात्रं
वक्तुकामता सामान्यन्तदेव हेतुर्येषां स्पन्दादीनान्ते तथोक्तास्तद्भावस्तस्मात् ॥
सैव वक्तुकामता राग इति चेत् । आसक्तिरूपत्वाद् रागस्येति म
न्यते ॥ आ चा र्य
आह । इष्टत्वान्न किंचिद् बाधितं । वक्तुकामता कार्यस्य वचनस्येष्टत्वान्न किञ्चिद्
अनिष्टं । न च वक्तुकामता रागः,अपि तु नित्यसुखात्मात्मीयाकारं यद्दर्शन-


52 मभिनिवेशस्तेनाक्षिप्तं जनितं । सास्रवधर्मविषयमिति पञ्चोपादानस्कन्धालम्बनं
चेतसोभिष्वङ्गं रागमाहुर्विद्वांसः ॥


स्यान्मतं वीतरागाभिमतानां मैत्रीकरुणादय इष्यन्ते । ते च सत्वा

लम्बनत्वाद् आत्मादिदर्शनप्रवृत्ताः सत्त्वानुनयप्रवृत्त्या चाभिष्वङ्गस्वभावास्ततो
वीतरागा अपि रागिणः प्रसक्ता इत्यत आह । नैवं करुणादय इति न सत्त्वा
लम्बना वीतरागाणां करुणादयः । अन्यथापि सम्भवात्धर्मालम्बनानामपि
सम्भवात्
99एतच्चानन्तरमेव निवेदयिष्यामः । अत्र वचनाद् रागानुमाने क्रियमाणे
वचनमात्रादप्रतिपत्तिरित्यनेन सम्बन्धः । यस्माद् यथा र
क्तो ब्रवीति तथा
विरक्तोपी
ति प्रक्षीणरागोपि । न वचनमात्राद् रागानुमानं किन्तर्हि वचनविशेषात् ।
यो रागेणैव जन्यत इत्याह । नापि विशेषादिति । किङ्कारणम् अभिप्रायस्य
दुर्बोधत्वात्
। विरक्तो हि रक्तवच्चेष्टते । रक्तोपि विरक्तवदित्यभिप्रायो दुर्बोधः ।
ततश्च व्यवहारसं100करेण सर्वेषामिति वचनानां । वचनमात्रस्य वचनविशेषस्य च
रा
गादेर्लिङ्गत्वेनोपनीतस्य व्यभिचारात् । न विशेषादपि रागाद्यनुमानं ॥ यदुक्त
न्तथा विरक्तो ब्रवीतीति तत्रोत्तरमाशंकते । प्रयोजनेत्यादि । वचनोच्चारणं व्यव
हारः । न हि वीतरागस्य वचनोच्चारणे फलमस्ति तथा चाव्यभिचारो रागवचन
योरिति भावः । नेत्या चा र्यः । प्रयोजनाभावः परार्थत्वाद् व्याहारस्य ।


न युक्त इत्यादिपरः ।
वीतरागो हि परेष्टव्यासक्तो न च सक्तिमन्तरेण
परार्थप्रवृत्तिरस्तीति भावः । नैतदेवं । करुणयापि प्रवॄत्तेः ॥ सैव करुणा राग
इति चेत्
। तदेतदिष्टं करुणा राग इति नामकरणं ॥ सत्त्वदर्शनविपर्यासायातत्वात्
करुणापि रागात्मको दोष इति चेदाह । अविपर्यासेत्यादि । अविपर्यासोद्भवत्व
21b मेवाह । असत्यप्यात्मग्रहण इत्यादि । दुःख
विशेषदर्शनमात्रेणे
ति संस्कारदुःखता


53 निरूपणमात्रेण । अभ्यासबलोत्पादितेति पूर्वपूर्वसजातीयक्षणोत्पन्ना भवत्येव
करुणा । आगमेनापि संस्यन्दयन्नाह । तथा हीत्यादि । आदिशब्दाद् अनालम्बना
गृह्यन्ते । सत्त्वालम्बना पृथग्जनानां । धर्मालम्बना आर्याणां । अनालम्बना ग्राह्य
ग्राहकाभिनिवेशविगतानां बुद्धबोधिसत्त्वानां । मैत्र्यादयो मैत्रीकरुणामुदितो
पेक्षा
इष्यन्ते सिद्धान्ते ।


ननु च सत्त्वालम्बना एव पृथग्जनेनाभ्यस्तास्तास्तत्कथं धर्माद्यालम्बना
उच्यन्त इत्यत आह ।


एताश्च मैत्रीकरुणामुदितोपेक्षाः । सजातीयाभ्यासवृत्तयः पूर्वपूर्वसदृशक्षणबले
नोत्पत्तेः । एतावांस्तु विशेषो यावत् सत्त्वम्पश्यति तावत्सत्त्वालम्बनाः । यावद्धर्म
न्तावद् धर्मालम्बनाः । न रागापेक्षिण्य इति नानुशयेन सत्त्वेषु प्रवर्त्तन्त
इत्यर्थः ।


ननु दुःखविशेषदर्शनमात्रेणाभ्यासबलोत्पादिनीत्यनन्तरमेवायमर्थ उक्तः ।


सत्यं । करुणामेवाश्रित्याधुना सर्वाण्येवेति विशेषः । आत्मदर्शननिवृत्तावपि
तर्हि करुणावदभ्यासाद् रागादयः प्रवर्त्तन्त इत्याह । नैवं रागादयस्सजातीयाभ्यास
वृत्तयो येनात्मदृष्टिनिवृत्तावपि प्रवर्त्तेरन् । आत्मादिविपर्यासाभावेऽभावात्


कारुणिकस्य निष्फ
लः
परार्थ आरम्भोऽविपर्यासादात्माद्यभिनिवेशाभावेन
स्वार्थस्यैवाभावात् । नायन्दोषः परार्थस्यैव फलत्वेनेष्टत्वात् ॥ इष्टो नाम परार्थ
स्तथापि कथं फलत्वमिति चेत् ॥ आह । इच्छेत्यादि । इच्छया लक्ष्यत इतीच्छा
लक्षणमिच्छाविषयत्वादित्यर्थः । यदिष्टन्तत्फलमिति यावत् ॥


नन्वहमिति बुद्धिरहितस्य कथं परार्थापि प्रवृत्तिरिति चेत्
अक्लिष्टा
ज्ञानसद्भावात् प्रवृत्तिरित्येके । योगबलेन शुद्धलौकिकचित्तसम्मुखी
करणादित्यपरे । विनेयानां तथा प्रतिभासनादित्यन्ये ॥


सर्वथेत्युपसंहारः । यदि वचनाद् वीतरागस्य वक्तुकामता साध्यते अथ करुणा
तेन सराग इत्युच्यते । सर्वथाऽभूतासमारोपाद् वीतरागादिर्निर्दोषः । दोषस्वभाव
स्य रागादेरवश्यभावात् । तदन्येन रागादिभ्योन्येन वक्तु
कामतादिना वीतरागस्य

54 दोषवत्त्वसाधने न किंचिद् अनिष्टं


स्यान्मतिः वक्तर्यात्मनि रागादिर्दृष्टस्ततः सपक्षे सत्त्वदर्शनमात्रेण वीत
रागाभिमतेष्वप्यनुमानम्भविष्यतीत्याह । वक्तर्यात्मनीत्यादि । अन्यत्र तदनुमान
इति वीतरागाभिमते रागाद्यनुमानेऽतिप्रसंगः । वक्तर्यात्मनि यावान् कश्चिद् विशेषो
दृष्टस्तस्य सर्वस्यान्यत्रानुमानप्रसङ्गः ।
आत्मनि दृष्टस्य श्यामगौरतादिलक्षणस्य
विशेषस्य व्यभिचारात् । अनन्यानुमान इति रागादन्यस्यात्मगतस्य विशेषस्यानुमाने ।
इहेति साध्याभिमते रागादावप्यव्यभिचार इति को निश्चयः । नैव कश्चित् ।
प्रतिबन्धाभावाद् रागवचनयोः । यस्मादात्मनिदर्शनान्नानुमानन्तस्मात् करण
22a गुणवक्तुकामते वचनमनुमापयेत्

करणगुणस्ताल्वादीनाम्पाटवादिः स च
वक्तुकामता चेति द्वन्द्वः । द्वितीयाद्विवचनमेवैतत् ॥ रागोत्पादनयोग्यतारहिते
पाषाणादौ वचनादर्शनात् । सैव वचनादवसीयत इत्याह । रागेत्यादि । तदनुमान
इति योग्यतानुमानेऽतिप्रसंगः । तथा हि यथा पाषाणादौ रागोत्पादनयोग्यताविर
हस्तथा सर्वपुरुषधर्मैरपि ततस्तथाभूते वचनादर्श
नाद् यदि रागोत्पादनयोग्यता
नुमानमेवं सर्वपुरुषधर्मस्य ॥


अथ मतं रागोत्पादनयोग्यता हि रागवचनयोरेकङ्कारणन्तदनुमाने च
रागोप्यर्थतोनुमितो भवति तेन योग्यता एवानुमानं न सर्वेषां पुरुषधर्माणामि
त्यत्राह रागस्येत्यादि । रागस्यानुपयोगे वचनं प्रति ताल्वादिव्यापारादेव
शब्दनिष्पतेः । कथन्तच्छक्तिः रागशक्तिर्वचनं
प्रत्युपयुज्यते । अथ ताल्वा
दिव्यापारकाले रागशक्तेरपि वचनम्प्रत्युपयोग इष्यते ततश्चाद्यवर्ण्णनिष्प
त्तिकाले रागस्यापि निष्पत्तिरेकसामग्र्यधीनत्वात् तस्य च रागस्य सन्तान
वाहित्वन्तथा च द्वितीयादिवर्ण्णनिष्पतौ राग एवोपयुक्तस्स्यात् । तदाह
शक्त्युपयोगे हि स एवोपयुक्तः स्यादिति । च रागस्योपयोगोस्तीत्युक्तं
प्राक् ।


अथवात्मात्मीयाभिनिवे
शरहितानां रागस्यानुपयोगे वचनंप्रति । कथं तच्छ
क्ती रागशक्तिर्वासनाख्यात्मात्मीयाभिनिवेशलक्षणा वचनम्प्रत्युपयुज्यते । वीत

55 रागाणामात्माद्यभिनिवेशस्याभावात् । शक्त्युपयोगे हि वचनं प्रति । स एव राग
उपयुक्तः स्यादात्माद्यभिनिवेशवतां सर्वेषामेव रागित्वात् । तच्च रागस्य वचनं
प्रत्युपयोगित्वन्नास्तीत्युक्तं । वक्तुकामता सामान्यहेतु
त्वादित्यत्रान्तरे ॥


तस्मादित्यादि निगमनं । नान्तरीयकमेवेति कारणेनाविनाभाव्येव । तत्प्र
तिबन्धात् । तत्र कारणे आयत्तत्वात् । नान्यदप्रतिबद्धं विपक्षे हेतोरदर्शनेपि
अर्वाग्दर्शनस्यादर्शनमात्रेणानिश्चयात् । सर्वदर्शिनस्तु दर्शननिवृत्त्या स्यान्निश्च
स्तस्य हि सर्वज्ञेयव्यापि ज्ञानं । एतदेवाह । सर्वदर्शन इत्यादि । किम्पुनरद
र्शनमात्रा
न्नाभावनिश्चय इत्याह । क्वचित्तथेत्यादि । तेन प्रकारेण दृष्टानां
प्राक् । पुनर्देशकालसंस्कारभेदेनेति भेदशब्दस्य प्रत्येकं सम्बन्धः । संस्कारः
क्षीरावसेकादिः । पूर्वदृष्टप्रकारादन्यथा स्यात् । किमिवेत्याह । यथामलक्य
इति । संस्कारभेदस्यैतदुदाहरणन्न चैवम्बहुलमिति न मधुरफला बहुलन्दृश्यन्ते
कषायफलानां बाहुल्येन दर्शनात् । न चेदा
नीं बहुलं मधुरफलानामदर्शनात् ।
क्वचित्सम्भविनो मधुरफलस्य प्रतिक्षेपः । तथा देशभेदेन पिण्डखर्ज्जूरस्य सम्भवः ।
कालभेदेन पुष्पादेः । आमलकीदृष्टान्तेन चैतदाह । यथामलक्यः क्षीरादिसं
स्कारादन्यथा भवन्ति । तथा रागादियोग्यश्चित्तसन्तानस्तत्त्वाभ्यासाभिसं
स्काराद् योग्यो भवति । अभ्यासाच्च नैरात्म्यालम्बनमेव विज्ञानं स्प
ष्टाभम्वैरा- 22b
राग्यमुच्यते । नैरात्म्यदर्शनादात्माद्यभिनिवेशविगमेन रागाद्यनुत्पत्तेः । सर्वधर्म
क्षणिकत्वाद्यालम्बनं च ज्ञानं स्पष्टाभं सर्वज्ञत्वं चोच्यते । सर्वाज्ञानविगमात् ।
तस्मात् तत्त्वाभ्यासनिमित्ता स्फुटाभत्वबृद्धिरेव तत्त्वसाक्षात्करणेन प्रत्यक्षत्व
कारिणी रागादियोग्यस्वभावतां ज्ञानस्य बाधते । ततश्चान्यथादृष्टमपि हेतुबला
दन्यथा भवेदपि तेन यदि नाम
रागारहिते क्वचिद् वचनं न दृष्टन्तावता सर्वत्र
वीतरागे वचनेन न भाव्यमिति नास्ति निश्चयः । ततश्चानिश्चितव्यतिरेकाद्
वचनमात्रान्न रागद्यनुमानं । यत एवन्तेन कारणेनैतद्युक्तम्वक्तुं मादृशो वक्ता
योहमिवायोनिशोमनस्कारान् । तदेवाह । रागोत्पत्तीत्यादि । कः पुनरसावित्याह ।
आत्मेत्यादि । आत्मदर्शनं स त्का य दृ ष्टिः । नित्यसुखादिविपर्या
सोऽयोनिशो
मनस्कारः । द्वन्द्वसमासश्चायं । आत्मदर्शनमेवायोनिशोमनस्कार इति विशेषण

56 समासोवा । तदेति मादृशो वक्तेति विशेषणेप्यपार्थको वचनोदाहारः । वचनादित्यस्य
हेतोरुदाहरणमनर्थकमित्यर्थः । तदा हि यो मादृशो रागोत्पत्तिप्रत्ययविशेषेण
युक्तः स रागी । यथाहमित्ययमेव हेतुः स्यात् । यत एवमदर्शनमात्रा
न्नास्ति
निश्चयस्तस्माद् विपक्षेऽदृष्टिर्विपक्षे हेतोरदर्शनमहेतुर्लिङ्गस्य व्यतिरेकनिश्चयं
प्रति ॥


स्यान्मतिः विपक्षदृष्ट्या हेतोर्व्यभिचारो न च वीतरागे वचनं दृष्टन्त
स्माददर्शनात् साध्याभावे व्यतिरेकः सिद्ध इत्यत आह ।


न चादर्शनमात्रेणेति विपक्षे हेतोरव्यभिचारिता । कस्मात् मम्भाव्य
व्यभिचारत्वात्
। सम्भाव्यो व्यभिचारो यस्य स तथा तद्भावस्तस्मात्
। यद्यपि
न दृष्टो विपक्षे तथापि तत्र सम्भवो न विरुद्ध इति संम्भाव्यते व्यभिचारः ।
स्थाल्यन्तर्गतास्तण्डुलाः स्थालीतण्डुलास्तेषां पाकवत्


एतमेव दृष्टान्तं समर्थयितुमाह । न हीत्यादि । बाहुल्येन स्थाल्यन्तर्गतानां
पक्वानान्दर्शनेपि न स्थाल्यन्तर्गतत्वेन केवलेन पाकः सिध्यति । मात्रग्रहणन्तु विशेष
निरासार्थं । यद् वक्ष्यत्येवन्तु स्यादिति । कुतोऽ
सिद्धिर्व्यभिचारस्य दर्शनात् । एवं
स्वभावा इति ये पक्वा दृष्टास्तैस्तुल्यस्वभावाः । एतैरेव पक्वैः समानः
पाकहेतुर्येषान्ते पक्वा इति । अन्यथा त्वित्यसत्ये-तस्मिन् विशेषणे । शेषोस्तीति
शेषवदनिर्ण्णीतो विषयोस्तीति यावत् । तच्च व्यभिचारि


किन्नै या यि को क्तं कार्यात् कारणानुमानरूपं शेषवदनुमानमिहाभिप्रेतमुता

57 न्यदेवेति पृच्छति । किं
पुनरि
त्यादि । शेषवत्स्वरूपमाह । यस्येत्यादि । यस्य हेतोर
दर्शनमात्रेणाप्रमाणकेन विपक्षव्यतिरेकः प्रसाध्यते । तस्य हेतोः संशयहेतुत्वात्
संशयकारित्वाच्छेषवत्तदनुमानमुदाहृतं । किङ्कारणन्तस्य हेतोः स व्यतिरेकोऽनिश्चित
इति विपक्षेपि वृत्तिराशंक्येत
। किंपुनर्न निश्चित इत्याह । व्यतिरेकेत्यादि ॥
अनुपलम्भेपि कथं संश
य इत्याह । न सर्वेत्यादि । दृश्यानुपलब्धिरेव न गमिका23a
यत एवन्नादर्शनमात्राद् व्यतिरेकस्तस्मादेकनिवृत्त्या साध्यनिवृत्त्यान्यनिवृत्तिंसाधन
निवृत्तिमिच्छता तयोः साध्यसाधनयोः कश्चित् स्वभावेन प्रतिबन्धस्तादात्म्यत
दुत्पत्तिलक्षणोप्येष्टव्यः । न केवलमदृष्टिमात्रं । अन्यथा प्रतिबन्धानिष्टावगमको
हेतुः स्यात्
। व्याप्तेरनिश्चितत्वात् ॥


यत एवन्तेन कारणेन हे
तोस्त्रिष्वपि रूपेषु
पक्षधर्मान्वयव्यतिरेकेषु निश्चयो
वर्ण्णितः
। आचार्य दि ग्ना गे न प्र मा ण स मु च्च या दिषु । असिद्धस्तु द्वयोरपि
साधनमित्यादिना । कस्य निरासेनेत्याह । असिद्धेत्यादि । आद्यादित्वात् तृतीयार्थे
तसि विपक्षेणेत्यर्थः ।


तत्रासिद्धविपक्षेण पक्षधर्मत्वनिश्चयो वर्ण्णितः । विपरोतार्थाविरुद्धस्तस्य
विपक्षेणान्वयनिश्चयः । व्यभिचार्यनै
कान्तिकस्तस्य विपक्षेण व्यतिरेकनिश्चयः ॥


अन्वयव्यतिरेकनिश्चयं च वर्ण्णयता प्रतिबन्धोप्यर्थतो दर्शित एव । यस्मान्न
ह्यसति प्रतिबन्धेऽन्वयव्यतिरेकनिश्चयोस्ति तेन कारणेन तमेव तादात्म्य
तदुत्पत्तिलक्षणं प्रतिबन्धन्दर्शयन्नाक्षिपन्निश्चयमाह । यस्य दोषस्य निराशे101

58 न यो निश्चय उक्तस्तं व्याचष्टे । तत्रेत्यादि । विरुद्धतत्पक्ष्याणामिति विरु
द्धानां
विरुद्धपक्ष्याणां च । विरुद्धपक्ष्या येषां सत्त्वं विपक्षे निश्चितं सपक्षसत्त्वं सन्दिग्धं ।
सन्दिग्धानैकान्तिका एवैते परप्रसिद्ध्या त्वेवमभिधानं । व्यतिरेकस्यानिश्चयेनेति
प्रकृतेन सम्बन्धः । अनैकान्तिकस्य निरास इति सम्बन्धः । तेनायमर्थः साधारणा
नैकान्तिकस्येति । तत्पक्षस्य च । अनैकान्तिकपक्षस्य च । शेषवदादेः । आदि
शब्दात् सपक्षवि
पक्षयोस्सन्दिग्धस्य निरासः । यस्य सपक्षसत्त्वं विपक्षे चाद
र्शनमात्राद् व्यतिरेकस्तच्छेषवत् ।


प्रसिद्धस्तु द्वयोरित्या चा र्य ग्रन्थमिदानीं व्याचष्टे । द्वयोरित्यादि । द्वयोरित्य
नेनैकस्य वादिनः प्रतिवादिनो वा यः सिद्धस्तस्यप्रतिषेधः प्रसिद्धवचनेन सन्दि
ग्धयोः शेषवदसाधारणयोः प्रतिषेध इति सम्बन्धः क्व सन्दिग्धयोरित्याह ।
सपक्षवि
पक्षयोरपी
ति शेषवतोऽसपक्षसन्देहः । असाधारणस्य तु सपक्षविपक्षयोः ।
तस्मान्निश्चयवचनादा चा र्ये णा पि प्रतिबन्ध इष्ट एव ॥


अन्यथाऽसति प्रतिबन्धे साध्यसाधनयोः । विपक्षेऽदर्शनमात्रेण व्यतिरेके
आचार्येणेष्यमाणे । व्यभिचारिविपक्षेणानैकान्तिकप्रतिपक्षेण वैधर्म्यवचनं च यत्
प्रतिज्ञातन्तदपार्थकमित्याकूतं ।


क्व पुनराचा
र्येणं प्रतिज्ञातमित्याह । यदेत्यादि । न्या य मु खे चैतदुक्तं ।
यदुभयं वक्तव्यमिति साधर्म्यं वैधर्म्यं च । कस्य प्रतिपक्षेण किमुक्तमित्याह ।
विरुद्धेत्यादि । साधनस्य वचनं विरुद्धप्रतिपक्षेण वैधर्म्यवचनमनैकान्तिकप्रतिपक्षेण
यद्यदृष्टिफलन्तच्च । अदर्शनमात्रफलन्तच्चेति वैधर्म्यवचनं



59

एतदेव व्याचष्टे । यदीत्यादि । तेनेति वैधर्म्यवचने
न विपक्षे
हेतोरदर्शनं 23b
ख्याप्यते । तदि
त्यदर्शनमनुक्तेपि वैधर्म्ये गम्यते । दर्शनाभावलक्षणस्यादर्शनस्य
वैधर्म्यवचनात् प्रागपि सिद्धत्वात् । तस्मादपार्थकम्वैधर्म्यवचनं ।


हेतोर्दर्शनभ्रान्तिर्विपक्षेस्ति तन्निवृत्यर्थम्वैधर्म्यवचनमिति चेदाह । न ही
त्यादि । तस्येति प्रतिपाद्यस्य वैधर्म्यवचनात् प्राक् । हेतोर्विपक्षे दर्शनभ्रान्ति
रस्ति या वैधर्म्यवचनेन निवर्त्त्यते ॥ तस्मादेतद् यथा
सपक्षे हेतोर्दर्शने न भ्रान्तिः
किन्तु तद्विस्मृतमिति साधर्म्यवचनेन स्मर्यते । तथा स्मृतिर्वाचा वैधर्म्यवचने
नादर्शने क्रियत इति चेत् । दृष्टान्तमेव विघटयितुमाह । दर्शनमित्यादि ।
दर्शनमप्रतीयमानमस्मर्यमाणं साध्यप्रतिपत्त्यङ्गमिति युक्तन्तत्रेति दर्शने वाचा
स्मरणाधानं
स्मृतिजननं । अदर्शनार्थन्तु न युक्तं । यस्माददर्शनन्तु दर्शनाभावो
हेतो
र्विपक्षे । स दर्शनेन बाध्यते । तदभावे विपक्षदर्शनाभावे सिद्ध एव दर्शना
भाव इत्यपार्थकन्तत्सिद्धये दर्शनाभावसिद्धये वैधर्म्यवचनं । अयमभिप्रायो दर्श
नम्परोक्षत्वाद् विस्मर्येतेति तत्स्मरणार्थम्वचनं युक्तं । दर्शनाभावस्तु दर्शननिवृ
त्तिरूपः स च दर्शनानुभवाभावादेव प्रतिभासते प्रतिभासमानस्य च किं स्मर
णेन । तत्सिद्धयेऽपार्थकम्वचनं ॥


न वै अनुपलभमानस्य पुंसस्तावतेत्यदर्शनमात्रेण विपक्षे हेतुर्नास्तीत्येवं
निश्चयो भवति देशादिविप्रकृष्टानामनुपलम्भेपि सत्त्वात् । तदर्थन्नास्तीति
निश्चयोत्पादनार्थम्वैधर्म्यवचनमिति चेत्तन्न । यस्मान्न च नास्तीति वचनाद
प्रमाणकात् तत्प्रतिक्षिप्यमाणं नास्त्येव । कथन्तर्हि नास्तीति गम्यत इत्याह ।
यथेत्यादि ।


एतदुक्तम्भवति । हेतोः स्वसाध्ये प्रतिबन्धग्राह
कमेव प्रमाणं साध्यायत्तता
ग्राहकन्तच्चेह दर्शनमभिप्रेतं यच्च साध्य एव हेतोर्दर्शनमिदमेव सर्वत्र विपक्षेऽदर्शनं ।
तेन यस्य साध्यसाधनयोः प्रतिबन्धग्राहकं दर्शनं प्रवृत्तम्विस्मृतं च तस्यैव पुंसः
दर्शनादर्शनयोः प्रतीतयोः साधर्म्यवैधर्म्यवचनाभ्यां स्मरणं क्रियते नान्यस्येत्यर्थः ।
यदाह प्रमाणं दृष्टान्ताभ्यामुपदर्श्यत इति । यथा यदि नास्ति स
ख्याप्यत

60 इति । यथा येन प्रकारेण स्वसाध्यप्रतिबन्धेन विपक्षे हेतुर्नास्ति यदि स न्याय
इति प्रतिबन्धग्राहकं प्रमाणं ख्याप्यते स्मर्यते तदा नास्तीति गम्यते । न तु प्रति
बन्धमन्तरेण


यदीत्यादि प्रथमं कारिकाभागमाह । यद्यनुपलभमानोनुपलम्भमात्रान्नास्तीति
न प्रत्येति तदा वैधर्म्यवचनादप्यप्रमाणकान्न प्रत्येष्यति । यस्मात्तदपि वैधर्म्यवचनं ।
त्व
ता 102 तेनानुपलम्भमेव ख्यापयति नाधिकम्विशेषं ।


स्यान्मतं । साध्याभावकृतो हेत्वभावो वैधर्म्यवचनेन ख्याप्यते । ततोस्ति
विशेष इत्यत आह । न चैकेत्यादि । एकानुपलम्भ इति साध्यानुपलम्भः । अन्या
भावं
साधनाभावं । असति प्रतिबन्ध इति भावः । अतिप्रसंगादिति प्रतिबन्ध
मन्तरेण निवृत्तौ गोनिवृत्त्याप्यश्वस्य नियमेन निवृत्तिः स्यात् ।


24a अथ मतम् आचार्यदि
ग्ना गे न विपक्षे हेतुर्न्नास्ती त्युक्तमत एव निश्चय
इत्यत आह । न चेत्यादि । तेना चा र्ये ण नास्तीति यद् वैधर्म्यवचनं कृतं तस्मात्तथा
भवति
वस्तुनो नास्तित्वमेव भवत्यतिप्रसङ्गात् । तद्वचनस्य हि प्रामाण्ये प्रतिज्ञा
मात्रादपि साध्यसिद्धिः स्यात् । तदिति तस्मात् कथम्वैधर्म्यवचनेनानैकान्तिकपरि
हारः
नैव । तस्माद् विपक्षाद्धेतोर्व्यावृत्तिमिच्छता तत्र व्यावृत्तौ न्यायो वक्तव्यः
सा
ध्यसाधनयोः प्रतिबन्धग्राहकं प्रमाणं यत इति न्यायात् । अस्येति प्रतिपाद्यस्य ।
साधनं व्यावृत्तिमिति निश्चयो भवति


नन्वित्यादि परः । तदभावे साध्याभावेऽनुपलम्भात्सिद्धा व्यावृत्तिर्हेतो
रयमेव न्याय इति मन्यते । यद्यदृष्ट्या हेतोर्विपक्षान्निवृत्तिः स्यात्तदा शेषवदनुमानं
व्यभिचारि किं । नैव व्यभिचारि स्यात् कीदृशं पुनस्तदित्याह । यथेत्यादि ।

61 एतानि फला
नी
त्युपयुक्तादन्यानि । अयं च धर्मिनिर्द्देशः । पक्वान्येवं रसानि चेति
साध्यधर्मः । एवं-रसानि मधुराण्यम्लानि वा । रूपाविशेषादिति हेतुः । उप
युक्तस्य फलस्य यद्रूपं रक्ततादि । तेन तुल्यत्वात् । एकशाखाप्रभवाद्वेति हेतुः ।
उपयुक्तवदिति दृष्टान्तः । कस्माददर्शनमात्राद् व्यतिरेक इष्यमाणे शेषवतो
व्यभिचारित्वं स्यादित्याह । अत्रापीत्यादि । अत्र शेषवद
नुमाने विवक्षितं
रूपविशेषादियुक्तमुपभुक्तादन्यत्फलन्तस्याशेषस्यक्षीकरणे । हेतो रूपादिशेषा
दिकस्य साध्याभावेनुपलंभोस्तीति विपक्षाव्यावृत्तिरतश्चाव्यभिचारिता स्यात् ।
तथा हि यत् पक्षीकृतं फलं यच्चोपयुक्तं सपक्षत्वेनोपात्तन्तद्व्यतिरेकेण विपक्षभूते
तृतीये राशौ नास्ति यथोक्तस्य हेतोर्वृत्तिः ।


प्रत्यक्षबाधेत्यादि । कदाचिदेकशाखाप्रभवस्यापि फ
लस्यापक्वस्यातद्र
सस्य वा प्रत्यक्षेणानुभवसम्भवात् प्रत्यक्षबाधाशङ्का एव शेषवतो व्यभि
चार इत्येके
ई श्व र से न प्रभृतयः । तदयमर्थो न केवलाभ्यामन्वयव्यतिरेकाभ्यां
हेतुर्गमकः, अपि त्वबाधितविषयत्वे सतीति । नेत्यादिना परिहरति । पक्षीकृतो
योविषयः परोक्षस्तत्र प्रत्यक्षबाधाया अभावात् । न प्रवृत्तेन प्रत्यक्षेण बाधाशङ्का
किन्तु कदाचिद् ग
न्धप्रत्यक्षबाधापक्षं इति चेदाह । तथेत्यादि । तथा कदाचित्
प्रत्यक्षबाधा भवेदित्याशङ्कायामतिप्रसंगः । यस्मादन्यत्राभिमते हेतौ प्रत्यक्ष
बाधाया अभावनियमाभावात् । न हि सम्बन्धाभ्युपगमे परस्य बाधाशङ्का निवर्त्तत
इति भावः । तस्मात् प्रतिबन्धानभ्युपगमवादिना वृत्तं प्रमाणं बाधकमेष्टव्यं ।
अवृत्तबाधनेऽप्रवृत्तेनैव प्रमाणेन बाधने सर्वत्रानाश्वा
सः
सर्वत्र हेतौ न स्यादाश्वासो
गमकत्वनिश्चयः । बाधकस्य शंक्यमानत्वात् । नैवं प्रतिबन्धवादिनः सर्वत्र हेताव
नाश्वासः साध्यप्रतिबद्धे हेतौ बाधाशंकाया अप्यभावात् । हेतुप्रयोगात्तु पूर्वं स्याद्
बाधाशंका अत एव सन्दिग्धे हेतुवचनमुच्यते न च वृत्तं प्रमाणं शेषवतो
बाधकमस्ति । तस्मात् स्थितमेतद् अदर्शनमात्राद् व्यतिरेके शेषवतो
प्यव्यभि- 24b

62 चारित्वं स्यादिति ॥


ननु प्रतिबन्धबलात् साध्याभावे हेतोर्व्यतिरेके सति सत्तामात्रेण व्यतिरेको
गमकः स्यादित्यत आह । व्यतिरेकस्त्वित्यादि । हेतोर्यो विपक्षाद् व्यतिरेकः
सिद्ध एव निश्चित एव साधनं । इति हेतोस्तथाभावनिश्चयं साध्याभावे यो
हेत्वभावस्तन्निश्चयमपेक्षते । एतदाह नास्माकम्भवतामिव दर्शनाभावमात्राद्
व्यतिरेकः । किन्तु साध्यसा
धनयोः सति प्रतिबन्धे साध्याभावे हेतोर्विपक्षा
द्व्यावृत्तत्वं स्वगतो धर्मः । हेतोश्च यद्रूपन्तदवश्यं स्वनिश्चयमपेक्षते ज्ञापकत्वादिति ।
कथं त्वन्मतेन शेषवतो व्यभिचारित्वमिति चेदाह । अनुपलम्भात्त्वित्यादि ।
क्वचिद्विपक्षैकदेशे हेतोरभावसिद्धावप्यप्रतिबद्धस्य हेतोः साध्ये । तदभावे साध्याभावे
सर्वत्र विपक्षेऽभावासिद्धेः कारणात् संशयस्ततो वि
पक्षादव्यतिरेको यः स एव
व्यभिचारः शेषवतः


किंचेति दोषान्तरसमुच्चयः । यद्यदर्शनाद् व्यतिरेकस्तदा व्यतिरेक्यपि हेतुः
स्यात्
। कीदृशं नेदं निरात्मकमित्यादि । प्रसङ्गमुखेन चेदमुक्तमप्राणादिमत्त्व
प्रसङ्गात्
। प्राणादिमत्वाच्च सात्मकं । अयं च हेतुः सात्मके क्वचिन्न दृष्टो
निरात्मकेभ्यश्च व्यावृत्त इति साध्यनिवृत्तौ निवृत्तिधर्माव्यतिरे
की कथ्यते ।
तथा हि निरात्मकेष्वात्मरहितेषु घटादिषु दृष्टादृष्टेषु प्राणाद्यदर्शनात् प्राणापानो
न्मेषनिमेषादर्शनात् । दृष्टेषु स्वभावानुपलम्भेनैवादर्शनं प्राणादीनामुपलब्धिलक्षण
प्राप्तत्वात् । अदृष्टेष्वपि तज्जातीयतया । तेन नैरात्म्यं प्राणाद्यभावेन व्याप्तं ।
जीवच्छरीरे तु तन्निवृत्त्या प्राणादिमत्त्वाभावनिवृत्त्या नैरात्म्यस्य निवृत्तेरात्मगतिः
स्या
त् ॥ तव तर्हि कथं संशयहेतुरिति चेदाह । अदृश्येत्यादि । अदृश्यस्यात्मनो
नुपलम्भाद् घटादिस्व103भावाप्रसिद्धौ घटादीनान्नैरात्म्यासिद्धेः कार
णान्निरात्मकात् प्राणादेरनिवृत्तिः । प्राणाद्यभावेन सन्दिग्धस्य नैरात्म्यस्याप्य

63 सिद्धिरिति यावत् ॥


बौद्धेन नैरात्म्यमभ्युगतमतोभ्युपगमान्निरात्मकत्वं घटादेः सिद्धमिति चेत्
यदि बौद्धाभ्युपग
मः प्रमाणं कथमिदानीमात्मसिद्धिर्जीवच्छरीरे । तदपि बौद्धेन
निरात्मकमिष्टं ॥ जीवच्छरीरे नैरात्म्याभ्युपगमोऽप्रमाणकस्ततोस्यात्मा साध्यत
इति ॥ यद्येवं परस्यापि जीवच्छरीरादन्यस्यापि घटादेरप्रमाणिका कथं नैरात्म्य
सिद्धिः
। न हि बौद्धस्याभ्युपगमः क्वचित्प्रमाणं क्वचिन्नेति । किं चाभ्युपगमेन
के
वलेन सात्मकानात्मकौ विभज्य
घटादयः परेणास्माभिश्चानात्मका अभ्यु
पगताः । तेनानात्मकाः । जीवच्छरीरं सात्मकमस्माभिरभ्युपगतन्त्वया तु निरा
त्मकमेवम्विभज्य तत्र निरात्मकेषु प्राणादीनामभावे-नात्मविषये गमकत्वं कथयता
परेणागमिकत्वमात्मनि प्रतिपन्नं नानुमेयत्वं । तस्मादात्मनो घटादावदर्शनेप्य
दृश्यस्वभावस्यात्मनो निवृत्त्यसिद्धेर्नास्ति कुतश्चिन्नि
रात्मकात् प्राणादेर्न्निवृ- 25a
त्तिरित्यगमकत्वं । एतत्तावन्नैवात्मनः कुतश्चिन्निवृत्तिः सिद्धा । अभ्युपगम्य
तूच्यते । तन्निवृत्तावप्यात्मनिवृत्तावपि क्वचिदिति दृष्टे घटादौ निवृत्तावपि प्राणा
दीना
मप्रतिबन्धादात्मना सह सम्बन्धाभावात् । सर्वत्रादृष्टेष्वपि घटादिष्वात्म
निवृत्त्या प्राणादीनां निवृत्त्यसिद्धेः सन्दिग्धव्यतिरेकित्वाद्गमकत्वं


अदर्शनमात्राद् व्यतिरेकाभ्युपगमे सत्ययमपरो दोष इत्याह । यापीत्यादि ।
का पुनः सेत्याह । तथा सपक्षे सन्नित्यादि । आ चा र्य स्य चायङ्ग्रन्थः । तत्र
सन्दिह्युक्तम्पक्षधर्मो वादिप्रतिवादिनिश्चितो गृह्यते । तेनोभयोरन्यतरस्य चासिद्धस्य
ग्धस्याश्रयासिद्धस्य च व्युदासः । यथा च पक्षधर्मनिश्चयेन चतुर्विधस्यासिद्धस्य
व्युदासस्तथा सपक्षे सन्न
सन्नित्येवमा
दिष्वप्यन्वयव्यतिरेकनिश्चयेन निरस्त
मसिद्धजातमन्यतरासिद्धादीनां सपक्षादिष्वसम्भवात् । यथायोगमुदाहार्यमित्याह ।
सापि न वाच्या असिद्धियोजना ।



64

तद्वयाचष्टेऽनुपलम्भ एवेत्यादि । अप्रमाणकेनुपलम्भ एव सति हेतोर्विपक्षे
संशयात् कथमुपलम्भे तदसम्भवात् । विपक्षे हेतोरुपलम्भे सति तस्य सङ
शयस्याभावात् । तस्मा
दनुपलम्भाद्धेतोः विपक्षाद् व्यतिरेक इत्यर्थात् सन्दि
ग्धव्यतिरेको हेतुरिष्ट एव । तस्मात् संशयितोऽनिवार्यः । संशयेन विषयीकृतः
संशयितो व्यतिरेको न वार्यः स्यात् ।


यथायोगमुदाहार्यमित्यतो यथायोगवचनात् संशयितोऽनिवारित एवेति चेत
नैतदेवं । तदनन्तरमेव य एव तूभयनिश्चयवाचीत्यादि वचनात् । य एव शब्द

भयनिश्चितस्य त्रैरूप्यस्यासिद्धत्वादेर्वाचकः स एव साधनं दूषणं न चान्य
तरप्रसिद्धसन्दिग्धवाची पुनः साधनापेक्षणादि
त्ययं ग्रन्थ इहोदाहरणं । अन्यतरस्य
वादिनः प्रतिवादिनो वा योसिद्धं सन्दिग्धम्वा वक्ति न स साधनं दूषणं वा
सन्दिग्धव्यतिरेकनिश्चयहेतुरुभयोरपि विपक्षे सन्दिग्धस्तस्मात्तदभिधानमसाधनम् ।
यस्मादुभयनि
श्चित एव हेतुरुक्तस्तेनानुपलम्भेपि सति निवृत्तिसंशयाद् विपक्षा
द्धेतोरनिवृत्तिं मन्यमानस्तस्य सन्दिग्धव्यतिरेकस्य हेतुत्वप्रतिषेधमाह असिद्धि
योजनया ॥


किञ्च । यद्यदृष्ट्या निवृत्तिरिष्यते तदा विशेषस्यासाधारणस्य श्रावण
त्वादेर्व्यवच्छेदहेतुता स्यात् । किं कारणं नित्त्यानित्ययोरदर्शनात् । तद्
व्याचष्टेश्रावणत्वस्यापीत्यादि । तथा ह्यदर्श
नमात्राद् व्यावृत्तिरिष्टा।अस्ति
नित्यानित्ययोरदर्शनं । श्रावणत्वस्य तद्व्यवच्छेदहेतुता स्यात् । नित्यानित्य
प्रतिषेधहेतुत्वम्भवेत् । यदि नामादर्शनात् ततो व्यावर्त्तेत श्रावणत्वन्त
द्व्यवच्छेदहेतुत्वन्तु कुत इत्याह । न हीति । न तद्व्यावृत्तेरन्यद् व्यवच्छेदनन्नित्या
नित्यव्यवच्छेदनम्तवापि कथं श्रावणत्वन्न व्यवच्छेदहेतुरिति चेदाह । अव्यवच्छे-
65 दस्त्वि
त्यादि । कुतश्चिन्नित्यादनित्याच्चादर्शनमात्रेण व्यावृत्तेरेवानिश्चयात्25b
अनिश्चयश्चान्यतरत्र प्रतिबन्धानिश्चयात् । अवश्यं चैतदेवमन्यथा यो हि धर्मो
यत्र नास्तीति निश्चितः स भवन् क्वचिद् धर्मिणि कथन्तदभावं यत्र नास्तीति
निश्चितस्तस्याभावं कथं न गमयेत् ॥


नित्यानित्याद् व्यावृत्तस्यापि श्रावणत्वस्योभयव्यवच्छेदे साध्ये प्रमाणान्तर
बाधा चे
च्छंक्येत ।
थापी
त्याद्यस्यैव व्याख्यानं । श्रावणत्वेनोभयव्यवच्छेदे
नित्यानित्यव्यवच्छेदे साध्ये प्रमाणान्तरं बाधकमस्ति । तदाह । अन्योन्येत्यादि
अन्योन्यव्यवच्छेदो रूपं येषान्ते तथा । तथा हि नित्यव्यवच्छेद एवानित्यत्वन्तद्व्य
वच्छेद एव च नित्यत्वन्तथा भावव्यवच्छेद एवाभावोऽभावव्यवच्छेद एव च भावः ।
तेषामेकस्य व्यवच्छेदेनान्यविधानात् । द्वितीयस्य विरुद्धस्य
विधानादप्रतिषेधः


एतदुक्तम्भवति । यदा हि श्रावणत्वं नित्याद् व्यावृत्तमिति तद् व्यवच्छिद्यात् ।
तदेवानित्यत्वम्विदध्यात् । तदेव च तदनित्याद् व्यावृत्तमित्यनित्यं व्यवच्छिद्यात् ।
नित्यं च विधत्त इत्येकस्यैकदैव विधिप्रतिषेधौ स्यातां तच्चायुक्तमिति विधिप्रतिषेध
यो
र्युगपद्विरोधान्न कस्यचिदपि प्रतिषेधः । प्रतिषेधविनिवृत्तिलक्षणो हि विधिः ।
विधिनिवृत्ति
रेव च प्रतिषेधस्तौ च परस्परविरुद्धौ युगपदेकस्य कथं स्याताम्
अतो न कुतश्चिदपि व्यावृत्तिनिश्चयः श्रावणत्वात् ।


नेदानीमिति सिद्धान्तवादी । इदानीमिति बाधासम्भवे सति । अदृशोऽ
दर्शनाद् विपक्षे हेतोर्नास्तिता । तस्मादेवं सत्यदर्शनन्न प्रमाणम्बाधासम्भवात्


श्रावणत्व एवाप्रमाणं भवतु नान्यत्र बाधाऽभावादिति चेदाह । तथेत्यादि ।
अन्य
त्रापि हेतोर्व्यतिरेकसाधनस्यादर्शनस्य सम्भाव्यं प्रमाणान्तरबाधनं । कुतः ।
लक्षणेत्यादि । हेतोर्विपक्षादर्शनव्यावृत्तिनिबन्धनमिति यल्लक्षणन्तेन युक्तं श्राव

66 णत्वस्य यददर्शनन्तस्मिन्बाधासम्भवे सति तल्लक्षणमेव तस्य व्यतिरेकसाधन
स्यादर्शनस्य सर्वविषयमेव लक्षणं स्वरूपं दूषितं स्यादिति सर्वत्रादर्शने व्यतिरेक
साधने
नाश्वासः । न गमकत्वनिश्चयः ॥


यद्येवमनुमानविषयेपि क्वचित् प्रत्यक्षानुमानविरोधदर्शनात्तथा हि नित्यः
शब्दः श्रावणत्वाच्छब्दत्ववदिति कृते नित्यत्वमनुमानेन बाध्यते । एवमश्रावणः
शब्दः सत्त्वाद् घटवदिति प्रत्यक्षेण । ततश्च सर्वत्र तदवशिष्टलक्षणेनानुमाने
प्यनाश्वासप्रसंग इति चेत् ।


नैतदेवं । यथोक्त इति कार्यस्वभा
वानुपलम्भजेङ्गजेनुमाने प्रत्यक्षानुमान
विरोधस्याभावात् । प्रत्यक्षादिविरोधसम्भविनश्चातल्लक्षणत्वात् तदनुमानालक्षण
त्वात् ॥ यदि यथोक्तलक्षणेऽनुमाने नास्ति बाधा तदा हेतुलक्षणयुक्तं परस्पर
विरुद्धार्थसाधकं हेतुद्वयमेकस्मिन् धर्मिण्यवतीर्ण्णम्विरुद्धाव्यभिचार्युक्तमा चा र्ये
26a ण तस्यावच
नमिति चेत् । अनेनाभ्युपेतहानिमाह ॥ अनुमानविषये विरुद्धव्यभि
चार्यवचनादिष्टमेवेति कुतोभ्युपेतहानं । क्व तर्ह्याचार्येणोक्त इत्याह । विषयं
चेत्यादि । अस्य विरुद्धाव्यभिचारिणः ॥ किंचेत्यादि । इह वै शे षि के ण वायोः
सत्त्वसाधनार्थं स्पर्शश्च न च दृष्टानामिति सूत्र104मुक्तं । अस्यायमर्थः
यो गुणः स द्रव्याश्रयी तद्यथा रूपादिः । अपाक
जानुष्णाशीतस्पर्शश्च गुणस्त
स्मात्तस्याश्रयभूतेन द्रव्येण भवितव्यं । न चायं दृष्टानां पृथिव्यादीनां गुणस्तेषां
पाकजानुष्णाशीतस्पर्शादिगुणत्वात् । ततो यस्यायं गुणः स वायुर्भविष्यतीत्युक्ते
वैशेषिकेण । तत्राचार्य दि ङ् ना गे नोक्तं यद्यदर्शनमात्रेण दृष्टेभ्यः प्रतिषेधः
क्रियते न च सोपि युक्त इति यदेतदुक्तन्तद् विरुध्यत इति वा र्त्ति
क का रो
दर्शयन्नाह । दष्टेत्यादि । यद्यदृष्ट्या निवृत्तिः स्यात् तथाऽदृष्टेरदर्शनात् कारणाद्
67 अपाकजस्यानुष्णाशीतस्पर्शस्य दृष्टाऽयुक्तिः । दृष्टेषु पृथिव्यादिष्वसङ्गतिर्या
वर्ण्णिता वैशेषिकैर्यस्या आचार्येणायुक्तत्वमुक्तं सा स्याद् अविरोधिनी युक्तैव
स्यादित्यर्थः ।


तद्व्याचष्टे । यदीत्यादि । यदाहाचार्यः । वायुप्रकरणे यद्यदर्शनमात्रेण
दृष्टेभ्यः
पृ
थिव्यादिभ्यः स्पर्शस्य प्रतिषेधः क्रियते वै शे षि के ण न च सोपि युक्त
इति । यद्याचार्यस्याप्यदर्शनमात्रेण व्यतिरेकोभिमतस्तदा कथमयुक्तः स्पर्शस्य
प्रतिषेधो युक्त एव स्यात् । किं कारणम् अत्रापि हेतोरनुपलम्भादभावसिद्धेर
भ्युपगमात् ॥


नन्वित्यादि परः । उपलब्धिलक्षणप्राप्तः कारणाद् अपाकजस्यानुष्णाशीत
स्पर्शस्यानुपल
भ्यमानस्य पृथिव्यादिषु युक्त एव प्रतिषेधः


न युक्त इति सिद्धान्तवादी । किं कारणं यः पृथिव्यादिरनुष्णाशीतादन्येन
स्पर्शेन युक्तः प्रत्यक्षः स दृश्यः । अन्यत्र च देशादावप्रत्यक्षोपि तथाभूतस्पर्शयुक्त
एव पृथिव्यादिस्तत्स्वभावः । दृश्यश्च तत्स्वभावश्चेति द्वन्द्वः । तदेव विषयः
एव तन्मात्रं सुप्सुपेति समासः । तस्मिन्नप्रतिषेधात् स्पर्श
स्य । तत्र हि प्रतिषेधे
स्यादेव निश्चयः यावता पृथिव्यादिधर्मिभूतं सामान्येनाविशेषेणैव गृहीत्वाऽयम्वै
शे षि कः स्पर्शस्य प्रतिषेधमाह । यत्किंचित् पृथिव्यादि तत्सर्वमनुष्णाशीतस्पर्श
रहितमिति । न च पृथिव्यादिमात्रे स्पर्शस्योपलब्धिलक्षणप्राप्तिरस्ति । न चैक
स्पर्शनियमः पृथिव्यादीनां । यतस्तत्र पृथिव्यादिसामान्ये तूलोपलपल्लवा
दिषु
भेदेषु तद्भावेपि पृथिव्यादिभावेपि स्पर्शभेददर्शनात् । तथा हि तूलस्यान्यः स्पर्शः
श्लक्ष्णत्वलक्षणोन्यश्चोपलादेः कर्कशत्वादिलक्षणः । अस्यापीत्यनुष्णाशीतस्पर्शस्य
क्वचित् पार्थिवद्रव्यविशेषे सम्भवाशंकया भवितव्यमिति कृत्वा सर्वत्र पृथिव्या
68 दावदर्शनमात्रेणानुष्णाशीतस्पर्शस्यायुक्तः प्रतिषेधः


26b यत्तूच्यते सर्वत्र पृथिव्यादेस्तुल्य
त्वात्तुल्य एवानुष्णाशीतस्पर्शो यस्तु
पृथिव्यादिभावेपि श्लक्ष्णत्वादिभेदः स पृथिव्यादिपरमाणुसंयोगस्य निविडानिविड
कृतत्वादिति ॥


तदयुक्तम् अनिविडानां हि नैरन्तर्याभावात् संयोगाभावः । तेन यथो
पलपरमाणूनां संयोगस्य निविडत्वन्तथा तूलपरमाणूनामिति कथं श्लक्ष्णत्वादिभेदः
स्यात् । तस्माद् सत्यपि संयोगे स्वरूपेणान्यादृ
शा एवोपलपरमाणवोन्यादृशाश्च
तूलपरमाणवस्तत्कृत एव च श्लक्ष्णत्वादिभेदः । न संयोगनिविडानिविडकृतः ।
तथा च यथा पृथिव्यादिभेदात् स्पर्शस्य श्लक्ष्णत्वादिभेदस्तथानुष्णाशीतभेदोपि
सम्भाव्येत ॥


ननु माभूद् अदृष्टविषये वाय्वनुनं दृष्टविषये त्वनुष्णाशीतस्पर्शस्य दृश्यस्य
पथिव्यादिसम्बन्धित्वेनानुपलभ्यमानत्वा
त् ततो वाय्वनुमानं स्यात् ।


एवम्मन्यते । यदि स्पर्शादेर्गुणरूपता सिद्धा स्यात् ततो वायुद्रव्यानुमानं
स्यात् सैव त्वसिद्धा । स्वातन्त्र्येण प्रतीतेः । स्पर्शविशेष एव चास्माकम्वायुरुच्यते ।
आचार्य दि ग्ना गे न तु स्पर्शव्यतिरिक्तं वायुंमभ्युपगम्य तत्र परकीयमनुमानमयुक्त
मुक्तमित्यदोषः ।


तस्मात् स्थितमेतद् अन्वयव्यतिरेकयोर्निश्चयमदर्श
नमात्राच्च प्रति
षेधाभावं ब्रुवताचार्येणेष्टः प्रतिबन्ध इति ॥


कस्तर्ह्येवमुपालब्ध इति चेदाह । एवमित्यादि । एवमित्यनन्तरोक्ताभिरुप
पत्तिभिः । आचार्यस्य शिष्य आ चा र्यी यः कश्चिदाचार्यग्रन्थानभिज्ञः अनुपलम्भाद्
अभावं ब्रुवाण उपालब्धः


अपि चेत्यदर्शनमात्रेणाभावाभ्युपगमे प्रत्यक्षबाधां दर्शयितुमाह । देशादि

भेदात् । आदिशब्दात् कालसंस्कारभेदात् । भिन्ना नानारूपा दृश्यन्ते द्रव्येष्वेक
जातीयेष्वपि शक्तयो रसवीर्यविपाकादिलक्षणाः । तत्रेत्यनेकशक्तिषु द्रव्येष्वेकदृष्ट्या
एकस्वभावस्य द्रव्यस्य क्वचिद् दर्शनान्नान्यत्रापि देशादौ युक्तस्तद्भावनिश्चयः

69 यथापरिदृष्टद्रव्यस्वभावनिश्चयः ।


यदीत्यादिनैतदेव व्याचष्टे । यदि विपक्षे हेतोरद
र्शनमात्रेणाप्रतिबद्ध
स्य
स्वसाध्ये तदव्यभिचारः साध्याव्यभिचार इष्यते । तदैकत्र दृष्टस्य द्रव्यस्य यद्
रूपमुपलब्धन्तत्तस्यान्यत्रापि द्रव्यसामान्यादनुमेयं स्यात् । अस्ति हि तत्रापि तत्कालं
हेतोर्विपक्षेऽदर्शनमात्रं ।


न चेदं युक्तं । यस्मात् क्वचिद् देशे कानिचिद् द्रव्याणि कथंचिद् दृष्टानि
प्रतिनियतरसादित्वेन । पुनरन्यथे
ति यथादृष्टाकारवैपरीत्येनान्यत्र देशे दृश्यन्ते ।
यथे
त्यादिना विषयमाह । वीर्यन्दोषापनयनशक्तिः परिणामो विपाकः । विशिष्टा
रसवीर्यविपाका
यासामिति विग्रहः । नान्यत्रेति क्षेत्रविशेषादन्यत्र । यथा देश
विशेषात् तथा कालसंस्कारभेदाद् विशिष्टरसवीर्यविपाका भवन्ति । संस्कारः
क्षीराद्यवसेकः । न च तद्दे
शै
रिति प्रदेशो येषां पुरुषाणान्तैस्तथाविशिष्टरसा- 27a
दियुक्ता दृष्टा इति कृत्वा सर्वा अतद्देशा अपि तत्त्वेन तुल्यरूपादित्वेन तथाभूता
यथागृहीतस्वभावतुल्याः सिध्यन्ति । किं कारणं गुणान्तराणां रसादिविशेषाणां
कारणान्तरापेक्षत्वात् । विशेषहेत्वभावे तु स्यादेकस्वभावतानुमानं ॥ अद्ष्टः
कर्त्ता
यस्य वैदिकस्य तत्तथा । तदपि पुरुषसंस्कारपूर्वकं पुरुषप्रयत्न
हेतुकं । एतच्च
साध्यफलं । वाक्येषु पौरुषेयापौरुषेयत्वेनाभिमतेषु विशेषाभावादनेन हेतुः कथितः ।
प्रयोगा पुनर्यद्वस्तु यदभिन्नस्वभावन्तत्तत्समानहेंतुकं यथैको धूमो धूमान्तर
समानजातीयः । पौरुषेयवाक्याभिन्नस्वभावानि चापौरुषेयाभिमतानि वाक्या
नीति स्वभावहेतुः । न चासिद्धो हेतुः । तथा हि यैः प्रकारैर्विषाद्यपनयनादिति
वैदिकानां विशेष
इष्यते । तेषां सर्वप्रकाराणां पुरुषैः कारणदर्शनात् । तथा हि
श ब रा दिमन्त्राणामिपि विषाद्यपनयनादयो दृश्यन्ते ॥


यदि शब्दस्वभावसाम्याददृष्टकर्त्तृकस्यापि पौरुषेयत्वमनुमीयते । एवन्तर्हि
स्वचित्तसन्ततिदर्शनात् सर्वे चित्तधर्मा ज्ञाताः तेन यावद् बोधरूपन्तावत्

70 पञ्चेन्द्रियाश्रितं सविकल्पकं च सर्वं च रागादिजननवासनागर्भं यथेदानीन्तथा
नागताव
स्थायामपि यथा च मम तथा परेषामपि तेन चित्तत्वेनेन्द्रियाश्रित
त्वेन वचनादिहेतुत्वेन च सर्वस्य पुंसश्चित्तं सर्वदा रागादियुक्तन्नियतवस्तुग्राहि
त्वादसर्वविषयं किन्नानुमीयत इत्याशंक्याह । नैवमित्यादि । यथा वाक्यान्य
सम्भवद्विशेषहेतूनि नैवंमसम्भवद्विशेषहेतवः पुरुषाः येन विशेषहेत्वसम्भवेन ।
वचनादेरादिग्रहणेनेन्द्रियाश्रितत्वचित्तत्वादि
ग्रहणं । वचनादेरेव किंचिन्मात्रेणै
कदेशेन साधर्म्यात्तस्माल्लिङ्गात् पुंसां रागादिमत्वेन नियतविषयत्वेनान्येन वा
सर्वाकारेण साम्यमनुमीयेत


विशेषहेतुसम्भव एव कुत इत्याह । सर्वेष्वेव चेतोगुणेषु विशेषस्य दर्शनात्
रागप्रज्ञादयो हि स्वविषयग्रहणंप्रति मन्दमन्दवृत्तयोपि कालान्तरेण पटुतरा भवन्ति ।
स्वविषयश्चैषां स्पष्टतरो भवतीति वि
शेषो दृश्यते । स पुनः कुतो भवतीत्याह ।
संस्कारोभ्यासस्तस्य विशेषेण प्रज्ञादीनां विशेषप्रतीतेः ॥ भवतु प्रज्ञादीनां मनोगु
णानामभ्यासात् प्रकर्षो दृष्टत्वात् । सर्वज्ञादयस्तु न दृष्टा इति कथन्तेषाम्भाव
इत्यत आह । तद्वदित्यादि । अन्यस्यापि सर्वज्ञत्वादेर्विशेषस्य सम्भवात् । अभ्या
सवशाच्च नैरात्म्याकारस्य सर्वपदार्थग्राहिणश्च सामान्यविकल्पस्य यत्स्फुटाभ

त्वन्तदेव वैराग्यं सार्वज्ञं च पदं । तेन त्रिभिः प्रकारैर्वैराग्यसर्वज्ञत्वविशेषासम्भ
वानुमानं स्यात् । यदि नैरात्म्यविषयस्य सर्वविषयस्य वा विकल्पस्यासम्भवः ।
सम्भवे वा यदि मनोगुणानां न विशेषः स्यात् । सति वा विशेषे विशेषहेतुर्यदि न ज्ञातः
स्यात् । यावता नैरात्म्यादिविषयस्य विकल्पस्य सम्भवोस्ति विशेषहेतुश्चाभ्यासो
27b विज्ञातः । तस्माद् यथाऽस
ति प्रतिबन्धवैकल्ये समर्थेयं बीजकारणसामग्री
अङ्कुरोत्पादायेति सामर्थ्यानुमानं । तद्वदसति प्रतिबन्धवैकल्ये चिरकालान्नैरन्त
र्यवतश्चाभ्यासविशेषाच्च नैरात्म्यविषयस्य सर्वपदार्थविषयस्य च ज्ञानस्य स्फुटाभत्वं
सम्भवतीति वैराग्यसर्वज्ञत्वयोः सम्भवानुमानं । एवन्तावत् सम्भवानुमानमस्माकं ।


असम्भवे त्वनुमातव्ये भवतां न तस्य
धर्मस्य बाधकः कश्चिद्धेतुर्विद्यते । तद
भावान्नासंभवद्विशेषहेतवः पुमांस इति सम्बन्धः । कथं पुनर्बाधकस्याभाव इत्याह ।
वैराग्यस्यादृष्टत्वाद् उपलक्षणं चैतत्सर्वज्ञस्याप्यदृष्टत्वात् । अदृष्टेन च वैरा
71 ग्येण सह हेतोर्बाध्यबाधकभावासिद्धेः ॥


स्यान्मतं न वचनादेर्वैराग्यादीनां साक्षाद् असम्भवोनुमीयते येन बाधको
हेतुर्मृग्यते । किन्तु वीतरा
गाभिमतेषु रागादयोनुमीयन्ते तेष्वनुमितेष्वर्थतो
वीतरागादिप्रतिषिद्धमदृष्टेनापि वैराग्येन्105 रागित्वस्य विरोधादित्यत आह ।
रागेत्यादि । न हि रागादीनामव्यभिचारि कार्यमस्ति । आदिग्रहणाद् असर्वज्ञपरि
ग्रहः । तथा हि व्यवहारव्युत्पत्तिमारभ्य यथा यथार्थपरिज्ञानन्तथा तथा
तद्विषयम्वक्तृत्वम्भवतीति तेन यदि सर्वविषयं क
स्यचिद् विज्ञानं स्यात् तद्विषयमपि
वक्तृत्वं केन वार्यते ॥


स्यादेतद् यदि वैराग्यादिलक्षणन्तस्य विशेषोस्ति कथमस्माभिर्नोपलभ्यत
इत्याह । सम्भवेपि तेषां वैराग्यादिलक्षणानां विशेषाणां परसन्ताने द्रष्टुमशक्य
त्वात्
। न च तथाभूतानामनुपलम्भात् प्रतिक्षेप इत्याह । तादृशो च विप्रकर्षि
णामप्रतिक्षेपार्हत्वात् ॥


स्यादेतद् यथा पुरुषा अप्रतिक्षेपार्हा
स्तद्वद् वाक्यानीत्याह । नैव
मित्
यादि । किं कारणं । दृश्यविशेषत्वात् । तथा हि वैदिकानां वाक्यानाम्वि
शेषो दृश्य एवेष्यते । अथ नेष्यते । एवमदृश्यत्वेपि विशेषस्याभ्युपगम्यमाने ।
तेनानुपलब्धेन विशेषेणादृष्टविशेषाणां वैदिकवाक्यानां लौकिकवाक्येभ्यो विजा
तीयत्वोपगमविरोधात्


स्यान्मतं दृश्या एव विशेषा वैदिकानां दुःश्रवणत्व
दुर्भणत्वादयस्तैः
पौरुषेयेभ्यो भिन्नानि भविष्यन्तीत्यत आह । तद्विशेषाणामित्यादि । अन्यत्रेति
पौरुषेयेषु । न केवलमदृष्टविशेषाणां विजातीयत्वोपगमविरोधाददृश्यत्वं विशे
षाणामयुक्तमितश्च प्रत्यक्षाणामप्रत्यक्षस्वभावविरोधात् । न ह्येकस्य स्वभावद्वयं
विरुद्धं घटते ॥ विशेषाः प्रत्यक्षा एव केवलं भ्रान्तिनिमित्तसद्भावात् । वि
षादि
शक्तिवन्नावधार्यन्त इति चेदाह । भ्रान्तिनिमित्ताभावादिति । रूपसाधर्म्यदर्शनं हि
भ्रान्तिनिमित्तं विषादिषु । नैवं वैदिकेषु ॥ कथङ्गम्यत इति चेदाह । बाधकाभावात्
भ्रान्त्यसिद्धेरिति । यदि वैदिकानां विशेषे भ्रान्त्यानुपलक्ष्यमाणे पुनर्विशेषावलम्बि

72 प्रमाणमुत्पद्येत भ्रान्तेर्बाधकन्तदा भ्रान्तेस्तन्निमित्तस्य च भवति निश्चयस्तच्च
28a नास्ति ।
तस्माल्लौकिकैः शब्दैः वैदिकानामविशेषे साध्ये नास्ति साधकं प्रमाणं ॥


पुरुषेषु तर्हि किं बाधकं येन सर्वाकारगुणसाम्यसाधने दोष इत्याह । पुरुषे
ष्वित्यादि । प्रज्ञादिविषयस्यातिशयस्याभ्यासपूर्वकस्य यद् दर्शनन्तदेव बाधकं ।
यद्यसम्भवद्वैराग्यं पुरुषस्य चित्तम्भवेत् । नाभ्यासाधेयविशेषम्भवेद् भवति
ततो विशेषदर्शनस्य बाधकत्वाद् अ
समा
नं ॥ वेदवाक्यानुमाने यदुक्तं
प्रत्यक्षाणां शब्दानामप्रत्यक्षस्वभावाभावादिति स्यादयन्दोषो यदि विशेषः स्वभा
वभूतः स्यात् । किन्तु परभावभूत इत्याह । परभावभूतस्येति । परभावङ्गतः परभाव
भूतः । अन्यस्वभाव इत्यर्थः । अतद्विशेषत्वादित्यवाक्यविशेषत्वात् । यतो नास्ति
विशेषो वाक्याना
न्तत्तस्मादभिन्नस्वभावानां सर्वेषां पौ
रुषेयापौरुषेयाभिमतानां
पुरुषक्रिया । पुरुषैः करणं । न वा कस्यचित् । लौकिस्यापि न पुरुषक्रियेत्यर्थः ॥


एवमाचार्यीयस्यादर्शनमात्रेण विपक्षाद्धेतोर्व्यतिरेकमिच्छतः ग्रन्थविरोधं
प्रमाणविरोधं चोक्त्त्वा ती र्थि का नां परस्परव्याघातमाह । किंचेत्यादि । मृद
श्चेतना । एतच्च लो का य त दर्शनं । आत्मामृच्चेतना चेति द्वन्द्वः । आदि

ब्दात् क्षीरादिषु द्रव्यादि । तेषामभावस्य साधनायानुपलम्भः परेणोक्तोपि
स्तस्याभावस्याप्रसाधक इष्ट आत्मादिवादिभिरनुपलम्भमात्रस्याप्रमाणत्वादिति ।
स एवानुपलम्भ आत्मादिनिषेधे प्रमाणत्वेनानिष्टः किं हेत्वभावस्य हेतोविपक्षाद्
व्यतिरेकस्य साधकः ॥ हेत्वभावे चानुपलम्भं चास्य वै शे षि का देः प्रमाणयतः
आत्मवादो निरालम्बो
निरा
श्रयः स्यात् । तत्रानुपलम्भस्याभावसाधनस्य
सम्भवात् । तथा हि न प्रत्यक्षेणात्मन उपलम्भो नित्यपरोक्षत्वाभ्युपगमात् । अथ
स्यादात्मनोनुमानमेवोपलम्भोस्त्येवेत्यत आह । तत्कार्येत्यादि । अप्रत्यक्षत्वा
देवात्मनस्तत्कार्यस्वभावरूपस्य लिङ्गस्यानिश्चयान्नानुमानमुपलम्भः ।



73

यथा नित्यपरोक्षाणामपीन्द्रियादीनामनुमानन्तथात्मनो भविष्यतीति चे

दाह । इन्द्रियाणामित्यादि । आदिशब्दात् स्मृतिबीजादीनां । विज्ञार्नमेव कार्य
न्तस्य कादाचित्कत्वात् । तथा हि सत्स्वपि रूपालोकमनस्कारेषु निमीलितलोचना
द्यवस्थासु विज्ञानस्याभावात् । पुनश्चोन्मीलितलोचनावस्थासु भावात् । विज्ञा
नकार्यं कारणान्तरसापेक्षं सिध्यति ततोस्य सापेक्ष्यसिद्ध्या इन्द्रियादीनाम्प्रसिद्धि
रुच्य
ते ।


एतदुक्तम्भवति । यत्सापेक्ष
मिदङ्कादाचित्कं । विज्ञानन्तत्किमप्यस्य विज्ञानस्य
कारणमस्तीत्यनुमीयते । तदेव चेन्द्रियमिति व्यवह्रियते । न त्वेवंभूतमिति
रूपविशेषेण मूर्त्तत्वादिना युक्तमिन्द्रियमनुमीयत इत्यर्थः ॥ एवमिति यथा
कादाचित्कविज्ञानकार्यान्यथानुपपत्त्येन्द्रियानुमानं । तथा सुखादिकार्यं । यस्य
सुखादिकार्यन्तत्किमप्यस्तीत्यनुमानेन तच्चात्मस्वरूपमिति प्रसाधितं
कञ्चि- 28b
दर्थंमा
त्मवादिनो न पुष्णाति । येन केनचिदनिर्दिष्टविशेषेण कारणेन कारण
वत्त्वाभ्युपगमात्
सुखादीनां । न चैवंभूत आत्मा । नित्यकर्त्तृभोक्तृत्वादिलक्षण
त्वेनाभ्युपगमात् । यतश्च यथाभ्युपगतस्यात्मनो नास्ति कार्यलिङ्गं । तथा च
सत्यनुपलम्भ एवात्मनः स्या
त् । तस्मात् तमात्मानन्तेनानुपलम्भेन प्रत्यक्षानुमान
निवृत्तिलक्षणेन प्रत्याचक्षाणः किमिति प्रतिव्यूढः प्रतिक्षिप्त आ
त्मवादिना ।
अनुपलम्भमात्रान्नास्त्यसत्त्वमात्मन इति । कथमसाधनं सद् विपक्षाद्धेतोः प्राणा
दिमत्वादेर्व्यतिरेकं साधयेत् ॥ भूतानामेव शक्तिश्चैतन्यमिष्यते चा र्वा कैः
भूतस्वभावा च मृदित्येवं मृदः खल्वपि चैतन्यमनुपलभ्यमानमपीच्छन् लो का
य ति कः । यदाह तेभ्यो भूतेभ्यश्चैतन्यम्मदशक्तिवद्विज्ञानमिति । पुनस्तत
एवाप्रमाणकादनुपलम्भात् । अद
र्शनाद् वचना
देरसर्वज्ञत्वादिसाधनाय लिंग
त्वेनोपनीतस्य विपक्षाद् व्यावृत्तिमाह ॥ दध्यादिकं क्षीरादिष्वनुपलभ्यमानमपी
च्छन् ।



74

अपर इति सां ख्यः पुनः स एव । परार्थाश्चक्षुरादयः सङ्घातत्वादित्यभिधा
यापरार्थेषु शशविषाणादिषु सङ्घातत्वस्यादर्शनाद् व्यतिरेकमाह । एवन्तावदस्य
परस्परव्याघातः । न चादर्शनमात्रेणास्य हेतोर्व्याप्तिः सिध्यति ।
को ह्यत्र
नियमः सङ्घातैरवश्यं परार्थैर्भवितव्यं
यतः संघातत्वाच्चक्षुरादीनां पारार्थ्यसिद्ध्या
त्मार्थत्वं सां ख्य स्य सिध्येत् ॥ यदुक्तं दध्यादिकं क्षीरादिष्वप्यनुपलभ्यमानमपीति
तन्न । यस्मादस्त्येवोपलम्भो दध्यादीनां क्षीरादिषु कोसावित्याहानुमा
नमि
ति । अनुमानं चाहाशक्तादनुत्पत्तेरिति । यदि हि क्षीरादौ दध्यादिशक्तिर्न
स्यात्ततो ऽशक्तात् क्षीरादेर्दध्या
दि नोत्पद्येत । प्रयोगस्तु यद्यज्जनने न शक्तं
न तस्य तत उत्पत्तिर्यथा शालिबीजाद् यवाङ्कुरस्य उत्पद्यते च दध्यादिः
क्षीरादिभ्यस्तस्मादस्ति दध्यादिशक्तिः क्षीरादाविति कार्यहेतुप्रतिरूपको वैधर्म्य
प्रयोगः । शक्तेरेव च दध्यादिः कार्यकारणयोरभेदादिति मन्यते ।


अथेत्यादि सिद्धान्तवादी । योसौ दध्यादिको भावः पश्चादुपलभ्यते किं स एव
भा
वः शक्तिरुतान्यदेव किञ्चि
द् दध्यादेरर्थान्तरं । तथैवेति निष्पन्नरूपदध्यादिवत्
क्षीरावस्थायामुपलभ्येत । विशेषाभावात् । अन्यच्चेदिति । दध्यादिभ्योर्थान्तरं
चेच्छक्तिः । तदा कथमन्यभावेन्यस्य शक्त्याख्यस्य भावे । तद्दध्यादिकमस्ति ।
नैवेत्यभिप्रायः । दध्यादिजननसामर्थ्यात् क्षीरादौ दध्यादीत्युपचारमात्रं स्यात्
अनुपलम्भमप्रमाणीकृत्य पुनस्तस्यैव
प्रमाणीकरणमयम्परस्परव्याघात एषामात्मा
दिवादिनामित्युपसंहारः ॥


यतश्चादर्शनमात्रान्नास्ति व्यतिरेकस्तस्मात्तन्मात्रसम्बन्धः । हेतुसत्तामात्र
सम्बद्धस्वभावः साध्यत्वेनाभिमतः स्वयन्निवर्त्तमानो भावमेवे स्वभावभूतमेव
हेतुत्वेनोपनीतं निवर्त्तयेत् । वा शब्दो वक्ष्यमाणविकल्पापेक्षी ॥ यथा वृक्षो निवर्त्तमानः
29a शिंशपान्नि
वर्त्तयति । कस्माच्छाखादिमद्विशेषस्यैव तथा शिंशपेति प्रसिद्धेः स

75 वृक्षस्तस्य शिंशपाख्यस्य स्वभावः । स्वञ्च स्वभावं वृक्षं परित्यज्य कथं शिंशपाख्यो
भावो भवेत् । किङ्कारणं स्वभावस्यैव वृक्षस्वात्मन एव भावत्वाच्छिंशपारूप
त्वा
त् । इति हेतोस्तस्यात्मभूतस्य साधनस्य शिंशपादेः स्वभावप्रतिबन्धादेव स्वभावे
साध्याभिमते वृक्षादौ यथोक्तेन प्रकारेण प्रति
बन्धादेवाव्यभिचारः ॥ कारणं वा
निवर्त्तमानमित्यध्याहारः । कार्यन्निवर्त्तयेदिति प्रकृतं । कस्माद् अव्यभिचारतः
कार्यस्य कारणाव्यभिचारादित्यर्थः ॥ कारणमित्यादिना व्याचष्टे ।


अन्यथेति । यदि कारणे निवर्त्तमाने कार्यं न निवर्त्तेत । तदा तत्कार्याभिमतं
तस्य कारणस्य कार्यमेव न स्यात् । तस्मात् कारणं निवर्त्तमानं कार्यमवश्यं
निवर्त्तयति । यद्यपि वासगृहादावग्निकारण
निवृत्तावपि न धूमस्य निवृत्तिस्तथापि
दृष्टकारणव्यतिरेकेण नान्यस्मादस्योत्पत्तिरभिप्रेतेत्यर्थः । अत एवाह । सिद्धस्त्वि
त्यादि । सिद्धस्तु कार्यकारणभावः कार्यस्य स्वभावं कारणे नियमयति सति
तस्मिन्भवत्यसति न भवतीत्येवन्तदव्यभिचारिणं करोति । उभयथेति तादात्म्येन
तदुत्पत्त्या वा यः स्वभावप्रतिबन्धस्तस्मादेव । साध्यनिवृत्त्या हेतोर्निवृत्तिः


अन्यथेति यदि
प्रतिबन्धो नेष्यते । एकस्याप्रतिबन्धकस्य साध्यस्य निवृत्त्या
न्यनिवृत्तिः
। अप्रतिबद्धस्य साधनधर्मस्य निवृतिः कथम्भवेत् नैव । यस्मा
न्नाश्ववानित्यश्वरहित इति कृत्वा मर्त्त्येन मनुष्येण न भाव्यं गोमतापि किं ।
सन्निधानात्तथैकस्ये
ति स्वभावेनासम्बद्धस्य हेदोः सन्निधानात् कथमन्यस्य साध्यस्य
सन्निधिर्नैव सन्निधानं । यस्माद्


गोमानित्येव मर्त्त्येन भाव्यमश्ववता
पि किं ।


76

यत एवन्तस्मात् स्वभावप्रतिबन्धादेव साध्याभिमते वस्तुनि प्रतिबद्धत्वादेव
हेतुः स्वसाध्यङ्गमयति । न तु सम्बन्धात् । कार्यकारणयोरसहभावेन व्याप्य
व्यापकयोश्चैकत्वेन द्विष्ठसम्बन्धाभावात् । स चेति स्वभावप्रतिबन्धः । तद्भा
वलक्षण
इति साध्यस्वभावलक्षणस्तदुत्पत्तिलक्षणो वा ॥ स एव स्वभावप्रतिबन्धो
ऽविनाभावाख्यः साधर्म्यवैधर्म्यदृष्टान्ताभ्यां
प्रदर्श्यते


एतदुक्तम्भवति । साध्यसाधनयोः प्रतिबन्धग्राहकमेव प्रमाणं व्याप्तिग्राहक
न्तेनैव साधनस्य साध्यायत्तताग्रहणात् साध्याभावेऽभावो गृहीत एव केवलन्तद
विनाभावग्राहकं प्रमाणं विस्मृतत्वाद् दृष्टान्ताभ्यामुपदर्श्यते यतश्च प्रमाण
ख्यापनादेवाविनाभावस्मृत्या साध्याभावे साधनाभावो निश्चितो भवति


तस्माद् वैधर्म्यदृष्टान्ते । तद्विषयेऽवश्यं निय
मेन इह हेतौ कार्यस्वभावलक्षण
आश्रयो वस्तुभूतो धर्मी नेष्टः स्वभावानुपलम्भे त्विष्ट एव ।


तत्र हि विपर्ययेणोपलम्भः ख्यापनीयः । किङ्कारणम् आश्रयो नेष्ट इत्याह ।
तदभावे चेत्यादि । तदभावे व्यापककारणयोरभावे तद्व्याप्यकार्याख्यं लिङ्गं नेति
न भवतीत्येवं वैधर्म्यवचनाद् अप्याश्रयरहितात्तद्गतेर्व्यतिरेकगतेः ॥ २८ ॥


29b किङ्कारणं । यत इत्यादि । स्वभावहेतौ सा
ध्यस्य तद्भावः साधनव्या
पकत्वं । कार्यहेतौ साध्यस्य हेतुभावः कारणत्वं ख्याप्यते । तदवेदिन इति तद्
भावहेतुभावावेदिनः पुंसः ॥


तद्व्याचष्टे । दृष्टान्ते हीत्यादि । साध्यधर्मस्य तद्भावः साधनस्वभावत्वं
ख्याप्यते तन्मात्रानुबन्धेन
। साधनमात्रानुबन्धेन । कृतकत्वनिष्पत्तावेव
निष्पन्नस्यानित्यत्वस्य कृतकमात्रानुबन्धेन या तत्स्वभावता साधनस्वभावता
तया । एवंभू
तया तद्भावः ख्याप्यते । न तु निमित्तान्तरात् पश्चाद् उत्पद्य

77 मानेनानित्यत्वेन । यथैके विप्रतिपन्ना इति । तन्मात्रवत्वमेव दर्शयन्नाह ।
इत्यादि । यो हेतुः कृतकं-स्वभावें जनयति सोऽनित्यरूपमेव सन्तं जनयतीत्यर्थः ।
इति अनेन द्वारेणाविनाभावविषयं प्रमाणं दृष्टान्तेन ख्याप्यते । न तु दर्शना
र्शनमात्रं । अन्यथेति यद्येवं प्रमाणं नोप
दर्श्यते । तदैकधर्मसद्भावात् साधन
धर्मसद्भावात् । तदन्येनापि साध्यधर्मेणापि भवितव्यमिति नियमाभावात् साधनस्य
साध्यव्यभिचाराशंका स्यात्


यदि नाम दृष्टान्तेन प्रमाणमुपदर्शनीयन्तथापि किं सिद्धमित्याह । तेन च
प्रमाणेन
तन्मात्रानुबन्ध इति साधनमात्रानुबन्धः । कथं ख्याप्यत इत्याह । कृतक
स्य यत्कारणन्तस्मादेव कृतकस्तथा जातो
जातो यो नश्वरः क्षणस्थितिधर्मा ।
क्षणिकत्वेनैव नश्वरो न तु कालान्तरं स्थित्वेत्यर्थः ।


कथं पुनः स्वहेतोरेव तथोत्पन्न इत्याह । अन्यत इति स्वहेतोरन्यस्माद्विनाश
हेतोः । तस्य कृतकस्य तद्भावनिषेधाद् अनित्यतास्वभावनिषेधाद् वक्ष्यमाण
कात् ॥ हेतुभावो वा । तेन च प्रमाणेन ख्याप्यत इति सम्बन्धः । साध्यधर्मस्य
साधनंप्रति हेतुभावो वा कारण
त्वम्वा ख्याप्यते । तस्मिन् सत्येव साधनस्य भावा
दित्यनेन प्रकारेण प्रमाणं दृष्टान्तेन प्रदर्श्यते । कस्य पुनः साध्यस्य हेतुभावः प्रद
र्श्यत इत्याह अर्थान्तरस्य साधनाद् व्यतिरिक्तस्य । तथा दृष्टान्तोपदर्शितेन
प्रमाणेन प्रसिद्धे तद्भावहेतुभावे । स्वभावस्य साध्यस्य तद्भावे । साधनस्वभावत्वे ।
कारणस्य हेतुभावे प्रसिद्धे सति । दहनाभावे धूमो न भवती
ति प्रकृतेन सम्बन्धः ।
इत्यनित्यस्वभावो वह्निश्च । तस्येति कृतकत्वस्य धूमस्य च यथाक्रमं स्वभावो
हेतुर्वा वा शब्दः समुच्चये । यत एवं कथमसौ कृतको धूमो वा स्वं स्वभावमनित्यं
हेतुं चाग्निमन्तरेण भवेत् नैव भवेदित्येवमनुद्दिष्टरूपे विषये व्यतिरेके
78 कथ्यमाने आश्रयमन्तरेणापि वैधर्म्यदृष्टान्ते प्रसिध्यति व्यतिरेकः


तेन यदुच्यते
भ ट्टो द्यो त क रा भ्यां ।

व्यतिरेकोपि लिंगस्य विपक्षान्नैव लभ्यते ।

अभावे स न गम्येत कृतयत्नैरबोधनादि ति

तन्निरस्तं ॥


एवन्तावत् तद्भावहेतुभावख्यापनाय तदवेदिनः दृष्टान्तो वक्तव्यः ॥


येषां पुनः पूर्वं प्रसिद्धावेव तद्भावहेतुभावौ यथा-स्वं प्रमाणेन पक्षधर्ममात्रत्वं
30a निश्चितन्तेषान्तद्भावहेतुभावंप्रति विदुषां हेतुरेव ॥ यदर्थ
मित्यन्वयव्यतिरेक
निश्चयार्थं । प्रतिपाद्यस्य स्वयमेव सोर्थः सिद्ध इति किन्तद्वचनेन । तदेति निश्चि
तान्वयव्यतिरेककाले ।


यदपि मूढं प्रति दृष्टान्तप्रदर्शनं क्रियते तदा तत्प्रदर्शनेपि दृष्टान्तप्रदर्शनेपि
वैधर्म्यं । विनाप्याश्रयेण यथोक्तविधिना सिध्यत्येव व्यतिरेकः । ततः किम्वैधर्म्य
दृष्टान्ताश्रयेणेति मन्यमान
आ चा र्य आश्रयं
प्रतिक्षिपति
न्या य मु खा दौ ।
तथा हि तत्रैवं चोदितं यदा तर्ह्याकाशादिकं नित्यन्तावदभ्युपैति प्रतिवादी
तदा कथन्नित्यात् कृतकत्वस्य व्यतिरेक
इति तत्रा चा र्य आश्रयं
प्रतिक्षिपन्नाह । तदा सन्देह एव नास्ति तदभावात्तत्रावृत्तेरिति ।


एतदुक्तम्भवति । गृहीतप्रतिबन्धस्य तत्राकाशादौ व्यापकाभावाद् व्याप्या
भावसिद्धेः । अनित्याभावश्च नित्यस्यास
त्वात् सिद्ध इति यावत् ॥ यस्माद
दृष्टान्ताभ्यां प्रतिबन्धः कथ्यते । तेन कारणेन ज्ञातसम्बन्धे हेतौ सति द्वयोः साध
र्म्यवैधर्म्यदृष्टान्तयोरन्यतरोक्तितः । द्वितीयेपि ताभ्यामेवान्यतरस्मिन्ननुक्तेपि
स्मृतिः समुपजायतेऽर्थापत्त्या



79

एतदप्याचार्यवचनेन संस्यन्दयन्नाह । यदाहेत्यादि न्या य मु खे चायं
ग्रन्थः । वाशब्दस्तत्रैव पूर्वविकल्पापेक्षी ।
अन्यतरेणेति साधर्म्यदृष्टान्तेन वैधर्म्य
दृष्टान्तेन वा । उभयप्रदर्शनाद् अन्वयव्यतिरेकप्रदर्शनात् । तत्रापि ग्रन्थे । दृष्टान्तेन
स्वभावहेतौ कार्यंहेतौ च यथा क्रमन्तद्भावहेतुभावप्रदर्शनं क्रियत इति मन्यमान
आचार्योर्थापत्त्या एकस्यान्वयस्य व्यतिरेकस्य वा वचनेन द्वितीयस्य यथाक्रमं
व्यतिरेकस्यान्वयस्य वा सिद्धिमाह । एतदेवा
ह । तथा हीति । त्किञ्चित् कृतक
न्तदनित्यमेवेत्युक्ते व्यक्तम
वश्यमयमनित्यत्वाख्यो धर्मोस्य कृतकस्य स्वभावस्त
न्मात्रानुबन्धी
कृतकमात्रानुबन्धी प्रमाणदृष्ट इति प्रमाणेन निश्चितः


ननु कार्येपि कारणमवश्यम्भवति । न च तत्तस्य स्वभाव इत्यत आह ।
अनर्थान्तर इति । कथन्तन्मात्रानुबन्धीत्याह । तद्भावनियमादिति । कृतकभावे

ऽवश्यमनित्यताभावादित्यर्थः ॥


ननु न कृतकमात्रानुबन्धी स्वभावो नित्यत्वस्य प्रत्यक्षनिश्चितः क्षणिकोय
मित्यनिश्चयात्तत्कथमुच्यते प्रमाणदृष्ट इति । अथ कृतको विनाशं प्रत्यनपेक्षत्वा
त्तद्भावनियत इत्यनुमानदृष्टः


तदयुक्तं यतो निर्हेतुकेपि विनाशे यदैव घटादेर्नाशः प्रतीयेत तदैवाहेतुकः
स्यान्नान्यदा । तत्कथं
क्षणिकत्वं । अथैकक्षणस्थायित्वेन घटस्योत्पत्तेः पूर्वमपि
नाशः


ननु यथैकक्षणस्थायित्वेनोत्पत्तिः स्वहेतुभ्यस्तथानेकक्षणस्थायित्वेनाप्युत्पत्तिः
स्यात् । विचित्रशक्तयो हि सामग्र्यो दृश्यन्ते । न च यदि विनाशः क्वचित् कदाचिद्
भवेत् तत्कालद्रव्यापेक्षत्वाद् अस्यानपेक्षत्वहानिः । विनाशकहेत्वनपेक्षत्वाद्
अन्य
था द्वितीयेपि क्षणे विनाशो न स्यात् तत्कालाद्यपेक्षत्वात् । अथ क्रमयौगपद्याभ्यां 30b
सामर्थ्यलक्षणं सत्त्वं व्याप्तं । नित्येषु च क्रमाक्रमनिवृत्तौ सत्त्वं निवर्त्तमानं
क्षणिकेष्वेवावतिष्ठत इति सत्त्वयुक्तस्य कृतकस्य गमकत्वं ।


तदप्ययुक्तं । क्षणिकत्वे सति क्रमाप्रतिपत्तेर्येन हि ज्ञानक्षणेन पूर्वकम्वस्तु
प्रतिपन्नं न तेनोत्तरं येनोत्तरं न तेन पूर्वकमिति कथं क्रमप्रतीतिः ।
यो हि पूर्व
80 वस्तुप्रतिपत्यनन्तरमपरस्य ग्राहकः स क्रमग्राही स्यात् तथा वा-क्षणिकत्वमस्य
स्यात् । यस्य च बौ द्ध स्य काल एव नास्ति तस्य कथं क्रमग्रहः । भिन्नकालवस्त्व
ग्रहात् । कालाभावे चानेकवस्तुरूप एव क्रमः । तथा च नित्यस्यापि क्रमकर्त्तृत्वं
न विरुध्यते । यथा च नित्यस्य क्रमकर्त्तृत्वादनेकरूपत्वन्तथा क्षणस्यापि स्यात् ॥
अथ क्षणवद् द्वितीये क्ष
णे नित्यस्याप्यभावः स्यात् । कार्याभावात् ।


तदयुक्तं कालाभावात् । भवतु वा क्रमग्रहस्तथापि कथं क्रमाक्रमाभ्यां सत्त्वस्य
व्याप्तिः । क्रमयौगपद्यव्यतिरेकेणान्येन प्रकारेणार्थक्रियासम्भवात् । न च प्रका
रान्तरस्य दृश्यानुपलम्भादभावनिश्चयः । एवं हि विशिष्टदेशादावेवाभावनिश्चयः
स्यान्न सर्वदा । नाप्यदृश्यानुपलम्भाद् अभावनिश्चयः सन्देहात्
। तस्मान्नित्येषु
क्रमाक्रमायोगेपि सत्त्वानिवृत्तेः कथं सत्त्वस्य क्षणिकस्वभावत्वमिति शं क र प्रभृतयः ।


भवतु वा प्रकारान्तराभावात् क्रमयौगपद्याभ्यां सत्त्वस्य व्याप्तिस्तथापि नि
त्येषु न प्रत्यक्षादिना क्रमाक्रमायोगः सिद्धो नित्त्यानामतीन्द्रियत्वात् तदसिद्धौ
च न तेषु सत्त्वनिवृत्तिसिद्धिस्तदसिद्धौ च न सत्वस्य क्षणिकस्वभावत्वसिद्धिः ।


किञ्च
सत्त्वात् क्रमयौगपद्यानुमानं स्यात् तेनैव व्याप्तत्वान्न तु क्षणिकत्वा
नुमानन्तत्र क्रमकर्त्तृत्वासम्भवादिति ।


अत्रोच्यते । क्रमयौगपद्ये प्रत्यक्षसिद्धे एव । सहभावो हि भावानां यौगपद्यं
क्रमस्तु पूर्वापरभावः स च क्रमिणामभिन्नस्तत्प्रतिभासश्चैकप्रतिभासः । स त्वेक
प्रतिभासानन्तरमपरस्य प्रतिभासः । क्रमप्रतिभासो न त्वेकस्यैवातिप्रसङ्गात् ।


सत्यं
तत्रापि यदैकस्य प्रतिभासो न तदापरस्य तद्भावे हि यौगपद्य
प्रतिभासः स्यात् । तस्मात् क्रमिणोः पूर्वोत्तराभ्यां ज्ञानाभ्यां ग्रहे क्रमो गृहीत एव
ततोऽभेदात् । केवलं पूर्वानुभूतवस्त्वाहितसंस्कारप्रबोधेनेदमस्मादनन्तरमित्या
नुपूर्वीविकल्पोत्पत्त्या क्रमग्रहो व्यवस्थाप्यते । क्रमिणां ग्रहेपि कथंचिदानुपूर्वी
विकल्पानुत्पत्तौ क्रमाग्रहव्यवस्थापनाद
त एव क्रमिणामेकग्रहेपि न क्रमग्रह उच्यते ।


किं च कालाभ्युपगमवादिनोपि कथं क्रमग्रहः । एककालत्वात् सर्वकार्याणां ।
अथ भिन्नकालकारणोपाधिक्रमात् कार्यक्रमस्तदयुक्तं कालस्यैकत्वात । अत एव
न नित्यंस्य भावः ।


अथ पूर्वापररूपत्वात् क्रमवान् कालः ।


ननु तस्यापि क्रमो यद्यपरकालापेक्षस्तदानवस्था स्यात् । अथ तस्य स्वरूपेणा

31a क्रमस्तथा सहायरहितानाम्बहूनां कार्याणामपि क्रमः स्यात् । अस्माकन्तु पूर्वा
दिप्रत्ययविषयो महाभूतविशेषः कालो लोकप्रतीतोस्त्येव । तस्य च भेदात्
क्रमादिप्रतीतिर्युज्यत एव । नापि प्रकारान्तरेण नित्यस्य कर्तत्वं सम्भवति । यतः

81 प्रकारान्तरेणैकदैककार्यकरणेऽनेककरणे वान्यदाऽवस्तुत्वं स्यात् कार्याभावात् ।
पुनः पुनः का
र्यकरणे च क्रम एव न प्रकारान्तरसम्भवः । अथ प्रकारान्तरेण नैकदा
कार्यं करोति पुनः पुनश्च न करोति तदास्यावस्तुत्वं स्यात् । सर्वदाऽकर्त्तृत्वात् ।


तस्मात् क्रमाक्रमाभ्यां घटादिरर्थक्रियाकारी प्रत्यक्षसिद्धः स एवायमिति ज्ञानाद
क्षणिकश्च प्रतीयत एव । तस्य च यदैककार्यकरणंप्रति सामर्थ्यन्तत्तदैव न पूर्वं न
पश्चात्तत्कार्या
भावात् । सामर्थ्यं च तदव्यतिरिक्तमेवमुत्तरोत्तरकार्योत्प
त्तावपि द्रष्टव्यं । सामर्थ्यभेदेन च पदार्थभेदात् क्षणिक एव क्रमाक्रमयोर्नियमः ।
तेन यत्र सत्त्वन्तत्र क्रमाक्रमप्रतीतावपि क्षणिकत्वप्रतीतिरेव । य एव क्षणिके क्रमा
क्रमयोर्नियमोयमेव नित्येषु तयोरयोगः । तस्माद् यदेतद् घटादौ नित्यत्वं प्रतीतं
तत् सत्त्वविरुद्धमिति
नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिद्ध उच्यते ।
यथा च दृष्टे घटादौ सत्त्वं क्षणिकत्वव्याप्तं तथाऽदृष्टेष्वप्यविशेषादिति
व्याप्तिं सर्वोपसंहारेण प्रतिपद्य यथा यथा तेषु सत्त्वं निश्चीयते तथा तथा क्षणि
कत्वानुमानं । सत्त्वानिश्चये तु शशविषाणवत्तेष्वसत्ताशंकया क्षणिकत्वाप्रतीतिः
स्यात् न च तत्रापि बाधकप्रमाणेनैव क्षणि
कत्वस्य सिद्धत्वादनुमानस्य
वैयर्थ्यं । गृहीतव्याप्तिकस्य पुंसः सत्त्वनिश्चयमात्रेणैव साध्यार्थावगतेर्बा
धकोत्थानवैयर्थ्यात् । विस्तरतस्त्वयं व्याप्तिग्रहणप्रकारो नैरात्म्यसिद्धावभिहित
इति तत्रैवावधार्यः ।


ये तु सत्त्वस्य विपक्षाद् अभावेन सर्वत्र क्षणिकत्वव्याप्तिं प्रतिपद्य सत्त्वात्तत्रैव
क्षणिकत्वमनुमापयन्ति । तेषामनुमानोत्थानमे
व न स्यात् । व्याप्तिग्रहणादेव
प्रमाणात् सर्वत्र क्षणिकत्वस्य सिद्धत्वात् । न च धर्मी सिद्धः सर्वस्य त्रैलोक्यस्य
प्रत्यक्षत्वाद्धेतुश्चासिद्धः । पक्षीकृते च सर्वस्मिन् धर्मिणि बाधकवशाद् यदि विपक्षा
भावः सिद्धस्तदा साध्यस्यापि सिद्धत्वान्नानुमानस्योत्थानं स्यात् ।


नान्यश्च धर्मी सिद्ध इति कथं बाधकस्य प्रवृत्तिरिति यत्किञ्चिदेतत्
तस्मात् स्थितमेतद
स्य सत्त्वविशिष्टस्य कृतकत्वस्य क्षणिकत्वाख्यो धर्मः स्वभाव
स्तन्मात्रानुबन्धी अस्य वा क्षणिकत्वस्य स्वभावस्तन्मात्रानुबन्धी कृतकमात्रानुबन्धी
प्रमाणदृष्ट इति ।


यद्वा सत्त्वविशेषणरहितस्यापि कृतकत्वादेः क्षणिकत्वे साध्ये नानैकान्ति
कत्वं । यतस्तस्य प्रथमे क्षणे य एव स्वभावः स एव चेत् द्वितीये क्षणे तदाऽभूत्वा
भवनमेव स्यात् प्रथम
क्षणवत् । ततश्च क्षणिकत्वं । अथ प्रथमक्षणे कृतकस्य 41b
जन्मैव न स्थितिर्द्वितीये तु क्षणे स्थितिरेव न जन्म । एवमपि क्षणिकत्वं स्यात् । जन्म
जन्मिनोरभेदात् । स्थितिस्थितिमतोश्च । न च द्वितीये क्षणे जन्म विना स्थिति

82 र्युक्ता । जन्म चेन्न तदा स्थितिस्तस्याद्वितीयादिक्षणभावित्वात् । तत्राप्येवमिति
सर्वत्रोत्पत्तिरेव न स्थितिरिति क्षणिकत्वमेव । उत्पत्तिश्च हेतुकृतेति तत्रै
व कृतकत्वं ।
न स्थितौ । तस्मात् कृतकत्वस्याक्षणिकत्वविरुद्धत्वान्नानैकान्तिकत्वं । विस्तरेण चास्य
कृतकत्वस्य क्षणिकत्वव्याप्तिर्नै रा त्म्य सि द्धा106भिहितेति तत्रैवावगन्तव्या ।


तस्मात् सत्त्वानन्तर्भूतस्यापि कृतकत्वस्य व्याप्तिः प्रमाणदृष्टा । तदाहास्य
स्वभावस्तन्मात्रानुबन्धी प्रमाणदृष्टस्तद्भावनियमात् । कृतकभावेऽवश्यमनित्य
ताभावनियमादिति ।


एवं ज्ञातत
द्भावस्
यानित्यस्वभावं कृतकं ज्ञातवतः पुंसोर्थापत्त्या साध्यस्या
नित्यत्वस्याभावे कृतकन्न भवतीत्येवंनिश्चयो भवतीति । यस्मान्नहि स्वस्यात्म
भूतस्यानित्यत्वस्याभावे भावो भवति । तदात्मभूतं कृतकत्वम्भवति । किं कारण
म् अभेदात् साध्यसाधनयोः । अन्यथेति यद्यनित्यत्वाभावे कृतकत्वम्भवेत् ।
तदा तद्भावे कृतकत्वाभावेऽवश्यमनित्यत्वम्भवती
त्येव न स्यात् ॥ तथे
ति यथा
साधर्म्यप्रयोगे वैधर्म्यगतिस्तथा वैधर्म्यप्रयोगेन्वयस्मृतिर्भवतीति वक्ष्यमाणेन
सम्बन्धः । तदभाव इति नित्यत्वाभावे कृतकत्वन्न भवत्यवश्यमित्युक्ते । तत
एव वैधर्म्यप्रयोगात् तद्भावतावेदिनः । साधनस्य साध्यस्वभावतावेदिनः पुंसः ।
कथन्तद्भावतां वेत्तीति चेदाह । तथा हीत्यादि । अयमनित्यत्वाख्यो धर्मोस्य
कृ
तकत्वस्य स्वभावो येन तदभावे कृतकत्वन्न भवति । अन्यथेति अनित्यत्वं
यदि कृतकस्य स्वभावो न भवेत् । तदा तदभावे कृतकत्वन्न भवेदित्यस्यायोगात् ।
इति
हेतोस्तत्स्वभावताप्रतिपत्त्या कृतकस्यानित्यस्वभावतोप्रतिपत्त्यान्वयस्मृति
र्भवति


एतदुक्तम्भवति । य एव हेतोः साध्य एव भावः स एव विपक्षेऽभाव इत्यन्वय
व्यतिरेकयोस्ता
दात्म्यमन्योन्यव्याप्तिश्चातो हेतावन्वयप्रतीत्या व्यतिरेकप्रती
तिर्व्यतिरेकप्रतीत्या चान्वयप्रतीतिरनुमानमेव ।


तेन यदुच्यते ।




83

सामर्थ्यमिच्छतः की र्त्ते र्न ष्टं द्वित्वावधारणमितिन्यायमंजरी ?तदपास्तं ।


यद्वा नैवैतत् प्रमाणं केवलं संकेतवशाद् अन्वयमुखेन व्यतिरेकमुखे107 वा
प्रयुक्तमेकं वाक्यमुभयं गमयतीत्यदोषः ।


स्वभावहेतावन्यतरप्र
योगादुभयगतिमुक्त्वा कार्यहेतावाह । तथेत्यादि ।
यत्रेति सर्वनाम्ना सर्वोपसंहारस्तत्राग्निरवश्यमित्युक्तेऽस्मादेवान्वयवचनात्
कार्यन्धूमो दहनस्येत्येवन्निश्चयो भवति । किङ्कारणंयेन धूमेऽवश्यमग्निर्भवति ।
अन्यथा यदि न कारणमग्निधूर्मस्य तदार्थान्तरस्याग्नेस्तदनुबन्धनियमाभावात्
धूमे योनुबन्धो व्यापनं
तन्नियमस्याभावात् । ततश्च स्वातन्त्र्यम्भावस्य धूमस्व- 32a
भावस्य स्यात् । अत इति स्वातन्त्र्यात् तदभावेप्यग्न्यभावेपि धूमस्वभावस्यावैक
ल्यान्नाभावः स्या
न्न चैवन्तस्मात् कार्यो धूम एष्टव्यः । यतः कार्ये तु धूमेभ्यु
पगतेऽवश्यन्तत्र कारणमग्निर्भवति । इदमित्यस्यैव समर्थनं । अर्थान्तरभाव इति
कार्याभिमतस्य भावे स्वभावोपधानं स्वरूपप्रत्युपस्थानं । कार्यस्या
पि तद्भाव
एव
कारणभाव एव भावः कार्यत्वं । तच्च कारणभाव एव भावित्वमस्ति धूमे ।
तस्मात् कार्यं धूम इत्येवमन्वयेन विदिततत्कार्यत्वस्
य पुंसो दहनाभावे धूमो न भव
तीत्यर्थाद् भवति ।


अधुना वैधर्म्येणान्वयगतिमाह । तथेत्यादि । असत्यग्नौ धूमो न भवतीत्युक्ते
ऽस्माद् व्यतिरेकवचनाद् विदिततत्कार्यत्वस्य धूमेऽवश्यमग्निर्भवतीत्येवमर्था
द्
अन्वयप्रतिपत्तिर्भवति । अन्यथा
यदि वैधर्म्यवचनेनाग्नेः कार्यं धूम इत्येतन्न कथ्यते
तदभावेऽग्न्यभावे किन्न भवेद् धूमो । भवेदेवेति व्यतिरेकनिश्चय एव न स्यात् ।
तस्मात् स्थितमेतत् सत्यर्थान्तरत्वे यदभावे यदवश्यन्न भवति । तत्तस्य
कार्यमतश्च व्यतिरेककथनादन्वयो गम्यत इति ॥



84

अत्र परो व्यभिचारमाह । ननु चेत्यादि । नित्यानित्यार्थयोः
का
र्यन्नित्या
नित्यार्थकार्यन्तद्भावस्तत्त्वं । तस्याभावेपि । तथा हि श्रवणज्ञानं शब्दस्यैव घर्म
त्वादसाधारणन्तत्र न ज्ञायते किन्नित्यस्य सतः शब्दस्य कार्यं श्रवणज्ञानमुतानित्य
स्येति । ततश्च न नित्यार्थकार्यत्वं श्रवणज्ञानस्य नाप्यनित्यार्थकार्यत्वन्तथापि
श्रवणज्ञानन्न भवति तदभावेपि नित्यानित्यार्थाभावे । तद्व्यतिरेके व्यतिरिच्यत इति
यावत् । नि
त्यार्थाभावे तावन्न भवत्यनित्येषु घटादिष्वभावात् । अनित्याभावेपि
न भवति नित्येष्वाकाशादिष्वभावात् । न वै न भवतीति सि द्धा न्तवादी । न वै
तच्छ्रावणत्वन्नित्यानित्याभावे न भवतीत्येवं शक्यम्विज्ञातुं । यदि तु तदभावेन
भवतीत्येवन्निश्चयः स्यात् तदा तत्कार्यत्वन्नियमेन स्यात् । किन्तु तदभावे न भवतीत्येव
नास्ति । किङ्कारण
न्तयोरेव नित्यानित्यत्वयोस्ततः श्रावणत्वात् संशयात् । अन्यथा
नित्यानित्ये वस्तुन्यभावेन निश्चिताच्छ्रावणत्वात्कथन्तद्भावपरामर्शेन शब्दे संशयः
स्यात्
। तस्मान्नित्यानित्याभ्यां व्यावृत्तिरेव नास्ति श्रावणत्वस्य ।


कथन्तर्ह्यसाधारणत्वाच्छ्रावणत्वं नित्यानित्ययोर्नास्तीत्युच्यत इत्याह । केवल
न्त्वित्यादि ।
नित्यानित्येषु श्रावणत्वस्य भावनिश्चयाभावात् । श्रावणत्वं नित्या
नत्ययोर्नास्तीत्युच्यते


नन्वनित्यादिके साध्ये यदि श्रावणत्वं सपक्षविपक्षयोर्दृष्टं स्यात् । स्या
च्छब्दे श्रावणत्वात् सन्देहः । प्रमेयत्वादिव । न चैतत् सपक्षाविपक्षयोर्दृष्टमतो
32b ऽप्रतिपत्तिरिति भ ट्टो द्यो त क रौ । अथ शब्दवस्तु कदाचिन्नित्यमनित्यम्वा व
स्तु
धर्मश्च श्रावणत्वन्तेनातः सन्देह उच्यते ।


तदयुक्तं । एवं हि वस्तुधर्मत्वस्यैव सन्देहहेतुत्वं स्यान्न श्रावणत्वस्येति ।
अत्रोच्यते । यदि हि यत्र यत्र श्रावणत्वन्तत्र तत्र नित्यानित्ययोरभाव इति प्रतिपन्नं
स्यात् ततो नित्यानित्ययोरप्रतिपत्तिः स्यात् । न चानित्यादियुक्ते घटादौ श्रावण
त्वस्याभाव इति शब्देप्यभावस्तेन श्रावणत्वात् तत्र सन्देह एव ।


ननु श्रावणत्वं श्रवणज्ञानंप्र
ति सामर्थ्यन्न च नित्यस्य सामर्थ्यमस्त्यर्थक्रिया
विरोधात् तत्कथमतः सन्देहः अनित्यत्वस्यैव निश्चयादिति ।


एवम्मन्यते । यदि सामर्थ्यमात्रं हेतुस्तदा सत्त्वमेव तदिति न काचित् क्षतिः
तस्य सपक्षसाधारणत्वादेवं प्रमेयत्वादिष्वपि द्रष्टव्यं । अथ श्रवणज्ञानंप्रति
यत्सामर्थ्यन्तद्धेतुस्तच्च न क्वचिदनित्यत्वव्याप्तं सिद्धमिति कथमतोऽनित्यत्व
सिद्धिरसाधारणत्वादयंशब्द एव
तदनित्यत्वव्याप्तं सिद्धं । तेनैव हि बाधकेन

85 प्रमाणेनानित्यत्वस्य तत्र सिद्धत्वाच्छ्रावणत्वस्य वैयर्थ्यं स्यात् । एवं स चासाधार
णहेतूनामगमकत्वं बोद्धव्यं ।


तस्मात् स्थितमेतत् कार्यहेतौ दृष्टान्ताभ्यां साध्यसाधनयोर्हेतुफलभावः
कथनीयो न तु दर्शनादर्शनमात्रं । एवं ह्यर्थापत्त्याऽन्यतरेण द्वितीयप्रतीतिर्भवेत् ।
अन्यथा न स्यादित्याह । यदा पुनरित्या
दि । तदा यत्र धूमस्तत्राग्निरित्येव
न स्या
दित्यन्वय एव न स्यात् प्रतिबन्धाभावात् । यदा चान्वय एव न सिद्धस्तदा
कुतोग्न्यभावे धूमो नास्तीत्यर्थाद् व्यतिरेकसिद्धिः । तथा वैधर्म्येणादर्शनमात्रस्य
ख्यापनात् साध्याभावे हेत्वभावासिद्धेः कुतस्तद्वारेणान्वयस्मृतिः ॥ यथोक्त इति
तादात्म्यतदुत्पत्तिलक्षणः । एकसद्भावे कार्यस्वभावलिङ्गस्य सद्भावेऽन्यप्र
सि
द्ध्यर्थं
कारणस्य स्वभावस्य च लिङ्गिनः प्रसिद्ध्यर्थं । तदभावे यथोक्तप्रतिबन्धा
भावे
सत्येकसद्भावेऽन्यप्रसिद्धेरसम्भवात्


हेतुस्वभावाभाव इति हेत्वभावो व्यापकस्वभावाभावश्च । अत इत्यनन्त
रोक्तात् कारणात् कस्यचित् कार्यस्य व्याप्यस्य च प्रतिषेधे । चकारात् प्रतिषे
धव्यवहारे च साध्ये । हेतुर्लिङ्गं । किङ्कारणं यस्मात् तावेव हि कारणव्या
पकौ
नि वर्त्तमानौ स्वप्रतिबद्धं कार्यं व्याप्यं च स्वभावं निवर्त्तयत इति कस्यचि
दर्थस्य
कार्यस्य व्याप्यस्य वा प्रतिषेधमपि साधयितुकामेन । अपिशब्दाद्
व्यवहारमपि हेतोः कारणस्य व्यापकस्य च स्वभावस्य निवृत्तिर्हेतुत्वे
नाख्ये
या । किङ्कारणं । अप्रतिबन्धे हीत्यादि । न च ताभ्यामन्यः प्रतिबन्धो
स्तीति भावः ॥ युक्तो न्याय्य उपलम्भो यस्य स तथा
दृश्यस्येत्यर्थः । तस्य

86 चे
ति स्वभावस्य्आनुपलम्भनं प्रतिषेधहेतुः । न चायं प्रतिषेधस्यैव हेतुः किन्तु
प्रतिषेधविषयो व्यवहारस्तस्य हेतुरिति कृत्वा तद्धेतुः प्रतिषेधहेतुरित्युक्तः । किं
कारणं न प्रतिषेधहेतुस्तथाभूतानुपलम्भस्य दृश्यानुपलम्भस्य स्वयं प्रतिषेध
33a रूपत्वात्
। हेतुर्व्यापकानुपलब्धिरिति कारणानुपलब्धिर्व्यापका
नुपलब्धि
श्च । उभ
यस्यापी
ति प्रतिषेधस्य प्रतिषेधव्यवहारस्य च ॥


इति एवमियमनुपलब्धिः । संक्षिप्य त्रिधाप्युक्ता सती पुनरनेकधोक्ता । यथा
त्रैवाऽष्टधा प्राग् विभक्ता । केन प्रकारेणेत्याह । तत्तद्विरुद्धेत्यादि । तच्छ
ब्देन प्रक्रान्तं स्वभावकारणव्यापकत्रयं गृह्यते । तेन स्वभावदित्रयेण विरुद्धन्त
द्विरुद्धन्त्रि
विधमेव भवति । स्वभावविरुद्धकारणविरुद्धव्यापकविरुद्धभेदाः ।
तद्विरुद्धमादिर्यस्य तत्तद्विरुद्धादि । आदिशब्देन विरुद्धकार्यस्य कारणविरुद्ध
कार्यस्य च परिग्रहः । तच्च तद्विरुद्धादी । तयोरगतिगती । तदगतिस्तद्विरुद्धादि
गतिश्चेत्यर्थः । तयोर्भेदस्तेन प्रयोगस्तस्मात् प्रयोगभेदतोनेकधोक्ता । तत्र
तदगत्या तिस्रोनुप
लब्धयः संगृहीताः स्वभावानुपलब्धिः कारणानुपलब्धिः व्या
पकानुपलब्धिश्च । तद्विरुद्धगत्या तिस्र एव । स्वभावविरुद्धोपलब्धिः कारण
विरुद्धोपलब्धिः व्यापकविरुद्धोपलब्धिश्च । आदिशब्दात् विरुद्धकार्योपलब्धिः
कारणविरुद्धकार्योपलब्धिश्चेति । एवमष्टविधस्य प्रागुक्तस्यानुपलम्भस्य संग्रहो
भवति ।


त्रिविध एव हीत्यादिना कारि
कार्थमाह । उपलभ्यसत्त्वस्येत्युपलम्भयोग्यस्य
हेतोरनुपलब्धिरिति सम्बन्धः । व्यापकस्य स्वात्मनश्चोपलभ्यसत्त्वस्येति वर्त्तते ।
सोयन्त्रिविधप्रतिषेधहेतुः प्रयोगवशेनानेकप्रकार उक्त इति सम्बन्धः । कथं प्रयोग
वशेनेत्याह । तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगत इति । एतदेव तस्यागत्येत्यादिना
विभज्यते ।
तस्यागत्येति स्वभावकारणव्यापकानुपलब्ध्या । तद्विरुद्धगत्येति
स्वभावकारणव्यापकविरुद्धोपलब्ध्या । विरुद्धकार्यगत्येति विरुद्धकार्योपलब्ध्या ।

87 इत्यादिभेदप्रयोगैरिति कारणविरुद्धकार्योपलब्ध्यादिभेदप्रयोगैः । यथोक्तं प्रागनु
पल ब्धि प्र भे द चि न्ता यां १ । ६


यत एवं प्रतिबन्धवशाद् गमकत्वात्तस्मात् । कार्यकारणभावाद्वा
नियामकात्

साध्यसाधनयोरव्यभिचारसाधकात् स्वभावाद्वा तादात्म्यलक्षणान्नियामकात् ।
कार्यस्य स्वभावस्य च लिङ्गस्याविनाभावः साध्यधर्मं विना न भाव इत्यर्थः ॥ न
चासाधारणस्य साध्याविनाभावोस्ति सन्देहहेतुत्वात् । अविनाभावे तु तन्निश्चायके
नैव प्रमाणेन तत्र धर्मिणि साध्यस्य सिद्धत्वात् कथमस्य गमकत्वं ।


तेन भ ट्टे न य
दुच्यते ॥


अविनाभावशब्दोप्य...सकलार्थभाक् ।

नानुमा योग्यसम्बन्धप्रतिपत्ति करोति नः ॥

यदि तावद् विनाभावो न स पश्चाद् विशिष्यते ।

ततोऽसाधारणेप्यस्ति स इति स्यादकारणं ॥

यो ह्यसाधारणो धर्मः स तेनैवात्मसात्कृतः ।

विना न भवतीत्येव ज्ञातो हेतुः प्रसज्यत इति

तदपास्तं ।
अविनाभाव एव हि नियमः । साध्यं विना न भवतीति कृत्वा । 33b


यद्येवं किमर्थं पुनर्नियमग्रहणंसत्त्यंपरमतनिरासार्थं । स ह्यविना
भावव्यतिरेकेणान्यं नियममिच्छति । यदाह भ ट्टः ॥

एवमन्योक्तसम्बन्धप्रत्याख्याने कृते सति ।

नियमो नाम सम्बन्धः स्वमतेनोच्यतेऽधुना ॥

कार्यकारणभावादिसम्बन्धानां द्वयी गतिः ।

नियमानियमाभ्यां । स्यान्नियमस्यानुमाङ्गता ॥

सर्वेप्यनियमा ह्येते नानुमोत्पत्तिकारणं ॥

नियमात् केवलादेवन्न किञ्चिन्नानुमीयते ॥

तस्मान्नियम एवैकः सम्बन्धोऽत्रावधार्यते ।

गमकस्यैव गम्येन स चेष्टः प्राङ् निरूपितः ॥

नियमस्मरतः सम्यग् नियम्यैकाङ्गदर्शनात् ।

नियामकाङ्गविज्ञानमनुमानन्तदङ्गिष्विति

तदपा
स्तं ॥


88

कायकारणभावादिसम्बन्धाभावे नियम एव न स्यात् । अप्रतिबद्धानां
सहभावनियमाभावात् । पाण्डुत्वादिमात्रस्य चाग्न्यकार्यत्वात् । देशकालाद्य
पेक्षया च लिङ्गस्य गमकत्वान्नियम एवेति कथं कार्यकारणभावादिसम्बन्धेपि
द्वयी गतिरुच्यते । अथ स्यात् कार्यकारणभावादिसम्बन्धमभ्युपगच्छतापि यावत्
साधनस्य साध्ये
नियमो न निश्चितस्तावन्न साध्यप्रतिपत्त्यङ्गत्वन्तेन कार्यकारण
भावे सत्यपि नियम एव सम्बन्धोभ्युपगम्यते । तस्यैव प्रतिपत्त्यङ्गत्वात्तद्वक्तुं स
एवैकोनुमानाङ्गं शेषास्तद्व्यक्तिहेतव इति । तदयुक्तं नियमो हि तदा
यत्ततैव सा च तादात्म्यतदुत्पत्तिस्वभावैव तेन तादात्म्यतदुत्पत्तिनिश्चय
एव नियमनिश्चयो न पुनर्दर्शनाद
र्शनाभ्यान्नियमनिश्चयो व्यभिचारात् ।


ननु यथा दर्शनादर्शनयोर्नियमनिश्चयंप्रति व्यभिचारस्तथा कार्यकारण
भावनिश्चयेपि स्यादिति ।


तदयुक्तं । विशिष्टाभ्यामेव दर्शनादर्शनाभ्यां कार्यकारणभावनिश्चयाभ्यु
पगमात् । एतच्चात्रैव वक्ष्यति ।


यदप्यु म्वे के नोच्यते । शतशो य
दग्नौ धूमदर्शनन्तदन्यथानुपपत्त्या
नियतोयं धूमोग्नाविति यन्नियमज्ञानमुत्पद्यते । तस्यानग्नौ धूमदर्शनम्बाधकं
न च तदस्तीति धूमस्याग्नौ नियम
इति ।


तदयुक्तं । अग्निकार्यत्वाभावे ह्यनग्नौ धूमादर्शनस्यानुपलब्धिमात्रत्वेना
प्रमाणस्याबाधकत्वादनग्नौ धूमस्य शंक्यमानत्वेन कथमग्नौ नियमः स्तस्मात्
स्थितमेतत्


कार्यका
रणभावाद्वा स्वभावाद्वा नियामकाद्

अविनाभावनियमः
कार्यकारणभावादिनिश्चयाच्चाविनाभावनियमनि
श्चयो
ऽदर्शनान्न न दर्शनात्
साध्याभावे हेतोरदर्शनमात्रान्नाविनाभावनिय
मनिश्चयः । न दर्शनात् । नापि साध्यसाधनयोः सहभावदर्शनात् ।


34a तस्मात्तदुत्पत्त्यैवार्थान्तरस्यार्था
न्तरेणाविनाभावः ।


अन्यथेत्यासत्यान्तदुत्पत्तौ परैः साध्याभिमतैः परस्यानात्माभूतस्य लिंगस्य
कोऽवश्यम्भावनियमः । अनर्थान्तरे तु लिङ्गे तन्मात्रानुबन्धित्वं साध्यधर्मस्ये
ष्टव्यमन्यथा कृतकत्वस्य यन्निमित्तन्तस्मादर्थान्तरमुद्गरादिनिमित्तं यस्या नित्य

89 त्वस्येष्यते । तस्मिन् वा धर्मेऽवश्यम्भावनियमः कः । किमिव वाससि रागवत्
निष्पन्ने वाससि कुसुम्भादि
निमित्तो यो रागः पश्चाद्भावी ॥


तत्र यथा नावश्यम्भावनियमस्तद्वदनित्यत्वस्यार्थान्तरहेतुत्व इष्यमाणे न
केवलमयन्दोषोऽयमपरो दोष इत्याह । अपि चेत्यादि । अर्थान्तरनिमित्तो नित्य
त्वाख्यो धर्मः स्यादन्य एव तस्मात् स्वभावभूतात् कृतकादेस्तथाहि साध्य
धर्मस्यार्थान्तरनिमित्तत्वाभ्युपगमे द्वयमिष्टं साधननिष्पत्तावनिष्पत्तिर्भि
न्नहेतु
कत्वं च । एतच्च नान्तरेण स्वभावभेदं घटते । यस्मान्न हि तस्मिन् साधनस्वभावे
निष्पन्नेप्यनिष्पन्नो भिन्नहेतुको वा साध्यधर्मस्तत्स्वभावो युक्तः । पूर्वनिष्पन्नस्य
भिन्नहेतुकस्य च लिङ्गस्य स्वभावो युक्तो यस्मादयमेव खलु लोकप्रतीतो भेदो
भावानां
यो विरुद्धधर्माध्यासो विरुद्धधर्मयोगः । निष्पत्त्यनिष्पत्ती चात्र विरुद्धौ
धर्मौ । तथायमेव
भेदहेतुर्भेदस्य जनको यः कारणभेदः । सामग्रीभेदश्चात्र कारण
भेदो
द्रष्टव्यः । एतेन भेदस्वरूपभेदकारणञ्चोक्तं ॥


भेदप्रतिभासस्तु भेदग्राहकः ॥ तौ चेद् बिरुद्धधर्माध्यासकारणभेदौ न भेदका
विश्ये108ते । तदा न कस्यचिद्वस्तुनः कुतश्चिदर्थाद् भेद इत्येकन्द्रव्यम्विश्वं
समस्तञ्जगत् स्यात् ॥ त्रैगुण्यस्याविशेषादैक्यं सर्वस्येष्टमेवेति चेदाह । ततश्चे
त्ये
कत्वात् सहोत्पत्तिविनाशौ । एकस्योत्पादे सर्वस्योत्पादो विनाशे च विनाशः
स्यादित्यर्थः । सर्वस्य च सर्वत्र कार्य उपयोगः कारणत्वं स्याद् । सहोत्पत्याद्यन
भ्युपगमे । सर्वम्वस्त्वेकमित्येव न स्यात् । अथोपयोगादिभेदेन परस्परभिन्नात्म
तेष्यते भेदा नां नामान्तरम्वा स्यात् । बहूनामेकमिति संज्ञा कृता स्यात् ।
किङ्कारणम अर्थं परस्परभिन्न
मभ्युपगम्य तथाभिधानात् । एकमित्यभि
धानात् ॥


90

अथ स्यात् प्राक्प्रध्वंसाभावान्तर्वर्तिसत्तासम्बन्धोऽनित्यता । सा च कृतक
निष्पत्तिकाले निष्पन्नैव केवलं प्रध्वंसेन्नोत्तरकालमभिव्यज्यत इति


तदप्ययुक्तं । यतो यावत् प्रध्वंसो नोत्पद्यते तावत् कथमन्तरालवर्त्त्यनित्यता ।
प्रध्वंसोत्पत्तावपि कथमन्तरालवर्त्तित्वमस्याः कृतकस्वभावत्वम्वा । भाव

स्यैवाभावात् ॥


नन्वित्यादि परः । अनर्थान्तरहेतुत्वेपि विनाशकारणानपेक्षत्वेपि त्वन्मतेनानि
त्यतायाः । भावकालेऽनित्यतानिष्पत्तेः । भावस्य सत्ताकाले तस्या अनित्यताया
अनिष्पत्ते र्भावादुत्तरकालमनित्यता भवतीति मन्यते । तुल्याऽतत्स्वभावा ।
यथार्थान्तरहेतुत्वेपि निष्पत्तिः स्यात् तयोर्नानात्वन्तर्थाऽनर्थान्तरहेतुत्वेपीति

34b तुल्याऽतत्स्वभावता


नेत्यादिना प्रतिविधत्ते । अपूर्वस्वभावलाभो निष्पत्तिरुच्यतेऽनित्यता
भावनिवृत्तिरूपा । ततो निष्पत्तेरेवाभावात् कथं विरुद्धधर्मसंर्गः । यदि तर्हि नानि
त्यता वस्तु सती कथं साध्यसाधनयोस्तादात्म्यलक्षणः सम्बन्ध इत्याह । स एव
हि भाव
इति । क्षणे स्थितिर्या सैव धर्मो यस्येति । निवृत्तिधर्मा स्वभाव एवा
नित्यतो
च्यते स एव साध्यः ।
तेन तादात्म्यं हेतुसाध्ययोर्व्यतिरिक्तार्थत्वनित्यता
नीरूपा तेन भावस्यानित्यता भवतीतीत्येवमादिभिर्वाक्यैर्भावस्य न किंचिद्रुपं
विधीयतेऽपि तु दृष्टं रूपं नास्तीत्ययमर्थोभिधीयते धर्मान्तराभिधाने भावनिवृत्त्य
प्रतिपादनप्रसङ्गात् ।


यदि भाव एवानित्यता कथन्तर्हि शब्दस्य धर्मिणो नित्यता धर्म इति वचनभेद
इत्यत आह । वचनभेदेपीत्यादि । धर्मधर्मि
तया
यो वचनभेदो वाचकान्यत्व
न्तत्र्आपि निमित्तमुत्तरत्र वक्ष्यामः ॥


एतेन यदप्युच्यते ऽध्य य ना वि द्ध क ण् र्णो द्यो त क रा दि भिः । यदि
तुलान्तयोर्नामोन्नामवत्कार्येत्पत्तिकाल एव कारणविनाशः । यदि109 कार्यका
रणभावो न स्याद् यतः कारणस्य विनाशः कारणोत्पादः ।एवं भाव एव नाश इति
वचनादेवञ्च कारणेन सह कार्यमुत्पन्नमिति प्राप्तं । यदि च भा
व एव नाशः
प्रथमेपि क्षणे भावस्य न सत्ता स्यात् । विनाशाद् भावनिवृत्तिश्च विनाशो लोक

91 प्रतीतो न भाव एव । सर्वकालं च नाशसद्भावाद् भावस्य सत्वं स्यात् । अथ कार
णोत्पादात् कारणविनाशो भिन्नस्तदा कृतकस्वभावत्वमनित्यत्वस्य न स्यात् ।
व्यतिरिक्ते च नाशे जाते तस्य क्षणस्य न निवृत्तिरिति कथं क्षणिकत्वमिति


तदपास्तं द्विविधो हि विनाश इष्यते भा
वनिवृत्तिरूपो भावश्च
तेनोत्पन्नो भावः कार्यङ्करोति कार्यकाले च कारणनिवृत्तिरुपो विनाशो लोकप्रतीत
एव नायम्भावस्वभाव इष्यते नापि कारणोत्पादाद् अभिन्नो भिन्नो वा
नीरूपत्वात् केवलमस्य भेदाभेदप्रतिषेध एव क्रियते । तथा च वक्ष्यति


भावे ह्येष विकल्पः स्याद् विधेर्वस्त्वनुरोधत १ । २८१ इति ।


तेन व्यतिरिक्ते नाशे जाते क्षणस्य न निवृत्ति
रित्यपास्तं । यतश्च द्वितीय
क्षणोत्पत्तिकाल एव प्रथमक्षणे निवृत्तिस्तेनैकक्षणस्थायी भावो विनाशशब्देनो
च्यतेऽयं च विनाशो भावरूपत्वात्साधनस्वभाव एव । कार्योत्पत्तिकाले च निवर्त्तेत
इति कार्यभिन्नकालभावी न चास्य सर्वकालम्भावो भावस्यासत्वात् ।


यद्वा विनश्वरोऽयं विनाशोऽस्येति द्वाभ्यां धर्मधर्मिवाचकाभ्यामविनाशिव्या
वृ
त्तस्यैवैकस्य भावस्य भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यामभिधानाद् भाव एव
नाश उच्यते इति सर्वं सुस्थं ।


यदि तर्हि भाव एवानित्यता तदा भावप्रत्यक्षीकरणे सापि प्रत्यक्षैवेति कस्मान्न
तथैव निश्चीयत इत्यत आह । तामित्यादि । क्षणस्थितिधर्मतां स्वभावमनित्यताख्यं
पश्यन्नपि प्रत्यक्षीकुर्वाणोपि न व्यवस्यति । न निश्चिनोतीति सम्ब
न्धः ।

35a

कस्मात् क्षणस्थितिधर्मतास्वभाव इत्याह । स्वहेतोरेव सकाशात्तथा क्षण
स्थित
धर्मतयोत्पत्तेः । किं पुनः पश्यन्नपि न व्यवस्यतीत्याह । मन्दबुद्धिरिति ।
अनादिसंसाराभ्यस्तया नित्यादिरूपाविद्यावासनया मन्दा बुद्धिर्यस्य स तथाऽन्यथा
दृष्टे वस्तुनि सर्वात्मनां किमिति न निश्चयः स्याद् अनेन तु योगिनां सत्यपि
सदृशदर्शने मन्दबुद्धित्वाभावात् क्षणिकत्वनि
श्चयो भवतीत्युक्तम्भवति ।


यदि तर्ह्यविद्यया नानित्यत्वाध्यवसायो विनश्यत्यपि भावे माभूदनित्यता
ध्यवसाय इत्याशंक्य बाह्ममपि भ्रान्तिबीजमाह । सत्तोपलम्भेनेत्यादि । यः सत्ताया
एवोपलम्भो नाभावस्य तेन सत्तोपलम्भेन ।


एतदुक्तम्भवति उत्तरक्षणोत्पादकाल एव पूर्वक्षणविनाशात् पूर्वोत्तरयोः
क्षणयोरभावेनाव्यवधानान्नैरन्तर्येणा
न्यत्वाग्रहात् सर्वदा द्वितीयादिक्षणेष्वपि

92 सत्ताया एवोपलम्भेन तथाभावः पूर्वदृष्टस्य भावः सद्भावस्तस्य या शङ्का कदाचित्स
एवायमित्येवंरूपा भूता भ्रान्तस्यापि स एवायमिति दर्शनाच्छकेत्याह । तया विप्र
लब्धो वंचितो न व्यवस्यति


अग्निधूमयोरपि तर्हि कार्यकारणभावनिश्चयो न स्यादभावाव्यवधानेनान्य
त्वाग्रहादित्याह । सदृशापरोत्पत्तेरि
त्यादि । दृष्टं च सदृशापरदर्शनं शुक्तिकादौ
सत्यपि भेदभ्रान्तिनिमित्तं । एतच्च नै रा त्म्य सि द्धौ110 विभक्तमिति तत्रैवाबधार्य ।


तेन सर्वात्मना पूर्वक्षणसदृशस्यापरस्योत्पत्तिस्तया विप्रलब्धो न पूर्वक्षणा
दुत्तरक्षणमन्यत्वेनाध्यवस्यत्यपि तु स एवायमित्यत एव न पूर्वक्षणस्य विनाश
प्रतीतिरुत्तरस्य चोत्पत्तिप्रतीतिः । अग्निधूमयोस्त्वेकान्तेन विस
दृशत्वान्नै
रन्तर्ये सत्यप्यन्यत्वग्रहाद् भवति कार्यकारणभावनिश्चयः । वा शब्दस्त्वनवकॢ
प्तिसूचनार्थः ।


तेनायमर्थो यदि सत्तोपलम्भे व्यभिचारः सदृशापरोत्पत्त्या वा विप्रलम्भः
सर्वदास्त्येव विप्रलम्भ इत्येवं परः ।


अथवा किं पुनः पश्यन्नपि न व्यवस्यतीत्याह । सत्तोपलम्भेन । पूर्वं यः
सत्तोपलम्भेन प्रतीयमाने तद्भावशङ्का पूर्वदृष्ट
भावारोपस्तेन विप्रलब्धः न व्यव
स्यति । एवन्तर्ह्यादिक्षणदर्शन एवाध्यवसायः स्यात् । पूर्वं सत्तोपलम्भाभावादित्या
शंक्याह । सदृशापरोत्पत्तिविप्रलब्धो वेति । वा शब्दश्चार्थे । प्रथमक्षणसदृशस्य
द्वितीयक्षणस्योत्पत्त्या च विप्रलब्धो न व्यवस्यति । योगिनामपि तर्हि निश्चयो
न स्यादित्याह । मन्दबुद्धिरिति । तेन बाह्याध्यात्मिकविप्रलम्भनिमित्तसद्भा

वात् पृथग्जनानां निश्चयः । योगिनान्तु सत्यपि सदृशदर्शने पटुबुद्धित्वान्निश्चयो
भवत्येव ।


तस्मात् स्थितमेतत् क्षणस्थितिधर्मतां पश्यन्नपि सदृशापरोत्पत्त्या
विप्रलब्धो न व्यवस्यतीति ॥


ननु भावस्य क्षणिकत्वे सति पूर्वोत्तरक्षणानां विभागेन प्रतिभासः स्यात् ।
अप्रतिभासनाच्च कथम्पश्यन्नपि न व्यवस्यतीत्युच्यते । अथ नीलाद्यव्यतिरिक्त
35b त्वात् क्ष
णिंकत्वस्य नीलग्रहे ग्रहः ।


युक्तमेतत् । किन्त्विदमत्र निरूप्यते किमिदं नीलमक्षणिकमुत क्षण
रूपमथ सन्तानः । तत्र यद्यक्षणिकन्तदा नीलप्रतिभासे कथं क्षणिकत्वप्रतिभासः ।
अथ क्षणरूपं । नन्विदमेवासिद्धमिति कथं नीलप्रतिभासे क्षणप्रतिभास उच्यते ।


93 क्षणाप्रतिभासनाच्च न सन्तानरूपस्य नीलस्य प्रतिभासः । अथ नीलमात्रप्रति
भासे सति क्ष
णिकत्वप्रतिभासः । तदयुक्तं । प्रतिभासाप्रतिभासाभ्यां हि प्रत्य
क्षस्य ग्रहणाग्रहणे । नान्यथा । तदाह । तद् यदपि गृह्णाति तत्प्रतिभासेनेति ।
न च क्षणानां प्रतिभास इत्युक्तं ।


यदि च नीलाद्यव्यतिरिक्तं क्षणिकत्वन्तदा नीलनिश्चये क्षणिकत्वस्य निश्चित
त्वादनुमानस्य वैयर्थ्यं स्यात् । यस्त्वाह । एकज्ञानविषयत्वमेव क्षणिकत्वं
पूर्वोत्तरज्ञानविषय
त्वव्यावृत्तस्यैव चेदानीन्तनज्ञानविषयत्वस्य प्रतिभासनात्
पूर्वापरक्षणविलक्षण एव क्षणः प्रत्यक्षेणानुभूतनिश्चितोनुमानेन तु प्रत्यक्षवृत्तमेव
परामृश्यत इति नानुमानस्य वैयर्थ्यमिति ।


तदयुक्तं । यतो यद्येकज्ञानस्याक्षणिकत्वन्तदार्थस्याप्यक्षणिकत्वं स्यात् । अथ
तस्य क्षणिकत्वन्तत्कुतोऽवगतं । तस्याप्येकज्ञानविषयत्वादिति चे
दनवस्थयैव
प्रतिपत्तिः क्षणिकत्वस्य । अथ ज्ञानक्षणस्य प्रतिभासोऽभ्युपगम्यतेसावर्थक्षणस्य
किन्नाभ्युपगम्यते । अन्यथैकस्यापि क्षणस्यानेकज्ञानविषत्वादनेकत्वं स्यात् ।


भ ट्ट वा सु दे व स्त्वा ह । पूर्वोत्तरक्षणानां विनाशेनाप्रतिभासनमेवाक्षणि
कत्वप्रतिभासनमतोक्षणिकत्वग्राहकमेव सर्वम्प्रत्यक्षं केवलं क्षणिकत्वा
नुमानेन
भ्रान्तं साध्यत
इति


एतदप्ययुक्तं । प्रतिज्ञायाः प्रत्यक्षबाधितत्वेनानुमानस्योत्थानाभावात् ।
निर्विकल्पकस्यापि प्रत्यक्षस्य भ्रान्तत्वे सम्बन्धग्रहणाच्च । पश्यन्नपीति ग्रन्थ
विरोधश्च तस्मादयुक्तमुक्तं । पश्यन्नपि न व्यवस्यतीति ।


अत्रोच्यते । यथा ह्यर्थक्षणानां पौर्वापर्यन्तथा ज्ञानक्षणानामपि तेन पूर्वकेण
ज्ञानक्षणेन पूर्वक एवार्थक्षणो गृह्यते
नोत्तरः । उत्तरेणाप्युत्तर एव न पूर्व इति
एकस्मिन् ज्ञाने तयोरप्रतिभासनात् कथम्पूर्वस्मादयमन्य इति विभागेन प्रतिभासः
स्यादिति चोद्यते । स्वरूपप्रतिभास एव च भावस्यान्यस्माद् विवेकप्रतिभासः
सुमेरुभिन्नप्रतिभासवत् । स च क्षणस्याप्यस्त्ये वेति कथं न विवेकप्रतिभासः ।
दृष्टो दृश्यत इति प्रतीतेश्च । अन्यो हि दृष्टः स्वभा
वोन्यश्च दृश्यमानः । तथा हि
प्रथमदर्शी दृश्यमानमेव स्वभावम्भावस्य पश्यति न तु दृष्टमित्यनयोर्भेद एव ।
केवलमेकान्तसदृशयोः पूर्वापरक्षणयोरभावेनाव्यवधानाद् घटपटादिवद् विभाग
प्रतिपत्तिर्न भवति । नापि विभागेनाप्रतिभासादभेदोपि न हि शुक्ति
कायान्तदेवेदमस्मदीयं रजतमिति प्रवर्त्तमानस्य शुक्तिकारजतयो
र्विवेकप्रतिभा- 36a
साभावादभेदोपि । तस्माद् यथात्र निर्विकल्पके ज्ञाने शुक्तिकायाः स्वरूपप्रतिभास
एवान्यस्माद विवेकप्रतिभासः । तथैकस्यापि क्षणस्य स्यात केवलं पूर्वः क्षणः

94 कस्मान्न विभागेन स्मर्यत इति यदि परं चोद्यं स्यात्तत्र चोक्तमेव सदृशापरोत्पत्ति
विप्रलब्धैर्न स्मर्यत इति ।


ननु तथापि क्षणो न प्रतिभासते । एकाण्वत्ययकालत्वेनैव भावस्याप्र
तीतेः ।
न तु यद्येकस्मिन् क्षणेस्याप्रतिभासः कथमक्षणिकस्य प्रतिभासः प्रतिक्षणमप्रति
भासनात् । उत्पद्यमानस्य च भावस्य पूर्वापररूपविविक्तस्य प्रत्यक्षेण ग्रहणात्
कथं क्षणिकत्वग्रहः । नाप्यक्षणिकः प्रतीयते पूर्वापरकालयोरप्रतिभासादेव तत्स
म्बन्धितयेदानीं प्रत्यक्षेऽप्रतिभासनात् पूर्वकालसम्बन्धिस्वभावस्येदानीमप्रतिभास

व विनाशोऽन्यस्वभावस्य प्रतिभास एवोत्पाद इति कथमुच्यते पूर्वोत्तरक्षणानां
विनाशोत्पादाप्रतिभासनाद् अक्षणिक इति । नाप्यनेकक्षणरूप इदानीन्तनः कालो
नेकक्षणसम्भवे गृहीतादिरूपताऽस्य स्यात् न व्यर्थता ।


न हि प्रत्यक्षभाविना निश्चयेनेदानीमेवेदमस्तीति निश्चीयते किन्तर्ही
दानीमस्तीति । अनुमानेन त्विदानीमेवा
स्तीति साध्यते ।


तस्मात् स्थितमेतत् पश्यन्नपि न व्यवस्यतीत्यादि ।


ननु यदि नित्यं सदृश इति प्रत्यक्षेण निश्चयः स्यात्स एवायमिति बुद्धि
र्भ्रान्तिर्यावता सर्वदा स एवायमिति प्रतीतिर्दृढरूपोत्पद्यत इति कथं भ्रान्तिस्त
दाह भट्टः111


नित्यं सदृश एवेति यत्र रूढा मतिर्भवेत् ।

स इति प्रत्यभिज्ञानं भ्रान्तिस्तत्रावकल्पते ॥

इह नित्यं स एवेति विज्ञा
नं जायते दृढं ।

तदस्तित्वातिरेकाच्च प्रामाण्यन्तस्य युज्यते ॥

देशकालादिभेदेन तत्रास्त्यवसरो मितः ।

इदानीन्तनमस्तित्वं न हि पूर्वधियो गतं ॥

न च सर्वदानुमानेन सदृशनिश्चयः । प्रत्यक्षप्रत्यभिज्ञाबाधितत्वात् प्रत्यभि
ज्ञाया अनुमानोत्थानाभावात् । न च प्रत्यभिज्ञाया अप्रामाण्यमितरेतराश्रयदोषात् ।
यतो न यावदप्रामाण्यमस्यास्ता
वन्नानुमानस्योत्थानं यावच्च नानुमानोत्थानन्ता
वन्नास्या अप्रामाण्यमन्योन्याश्रयदोष इति ।


अत्रोच्यते । स इत्यनेन पूर्वकालसम्बन्धी स्वभावो विषयीक्रियते । अय
मित्यनेन च वर्त्तमानकालसम्बन्धी । अनयोश्च भेदो न च कथंचिदभेदो वर्त्तमान


95 कालभाविरूपैकस्वभावत्वाद् वस्तुनः । तस्माद् भेद एव प्रत्यभिज्ञाने सति भासत
इति कथ
मनेन क्षणिकत्वानुमानबाधा ।

36b

यद्वा वस्तुनः पूर्वकालसम्बन्धित्वमिदानीमसदेव । पूर्वकालाभावात् । सत्त्वे
वास्य वर्त्तमानकालसम्बन्धित्वमेव स्यान्न पूर्वकालसम्बन्धित्वं विरोधादित्युक्तं ।
तस्मात् पूर्वकालसम्बन्धित्वस्यासतो ग्राहकः स इति ज्ञानांशो भ्रान्तोऽन्यथा वस्तुनः
स्पष्टबालाद्यवस्था ग्राहकः स्यान्न च भवति । तस्माद् भ्रान्तात् पूर्वदृष्टरूपा

रोपेण स एवायमिति ज्ञानात् कथमनुमानबाधा । यत्र चाक्षव्यापारस्तद्ग्राहकं
प्रत्यक्षमुत्पद्यते । न च पूर्वकालास्तित्वेऽधुना क्व व्यापारोऽसन्निहितत्वात् । नापि
तदभेदेन तत्कथं पूर्वोत्तरकालास्तित्वयोरैक्यग्राहकं ज्ञानं प्रत्यक्षं स्यात् । यदा च
बालाद्यवस्थायां दृष्टः वृद्धावस्थायां प्रत्यभिज्ञायते । न तत्र वा प्रत्यभिज्ञाने
नित्यत्वं प्रतिभासते । केव
लं स एवायमिति तत्त्वमध्यवसीयते । न च तत्त्वम्बा
लवृद्धावस्थयोर्भेदात् । नापि तत्त्वग्रहणान्यथानुपपत्त्या नित्यत्वादिकल्पना ।
सदृशापरोत्पत्तिभ्रान्तिनिमित्तादप्युत्पत्तिसम्भवात् । लूनपुनर्जातेष्विव केशेषु ।
न चात्र केशत्वसामान्याद् भिन्नात् प्रत्यभिज्ञानं । तदिहेति बुद्ध्युत्पादप्रसङ्गात् ।
नाप्यभिन्नादन्यत्रानुगमे वाऽनुगतव्या
वृत्तरूपयोः । परम्परासंश्लेषेणैकान्त
भिन्नत्वात् । ततश्च त एवामी केशा इति प्रत्यभिज्ञा सदृशापरोत्पत्तिनिमित्तैवात
एव भ्रान्तिः । तथा घटादिष्वस्याभ्रान्तत्वाशंकयानुमानस्योत्थानं युज्यत एव ।
नापीतरेतराश्रयत्वं यतो नानुमानेन प्रत्यभिज्ञाया अप्रामाण्यं क्रियतेऽपि तु
ज्ञायते स्वहेतुत एवाप्रमाणरूपाया निष्पत्तेः । दृष्टो दृश्यत
इति ग्रहात् ।
दृष्टत्वं हि न पूर्वम्भावस्यास्ति । तदा दृश्यमानैकरूपत्वात् । नाप्यधुनाऽत एव ।
नापि पूर्वकालसम्बन्धित्वं दृश्यमानस्येदानीं पूर्वमभावात् । तस्माद् दृष्टत्व
मारोप्य ग्राहिका प्रत्यभिज्ञा भ्रान्तत्वादप्रमाणैवोत्पद्यते । नाप्यस्या अप्रामाण्यनि
मित्तमनुमानस्योत्थानमपि तु साध्यप्रतिबन्धनिमित्तमतः प्रत्यभिज्ञाया बाधकं ।
विस्तरस्त्व
यं प्रत्यभिज्ञाभङ्गविचारो नै रा त्म्य सि द्धौ कृत इति तत्रैवावधार्यः ॥


तस्मात् स्थितमेतत् तां पुनः क्षणस्थितिधर्मतां स्वभावम्पश्यन्नपि
सदृशापरोत्पत्तिविप्रलब्धः पूर्वक्षणविनाशाविनिश्चयान्न व्यवस्यतीति ॥


कथं पुनर्गम्यते सदृशापरोत्पत्त्या विप्रलब्धो न व्यवस्यतीत्यत आह । अन्त्ये
त्यादि । सदृशक्षणान्तराप्रतिसन्धायी क्षणोऽन्त्यक्षणस्त
द्दर्शिनां नष्ट इति निश्च

96 यात्
। अवगम्यते प्रागप्ययम्प्रतिक्षणमेव नश्यति केवलं यथोक्तादेव विप्रलम्भ
हेतोर्न निश्चीयते ॥


नन्वन्त्यक्षणदर्शिनोपि कथन्नश्वरत्वनिश्चयो यावता तदापि सत्तोपलम्भो
ऽस्ति । न हि सत्तायामेवोपलभमानस्तदभावमवैतीत्याह । पश्चादित्यादि । न
ब्रूमोन्त्यक्षणदर्शनमात्रान्निश्चयो भवतीति किन्त्वन्त्यं क्षणं दृष्ट्वा पश्चाद् वि

38a 112भवति तदा नोपलभ्यते तत्तस्य कार्यं । न चाग्निकाष्टादिसन्निधाने भवतो
धूमस्यापनीतेऽश्वादौ अनुपलम्भोस्ति । अग्न्यादौ त्वनीते भवत्यनुपलम्भः । एव
म्परस्परसहितौ प्रत्यक्षानुपलम्भावभिमतेष्वेव कारणेष्वसन्दिग्धं कारणत्वं
साध्यत इति । तच्चेति यथोक्तं कार्यलक्षणं धूमेस्ति तस्मादग्नेरेव धूमो भवति ।
सर्वकालं चाग्निसन्निधाने भ
वतो धूमस्यानग्निजन्यत्वं कदाचित्सदसतोरजन्यत्वा


97 दहेतुत्वाददृश्यहेतुत्वाद्वोच्यते । तत्र न तावत् प्रथमः पक्ष इति तृ ती ये प रि च्छे दे
अशक्तं सर्वमिति चेदि त्यत्रान्तरे प्र० वा० ३।४ वक्ष्यामः । नाप्यहेतुत्वमिति तत्रैव
वक्ष्यति । नाप्यदृश्यहेतुत्वं धूमस्य । अग्न्यादिसामग्र्यन्वयव्यतिरेकानुविधानात् ॥


अथ स्याद् अदृश्यस्यायं स्वभावो यदग्न्यादिसन्निधा
न एव धूमं कर्पूरा
दिदाहकाले सुगन्धादियुक्तं च करोति नान्यदेति । तत्किमग्निमन्तरेण कदा
चिद् धूमोत्पत्तिर्दष्टा येनैवमुच्यते । नेति चेत् । तत्कथन्नाग्निकार्यो धूमस्तद्भावे
भावात् । धूमोत्पत्तिकाले चाग्निः सर्वदा प्रतीयमानोपि काकतालीयन्यायेनाव
स्थित इत्यलौकिकोयं व्यपदेशः ।


अथवा स एवादृश्यस्य स्वभावो यद्यग्निना नोप
क्रियते तत्किमग्न्यादिस
न्निधान एव धूमं करोति न पूर्वन्न पश्चात् । तस्मादग्न्यादिसन्निधान एवा
स्वभावो धूमजनको भवति नान्यदेति तत्रापि पारम्पर्येण धूमस्याग्निजन्यत्वमेव
स्यात् ।


किञ्च । यथा देशकालादिकमन्तरेण धूमस्यानुत्पत्तेस्तदपेक्षा प्रतीयते तथा
सर्वदाग्निमन्तरेणानुत्पत्तिदर्शनादग्न्यपेक्षाऽस्य केन वा
र्येत । तदपेक्षा च
तत्कार्यतैव । यथा चादृश्यभाव एव धूमस्य भावात्तज्जन्यत्वमिष्यते तथा सर्व
कालमग्निभावे भावदर्शनादग्निजन्यत्वं किन्नेष्यते । यावतां च सन्निधान एवो
त्पद्यमानो भावो दृश्यते तावतामेव हेतुत्वं सर्वेषां प्राग्भावस्य तुल्यत्वात् । तथा
चाग्न्यदृश्यादिसामग्रीजन्यत्वं धूमस्येति कुतोग्निव्यभिचारः ॥


अन्यस्त्वाह । भ
वत्वग्निधूमयोः कार्यकारणभावतस्तथापि न तयोरेकेन
ज्ञानेन ग्रहणम्भिन्नकालत्वात् । नाप्यनेन पूर्वकेण हि निर्विकल्पकेन पूर्वकम्वस्तु
मात्रं गृहीतं न तु कारणरूपं कार्यस्य भावित्वेनाप्रत्यक्षत्वात् । उत्तरेणाप्युत्तरम्वस्तु
मात्रं गृह्यते न तु कार्यरूपं कारणस्यातीतत्वेनाग्रहात् । नापि सविकल्पकेन
तत्राप्यस्य चोद्यस्य तुल्य
त्वात् । तेनेदमस्मादुत्पन्नमिति न केनचिद् गृहीत
मत एव न स्मरणेनापि गृह्यतेनुभवाभावादिति ।


अत्रोच्यते । कार्यस्य तावदनुत्पन्नावस्थायामसत्त्वादेव न कारणसम्बन्धित्वं
निष्पन्नावस्थायामप्येवं । निरपेक्षत्वात् तथा कारणमपि कार्यनिष्पत्त्यनिष्पत्त्य
वस्थायां कार्यासम्बन्ध्येव । नाप्यनयोः कार्यकारणभावः सम्बन्धो भिन्न
काल- 38b
त्वात् । केवलमस्येदं कार्यं कारणं चेति कल्पितोयं व्यपदेशः । तेन हेतोः सका
शात् स्वरूपलाभ एव कार्यत्वं । कारणस्यापि कार्यं प्रति प्राग्भाव एव कारणत्वं
स चात्मलाभः प्राग्भावश्च भावस्याभिन्नत्वात् प्रत्यक्षगृहीत एव चेति कथं न प्रत्यक्ष

98 ग्राह्यः कार्यकारणभावः केवलं कार्यदर्शने सतीदमस्य कार्यकारणं चेति व्यवह्रियते ।
यतो नाकार्यकारणयोः का
र्यकारण भावः सम्भवति । नापि कार्यकारणभावयो
गात्तयोः कार्यकारणताऽभिन्ना कर्त्तुं शक्यते विरोधात् । नापि भिन्ना तयोः
स्वरूपेणाकार्यकारणता प्रसङ्गात् । स्वरूपेण कार्यकारणयोरपि किं कार्य कारण
भावेनार्थान्तरेण कल्पितेन स्वरूपेणैव कार्यकारणरूपत्वात् तस्मात् पूर्वोत्तरभाव
एव तयोः कार्यकारणभावः । तेन पूर्वके वस्तुनि गृह्य
माणे कार्यंप्रत्यानन्तर्यकार
णात्मकं गृहीतमेव । उत्तरेण च ज्ञानेनोत्तरम्वस्तु कारणानन्तरं गृह्यमाणं कार्या
त्मकमेव गृह्यते तदानन्तर्यस्य तदभिन्नस्वभावत्वात् । अत एवास्मादनन्तर
मिदम्भवतीति स्मरणमपि भवत्यानन्तर्यस्यानुभूतत्वादिति ।


अ वि द्ध क र्ण्ण स्त्वाह । अविनाभावित्वं एकं दृष्ट्वा द्वितीयादिदर्शने सति
सिध्यति न च क्षणिकवादिनो द्रष्टुर
?वस्थानमस्ति । न चान्येनानुभूते
र्थेन्यस्याविनाभावित्वस्मरणमस्त्यतिप्रसङ्गादि
ति


तदयुक्तं । प्रथमादेरर्थक्षणस्य प्रथमादिज्ञानक्षणेन ग्रहणादेकसन्ततिपतितानां
कार्यकारणभावेन स्मरणसम्भवाच्च । यथा च क्षणिकपक्षे कार्यकारणभाव
स्तथोक्त113मेव वक्ष्यतिच ।


नन्वेवमपि क्षणानामनिश्चयेन कथं कार्यकारणभावनिश्चयो न च सन्तानेन

न्निश्चयस्तस्य सन्तानिभ्यो भिन्नस्याभावात् केवलं सन्तानिन एव पूर्वापरकाल
भाविनः तत्र च यदैकः क्षणो न तदान्य इति एकक्षणावभास एवेति कथं
सन्तानावभासः तदभावात् कथं कार्यकारणभाव इति


तदयुक्तम् एकपरमाण्वात्मकस्य वस्तुनो भावात् स्थूलात्मनां सन्तानिनां
नैरन्तर्यप्रतिभास एव सन्तानप्रतिभासस्तत्र च क्षणविवेकानवधारणेन सादृ
श्येन
चैकत्वाध्यवसायादेकसन्ततिवर्तिनां क्षणानां न कार्यकारणभावनिश्चयः । भिन्न
सन्तानवर्तिनां तु सन्तानप्रवृत्त्या विजातीयत्वाद् भवति तन्निश्चयस्तेनाग्निसन्तान
पूर्वकस्य धूमसन्तानस्य प्रतीतेरग्निधूमसन्तानयोः कार्यकारणभावनिश्चय उच्यत
इति यत्किञ्चिदेतत् ।


अ ध्य य न स्त्वाह । स्वलक्षणयोः कार्यकारणभावग्रहणे सति कथं सा
मा
न्ययोर्गम्यगमकभावो भिन्नत्वादि
ति ।


तदप्ययुक्तम् अनेकस्वलक्षणात्मकस्य सामान्यस्याभ्युपगमात् । तदुक्तम्




99
अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात् ।

सामान्यविषयं प्रोक्तं लिङ्गं भेदाप्रतिष्ठितेरिति ॥ प्र० स०

तेन स्वलक्षणानां सम्बन्धग्रह एव सामान्यानां सम्बन्धग्रहो न त्वन्यः ।


नन्वनुमानवादिना बौ द्धे न यावन्ति स्वलक्षणानि त्रैलोक्ये । तानि सर्वा
ण्यग्नि- 39a
व्याप्तानि गृहीतव्यान्येकस्याप्यग्रहीते नैवानैकान्तिको हेतुः स्यात् न चैवं प्रत्यक्षं
कर्त्तुं शक्नोति सन्निहितविषयत्वात् । न वान्येषां स्वलक्षणानामनुमानतः साध्यधर्मेण
व्याप्तिग्रहणमनवस्थाप्रसङ्गादिति ।


तदयुक्तं यतः प्रत्यक्षमग्निभेदसन्निधान एव धूमभेदात् प्रतिपत् ।
एष्वधूमव्यावृत्तं रूपं धूममनग्निव्यावृत्ताग्निमात्रकार्यमेवेत्यवधारयति
यथात्र तथान्यत्रापि देशा
दावेतद् रूपमग्निजन्यमेवेति चावधारयत्यन्यथात्राग्नि
सम्बन्धितया न प्रत्यक्षेण गृह्यते । एवमग्न्यनग्निकार्यत्वेस्योभयसम्बन्धितया
प्रतीतिः स्यान्नाग्निसम्बत्धितयैव । प्रतीयते चतस्मादन्यत्राप्येतद्रूपमग्नेरेव भव
तीति निश्चयात् कुतो धूमस्याग्निव्यभिचारः । यश्च तद्रूपम्वाष्पादिविलक्षण
मवधारयितुं शक्नोति तस्यैवैतदनुमानं नान्यस्य । सामान्यव्याप्ति
ग्रहणवादि
नापि गोपालघटिकादावग्निमन्तरेण धूमसामान्यदर्शनाव्यभिचारशंकयाग्नि
नियतधूमसामान्यावधारणेनैव तदनुमानम् अग्निनियतधूमसामान्यावधारण
ञ्चाग्निसंम्बद्धधूमाव्यक्त्यवधारणपुरस्सरमेव । न च सर्वत्र देशादावाग्निसम्ब
द्धधूमव्यक्तिविशिष्टस्य धूमसामान्यस्य ग्रहणङ्केनचित् प्रमाणेन सम्भवति ।
नापि महानसादाव
ग्निसम्बद्धधूमव्यक्तिविशिष्टं धूमसामान्यं प्रतिपन्नमन्यत्रा
नुयायिव्यक्तेरनन्वयात् । यच्च धूमसामान्यमनुयायि तन्नाग्न्यव्यभिचारि ।
तस्मात् सामान्यव्याप्तिग्रहणवादिनोपि कथं विशिष्टं धूमसामान्यं सर्वत्राग्निना
व्याप्तं प्रतिपन्नमिति तुल्यं चोद्यं ।


अथ धूमस्यान्यत्राग्निजन्यत्वे न किंचिद् बाधकमस्ति तदेवेदमिति च प्रतीतेस्त
त्सामान्यम्प्र
तिपन्नमिष्यतेऽस्माकमपि तदेवेदमिति प्रत्ययस्योत्पत्तेस्तत्प्रतिपन्नमिष्यत
इत्यावयोः को भेद इति


यत्किञ्चिदेतत् । एतमेवार्थन्दर्शयन्नाह । धूमो भवँस्तदभावेऽग्न्यभावे
हेतुमत्ताम्बिलंघयेदहेतुकः स्यात् । यद्वा स धूमोग्निसम्बन्धितया प्रतीतस्तदभावे
ग्न्यभावे भवन् हेतुमत्तामग्निसम्बन्धितया न प्रत्यक्षेण प्रतीयेत । प्रतीयते च ।

तस्मात् सकृदपि न केवलं भूयस्तथादर्शनादित्यनन्तरोक्तात् प्रत्यक्षानुपलम्भात ॥

100 किङ्कारणम् अकारणादग्नेः सकृदपि न केवलं भूयोऽभावात् । न हि बालुकाभ्यः
सकृदपि तैलम्भवति । कार्यस्येत्यादिना कारिकार्थमाह । न हीत्याद्यस्यैव समर्थनं ।


एतेन व्याप्तिः कथिता भवति च धूमोग्निमन्तरेण व्यभिचारवादिनः । अनेन
च पक्षधर्मः कथितः ।
दि
ति तस्मादग्निमन्तरेण भावान्न तद्धेतुर्नाग्निहेतुस्तथा
चाहेतुः स्यादिति भावः ॥


अन्यहेतुकत्वादि वह्नेर्यदन्यच्छक्रमूर्द्धादि । तद्धेतुकत्वाद् धूमस्य नाहेतुकत्वं
इति चेत्


नैतदेवन्तत्राप्यर्थान्तरे हेतौ कल्प्यमाने तुल्यत्वात् । तथा हि तदभावेप्य
न्यकारणाभावेपि पुनरग्नौ भवतीति तदप्यन्यत्कारणं न हेतुः स्यात् । अपि च योसौ
39b वह्निर्यच्च ततो
न्यत्कारणन्तत्किं धूमजननस्वभावमाहोस्विन्न । यद्यजनन
स्वभावन्तदा कथन्ततोग्नेरन्यतो वा शक्रमूर्द्धादेरतज्जननस्वभावत्वात् अधूमजन
नस्वभावाद्धूमो भवन्नैव भवेत् । किं कारणम्अतत्स्वभावस्य स्वयमधूमजनन
स्वभावस्याजननात्तस्य धूमस्याहेतुता स्यात्


अथ धूमजननस्वभावोन्यस्तदा द्वयोरपि वह्नित्वं धूमजननस्वभावलक्षण
त्वाद् वह्नेः । एत
च्चोत्तरत्राभिधास्यते ॥


न वै स एवेत्यादि व्यभिचारवादी । अथवाग्निजनितो धूमः स एवान्यतो
भवतीत्येवं नोच्यते । यदि स एवान्यतः स्याद् भवेदहेतुत्वन्तादृशस्य वह्निजनित
धर्मस्वभावतुल्यस्यान्यतो भावात्


अन्यादृशादित्यादि सि द्धा न्त वा दी । तत्किं कार्यसदृशं कारणमिष्यते
येनैवमुच्यतेन्यादृशाद् भवन् कथन्तादृश इति । नान्यार्थत्वात् । यो हि धूम

जनको वह्निर्दृष्टस्ततो विसदृशाद् भवन् धूमः कथन्तादृशो भवति वह्निजनित
धर्मतुल्यस्वभावो भवति ।


एतदुक्तम्भवति । यथा धूमभेदानान्तार्ण्णपर्ण्णादीनां परस्परापेक्षया तादृशत्व
न्तथाग्निभेदानामपि तार्ण्णपार्ण्णादीनां धूमजनकानान्तादशत्वं परस्परापेक्षयैव ।

101 तेन यादृशो धूमभेद एकस्मादग्निभेदादुत्पद्यमानो दृष्टस्तादृशस्य धूमभेदस्य ता
दृ
शादेवाग्निभेदादुत्पत्तिः । यस्त्वनग्नेरुत्पन्नः सोन्यादृश एव । वाष्पादिवत् ।


नन्वग्निजन्येन धूमक्षणेन तादृशो धूमक्षणजन्यो धूमक्षणस्तेनान्यादृशादपि
तादृशो भवतीति चेत् न । अग्निजन्यस्य हि धुमक्षणस्याग्निजन्य एवान्यो
धूमक्षणस्तादृशो भवति नान्यः । न हि वाष्पादीनान्तादृशत्वाध्यवसायेपि तादृश
त्वम्भवति । धूमक्षणजन्यस्यापि धू
मक्षणस्यान्यो धूमक्षणजन्य एव धूमक्षणस्तादृशो
भवति नान्यः । तस्मात्तादृशादेव तादृशोत्पत्तिरिति कुतो व्यभिचारः । तेन ।


क्षणिकत्वे कथम्भावाः क्वचिदायत्तवृत्तयः ।

प्रसिद्धकारणाभावे येषाम्भावस्ततोन्यतः ॥

ततश्चानग्नितो धूमाद् यथा धूमस्य सम्भवः ।

शक्रमूर्ध्नस्तथा तस्य केन वार्येत सम्भव इति

निरस्तं । प्रथमस्य ह्यग्निजन्यस्य धू
मक्षणस्यापरोग्निजन्य एव धूमक्षणस्तादृशो
धूमक्षणजन्यस्य धूमक्षणस्य द्वितीयस्यान्यो धूमक्षणजन्य एव द्वितीयो धूमक्षणस्तादृशो
भवति तथा तृतीयादिक्षणेष्वपीति क्षणापेक्षयाप्यव्यभिचारस्तादृशस्य ।
एतमेवाह । तादृशाद्धि भवँस्तादृशः स्यात् । अन्यादृशादप्यवह्निसदृशादपि यदि
तादृशो भवेद्
वह्निजनितधूमतुल्यस्वभावो भवेत् ।
तच्छक्तिनियमाभावात्
सदृशासदृशयोः कारणयोर्या शक्तिस्तस्या यो नियमः सदृशी सदृशमेव जनयत्यस
दृशी विलक्षणमिति तस्याभावात् कारणान्न हेतुभेदः कार्यस्य भेदक इति कृत्वाऽ
कारणम्विश्वस्य वैश्वरूप्यं स्यात् । यतः कुतश्चित्कारणादुत्पत्तेर्नाहेतुकत्वमिति
चेदाह । सर्वं वा सर्वस्मादित्यादि । अशक्तादपि चेदुत्पत्तिः सर्व सर्वस्मा
ज्जायेत
40a
न चैवं । तस्मादित्यादि । तन्न धूम इति । तदिति तस्माद् । यत उत्पद्यमानो धूमो
दृष्टः
दृष्टाकारो वह्निः । तद्विजातीयादवह्नेरित्यर्थः ॥


102

तथा चेत्यहेतुकत्वे सति नित्यं सत्त्वमसत्त्वम्वा धूमस्य स्यात् । किङ्कारणम्
अहेतोर्भावस्य स्वनिष्पत्तावन्यानपेक्षणात् । कारणान्तरानपेक्षणात् । कारणा
न्तरानपेक्षत्वेपि कादाचित्कं स्वभावतो भविष्यतीति चेदाह । अपेक्षातो
हीति ।


एतदुक्तम्भवति अनिष्पन्नस्यासत्त्वादेव कथं स्वभावतः कादाचित्कत्वं
निष्पन्नस्य त्वस्ति स्वभावः केवलं सैव निष्पत्तिः कथं क्वचिद् भवतीति
चोद्यते । स हीत्यादिमैतदेव व्याचष्टे । न कदाचिन्न भवेत् सर्वकालम्भवेत् ।
किङ्कारणन्तद्भावे धूमस्वभावस्य भावे । कारणानपेक्षत्वेन वैकल्याभावात् ।
इष्टकाल
वत् । तदापि चेति दृष्टकालेपि धूमो न भवेत् । धूमाभा
वकाला
विशेषात्


पश्चादर्द्धम्विभजन्नाह । अपेक्षया हीति । योग्यदेशकालापेक्षया । यस्मात्
कार्यस्य यौ भावाभावकालौ तयोर्यथाक्रमन्तद्भावस्य कार्योत्पादस्य ये योग्यता
योग्यते
ताभ्यां योगात् । कालग्रहणमुपलक्षणपरमेवं देशद्रव्ययोरपि वाच्यं । अथैवं
नेष्यते । तदा तुल्ये योग्यतायोग्यते ययोः कार्यभावाभाववतोर्देशकालयोस्तयो

स्तद्वत्तेतरयोर्नियमायोगात् । कार्यकालस्यैव तद्वत्ता । कार्यवत्ता । तदन्यस्येतरा ।
अकार्यवत्तेत्यस्य नियमस्यायोगात् । द्वावपि तौ कार्यभावाभावकालौ कार्यवन्तौ
स्यातां योग्यतासादृश्यात् । न वा । तुल्यत्वादयोग्यतायाः । तस्मात् तद्भाव
कालस्यैव योग्यता । तां वापेक्षमाणभावाः कादाचित्का भवन्ति


भवतु नामेष्टस्य देशकालादेर्योग्यता । न ताव
ता हेतुभाव इत्यत आह ।
सा चेत्यादि । यत एवमहेतुत्वे नित्यं सत्त्वासत्त्वं स्यान्न च भवति ।


तस्मादित्यादि । यत्परिहारेण प्रवर्त्तते तदनपेक्षः । यत्र च वर्त्तते तत्सापेक्षः ।
यदि नाम क्वचिद् देशादौ वृत्तस्तथापि कथन्तत्सापेक्ष इति चेदाह । तथा हीति ।
तथा वृत्तिरित्येकपरिहारेणान्यत्र वृत्तिः ॥ देशादिकमपेक्षत एव भावःतेन तु
देशादिना
न तस्योपकारः क्रियत इति चेदाह । तत्कृतोपकारेत्यादि । तन्निय

103 यमायोगादिति । तस्मिन्नैव देशादौ तेन न भाव्यमिति नियमायोगात् तदिति
तस्माद् । देशकालग्रहणमुपलक्षणं द्रव्यस्यापि परिग्रहः । यत्रेति देशादौ दृष्टः सकृदि
ति । यथोक्तेन प्रत्यक्षेण येषां सन्निधाने दृष्टस्तेषामेवान्यतरवैकल्ये च पुनर्न दृष्टः ।
अन्य
थेति यदि तज्जन्योस्य स्व
भावो न स्यात् । इति धूमस्तत्प्रतिनियतोग्न्या
दिकसामग्री-हि-यतः । अग्नेरन्यत्र कथम्भवेन्नैव भवेत् । भवन् वा न धूमः स्यात्
यस्मात् तज्जनितो ह्यग्निजनितो हि स्वभावविशेषो धूम इति । तथा हेतुरपि
वह्निस्तथाभूतकार्यजननस्वभावो धूमजननयोग्यतास्वभावो । धूमरहितावस्थाया
मप्यस्त्येव योग्यता कारणभूतेति । तेन नाऽव्यापि लक्षणं ।
एवमग्निधूमयोः 40b
परस्परापेक्षया नियतस्वभावत्वे प्रत्यक्षव्यवस्थापिते ।


यदि तस्य धूमस्याग्नेरन्यतोपि भाव इष्यते तदा न स धूमजननः स्वभावस्तस्या
वह्नेः । तथा ह्यनग्नेर्यदा धूमस्योत्पत्तिस्तदानग्नेरेव धूमजननः स्वभावो जातः ।
यश्चानग्नेः स्वभावः स कथमग्नेः स्यात् । ततश्चाधूमजननस्वभावत्वादग्नेः
सकृदपि न धूमं जनयेत् । धूमस्यापि
धूमस्वभावता न स्यादित्याह ।
चे
त्यादि । अग्नेरन्यतो भवन्न वा स धूमः किं कारणम् अधूमजननस्व
भावा
दनग्नेर्भावादुत्पत्तेः । तत्स्वभावत्वे चानग्नेरपि धूमजननस्वभावत्वे चाभ्यु
पगम्यमाने । स एवाग्निर्धूमजनकरूपत्वादस्य इत्यनेन द्वारेणाव्यभिचारो
धूमस्य ॥


सुखग्रहणार्थं अग्निस्वभाव इत्यादि श्लोकद्वयमाह ।


104

अग्निस्वभाव इति धूमजननस्वभा
वो यदीत्यर्थः । अग्निरेव स शक्रमूर्द्धा
धूमजननस्वभावत्वात् । अथानग्निस्वभावोसौ शक्रमूर्द्धा । तत्रेति शक्रमूर्द्धनि ।
कस्मान्न भवेदित्याह । धूमेत्यादि । हि यस्मात् । धूमहेतुस्वभावो यस्येति विग्रहः ।
कुत एतत् तच्छक्तिभेदवान् । तया धूमजनिकया शक्त्या करणभूतया वस्त्वन्तरात्
खद्योतादेर्भेदवान् विसदृशः । अधूमहेतोरित्यवह्निस्वभावाद् धू
मस्य भावे

उत्पादेऽभ्युपगम्यमाने धूमः स्यादहेतुकः । यथोक्तं प्राक् ॥


कथमित्यादि परः । इदानीमित्येकस्य धूमादेर्विजातीयादुत्पत्त्यनभ्युपगमे ।
कथम्भिन्नात् परस्परविजातीयात् । सहकारिणः सकाशादेकस्य कार्यस्योत्पत्तिः
कथमित्याह । यथेत्यादि । आदिशब्दाद् आलोकमनस्कारादयः । एवञ्च सति चक्षुः
स्वभावादप्युत्पद्यते विज्ञानम
चक्षुःस्वभावादपि रूपमनस्कारादेर्न चेदमहेतुकं ।
एवं धूमोप्यग्नेरुत्पद्यतामनग्नेश्च शक्रमूर्ध्नः । न चाहेतुको भविष्यतीति चोदको
मन्यते ।


न वै किंचिदित्यादिना प्रतिविधत्ते । चक्षुरादिषु तत्स्वभावं जनकस्वभावं
सदेकैकं परस्परानपेक्षं न वै जनकं यदि हि स्यात् तदा प्रत्येकं कारणव्यभिचा
रादहेतुकं स्यात् । किन्तु सामग्री जनिका । तत्स्वभावा जन
कस्वभावा । सामग्री
जनिकेत्येतावतैव तत्स्वभावत्वं लब्धमतत्स्वभावस्याजनकत्वात् तत्किं स्वभावेति
पृथगुच्यते ॥ सत्यं किन्त्ववधारणार्थमुक्तं । सामग्र्यवस्थायामेव तत्स्वभावता । न
पूर्वन्न पश्चान्न पृथगिति । स्वहेतुसामर्थ्यनियतसन्निधीत्येकस्मिन् कार्ये समस्तावन्ये
कारणानि हेतुरिति समुदायार्थः ।


केचित्तु वा शब्दं पठन्ति सामग्री जनिका तत्स्वभावा
वेति । अत्र तु
वाशब्दस्य न किंचित् प्रयोजनमित्य पाठ एवायं । यदि सामग्रीत्युक्त्वा
सामग्र्यन्तरादपि चक्षुर्विज्ञानं स्यात्तदा भिन्नादुत्पादेरहेतुकत्वम्भवेत् । सैव साम
ग्र्यनुमीयते । कार्येण न प्रत्येकं कारणादन्यतो नास्ति व्यभिचार इति भावः ।


स्यादेतद अग्न्यादिसामग्रया आद्य एव धूमक्षणो जनितो न च तस्य लिङ्ग

105 त्वन्तस्यानिश्चयात् । यश्च धूमप्रतिबन्धो गृह्य
ते स पूर्वधूमहेतुरेव 41a
कथन्ततोग्न्यादिसामग्र्या अनुमानमित्यत आह । सैव चेत्यादि कार्यप्रबन्धस्य
स्वभावस्थितेः । आश्रय आद्यं कारणं । सामग्रीमन्तरेण धूमसन्तानस्यैवाभावात् ।
ततो धूमसन्तानमग्निकार्यत्वेनैकीकृत्य दहनादिसन्ततेः कारणभूताया अनुमानं ।
न हि क्षणविभागेनार्वाग्दर्शनस्य व्यवहारः सम्भवतीति ।


स्यादेतद् अतीव एव व
ह्निरनुमीयते । न च तेनार्थक्रियार्थिनः किंचित् प्र
योजनमित्येतदपि चोद्यमानेनैव परिहृतं । तदा चायमर्थः सैव च सामग्री
प्रबन्धेन प्रवर्त्तमाना कार्यस्वभावस्थितेः कार्यप्रबन्धवृत्तेर्हेतुः पूर्वपूर्वमग्न्यादिक्षणं
प्रतीत्योत्तरोत्तरस्य धूमक्षणस्योत्पत्तेः । न ह्ययं नियमो यदेक एव धूमक्षणोग्निना
जन्यो नापर इति । यावदिन्धनस्य न सर्वथा भस्मीभवनन्ता
वद् धूमक्षणानामु
त्पत्तिरविरुद्धा । तस्मादुत्तरोत्तरदहनक्षणजननमर्थेनप्रबन्धप्रवृत्तेनाग्निना यथा
भूतो धूमप्रबन्धो जनितः प्रत्यक्षावधारितस्तथाभूतमन्यत्रावधार्यार्थक्रियासमर्थ
दहनसन्तानस्यानुमानन्तदर्थिनो न विरुद्धम् अन्य एव च स्वभावो विच्छिन्न
दहनसन्तानस्य धूमस्यान्य एव विच्छिन्नदहनसन्ततेर्वासगृहादिस्थस्य । स्फुटश्च
तयो
र्भेदमवधारयति लोक इति कुतो व्यभिचारः ॥


अथवाऽन्यथा व्याख्यायते ।


ननु सामग्री समग्रेभ्योन्या । तस्याश्चैकत्वाद् एकमेव कार्यमुत्पद्यतेऽन्यथा
समग्राणां प्रत्येकं सामर्थ्यात् कार्यबहुत्वम्पर्यायेण चैककार्यजनकत्वं स्यान्न च भव
ति । तस्मात् कथमेकजनकत्वमित्याशंक्याह ।


सैव चेत्यादि । सैव च सामग्रीति समग्रा एव सामग्री शब्देनोच्यन्ते ।
किं
कारणं । स्वभावस्थित्या स्वरूपसन्निधानेन कार्यस्याश्रयो भवति यतः ।


एवम्मन्यते । यदि सामग्र्या एव कार्योत्पत्तिस्तदा समग्राणामकारकत्वं स्यात् ।
तथा च प्रतीतिबाधा । समग्राणामपि कारकत्वे सुतरां कार्यबहुत्वं स्यात् । पर्यायेण
चैककार्यजनकत्वं स्यात् । न च सामग्रीबलात्तेषामेकरूपता । सामग्र्या एवा
भावप्रसङ्गात् । तस्मात् ते स
मग्राः स्वहेतुभ्य एवैककार्यकरणे नियता उत्पन्नाः
सामग्रीशब्देनोच्यन्ते । न च बहूनामेककार्यकरणे बाधकमस्ति । न चास्माकङ्का
रणमेव कार्यो भवतीति मतं येनानेकस्यैककार्यत्वम्विरुध्येत । यथा चैककार्यं
त्येप्रकस्य प्राग्भाव एव कारणत्वन्दृष्टत्वात् तथानेकस्यापि यथा वा त एव
समग्राः संयोगलक्षणामेकां सामग्रीञ्जनयन्ति । तथै
कमपि कार्यं किन्न कुर्वन्तीति



106

यत्किञ्चिदेतत् । यतश्च सामग्रीजनिकाऽत एव सहकारिणामपर्यायेण जननं
परिपाट्या जननं नास्तीत्यर्थः ।


यदपीत्यादिना विजातीयादुत्पत्तिमाशंक्य परिहरति । नान्यादृशात्तादृ न्त
स्योत्पत्तिरिति यदुक्तन्तदेवात्र दर्शयतीत्यर्थः । आदिशब्दाद् गोशृङ्गाच्छरो
41b गोमयाद् वृश्चिकः तत्रापी
ति विजातीयात् कार्योत्पत्तावपि । तथाभिधानेपीति
विजातीयोत्पन्नस्य शालूकादेः शालूकादिरित्यभिधानेपि स्ववीजाच्छालूकादि
लक्षणात् प्रभव उत्पत्तिर्यस्य तस्मात् स्ववीजप्रभवाच्छालूकादेः सकशादस्त्येव
स्वभावभेदः
। किङ्कारणं हेतुस्वभावभेदात् । हेतोः सामग्रीद्वयलक्षणस्य
स्वभावभेदात् । बीजात् कन्दाच्चोद्भवो
स्याः कदल्याः सा तथा । सा च
हेतुत्वभेदात् परस्परभिन्ना ।


न चायम्भेदः साधनीय इत्याह । स्फुटमित्यादि । विवेचयति भेदे वा भावस्येति ॥
सुविवेचिताकारं भ्रान्तिहेतुभ्यः सदृशाकारेभ्यो विभागेन निश्चिताकारं ॥


तद्भाव एव भावोऽन्वयः । तदभावे चाभाव एव व्यतिरेकः । अन्वयो व्य
तिरेकश्चान्वयव्यतिरेकन्तस्मात् । यः कार्यस्वभावो यस्यानु
वर्त्तनीयस्य कारणस्या
नुवर्त्तको दृष्टस्तस्यानुवर्त्तकस्य स्वभावस्तद्धेतुः सोनुवर्त्तनीयः कारणात्-सा हेतु
र्यस्येति विग्रहः । यदा तु कारणापेक्षयोच्यते तदा स्वभावस्तस्यानुवर्त्तनीयस्याग्न्या
देस्तद्धेतुस्तस्य कार्याभिमतस्य धूमादेर्हेतुः । यतश्चैवं परम्परापेक्षया कार्यकारणयो
स्वभावनियमः । अतः कारणाद् भिन्नाद् विजातीयान्न सम्भ
वः


तस्मात् सकृदपि दर्शनादर्शनाभ्यामिति यथोक्ताभ्यां । प्रत्यक्षानुपलम्भाभ्यां
कार्यकारणभावसिद्धेः कारणाद् भवति ततः कार्यकारणभावसिद्धितः तत्प्रतिप
त्तिरन्वयं व्यतिरेकप्रतिपत्तिर्नान्यथेति कार्यकारणभावनिश्चयन्त्यक्त्वा केवलाभ्यान्द

107 र्शनादर्शनाभ्यां नान्वयव्यतिरेकयोः प्रतिपत्तिः । किङ्कारणं निःशेषिदर्शनादर्श
ना
यत्तत्वाद्
दर्शनमात्रप्रतिबद्धाया अन्वयव्यतिरेकप्रतिपत्तेः । एवं हि दर्शनमन्वयं
साधयति यदि निःशेषे सपक्षे हेतोर्दर्शनं स्यात् । एवमदर्शनमपि व्यतिरेकं साधयेत् ।
यदि निःशेषे साध्यव्यतिरेके हेतोरदर्शनं स्यात् ॥ यथैकत्र धूमव्यक्तौ सकृदपि
कार्यत्वसिद्ध्या सर्वत्र तथाभावः एवं क्वचित् सपक्षासपक्षयोर्दर्शनादर्श
नात्
सर्वत्रान्वयव्यतिरेकनिश्चयो भविष्यतीत्यपि मिथ्या यस्मात् क्वचिद् अमूर्तत्वे
आकाशादिगते नित्यत्वस्य दर्शने । परप्रसिद्ध्या चैतदुच्यते । अन्यत्र सुखादौ ।
अन्यथेत्यनित्यत्वे हेतोरमूर्त्तत्वस्य दृष्टेः कारणादेकत्र दर्शनं न सर्वत्र तथाभाव
साधनमतो दर्शनमन्वये व्यभिचारि । तथा क्वचिद् घटादौ नित्यत्वाभावेप्यदृष्ट
स्यामू
र्त्तत्वस्य पुनर्नित्यत्वाभाव एव सुखादौ दृष्टेरतो विपक्षैकदेशादर्शनमसाधनं
व्यतिरेकनिश्चये तस्माद्धेतुफलभावनिश्चयादेवान्वयव्यतिरेकयोर्निश्चयः ॥


स्वभाव इत्यादि परः । इदानीमिति कार्यहेतावविनाभावे साधिते संप्रति
स्वभावहेतौ कर्थ साध्येनाविनाभावः


ननु स्वभावे भावोपि भावमात्रानुरोधिनि हेतुरि
त्यादिना प्रागेव स्वभाव- 42a
हेतावविनाभावः साधितः ।


सत्यं । एवन्तु मन्यते यथाभूते स्वभावे तन्मात्रभाविन्यविनाभावो
वर्ण्णितस्तत्र प्रतिज्ञार्थैकदेशता प्राप्नोतीति । सिद्धान्तवाद्यप्यनन्तरेणान्यापोह
प्रसाधनेन प्रतिज्ञार्थैकदेशतापरिहारम्मन्यमानः तन्मात्रानुरोधिन्येवाविनाभावं
पूर्वोक्तमनुवदति । स्वभावेप्यविनाभा
इत्यादि । स्वभावेपि स्वभावहेताव
प्यविनाभावः कस्मिन् साध्ये भावमात्रानुरोधिनि । यो हीत्याद्यस्यैव
व्याख्यानं । अविनाभावो भावस्येति कृतकत्वादेः । यस्मात् तदभावे भावमात्रा
नुरोधि
साध्यधर्माभावे भावस्य हेतुत्वेनोपात्तस्याभावः स्यात्ः । किं कारणं
108 साध्यसाधनयोरभेदतः । अभेदमेव य एवेत्यादिना व्याचष्टे । य एवानित्यादिको
भावः कृतकभावमात्रानु
रोधी-स्वभाव इत्युच्य
ते स एव स्वयमन्यनिमित्तानपेक्ष
तया वस्तुतः परमार्थतो भावः कृतकत्वं स च भाव आत्मानं स्वभावभूतमनित्यत्व
म्परित्यज्य कथम्भवेत्


य एव तर्हीति परः । पक्षनिर्देशः प्रतिज्ञा114 । तस्या अर्थो धर्मधर्मिसमुदाय
स्तस्यैकदेशः साध्यधर्मात्मको हेतुः स्यात् । तथा हि यावदुक्तमनित्यः शब्दोऽनित्य
त्वादिति तावद् अनित्यः कृतकत्वादिति त
था चासिद्धो हेतुरिति भावः ।


नैष दोष इति सि द्धा न्त वा दी । यस्मात् सर्वे भावा इत्यादि । अत्र प्रथमया
कारिकया धर्मकल्पनाबीजं । द्वितीयया धर्मकल्पना । तृतीयया प्रतिज्ञार्थैकदेशता
परिहारश्च कथ्यते इति समुदायार्थः । सर्वे भावाः स्वभावपरभावाभ्यां व्यावृत्ति
म्भजन्त इति घिनुण् । सर्वभावाः स्वभावेन स्वरूपेण न पररूपेण सजाती
याद्
विजातीयाच्च व्यावृत्ताः । स्वस्वभावव्यवस्थितेः । स्वस्मिन् स्वभावेऽवस्थानात् ।


नन्वश्वादिभ्यो गौर्जात्या भिन्नः । विषाणी गौर्द्रव्येण गोव्यक्त्यन्तराद् भिन्नः ।
शुक्लो गौर्गुणेन विषाणिनो गोव्यक्त्यन्तराद् भिन्न इति । एवमादिपरमाण्वन्तो
भेदो जात्यादिविशेषणकृतः सर्वभावानां न स्वभा
वेनेति ।


अत्रोच्यते न जात्यादिना तावद् भावानामभिन्नानाम्भेदः क्रियते । भिन्ना
भिन्नभेदकरणे तत्र तस्याकिञ्चित्करत्वात् । नापि भिन्नानाम्वैयर्थ्यात् । नाप्ये
षाम्भेदव्यवहारः क्रियते स्वरूपभिन्नानाम्प्रत्यक्षेऽवभासादेव भेदव्यवहारसिद्धेः ।


किञ्च । जात्यादीनामन्योन्यन्तद्वतश्च सकाशाद् भेदो नान्यतो जात्यादे


109 रनवस्थाप्रसङ्गात् । स्वरूपेण च भे
दे भावानामेवासौ किन्नाभ्युपगम्यते किं
जात्यादिकल्पनया ।


योपि दि ग म्ब रो मन्यते सर्वात्मकमेकं स्यादन्यापोहव्यतिक्रमे
तस्माद् भेद एवान्यथा न स्याद् अन्योन्याभावो भावानां यदि न भवेदिति ।


सोप्यनेन निरस्तः । अभावेन भावभेदस्य कर्त्तुमशक्यत्वात् । नाप्यभिन्नानां
हेतुतो निष्पन्नानामन्योन्याभावः सम्भवति । भिन्नाश्चेत् निष्पन्नाः कथमन्योन्या

भावः सम्भवति । भिन्नाश्चेन् निष्पन्नाः कथमन्योन्याभावकल्पनेत्युक्तं । 42b


ननु सर्वे भावा भिन्ना इति यद्येतदनुमानवृत्तन्तदाश्रयासिद्धो हेतुः सर्वभावानां
प्रत्यक्षाविषयत्वाद् अत एव नैतत् प्रत्यक्षवृत्तं परामृश्यते ।


अन्यस्त्वाह । यद्यपि भावाः स्वभावेन भिन्नास्तेषान्तु जात्यादयो धर्मास्स
न्त्येव प्रतीयमानत्वात् । तथापि निर्विकल्पकन्तु विज्ञानङ्गवादिषु सत्तामात्रं

गृह्वाति न भेदं । अन्यस्माद् विशेषग्रहणमेव हि भेदग्रहणम्विशेषश्च नाविकल्प्य
गृह्यत इति सविकल्पकस्य विषयो न निर्विकल्पस्य । तदुक्तं ॥


विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभिः ।

ते च केचित् प्रतिद्रव्यं केचिद् वहुषु संस्थिताः ॥

तानकल्पयदुत्पन्नं व्यावृत्तानुगमात्मना ।

गवाश्वे चोपजातन्तु प्रत्यक्षन्न विशिष्यत इति ।

तस्मान्न निर्विकल्पके प्रत्य
क्षभेदावभास इति ।


योप्याह सविकल्पकेनापि भेदो न गृह्यतेऽन्योन्याभावग्रहणनिमित्तको
हि भावानां भेदग्रहोन्योन्याभावश्च भेदो न चाभावः । प्रत्यक्षग्राह्यो । न हि गव्य
श्वोस्तीति प्रत्यक्षं परिच्छिनत्त्यतः सत्तामात्रस्यैव ग्राहकं प्रत्यक्षमिति ।


तदुक्तं म ण्ड ने न ॥


आहुर्विधातृ प्रत्यक्षं न निषेद्ध्य विपश्चितः ।

नैकत्व आगमस्तेन प्रत्यक्षेण विरुध्यत इ
ति ।

तदेतदुभयमप्ययुक्तं । सत्तामात्रस्याप्रतिभासनात् । गवाश्वादीनां स्वस्व
रूपेणैव प्रतिभासनात् । तदुक्तं ॥


तत्त्वयुक्तम्प्रतिद्रव्यं भिन्नरूपोपलम्भनात् ।

न ह्याख्यातुमशक्यत्वाद् भेदो नास्तीति गम्यत इति ।

योप्याह भावानाम्भेद एव नास्ति । तथा हि गोरश्वानुत्पादे यादृशं
स्वरूपमश्वोत्पादेपि तादृशमेव नापरमधिकं किञ्चिज्जातमिति कथमतो
भेदः ।

110 भवतु वा भेदो नासौ प्रत्यक्षग्राह्योऽस्मादयम्भिन्न इति । एवंरूपस्य व्यापारस्य
प्रत्यक्षेऽभावात् । यदाह । न हीदमियतो व्यापारान् कर्त्तुं समर्थमिति


सोपि निरस्तः । गवाश्वादीनां स्वस्वरूपेणोत्पत्तिरेव भेदः । ते च स्वस्वरूपेण
प्रत्यक्षेवभासन्ते । तथावभासश्च लोके भेदावभास इति यत्किञ्चिदेतत् । तस्मात्
पुरोवस्थितेषु स्वस्वभावव्यवस्थि
तेरित्यस्य हेतोः प्रत्यक्षेण भेदं प्रतिपद्य
मानः सर्वोपसंहारेण प्रतिपद्यतेऽतः सर्वभावा व्यावृत्तिभागिन इति व्याप्तिग्रहण
प्रमाणफलमिति । यतश्च जात्यादयोर्थान्तरभूता न सन्तीति प्रतिपादयिष्यते
अतः पारमार्थिको धर्मधर्मिभावो नास्तीत्युक्तम्भवति ।


ननु सामान्ययोगात् सजातीया उच्यन्ते । यदि च सामान्यन्नास्ति कथं सजा
तीयाद् व्यावृत्तिरित्यु
च्यते ।


नैतदस्ति । न समानानामुत्पन्नानाम्भावानां सामान्ययोगात् समानरूपता
स्वहेतुभ्य एव तथानिष्पन्नत्वात् ।


तेन यदु द्यो त क रे णो च्यते । न गवि गोत्वं येन गोत्वयोगात् प्राग् गौरेवासा
विति व्यर्थं गोत्वं स्याद् अपि तु यदैव वस्तु तदैव गोत्वेनाभिसम्बध्यते ।
गोत्वयोगात्तु प्राग् वस्तु न विद्यते । न चाविद्यमानङ् गौरिति वाऽगौरिति वा शक्यं
43a व्य
पदेष्टुमि
ति


तन्निरस्तं । यदैव वस्तु तदैव तस्य गोरूपतया निष्पन्नत्वात् किं गोत्वयोगेन ।
नाप्यसमानानां सामान्ययोगात् समानरूपता । तेषां सामान्यस्यैवाभावात् । समा
नानां च भावः सामान्यमित्यभ्युपगम्यते । सामान्याच्च समानरूपत्वे भावानाम
भ्युपगम्यमाने यावन्न सामान्ययोगस्तावन्न समाना भावाः । यावच्च न समाना
स्तावन्न सामान्य
योग इत्यन्योन्याश्रयत्वं स्यात् । तस्मात् स्वहेतुभ्य एव समाना
उत्पन्नाः तेन ।


शावलेयाच्च भिन्नत्वं बाहुलेयाश्वयोस्समं ।

सामान्यं नान्यदिष्टं चेत् क्वागोपोहः प्रकल्प्यतामिति

निरस्तं । सामान्येष्वेवागोपोहप्रकल्पनात् । असमानानां चापोह्यात्मतया
प्रकल्पनात् ।


यदप्युच्चते समाना इति प्रतिभासादेव निर्विकल्पके ज्ञाने सामान्यप्रति
भासोन्य
था बाहुलेयाश्ववत् । शावलेयबाहुलेययोरपि वैलक्षण्यप्रतीतिः स्यात्
सर्वात्मना भेदाद् भवति च समाना इति प्रतीतिस्तस्मादस्यैव सामान्यमिति ।


तदुक्तं निर्विकल्पकबोधेन द्व्यात्मकस्य वस्तुनो ग्रहणमिति । यद्वा
सविकल्पके न चेत् सामान्यं गृह्यते । निर्विकल्पकेनापि गृहीतमेव । सविकल्पा

111 भिन्नप्रतिभासत्वात् । तथा हि य एव शावलेयादयो
गौरिति ज्ञानेन गृह्यन्ते ।
त एव निर्विकल्पके ज्ञाने प्रतिभासन्ते केवलमेकन्तानविकल्प्य गृह्णात्यन्यद् विकल्प्येति
तयोः स्वरूपभेदो न प्रतिभासभेदः । तस्मान्निर्विकल्पकेपि ज्ञाने सामान्यं प्रतिभासत
इति


तदपि निरस्तं । स्वहेतुभ्य एव केषाञ्चित् समानानां प्रतिभासनात् । सामा
न्यस्य च व्यक्तिपरतन्त्रं स्वरूपं न च निर्विकल्पकं ज्ञानं पारतन्त्र्य
म्वस्तुनो गृह्णाति ।
स्वातन्त्र्येण वस्तुग्राहित्वात् तत्कथं सामान्यग्राहकमुच्यते । अनुगतस्य च
रूपस्य प्रत्येकवद् युगपद् बहुष्वप्रतिभासनात् । अत एव विकल्पः समानेष्वेकान्त
भिन्नेषु निर्विकल्पकप्रत्यक्षबाधितमनुगताकारं गृह्णन् भ्रान्तो भवति । निर्वि
कल्पकगृहीतसामान्यग्राही वाऽप्रमाणं स्याद् गृहीतग्राहित्वात् । अथ विकल्प्य
ग्राहित्वाद् अगृ
हीतग्राहित्वं स्मृत्यादेरपितर्हि स्मर्यमाणविषयता गृहीतग्राहित्वन्न
स्यात् । अथ जात्यादिविशिष्टवस्तुग्राहितया विकल्पस्यागृहीतग्राहित्वमेवमपि
यदि जात्यादिविशिष्टत्वम्वस्तुनः पारमार्थिको धर्मस्तदा निर्विकल्पकेनापि गृही
तमेवेति कथमगृहीतग्राहित्वम् अथ कल्पिकस्तदा तद्ग्राहकस्य कथं प्रामाण्य
मारोपितार्थत्वात् । तस्मान्ना
स्त्येव जात्यादिरिति स्थितं ।


कथन्तर्हि भावा व्यावृत्तिभागिन इत्युच्यन्ते कल्पितधर्मद्वारेणायं व्यपदेश
इत्यदोषः । अतः


अगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्प्यते ।

गोत्ववस्त्वेव तैरुक्तमगोपोहगिरा स्फुटमिति 115

निरस्तं । पारमार्थिकस्य गोत्वस्य निषेधः क्रियते न तु कल्पितस्येति वक्ष्यति ।


यदि परमार्थिको धर्मधर्मिभावो नास्ति कथन्त
र्हि कृतकः शब्दो नित्य इति 43b
बुद्धीनाम्भेदः शब्दैकस्वरूपविषयत्वात् ।


अथ निर्विषया एता वासनाबीजमात्रतः ।

प्रतिपत्तिः प्रवृत्तिश्च बाह्येर्थेषु कथम्भवेत् ।

अथ बाह्याध्यवसायात् प्रवृत्तिरेवमपि कृतकत्वस्य योवसायः स एवानित्य
स्याभेदादिति कथम्बुद्धिभेदः । कृतकानित्ययोरभेदादेव तदनुभवाहितवासनाभे
दस्याभावान्न तत्त्वतो बुद्धिभेद इत्यत्राह ।


यस्मादित्या
दि । यस्मात् सर्वस्मात् सर्वभावा व्यावृत्तास्तस्माद् यतो यतो
नित्याकृतकादेः शब्दादीनामर्थानां व्यावृत्तिस्तन्निबन्धनाः । व्यावृत्त्यावधिव्या


112 वृत्तिनिबन्धना धर्मभेदा अनित्यकृतकादयः कल्प्यन्ते विकल्पैरारोप्यन्ते । किम्वि
शिष्टास्तद्विशेषावगाहिनः । तस्य स्वलक्षणस्य ये विशेषा अकृतकादिव्यावृत्ति
रूपलक्षणास्तदवगाहिनः । तदवगाहनशीला
स्तदभेदावभासनशीला इत्यर्थः ।


एतदुक्तम्भवतिअकृतको न भवतीत्यनेन द्वारेण प्रबोधिताया एव कृतक
विकल्पवासनाया एषा प्रकृतिर्यतस्ततो विकल्प उत्पद्यमानः कृतक इति स्वाकारा
भिन्नः स कृतकव्यावृत्तमेव शब्दस्वलक्षणं प्रतिपद्यते न त्वनित्य इति तथा नित्यो
न भवतीत्यनेनापि द्वारेण प्रबोधिताया एवानित्यवासनायाः साम
र्थ्यं यत्ततो विकल्प
उत्पद्यमानोऽनित्य इति स्वाकाराभिन्नं नित्यव्यावृत्तमेव शब्दस्वलक्षणं प्रतिपद्यते
न तु कृतक इति तेन बुद्धिभेदो भवति । यतश्च बाध्यमानत्वाद् विकल्पप्रति
भास्यर्थो बाह्यो न भवत्यतो वासनावशादेव बाह्यावभासो विकल्पस्तेन विकल्पस्य
बाह्यरूप एव प्रतिभासमानोर्थः स्वाकार उच्यते । न तु स्वाकारे बाह्यारोपः

सादृश्यात् । यदाह । नामनिमित्तप्रकरणे116


सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा ।

देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः ।

तथाविधाया बाह्यार्थप्रतिभासाया इति ।


एतेन यदुच्यते यद्वाह्यात्यन्तविसदृशस्य स्वाकारस्य ताद्रूप्यग्रहणन्तद
न्यनिवृत्तिकृतसादृश्यपरं । यथा घटविसदृशोपि पटो वृक्षाभावविशिष्टोऽवधार्यमाणो

मप्यवृक्ष इति घटसदृशोवधार्यते । वृक्षव्यावृत्तेर्घटपटयोस्तुल्यत्वात् । तथा
विकल्पविषयोऽत्यन्तं वामे विसदृशोपि वामेऽवधार्यतेऽन्यनिवृत्तिकृतसारूप्य
ग्रहणादि
ति


तदपास्तं । स्वहेतुत एव बाह्याभासाया विकल्पबुद्धेरुत्पत्तेः । न चासदृशानाम
न्यनिवृत्त्या सादृश्यं क्रियते तत्र तस्या भेदाभेदसादृश्यकरणेऽकिञ्चित्करत्वात् ।
न चा
न्यनिवृत्तिः सदृशी विद्यते । सदृशानामपि कथमन्यनिवृत्त्या सादृश्यं क्रियते
स्वरूपेणैव सादृश्यात् । नापि पूर्वं स्वाकारप्रतिभासः पश्चात् तत्रान्यनिवृत्तिकृत
सादृश्यग्रहणपरो बाह्यारोपः प्रतिभासते । न हि मरीचिकायां पूर्वं स्वरूपाप्रतिभासे


113 सति सादृश्यग्रहणहेतुको जलारोपः सम्भवति बाह्यारोपाच्च पूर्वं न स्वाका
रो 44a
ग्राह्यारोपोस्ति । विकल्पस्यैवाभावात् । भावे बोधैकरूप एवासाविति न बाह्यसदृशः ।
ततश्चान्यनिवृत्तिकृतसादृश्याभावात् कथम्बाह्यरूपः प्रतीयते । अनुमानस्य तु
नान्यनिवृत्तिग्रहणपूर्विका प्रवृत्तिर्लिङ्गस्य तया सह सम्बन्धात् सिद्धेः । यदा च
तद्विशेषावगाहित्वम्विकल्पानां प्रतीयते तदा विधिरूपेणैव प्रवृत्तिर्वस्तुस्वरूपस्य
विधोयमानत्वेनाध्यव
सायादर्थादन्यनिवृत्तिः प्रतीयते । तेन विधिरेव शब्दार्थोस्मा
कमपि । बाह्यतयाऽरोपितस्य च विधिप्रतिषेधाभ्यां सम्बन्धः ।


ननु नियतरूपग्राही विकल्पः प्रतिभासते । तेनेतररूपशून्यमेव विकल्पयन्नि
यतमर्थं विकल्पयति । तस्माद्यन्नियतरूपावधारणन्तदन्यनिवृत्तिविषयन्तत्कथमुच्यते
विधिरेव शब्दार्थ इति ।


तदयुक्तं । अन्यनिवृत्तिमहं विकल्प
यामीत्यप्रतीतेः । न च स विकल्पविषयो यो
न विकल्प्य प्रतिभासते । यदि चेतररूपनिवृत्तिमेव विकल्पयन्नियतमर्थम्विकल्पयति
तदेतरेतराश्रयदोषः स्यात् । इतररूपस्यापि नियतरूपत्वेनान्यनिवृत्तिद्वारेण
प्रतिपत्तिप्रसङ्गात् । अथ विधिरूपेणेतररूपं विकल्पयति न तर्हि तदन्यनिवृत्त्य
वधारणपूर्वकन्नियतरूपावधारणं ।


न च य
था सामान्यवन्तमर्थम्पश्यामीति नास्ति जातितद्वतोर्विशेष्यविशेषणभावे
प्रतिभासः अथ च विशिष्टप्रत्ययानुरोधात् सामान्यविशिष्टव्यक्तिदर्शनन्नै
या यि का दयः कल्पितवन्तस्तथाऽन्ये117 निवृत्तिमहम्विकल्पयामीत्यप्रतीतावपि
बाह्यसदृशारोपान्यथानुपपत्त्यान्यनिवृत्तिपरं विकल्पाकारे बाह्यरूपमारोप्यत इति
युक्तं । सादृश्यमन्तरेण
वासनाबलादेवाध्यवसितबाह्यरूपस्य विकल्पस्योत्पत्तेः ।
यदाह । तदनुभवाहितवासनाप्रभवप्रकृतेरध्यवसिततद्भावस्वरूपं । तथा विकल्प
वासनायाश्च तादृशी प्रकृतिर्यदेवमेषा प्रतिभातीति ।


नापि बाह्यरूपारोपकस्य ज्ञानस्यान्यवित्तिकृतसारूप्यनिमित्तत्वेप्यन्यनिवृत्ति
विषयत्वं । न हि मरीचिकायां जलज्ञानस्य सादृश्यविषयत्वमारोपि
तजलविषय
त्वात् । न च नियतं रूपं भावानामन्यनिवृत्त्या क्रियते । तस्या अवस्तुत्वेनाकार
कत्वात् । स्वहेतुभ्य एव च ततो118 त्पत्ते ।


नापि नियतरूपावधारणन्तदन्यनिवृत्तिविषयं नियतरूपविषयत्वादस्य
अत एव न तदन्यनिवृत्तिपुरस्सरमेव धार्यते प्रत्यक्षेणैव ।


न च तदन्यनिवृत्तिरर्थान्तरभूता युज्यत
इति वक्ष्यति । नापि स तत्त्वा
न्यत्वाभ्यामवाच्या युज्यते एवं ह्यभाव एवास्याः स्याच्छशविषाणवत् । न च
स्यात् प्रत्यक्षगम्या नीरूपत्वात् । नाप्यनुमानगम्या । सम्बन्धाभावेन लिङ्गस्यासिद्धेः ।

114 नापि नियतरूपान्यथानुपपत्त्या तत्कल्पना । अनियतरूपाणामन्यनिवृत्तेरभावात् ।
44b नियतरूपाणां च कथमन्यनिवृत्त्या नियतरूपत्वं स्वहेतुभ्य एव नियतरू
पाणामुत्पत्तेः ।
तस्मान्नियतरूपावधारणपुरस्सरैवान्यनिवृत्तिः प्रतीयते । तथा हि घट इत्युक्तेऽघटो
न भवतीति सामर्थ्यात् प्रतीयतेऽतो विकल्पकल्पितैवेषा न परमार्थतोस्ति ।


तस्मात् स्थितमेतच्छद्बलिङ्गाभ्याम्विधिरूपेण वस्तु प्रतिपाद्यतेर्थादन्यनिषेघः ।
तंथा च वक्ष्यति तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्त्तनमित्यादि १ । १२८


तेन यदुच्यते कु मा रि ले न ॥


न त्वन्यापो
हकृच्छब्दो युष्मत्पक्षेनुवर्ण्णितः ।

निषेधमात्रन्नैवेह प्रतिभासेव गम्यते ॥

किन्तु गौर्गवयो हस्ती वृक्ष इत्यादि शब्दतः ।

विधिरूपावसायेन मतिः शाब्दी प्रवर्त्तते ॥

तस्माद्येष्वेव शब्देषु नञ्योगस्तेषु केवलं ।

भवेदन्यनिवृत्त्यङ्गः स्वात्मेवान्यत्र गम्यत119 इति

एतत्सिद्धं साध्यते । विधिरूपस्यापि शब्दार्थस्येष्टत्वात् कथन्तर्हि परमताद्
बौ द्ध मतस्य भेदः कथं वा शब्दलिंगयो
रपोहो विषय उच्यते ॥


नन्वस्त्येव महान् भेदः परैः पारमार्थिकार्थविषयत्वेनेष्टस्य विकल्पस्य बौ द्धैः
कल्पितविषयत्वेनेष्टत्वात् । कल्पितश्चाकारोऽपोहाश्रितत्वादपोह उच्यते । अपो
ह्यतेऽनेनेति वा । अन्यनिवृत्तिमात्रं त्वर्थादाक्षिप्तमपोहनमपोह इत्युच्यते
स्वलक्षणं त्वपोह्यतेस्मिन्नित्यपोह उच्यते ।


तस्मादन्यान्यव्यावर्त्त्यवस्तुव्यपेक्षया धर्माः कल्पितभे
दा विकल्पैर्विषयी
क्रियन्ते अतो भिन्नविषया विकल्पास्तत्समानविषयाश्च शब्दा अप्यपर्याया
इति दर्शयितुमाह । तस्मादित्यादि । यतश्चैवं धर्मभेदाः कल्प्यन्ते तस्माद्यः स्वलक्ष
णविशेषो व्यावर्त्तनीयनित्यव्यपेक्षया व्यवस्थापितोऽनित्यलक्षणः । येन धर्मेण
येन शब्देन । यथाऽनित्यशब्देन । शब्दोपि धर्मवाचकत्वाद् धर्म उच्यते । न
शक्यस्ततोन्येन । अनि
त्यशब्दादन्येन कृतकादिशब्देन । व्यावर्त्तनीयान्तर
वस्त्वधिकेन प्रत्येतुं । तेन भिन्ना व्यवस्थितिः । तेन कारणेन विकल्पानां नैक


115 विषयत्वं । शब्दानां च न पर्यायत्वं ।


तेन यदुच्यते ययोस्तादात्म्यन्न तयोर्गम्यगमकभावो ययोश्च विकल्पित
रूपयोर्गम्यगमकभावो न तयोः सम्बन्ध इति


तदपास्तं । अकृतकव्यावृत्तस्यैव स्वलक्षणस्य ज्ञापकहेत्वधिकारात् । कृतक

इति ज्ञातस्य गमकत्वात् तस्य च नित्यव्यावृत्तवस्तुरूपत्वात् तादात्म्यं ।


सर्व एव हीत्यादिनाऽद्वै त वा दं निराकुर्वन् कारिकार्थमाह । स्वरूपे स्वात्मनि
स्थितिर्येषान्ते तथा । सर्व एव हि भावाः स्वरूपस्थितयो नात्मानं परेण मिश्रयन्ति
एकीकुर्वन्ति । किङ्कारणं तस्य मिश्रीक्रियमाणस्य परस्यापरत्वप्रसङ्गात्
आत्मतापत्तेः ।


स्यान्मतं


सर्ववस्तुषु बुद्धिश्च व्यावृत्तानुगमा
त्मिका ।

जायते द्व्यात्मकत्वेन विना सा च न युज्यते

अतः सामान्यात्मका विशेषा विशेषात्मकञ्च सामान्यमित्युभयरूपम्वस्त्वि
त्यत्राप्येकस्य वा रूपस्य भिन्नेभ्योऽभेदो भिन्नस्य चैकस्मादभेदः तत्र प्रथमं पक्षं
निराकर्त्तुमाह । तेषामिति भावानामभिन्नमित्येकात्मभूतमित्यव्यतिरिक्तं यद्रूपं
स्वभावो न तत्तेषाम्भावानामिति शक्यम्वक्तुं । कस्मात्तदानीन्तस्येत्यपे
क्ष्यते । 45a
तस्याभिन्नस्य रूपस्य तेषामभावादभेदादेव ।


अथ पुनरेकस्माद् भिन्नस्याभेदस्तत्राप्याह । तदेव हि स्यादभिन्नस्य भावात्
एकं चेद्रूपं प्रतिपन्नाभावस्तदेवाभिन्नं रूपन्तेषां स्यान्न भिन्नं । कुत एतत् । तस्यै
वाभिन्नस्य रूपस्य भावात् ।


अथ स्यात् तेषाम्भेदोपीष्यत एवेत्यत्राह । तस्मादभिन्नात्मनोर्थान्तरस्य
भिन्नस्य नानारूपस्याभावात्


अथ स्याद् विशेषस्य यो भेद
स्स एव सामान्यस्याभेदाद् । यदाह
सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतो दर्शयित्वाभ्युपेतव्य इत्यत्राप्याह । तंस्यैव
च पुनर्भेदविरोधा
त् । तस्यैवैकस्यानेकत्वायोगात् ।


अथ स्याद् विशेषद्वारेण सामान्यस्य भेदो न स्वरूपस्तदानुगतव्यावृत्त

116 रूपयोः परस्परासंश्लेषादेकान्तेन भेदः स्यात् । तदाह तच्चैकरूपं स्वात्मनि
स्वस्वभावे व्यवस्थितममिश्रमेव
व्यक्तिरूपेण । अमिश्रे च मिश्ररूपतयाप्रतीते
र्मिथ्यात्वमेव ।


अथ कथंचित् सामान्यस्य व्यक्त्यभिन्नत्वान्नैतन्मिथ्यात्वं । तदाह ।


नैतदश्वादिबुद्धीनामध्यारोपाद्यसम्भवात् ।

स्थितं नैव हि जात्यादेर्भिन्नत्वं व्यक्तितो हि न इति ।

तदयुक्तम् एकत्वेन येनैव रूपेण भिन्नन्तेनैवास्याभेदो विरोधान्न चैक
स्मिन् प्रमाणे भेदाभेदं प्रतिभासते । एकेन च भेदग्रहणे सति यद्य
न्येनाभेदो गृह्यते
कथन्तद्ग्राहकं प्रमाणं भ्रान्तं न स्याद् अन्यथा ग्रहणात्तस्य चैकरूपत्वात् ।


यद्वाऽमिश्रणादेवैकस्य रूपस्य सामान्यरूपता न स्यादर्थान्तरत्वाद् घटवत् ।


उ द्यो त क स्त्वाह । गवादिष्वनुवृत्तिप्रत्ययः पिण्डादिव्यतिरिक्तनि
मित्तभावी । विशेषत्त्वान्नीलादिप्रत्ययवत् । तच्च निमित्तं समानव्यक्तिकरणात
सामान्यमित्युच्यते
120


अत्रापि न तावत्समानाना
मर्थान्तरेण समानरूपता क्रियते तथैव निष्पन्नत्वा
प्यसमानानामिति दर्शयन्नाह । अर्थान्तरमिति सत्ता गोत्वादिकं न तेषां
व्यक्तिभेदानां सामान्यमतद्रूपत्वात् । तेषां भेदानामसमानरूपत्वात् । समानानां च
भावः सामान्यमिष्यते ।


अथवाऽतद्रूपत्वाद् व्यक्तिभ्योर्थान्तरत्वादेकत्ववत् । अथार्थान्तरमपि बहुषु
समवेतमिति यदि तत्तेषां सामा
न्यं । तदा द्वित्वादिकार्यद्रव्येष्वपि प्रसंगो द्वित्व
मपि ह्यनेकद्रव्यसमवेतम् आदिग्रहणाद् बहुत्वादिः । तथा संयोगोनेकद्रव्यसमवेतः ।
कार्यद्रव्यं चावयविसंज्ञितमारम्भकद्रव्येषु समवेतमतो द्वित्वादिषु सामान्यरूपता
प्रसंगः । यस्मिन् नार्थान्तरे सति समाना भेदा भवन्ति तदेव सामान्यं न
सर्वमित्यत्राह । न हि । यस्मात् सम्बन्धिनान्येनार्थान्त
रेणैकत्वलक्षणेनान्येऽ
समाना
भिन्ना न समाना नैकीक्रियन्ते भिन्नाभिन्नसमानभावकरणे तदनु
पयोगात् । भिन्नदेशादीनां प्रतिभासनाच्च कथं समाना एव भवन्ति । केवलं
तद्वन्त एक धर्मवन्तः स्युर्भेदाः । भूतानि ग्रहनक्षत्राणि तेषां कण्ठे दीर्घा गुणो


117 र्च्चनार्थं निबध्यते । तेनैकेन कण्ठे गुणेन यथा भूतानि तद्वन्ति न त्वेकीभवन्ति
तद्वद्व्यक्तयोपि ।


ननु गु
णस्य मूर्त्तत्वाद् तद्वत्ता प्रतीतिर्युक्ता । न व्यक्तिषु सामान्यस्यामूर्त्त- 45b
त्वादिति चेत् न । तत्समवेतत्वस्येष्टत्वादर्थान्तरभावस्य च । यतश्चै
कसम्बन्धेपि न समाना व्यक्तयस्तत एव नाभिन्नप्रत्ययविषयाः एकाकारज्ञान
स्याभ्रान्तस्य न विषयाः । भूतवत् । यथा भूतान्यगुणस्वभावानि नैकगुणाकार
प्रत्ययविषयः । तद्वत् । एवन्तावदनेकसम्बन्धेप्यर्थान्तरं न तेषां सामान्यं

द्वित्वादिष प्रसङ्गदिति स्थितं प्रतीयन्ते च समाना इति तस्मात् तदात्मा
मेव हि तयोर्भेदयोरात्मानमेव । एकरूपमिदं द्व्यमित्येकांशेन स्वगतेन संसृजन्ती
बुद्धिः सामान्यविषया प्रतिभास
ते । नैकसम्बन्धिनावित्येकेन सामान्येन सम्ब
न्धिनावेताविति नैवम्बुद्धिः प्रतिभासते येन सामान्यमर्थान्तरम्प्रमाणसिद्धं स्यात् ।
भूतवदिति वैधर्म्यदृष्टान्तः ।
यथा बुद्धिर्भूतान्येकेन गु
णेन सम्बद्धानि गृह्णाति
नैवमित्यर्थः ।


यद्वा यथा भूतान्येकसम्बन्धीनि तथा भिन्नावेकसम्बन्धिनाविति सामान्य
विषया बुद्धिः प्रतिभासत इति नैवं ।


अथ स्यात् सामान्यं हि व्यक्तीनाम्विशेषणं । विशेषणं च विशेषे स्वानु
रक्तां बुद्धिं जनयत्यतो नास्य व्यक्तिभ्योर्थान्तरभावेन प्रतिभासः ।


ननु विशेषणत्वेपि तस्य न विशेष्येण स
हैक्यं दण्डस्येव दण्डिना तत्कथमभेद
प्रतिभासः । अभेदांशेनाप्येकत्वान्न विशेषणविशेष्यभावः । तस्मात् सामान्यस्य
व्यक्त्यभेदप्रतीतिर्भ्रान्तिरेव ।


अथ सर्वदैवं प्रतीतेरभ्रान्तिः । तदाह ।


यो ह्यन्यरूपसंवेद्यः सम्वेद्येतान्यथा पुनः ।

स मिथ्या न तु तेनैव यो नित्यमवगम्यत इति

तदयुक्तं । तस्य व्यक्त्यभिन्नत्वमेव स्यात् । गोर्गोत्वमिति प्रतीतिभे
दा
भ्युपगमाच्च । न च लाक्षास्फटिकयोरिव जातितद्वतोः संसर्गावगतिरभ्रान्तिः ।
अलाक्षारूपस्य स्फटिकस्य लाक्षारूपेण गतेर्भ्रान्तत्वात् । एवं जातितंद्वतोरेकत्व
118 ग्रहो भ्रान्तिः । सामान्यं केवलं पश्यत्येव बुद्धिः । तस्यास्तु तर्द्दर्शिन्याः समवायस्य
सूक्ष्मत्वात् सा भ्रान्तिर्यदेतद् व्यक्तीनां सामान्याभेदेन ग्रहणमिति चेत् । तद्दर्शिनी
ति कुतः
पारमार्थिक
सामान्यदर्शिनी सा बुद्धिरिति कुतो निश्चयः सर्वदास्या
व्यक्त्यभेदविषयत्वात् । नास्या बीजमस्तीति निर्बीजा तथा चासौ भ्रान्तिश्च
तस्या अयोगात् । न हि भ्रान्तिरुत्पद्यमाना निर्निमित्ता घटते । जलादिभ्रान्ति
वत् । भ्रान्तिश्चेयमसंसृष्टानपि भावान् संसृजन्ती बुद्धिरतोस्या निमित्तेन भवितव्यं
यत्तन्निमित्तन्तत् सामान्यमित्यत्राह । त एव भेदास्तत्सामान्यज्ञा
नाद्येकङ्कार्यं
येषान्ते तदेककार्या बीजं भ्रान्तेः । एतच्च प्रतिपादयिष्यते ।


न च सामान्यं दृष्टातदारोपेण व्यक्तिष्वेकाकारा भ्रान्तिर्युज्यते । तथा हि
सादृश्यं भ्रान्तिकारणमत्यन्तविलक्षणं च सामान्यं व्यक्तिभ्यस्तस्यावर्ण्णसंस्था
नाकारत्वाद् व्यक्तीनां च वर्ण्णसंस्थानाकारत्वात् ।


अथ स्यात् न सामान्यस्य सादृश्यनिमित्तो भेदेष्वारोपोपि त्वेकान्तेन
46a भिन्नेषु स एवायमित्ये
कत्वावसायविभ्रमो नैकरूपमन्तरेणेति ब्रूमः । यद्येवमेकेन
सम्बन्धिन इत्येव कृत्वा विनापि भ्रान्तिनिमित्तेन यद्येकाकारभ्रान्तिविषया
भवन्ति । तदा संख्या च संयोगश्च कार्यद्रव्यं चादिशब्दाद् विभागादि चैकम्वस्तु
विद्यते येषान्ते तद्वन्तस्तेषु भूतेषु चैकगुणेन युक्तेषु स्यादेकाकारा भ्रान्तिः
च भवति अतो व्यक्तीनामपि नैकत्वनिमित्ता भ्रान्तिरिति । तदिति त
स्माद्
यथा व्यक्तिभ्यो भेदेनेष्टं सामान्यं तथा सामान्यबुद्धौ निवेशाभावात् प्रतिभासाभा
वान्न सामान्यमन्यत् । सति वा सामान्ये तस्यापि सामान्यस्य स्वात्मनि
स्वस्मिन् स्वभावेऽवस्थानादमिश्रणमन्येन व्यक्तिरूपेण । व्यक्तिष्वनवस्थानान्न
धर्मरूपत्वन्तस्येत्यर्थः । तस्मादिति स्वस्वभावव्यवस्थानाद् इमे भावा घटादयः
सजातीयाभिमतात् तुल्याकारत्वेना
भिमताद् अन्यस्माच्चेति विजातीयादि
व्यतिरिक्ताः पृथग्भूताः स्वभावेन प्रकृत्यैकरूपत्वात् । स्वस्वभावव्यवस्थितेरिति
यावत् ॥


द्वितीयकारिकार्थमाह । यतो यतो भिन्नास्ते भावास्तस्माद् भेदस्तद्भेदः ।
तस्माद् भिन्नाः स्वभावास्तस्य प्रत्यायनाय प्रतिभिन्नस्वभावं कृतसन्निवेशैः शब्दैः

119 कृतसंकेतैः शब्दैः करणभूतैरनेकधर्माणः कृतकत्वादिधर्म्म
न्तः प्रतीयन्ते स्वभावा
भेदेपि । न ह्येकस्य स्वलक्षणस्य स्वभावनानात्वमस्ति । कथन्तर्ह्यनेकधर्मत्वमित्याह ।
ततस्ततो भेदमुपादायेति यतो यतो व्यावृत्तास्ततस्ततो भेदमुपादायाश्रित्य
तेपि शब्दा ये तस्य तस्य भेदस्य भिन्नस्वभावस्य ख्यापनाय कृतसंकेतास्तेष्वस्मिन्
भिन्ने स्वभावे वाचकत्वेन नियताः ततो नैकः शब्दः सर्वान् भिन्नस्व
भावानाक्षि
पत्यतस्तेपि शब्दाः प्रत्येकन्तैः सर्वभेदानाक्षेपेपि । एकभेदचोदनादेकैकस्य भिन्नस्य
स्वभावस्य चोदनात्तत्स्वलक्षणनिष्ठा एव भवन्ति । यस्य स्वलक्षणस्य स स्वभावो
न्यस्माद् भिन्नो यः शब्देनाध्यंवसीयते । तच्च तत्स्वलक्षणं च । तन्निष्ठा एव
तद्विषया एव भवन्ति ।


ननु बाह्यतयाध्यवसितोर्थः शब्दप्रतिभासी साधा
रणोन्य एवान्यच्च साधारणं
स्वलक्षणन्तत्कथन्तन्निष्ठा इत्यत्राह । तदेकस्मादपि यतो यतो व्यावृत्तोर्थः शब्दै
र्विषयीक्रियते तस्मात्तस्मादतत्कारणादतत्कार्याच्चैकस्मादपि तस्य स्वलक्षणस्या
नकव्यावृत्तस्य भेदोस्तीति कृत्वा तद्विषया उच्यन्ते न तु तद्विषया एव । यद्वा तस्य
व्यावृत्त्याश्रयस्य धर्मस्य यत् स्वलक्षणन्तन्निष्ठा एव त
त्प्राप्तिपर्यवसाना एव
भवन्ति । किं कारणं तदेकस्मादपि तस्य भेदोस्तीति व्याख्यातमेव ।


उपसंहरन्नाह । तस्मादिति । यस्मात् सजातीयविजातीयाद् व्यावृत्तिस्त
स्मादेकस्य भावस्य यावन्ति पररूपाणि तावत्यस्तदपेक्षया । पररूपापेक्षया । पररू
पेभ्यो व्यावृत्तयः क
ल्पिता धर्मभेदाः । व्यावर्त्तते विजातीयमेभिरिति कृत्वा 46b
किं कारणं तस्मिन् व्यावर्त्त्येऽवधिभूते धर्मिण्यसम्भवि कार्यं कारणं च यस्य
विवक्षितस्य धर्मिणः स तदसम्भविकार्यकारणस्तस्य तद्भेदात् । तस्मादतत्कार्या
दतत्कारणाच्च भेदाद् व्यावृत्तत्वात् । यावत्यश्च व्यावृत्तयस्तावत्यः श्रुतयो निवे
120 शिता अतत्कार्यकारणपरिहारेण व्यवहारार्थाः । तद्विवक्षितं कार्यं कारणं
च यस्य
स तत्कार्यकारणः । यथा श्रोत्रविज्ञानकार्यः शब्दः प्रयत्नकारणश्च स तथा यो न
भवति सोऽतत्कार्यकारणस्तस्य परिहारेण व्यवहारार्थाः प्रवृत्तिनिवृत्तिलक्षणो व्यव
हारोर्थः फलं यासामिति विग्रहः ।


विषयमाह । प्रयत्नः कारणं यस्य स प्रयत्नानन्तरीयक उच्यते । तेनाऽतत्का
रणस्याऽप्रयत्नकारणस्य विद्युदादेः परिहारार्थः प्र
यत्नानन्तरीय
कध्वनिः । श्रोत्र
ज्ञानं कार्यं यस्य तछ्रावणन्तेन श्रावणध्वनिरतत्कार्यपरिहारार्थः । सर्वव्यवहाराणां
चार्थक्रियानिमित्तत्वात् । हेतुफलभावलक्षणत्वाच्चार्थक्रियाया घटादिशब्देष्वपि
तदतत्कार्यकारणपरिहार्थत्वं योज्यं ॥


तस्मादित्यादिना तृतीयश्लोकं व्याचष्टे । यस्माद् भिन्ना व्यावृत्तिभेदाः
श्रुतयश्च यथास्वम्भेदे नियतास्तस्मा
देकस्य धर्मिणः स्वभावाऽभेदेपि । धर्मिणे
त्यस्य विवरणं नाम्नेति शब्देनेत्यर्थः । यो विशेष इत्यस्यार्थो भेदः कृतकादिलक्षणो
धर्मः कल्पितः प्रतीयते । न स शक्यस्ततोन्येन । तस्माद् विवक्षितात् कृतकादिश
ब्दादन्येनानित्यादिशब्देन प्रत्याययितुन्तस्मान्न प्रतिज्ञार्थेकदेशो हेतुरनित्यकृतक
शब्दयोर्भिन्नार्थत्वात् ॥


कथमित्यादि परः ।
शब्दश्च लिङ्गश्च ताभ्यां । यद्यपीह लिङ्गं प्रकृतन्त
थापि शब्दस्योपादानं लिङ्गवत् निर्विषयत्वख्यापनार्थन्तेन वे द स्य प्रामाण्यं
निराकृतम्भवति ।


ननु विधिरूपेण शब्दलिंगे अर्थः प्रतिपाद्यत इत्युक्तन्तत्कथमिदमाशंकितं
व्यवच्छेदः प्रतिपाद्यत इति कथं गम्यत इति ।


नैतदस्ति । व्यवच्छिद्यतेनेनेति व्यवच्छेदो बाह्यरूपतयारोपित ए
वाकार
उच्यते । तेन स एव शब्दलिङ्गाभ्यां विधिना प्रतिपाद्यते न वस्तुरूपमिति कुतो
गम्यते । यद्वा व्यवच्छिद्यतेस्मिन्निति व्यवच्छेदः । स्वलक्षणमुच्यते । स एव
121 शब्दलिंगाभ्यां विधिना
विधिरूपेण प्रतिपाद्यतेऽध्यवसीयते पुनर्वस्तुनो रूपं
पारमार्थिकधर्मधर्मिभावलक्षणं प्रतिपाद्यत इति कुतो गम्यते ।


प्रमाणान्तरस्येत्यादि प्र
तिवचनं । तेनायमर्थो यदि तावत् पारमार्थिको
धर्मधर्मिभावः सर्वात्मनाऽभिन्नस्तदैकेन प्रमाणेन शब्देन वाधिगतेर्थे सर्वात्मना
परिच्छेदादन्यस्य प्रमाणान्तरस्य शब्दान्तरस्य वा प्रवृत्तिः स्याद् गृहीतग्राहित्वेना
प्रामाण्यात् । भवति च शब्दान्तरादेः प्रवृत्तिरतः कल्पित एव धर्मधर्मिभावः ।


यद्यपि पूर्वसामान्यनिराकरणा
देव कल्पितो धर्मधर्मिभावः प्रसाधितस्तथापि 47a
प्रकारान्तरेणानेनापि प्रसाध्यत इत्यदोषः । एतमेव प्रतिपादयन्नाह । तथा हीत्यादि ।
एकस्येति । धर्मधर्मिविभागरहिततत्वान्निरंशस्यार्थस्वभावस्यार्थात्मनः स्वयंस्वरूपेण
प्रत्यक्षस्य सतः कोन्यो न दृष्टो भागः स्यात् प्रत्यक्षदृष्टात् स्वभावात् कोन्यः
स्वभावो न दृष्टः स्याद् यः प्रमाणैरनुमानसं
ज्ञकैः परीक्ष्यते व्यक्तिभेदाद्
बहुवचनं । सर्व एव दृष्टो निरंशत्वाद् भावस्य तस्मान्न प्रमाणान्तरपरीक्ष्यः स्यादिति ।
एक इत्यादि विवरणं । एको ह्यर्थात्मा निरंशः स तावत् प्रत्यक्षोभ्युपगन्तव्यः
यत्रानुमानं प्रवर्त्तते । किं कारणं प्रमाणेन प्रागसिद्धे धर्मिणि साधनासम्भवात्
आश्रयासिद्धत्वेन लिंगस्यासम्भवात् तस्मात् प्रसिद्धेन धर्मिणा भा
व्यं ॥


एतदुक्तम्भवति । लिङ्गस्यैव प्रवृत्तिर्न स्यात् किं पुनर्लिंगिनिश्चिता प्रमाणा
न्तरस्य प्रवृत्तिर्भविष्यति । यथाऽनित्ये साध्ये शब्दः प्रत्यक्षसिद्धस्तस्य प्रत्यक्षेणैव
प्रमाणेन स्वरूपसिद्धेः कारणात् सर्वाकारसिद्धिः । कस्मात् तदन्यस्यासिद्धस्य
शब्दस्वभावादन्यस्य स्वभावस्यासिद्धस्याभावात् । भावे वाऽसिद्धस्य स्वभावस्य
अतत्स्वभावत्वमशब्दस्वभावत्वं ।
सिद्धासिद्धयोरेकस्वभावत्वविरोधात् ।


तदेवाह । न हीत्यादि । अलब्धधर्मानुवृत्तिर्योगः । लब्धधर्मानुवृत्तिः क्षेमः ।
एको योगः क्षेमश्च यस्य स तथा । तुल्यधर्मेति यावत् । यः स्वभावो येन सदैक
कयोगक्षेमी न भवति स भिन्नयोगक्षेमः । तत्स्वभावो यतो भिन्नयोगक्षेमस्तस्य

122 स्वभावो न युक्
तः । तन्मात्रनिबन्धनत्वाद् भेदव्यवहारस्य नानात्वं व्यवस्थायाः ।


अन्यथेति यद्येतद् भेदकारणं नेष्यते तदाभेदव्यवहारस्याभावप्रसङ्गादित्युक्तं
एष हि भेदाभेदहेतुर्वेत्यत्र प्रस्तावे । यत एवन्तस्मात् प्रत्यक्षे धर्मिणि शब्दादौ ।
तत्स्वभावसाकल्यपरिच्छेदात् । धर्मिस्वभावस्य साकल्येनावगमात् तत्र धर्मिणि ।
अनवकाशा निर्विषयी प्रमाणान्तरस्यानुमानस्य वृत्तिः


तवापि तुल्यो दोष इति चेदाह
नो चेत्यादि । भ्रान्तिनिमित्तेन सदृ
शापरोत्पत्त्यादिना कारणभूतेन विकल्पबुद्ध्या संयोज्येत समारोप्येत गुणान्तरं ।
स्थिर
त्वादि । वा शब्द इवार्थे । शुक्ताविव रजताकारः संयोज्येत । कथं । रजत
रूपेण शुक्तिकारूपस्य यत्साधर्म्य चैकचिक्यादि । तस्य दर्शनात् । अनवधारि
तविशेषं शुक्तिकारूपमेव सदृशप्रत्ययनिबन्धनत्वाद् रूपसाधर्म्यमुक्तं
न तु साधर्म्यं
नाम द्वयोः साधारणमस्ति ।


एतदुक्तम्भवति । यदि भ्रान्तिनिमित्तेन गुणान्तरन्न संयोज्येत भवेत् ममापि
दोषः किन्तु समारोप्येत । ततः समारोपव्यवच्छेदार्थम्प्रमाणान्तरं प्रवर्त्तते । तेना
यमर्थानुभूतनिश्चिते प्रमाणान्तरस्य गृहीतग्राहित्वेनाप्रवृत्तिः स्यात् । समारोपेण
47b त्वनुभूतानिश्चिते तत्समारोपव्यवच्छेदा
र्थं प्रमाणान्तरमनुमानं प्रवर्त्तत इत्येके ।


तदयुक्तं । लिङ्गस्य व्यवच्छेदेने सह सम्बन्धासिद्धेः । नापि यावद्धेतुना पूर्वं
पक्षव्यवच्छेदो न क्रियते तावत् सन्दिग्धा साध्यप्रतीतिः स्याद्धेतोः साध्येन सम्बन्धात् ।
यत्र च न साध्यं न तत्र तद्विपक्षो विरोधात् । तस्माल्लिङ्गं स्वव्यापकं विधिरूपेण
निश्चिन्वदर्थादन्यसमारोपं निषेधति ॥


नन्वेवमपि कथन्तन्निषेधः क्षणिकत्वानुमाने
पि प्रवृत्तेऽक्षणिकारोपात् ।


सत्यं केवलमनुमानेनाक्षणिकार्थनिषेधे कृते नायमक्षणिकाकारः प्रत्यय
स्तज्जन्योपि तु सदृशापरोत्पत्तिजन्यत्वेनारोपित इति प्रतिपाद्यते । तस्मात्
तस्यैवानुभूतानिश्चितस्य क्षणिकत्वादेर्निश्चयानुमानं प्रवर्त्तते । यत्रापि विपरीत
समारोपो नास्त्यभ्यासादेरंभावाच्च नानुभवो निश्चयजननसमर्थो न तत्रापि
निश्चया
र्था प्रमाणान्तरवृत्तिरेकांशनिश्चयेन सर्वात्मना निश्चितत्वात् । न च
तद्वस्तु प्रतिभासते यस्य न कश्चिदपि स्वभावो निश्चितः । तस्मात् तत्राप्ये

123 कप्रमाणप्रवृत्तावपरस्याप्रवृत्तिः स्यादेवेति ।


यदीत्यादिना विवरणं । दृष्टं सर्वन्तत्त्वं स्वरूपं यस्येति विग्रहः । तथा
निश्चयप्रतिरोधिना यथादृष्टनिश्चयविबन्धकेन भ्रान्तिनिमित्तेन सदृशापरो
त्पत्तिलक्षणेन । गुणा
न्तर
स्थिरत्वादि । न संयोज्येत । नारोप्येत । यथा शुक्तौ
विशिष्टरूपेण गृहीतायामपि शुक्लसाधर्म्याद् रजताकारः संयोज्येत । तदा
स्यादनवकाशा प्रमाणान्तरवृत्तिः


स्यान्मतं न शुक्तौ विशिष्टरूपग्रहे रजतसमारोपः किन्तु यद्रजतरूपसामा
न्यन्तद्दृष्टेरेवमध्यवसाय इत्यत्राह । न हीति । न हि शुक्तौ द्वे रूपे सम्भवतः
एकं रजतेन समानं रूपं अप
रम्विशिष्टमवधारणं । किं कारणं । तथा सामान्य
विशेषरूपेण शवलाभासायाः प्रतिपत्तेः सर्वदा प्रसङ्गात् । अप्रतिपत्तौ वा विवेकेनेति ।
इदं सामान्यमयं विशेष इत्येवम्विवेकेन विभागेनाप्रतिपत्तौ द्वित्वविकल्पायोगात्
शुक्तौ द्वे रूपे इति कल्पनाया अयोगात् । प्रतिभासभेदमन्तरेण द्वित्वकल्पनाया
मतिप्रसङ्गात् । अन्यत्राप्येक
त्वाभिमते द्वित्वकल्पना स्यात् । नेदं रजतमिति
बाधकस्यानुत्पादप्रसंगाच्च । तस्माच्छुक्तौ रूपद्वयायोगात ।


पश्यन् शुक्तिरूपं पुरुषो विशिष्टमेव स्वलक्षणमेव पश्यति न सामान्यं ।
अभ्यासादयो निश्चयप्रत्ययास्तेषाम्वैफल्यात् त्वनिश्चिन्वन् द्विविशिष्टं
शुक्तिकारूपन्तत्सामान्यं रजतरूपसामान्यम्पश्यामीति मन्यते । तत इति रजत
रूपसामान्यग्रहणाभिमाना
दस्य द्रष्टुः शुक्तौ रजतसमारोपः । यद्वा शुक्ति
कारजतयोर्यत्सामान्यं तुल्यं रूपन्तत्पश्यामीति मन्यते ततो रूपदर्शनादस्य द्रष्टू
रजतसमारोपः । तथा हि यादृशमेव मया रजतस्य रूपं प्रतिपन्नन्तादृशमेवास्यापि
रूपन्तस्मात्तदेवेदं रजतमिति प्रतीतिः । यथा शुक्तौ रजतसमारोपस्तथा दृष्टे
शब्दादौ धर्मिणि सदृशापरापरोत्पत्त्या
दृशस्य द्वितीयस्य क्षणस्योत्पत्त्या भ्रान्ति- 48a
निमित्तेन पूर्वोत्तरक्षणयोरलक्षितनानात्वस्य पुंसस्तद्भावसमारोपात् सत्तासमारो
124 पात् स्थितिभ्रान्तिः । तस्माद् यावन्तोस्य शब्दादेः क्षणिकानात्मादिस्वभावस्य
परभावा नित्यादयस्तावन्त एव यथास्वनिमित्तभाविनः यस्य यदनुरूपं निमित्तन्त
द्भाविनः समारोपा
इति । तद्व्यवच्छेदकानि
तस्य समारोपस्यार्थाद् व्यवच्छेद
कानि भवन्तीत्युत्पद्यमानानि प्रमाणान्यनुमानसंज्ञितानि । व्यक्तिभेदाद् बहुवचनं ।
सफलानि स्युः सार्थकानि स्युः । तेषान्तु व्यवच्छेदफलानां समारोपप्रतिषेधफलानां
प्रमाणानां । नाप्रतीतस्य वस्त्वङशस्य वस्तुभागस्य प्रत्यायने प्रकाशने प्रवृत्तिः
तस्य वस्त्वंशस्य निरंशे धर्मिणि दृश्य
माने दृष्टत्वात् । किं कारणम् अनंशस्ये
कदेशेन दर्शनायोगात्


यत एवन्तस्मात् प्रत्यक्षेण दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः
समस्तः स्वभावस्तथापि भ्रान्त्तेः सद्भावान्निश्चीयते नेति कृत्वा तन्निश्चयार्थं
साधनमनुमानं विधिरूपेणैव प्रवर्त्तत इति स्पष्टमेवोक्तं ।


तस्मान्नादृष्टग्रहणार्था दृष्टे प्रत्यक्षेण प्रमाणान्तरस्य किन्तर्हि दृष्ट
निश्चया
चैव प्रवृत्तिरित्यनेनापि विध्यर्थः । स्पष्ट एवोक्तोन्यनिषेधस्त्वर्थात् ॥


वस्तुग्रह इत्यादि । चकारः प्रत्यक्षापेक्षया समुच्चयार्थः । अनुमानेन च
वस्तुग्रहेङ्गीक्रियमाणे । शब्दादिधर्मिणो धर्मस्यैकस्य कृतकत्वादिलक्षणस्य निश्च
येन निरंशत्वाद् धर्मिणः सर्वधर्मनिश्चयस्तदा नित्यत्वाद्यनुमानान्तरवैफल्य
मित्याकूतं ।


125

अपोहो बाह्यतया आरोपित आकारो
पोह्यतेऽनेनेति कृत्वा । तस्मिन्ननु
मानेन प्रतिपाद्येङ्गीक्रियमाणे यद्वापोह्यतेस्मिन्नित्यपोहः स्वलक्षणं तस्मिन्
स्वाकाराभिन्नतयाऽनुमानग्राह्येऽभ्युपगम्यमाने नायमनन्तरोक्तो दोषः प्रसज्यते


न केवलमित्यादि विवरणं । क्वचित् प्रत्यक्षदृष्टे धर्मिणीति सम्बन्धः ।
कस्मिँश्चित् प्रत्यक्षदृष्टे धर्मिणीत्यर्थः । न सर्वो धर्मी प्रत्यक्षो भवतीति क्वचिद्
ग्र
हणं । अनन्तरोक्तेन न्यायेन प्रमाणान्तरावृत्तिः


तदानुमानमपि वस्तु शब्दादिकं विधिना प्रत्यायतीष्यते वस्त्वध्यवसायेनार्थान्न
समारोपव्यवच्छेदकृत् । तदेति विधिरूपेण वस्तुस्वरूपग्रहणे । एकधर्मनिश्चये सति
तदव्यतिरेकान्निश्चितधर्माव्यतिरेकात् सर्वधर्मनिश्चय इति प्रमाणान्तरावृत्ति
रनुमानान्तराप्रवृत्तिः । सत्यप्यव्यतिरेके । न सर्व
धर्मनिश्चय इति चेदाह ।
न हीत्यादि । तस्मिन्निति प्रथमानुमाननिश्चिते धर्मे । तदात्मेति । निश्चित
धर्मात्मा सन्ननिश्चितो न हि युक्तः ।


अपोहे नायन्दोषः प्रसज्यत इत्येतद्विवृण्वन्नाह । यदा पुनरित्यादि । यदा
पुनरनुमानेन वस्त्वध्यवसायं कुर्वताऽर्थात् समारोपव्यवच्छेदः क्रियते न तु साक्षा
ज्ज्ञापकत्वादस्य । तेनैतन्निरस्तं समारोपव्यवच्छेद
एव व्यवहारादन्यार्थ- 48b
प्रवृत्तिर्न स्यादनुमानेनानिश्चितत्वादिति । तदैकेन कृतकानुमानेनैकस्याकृतक
समारोपस्य व्यवच्छेदादन्यस्य नित्यसमारोपस्य व्यवच्छेदः कृतो न भवतीति कृत्वा ।
तदर्थमन्यसमारोपव्यवच्छेदार्थमन्यदित्यनित्यत्वाद्यनुमानं प्रवर्त्तते । तस्मान्न
विकल्पानां स्वरूपेण बाह्यो ग्राह्योऽपि तु स्वाकारेण सहैकीकृत एव बाह्यो विषयः
स चास
त्योऽपोह्यतेऽन्यदनेनेति अपोह उच्यते ॥


स्थिते चैवम्परोनवगताभिप्रायः प्राह । नन्वित्यादि । पूर्वन्तद्विपरीताकार
समारोपी विपर्यासः प्रवर्त्तते । ततस्तद्विपर्यासपूर्वकोप्रतीतस्यार्थस्य लिङ्गान्नि
श्चयो भवतीति नायन्नियमो विपर्यासरहितेप्यनुमानसम्भवात् । तदाह । यथे

126 त्यादि । अकस्मादित्यतर्क्कितोपस्थितात् । सहसैव क्वचित्प्रदेशे धूमा
ग्निप्रति
पत्तिः । न हि तत्रे
त्यकस्मादग्निप्रतिपत्तावनग्निसमारोपः सम्भाव्यते । तदिति
तस्मान्न सर्वत्र व्यवच्छेदः क्रियतेऽर्थादित्यनुमानेन ।


उक्तमित्या चा र्यः । अत्र हि वस्तुस्वरूपग्राहकत्वेनानुमानस्य प्रवृत्तावुक्त
मुत्तरं । प्रत्यक्षेण धर्मिप्रतिपत्तौ तद्धर्माणां धर्मिणः सकाशादभेदात् सर्वप्रपितत्तेर
नुमानवैफल्यमिति । धर्मिणः सकाशाद् ध
र्मस्य भेदे वाभ्युपगम्यमाने धर्मिणा सह
न तादात्म्यलक्षणः सम्बन्धो भेदाभ्युपगमात् । न चानित्यत्वादीनां धर्मिस्वरूपा
दुत्पत्तिर्न चानित्यत्वादिभ्यो धर्मिण उत्पत्तिः । ततश्चासम्बद्धस्य धर्मस्य तत्र
र्मिण्यप्रतिपत्तिरित्येतदप्युक्तं । अहेतुफलभूतस्य तत्रानुमानासम्भवादित्यत्रान्तरे ।
यत एवन्तस्मात् तत्राप्यकस्माद् धूमदर्शनादग्निप्रतिपत्तौ । तद्द
र्शिनः
प्रदेशदर्शिनः
पंसस्तत्स्वभावानिश्चयोग्निमत्त्वस्वभावानिश्चयोस्त्येव । स चानियतः कृतो
विपर्यासादेवा
नग्निमता प्रदेशेन तुल्यत्वग्रहणादेव ।


एतदेवाह चेत्यादि ।


यद्वा तत्स्वभावानिश्चयः कुतः किन्तु निश्चय एव स्यादविपर्यासात् ।
भवति चानिश्चयः तस्मान्न धर्मिप्रतिपत्तिर्वस्तुस्वरूपग्राहिणीत्यपोहविषया ।


किञ्च । स चेत्यादि । स चे
ति पुरुषस्तद्विविक्तेनेति वह्निविवेकेन तं प्रदेश
मग्निमन्तमपि तद्विविक्तेन रूपेण निश्चिन्वन् बुद्ध्या । किम्भूतया । अग्निसत्ता
भावनाविमुक्तया
। अग्निसत्तासम्भावनारहितया कथमविपर्यस्तो नामविपर्यस्त
एवातस्मिँस्तद्ग्रहात् तथा हि यावत्तत्र प्रदेशे धूमन्न पश्यति ताव
दन्येनाग्निरहितेन प्रदेशेन सदृशन्तमप्यध्यवस्यति । यदि नाम क्वचिदनु
भव
योगे सति यदीह निश्चयस्तथापि तत्र संशयेन भाव्यं संशयश्चोभयांशावलम्बी ।
स च पक्षे तद्विपरीतं संस्पृशत्येवातः संशयव्युदासेप्यन्यव्यवच्छेदः कुतो भवत्येव
लिङ्गेन । अवश्यं च लिङ्गादेवानुमेयं प्रतिपद्यमानस्तंत्रानुमेये विपर्याससंशयाभ्यां
युक्तो भवति । यस्मात् तदाकारसमारोपसंशयरहितश्च । अनग्न्याकारसमारोपे


127 संशयेन च रहितश्च पुरुषस्तत्प्रतिपत्तौ अग्निप्रतिपत्तौ न लिङ्गमनुसरेत् । न पक्षधर्मं 49a
समाश्रयेत् । तथा न तस्य लिङ्गस्यान्वयव्यतिरेकयोराद्रियेत । यावतानुसरे
दाद्रियते च । तस्मात्तदाकारसमारोपसंशयवान् प्रतिपत्ता लिङ्गबलेन समारोपमपन
यति क्वचित्संशयमतः सर्वत्र स्वव्यापकप्रतिपत्तिद्वारेण समारोपव्यवच्छेदः क्रियते ।


तस्मा
दपोहविषय
मन्यव्यवच्छेदविषयं । इत्युक्तेन प्रकारेण न तु साक्षात् ।
अन्यथेति यदि समारोपमन्तरेणानुमानस्य प्रतिपत्तिरिष्यते । तदा केनचित् प्रमाणेन
धर्मिणः सिद्धौ किमसिद्धन्तस्य धर्मिणो रूपमतः सिद्धात् स्वभावात् परमन्यदस्ति
यस्य प्रत्यायनाय लिङ्गं प्रवर्त्तेत ॥


ननु संशयविपर्ययोत्पादे सति भागः स्यात् । यदाह न चेमाः कल्प
ना
अप्रतिसम्विदिता एवोदयन्ते व्ययन्ते चेति । नापि तत्प्रतिपत्तौ लिङ्गानुसरणेन
तदाकारसमारोपसंशयः शक्यते कल्पयितुन्निश्चयानुत्पत्तिपक्षेपि साध्यनिश्च
यार्थं लिङ्गानुसरणस्य सम्भवात् ।


अन्यथा धर्मिणः सिद्धावसिद्धं किमतः परम्

इत्यनेनापि धर्मिविषयस्य ज्ञानस्य कल्पितविषयत्वं स्यात् । न तु धर्मिणि
समारोपः सिध्यतीति कथ
न्तदनुमानस्यार्थात् समारोपव्यवच्छेद इति ।


सत्त्यं किन्त्वयमभिप्रायः न यावत् पक्षधर्मत्वनिश्चयो न तावदनुमान
स्योत्थानमस्ति हेतोरसिद्धत्वात् । अग्निमति च प्रदेशे प्रदेशमात्रसम्बन्धितया
यो धूमस्य निश्चयोऽयमेव विपर्यासोऽन्यथावधारणात् । न ह्यत्राग्निर्नास्तीत्येवं
रूप एव विपर्यासः साग्नेः प्रदेशादयमन्य इत्येवं रूपस्यापि
र्षि121प्रत्ययस्य विपर्या
सात्तेनात्राप्यनुमाने साग्निरयं प्रदेशो न प्रदेशमात्रमिति समारोपनिषेधोस्त्येव ।


भवतु तावत् समारोपे तद्व्यवच्छेदाय स्वविषये प्रवर्त्तमानं लिङ्गमन्यापोहकृत् ।
यत्पुनरिदं प्रत्यक्षपृष्ठभावि विकल्पविज्ञानन्तदसति समारोपे भवत् कथमन्यापोह
कृत् । अवश्यं च तदन्यापोहविषयमेष्टव्यं सामान्यविषयत्वादन्यापो
हलक्षणत्वाच्च
सामान्यस्य भवतान्दर्शनेनेति



128

अत आह । क्वचिदित्यादि । कस्मिँश्चिद्रूपादौ दृष्टेपि प्रत्यक्षेण । तत्पृष्ठ
भावि यज्ज्ञानं सामान्यार्थं सामान्यविषयमत एव विकल्पकं । असमारोपितः
अन्याङ्शः प्रतियोग्याकारो यस्मिन् विषये स तथा तत्र प्रवर्त्तमानन्तदपि तन्मात्रा
पोहगोचरं
। तेनायमर्थो भवति समारोपरहितं स्वलक्ष
णं स्वाकारभेदेन
गृह्णन् विकल्पकं ज्ञानम्भ्रान्तत्वात् तत्समारोपरहितबाह्याध्यवासायकमेव न तु
बाह्यस्वरूपग्राहकम् अतस्तन्मात्रमेव नियतबाह्यावसाय एवान्यस्य समारोप
स्यापोहगोचरम्विकल्पकं ज्ञानं ।


यद्वा असमारोपितश्चासावन्यांशश्च तस्मिन् सति विकल्पकं ज्ञानं प्रवर्त्तमान
49b न्तन्मात्रापोहगोचरं । योसावसमारोपितोन्याङ्शस्तन्मात्रव्यव
च्छेदविषयम्भवति ।


एतदुक्तम्भवति । यत्रापि समारोपः प्रवृत्तो न तत्रापि समारोपनिषेधः शब्द
लिङ्गाभ्यां प्रतिपाद्यते सम्बन्धाभावादत एवायं न क्रियतेऽहेतुत्वाच्च नाशस्य । केवलं
पूर्वकस्य समारोपस्य स्वरसनिरोधात् । शब्दलिङ्गाभ्यामनित्यादिनिश्चये सत्यन्यस्य
समारोपस्यानुत्पादे सति समारोपनिषेधः कृतो भवति । तथा प्रत्यक्षदृष्टेप्यन्य
विक
ल्पस्य समारोपव्यवच्छेदः केन वार्यते । तेन न पूर्वत्रान्यादृश एव समारोप
व्यवच्छेद उक्तोऽधुनान्यादृश एवोच्यत इति भिन्नवाक्यता ।


तेनेदं च निरस्तं


प्रागगौरिति विज्ञानं गोशब्दश्राविणो भवेद्

येनागोव्यवच्छेदाय प्रवृत्तो गौरिति ध्वनिरि122ति ।

यदा शब्दलिंगयोः स्वविषये निश्चयजननेनान्यनिषेधे व्यापारः कल्प्यते ।
तदा विधिरूपेणैव प्रवृत्ति
रिति सिद्धं । तेन

यदि गौरित्ययं शब्दः समर्थोन्यनिवर्त्तने ।

जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिरिति

निरस्तं ।


तथा यदप्युच्यते ।


यद्यप्पोह विनिर्मुक्ते न वृत्तिः शब्दलिंगयोः ।

युक्ता तथापि बोधस्तु ज्ञातुर्वस्त्ववलम्बत 123इति



129

तदिष्टमेवास्माकं । शब्दलिंगप्रतिपादितस्य चार्थस्यान्यनिषेधे व्यापारो न
शब्दलिङ्गयोः ।


तेन यदुच्यते कु मा
रि ले न निषेधस्य निरूपत्वाद् भेदाभावाच्च न
लिङ्गलिङ्गिभावः नापि शब्दवाच्यत्वं ।


न गम्यगमकत्वं स्यादवस्तुत्वादपोहयोः ।

भवत्पक्षे यथा लोके खपुष्पशशशृङ्गयोः ।

निषेधमात्ररूपं च शब्दार्थो यदि कल्प्यते ।

अभावशब्दवाच्या स्याच्छून्यतान्यप्रकारिका । ३६

भिन्नसामान्यवचना विशेषवचनाश्रये ।

सर्वे भवेयुः पर्याया यद्यपोह
स्य वाच्यता ॥ ४२124

तथा यदि चापोह्यभेदेनापोहस्य भेदस्तदौपचारिकः स्यात् । यस्य चापोहस्य
नीरूपत्वे धर्मिभेदेन न भेदः । कथन्तस्य बहिर्भूतैरपोहैर्भेदः क्रियते । तदाह125


ननु चापोहभेदेन भेदोपोहस्य सेत्स्यति ।

न विशेषः स्वतस्तस्य परतश्चौपचारिकः ॥ ४७

संसर्गिणोपि चाधारा यन्न भिन्दन्ति भावतः ।

अपोह्यैः स वहिः
संस्थैर्भिद्येतेत्यतिकल्पनेति ॥ ५२ ॥

निरस्तं । व्यवच्छेदमात्रस्य शब्दाद्यविषयत्वात् ।

यदित्यादिना श्लोकं व्याचष्टे । आदिशब्दाच्छब्दादिपरिग्रहः । नास्य लिंग
मस्तीत्यिलिङ्गरूपादिकमेतदिति निश्चयज्ञानं । असति समारोपे भवति । न हि
प्रत्यक्षदृष्टे रूपादौ तदानीम्विपरीताकारसमारोपोस्ति । तत्कथं व्यवच्छेदविषय
म्भवति


इयता श्लोक
स्य पूर्वार्द्धो व्याख्यातः । उत्तरार्द्धं व्याख्यातुमाह । समा
रोपविषये तस्य
निश्चयज्ञानस्याभावात् । तद्व्यवच्छेदविषयम्भवतीति प्रकृतेन
सम्बन्धः । एतदेवाह । यत्र भेदेस्य पुंसः समारोपो न तत्र भेदे समारोपविषये
निश्चयो भवत्यस्थिरो निरात्मक इति वा ॥


130

50a किं कारणं निश्चयारोपमनसोर्बाध्यबाधकभावः । निश्चयज्ञा
नस्य
तद्विपरीतसमारोपज्ञानस्य च बाध्यबाधकभावतः । बाध्यबाधकभावमेव साधयन्नाह ।
न हीति सर्वतः सजातीयाद्विजातीयाच्च भिन्नो दृष्टोपि भावस्तथैवेति यथादृष्टेन
सर्वेणाकारेण प्रत्यभिज्ञायते । निश्चीयते न हीति सम्बन्धः । किं कारणं
क्वचिद् भेदे क्षणिकत्वादिके व्यवधानसम्भवात् । भ्रान्तिनिमित्तगतः यथा शुक्तेः
सर्वतो व्यावृत्ताया दर्शनेपि शु
क्तिकादित्वे रजतसाधर्म्यस्य भ्रान्तिनिमित्तस्य
सम्भवान्न निश्चयः । यत्र त्वाकारे भ्रान्तिनिमित्तं नास्ति तत्रैवास्य प्रतिपत्तुरनुभवो
त्तरकालभावी स्मार्त्तो निश्चयो भवति । तद्दर्शनाविशेषेपि सर्वस्वाकारेषु प्रत्यक्ष
स्याविशेषेपि स्मार्त्त इति स्मृतिरूपः ।


ननु तदित्युल्लेखेनानुत्पत्तेः कथं स्मृतिरूपः


सत्यं निर्विकल्पकविषयस्य स्वाका
रेणैकीकृत्य विषयीकरणात् स्मृति
रूप उच्यते । यतश्च प्रत्यक्षाविशेषेपि समारोपरहित एव विषये निश्चयो भवति
तस्मात् समारोपनिश्चययोर्बाध्यबाधकभावो गम्यते । ततो बाध्यबाधकभावात्
कारणात् समारोपविवेके समारोपविरहनिश्चयस्यास्य प्रवृत्तिरिति गम्यते


भवतु नाम समारोपविवेके प्रवृत्तिस्तथापि नान्या
पोहविषयत्वम्विधिरूपेण
प्रवृत्तेरित्याह । तद्विवेक एवान्यापोहः समारोपविवेक एव चान्यापोहः । तस्मात्
समारोपरहिते वृत्तिवशात् तदपीति न केवलमनित्यः शब्द इति निश्चयज्ञानं
पूर्वोक्तेन न्यायेन तन्मात्रापोहगोचरन्तदपि प्रत्यक्षपृष्ठभाविनिश्चियज्ञानमपि
तन्मात्रापोहगोचरं न वस्तुस्वभावनिश्चायकं स्वरूपे
किङ्कारणं
तथा हि कस्यचिदाकारस्य रूपत्वादेर्निश्चयेप्यन्यस्य क्षणिकत्वाद्याकारस्याप्रतिपत्ति
दर्श
नात् ।



131

यदि तु प्रत्यक्षपृष्ठभाविना निष्चयेन वस्तुस्वभावस्य निश्चयः क्रियते तदा
तत्स्वभावनिश्चये च निरंशत्वाद् वस्तुनस्तस्यायोगादन्यस्याकारान्तरस्यानिश्चया
योगात्


यतश्च वस्त्वध्यवसायेनैव निश्चयस्य प्रवृत्तिः शब्द
स्य वा न वस्तु
स्वरूपग्राहकत्वेन । तस्माद् यावन्त एकस्यांशसमारोपा रूपान्तरसमारोपाः प्रवृत्ता
अप्रवृत्ताश्च तन्निरासे समारोपनिरासार्थन्तावन्त एव निश्चयाः शब्दाश्च ताव
न्त एव स्वविषये प्रवर्त्तन्ते । तेन कारणेन ते निश्चयाः शब्दाश्च भिन्नगोचरा
भिन्नविषयाः । स्वस्वहेतुतोध्यवसितस्वस्वाकाराभिन्नबाह्यविषयत्वात्तेनैतद्


बुद्ध्यारोपितबुद्धिस्थो ना
र्थबुद्ध्यन्तरानुगः ।

नाभिप्रेतार्थकारी च सोपि वाच्यो न तत्त्वतः ।

प्रतिभापि च शब्दार्थो बाह्यार्थविषया यदि ।

एकात्मनियते बाह्ये विचित्राः प्रतिभाः कथं ।

अथ निर्विषया एता वासनामात्रभावतः ।

प्रतिपत्तिः प्रवृत्तिश्च बाह्यार्थेषु कथम्भवेत् ।

स्वाँशे बाह्याधिमोक्षेण प्रवृत्तिश्चेत्सदा मता ।

शब्दार्थोऽतात्त्विकः प्राप्तस्तथा भ्रान्त्या प्रवर्त्तनादिति
126
50b

निरस्तं । कल्पितविषयत्वेनेष्टत्वाद् विकल्पस्य ॥


अन्यथेति बुद्धिशब्दाभ्याम्वस्तुस्वरूपग्रहणे । एकेन शब्देन व्याप्ते सर्वा
कारेण विषयीकृते । एकत्रैकस्मिन् बुद्ध्या वा निश्चयात्मिकया व्याप्तेनान्य
विषयः । अन्यश्चासावाकारो विषयश्चेत्यन्यविषयः । तस्य वस्तुनो नापर आकारो
विषयभूतो विद्यते प्रत्याय्यः । अथवा तद्वस्तुप्रत्यायकस्यान्यस्य शब्दस्य ज्ञानस्य


132 वा न विषयः ।
इति हेतोः शब्दानां प्रतीते विषये पश्चात् प्रवर्त्तमानानां पर्यायता
स्या
त् । वृक्षपादपादिशब्दवत् । । मधुरो रसः स्निग्धो गुरुः शीत इत्येवमादि
भिन्नविषयानुपातिन्याश्च बुद्धेः प्रवृत्तिर्न स्यादित्येकविषयत्वप्रसंगः ॥


भिन्नं धर्मधर्मिभावं पारमार्थिकन्दूषयितुमुपन्यस्यन्नाह । यस्यापीत्यादि ।
यस्यापि वै शे षि क स्य परस्परमाश्रयाच्च भिन्नत्वान्नाना उपाधयो विशे
षणानि
द्रव्यत्वादयो यस्यार्थस्य घटादेः स नानोपाधिस्तस्य तत एवोपाधिभेदाद् भेदि
नोर्थस्य
विधिनैव बुद्धिग्राहिका निश्चयात्मिका धीः सा च प्रत्युपाधि भिन्ना ॥
धियश्च विषयभेदन्दर्शयता शब्दानामप्यर्थतो दर्शित एव ।


तद्व्याचष्टे योपीत्यादिना उपाधयो द्रव्यत्वादयः परस्परमन्योन्यम्भिन्ना
आश्रयाच्चे
त्युपाधिमतो भिन्नाः । तन्निबन्धना भिन्नोपाधिनिबन्धनाः
श्रुति
ग्रहणमुपलक्षणमेवं बुद्धयोपि । तदाधारे स्थित्युपाधीनामाधारेषु । तत्रैव चेत्युपा
धिष्वेव । वर्त्तन्ते वाचकतया प्रवर्त्तन्ते । तदिति तस्माद् । अयमिति शब्दज्ञाना
न्तराणां पर्यायतालक्षणोऽप्रसंगः


उत्तरमाह । तस्यापीत्यादि । नानाप्रकाराणामुपाधीनामुपकारस्याङ्गं कारणं
याः शक्तयः । ताभ्योऽभिन्नात्मन उपाधिमत एकेन निश्चयज्ञानेन ग्रहे निश्चये

सर्वात्मना कृते सति । उपकार्यस्योपाधिकलापस्य को भेदः क उपाधिविशेषः
स्यादनिश्चितः सर्व एव निश्चितः स्यात् ।


नन्वग्निधूमयोः सत्यपि सम्बन्धे नाग्निनिश्चये धूमस्य निश्चयो दृश्यते तथा
धर्मिनिश्चये धर्मानिश्चयो भविष्यति ।


नन्विदमेवादर्शनन्न स्यात् । निश्चयप्रत्ययेन सर्वात्मनाऽग्निस्वरूपग्रहे सति
133 धूमादिकारणत्वेनैव निश्चयात् । धूमा
दीनामपि निश्चितत्वात् । तस्मान्न निश्च
येन तत्स्वरूपग्रहणं । निर्विकल्पकेनापि तर्हि सर्वात्मना ग्रहो न स्याद् धूमाप्रति
भासादेव तत्कार्यत्वाग्रहात् ।


नैतदस्ति अग्नेर्हि धूमजननंप्रति कारणत्वं पूर्वभाव एवोच्यते । स च
प्रत्यक्षे प्रतिभासत इति कथं नाग्नेस्तत्कार्यत्वग्रहः । तेनायमर्थः नाग्निधू
मयोः परमार्थतः परस्परापेक्षिता विद्यते । निष्पन्ना
निष्पन्नावस्थायां सम्बन्धा
भावात् केवलमग्नौ सत्येव धूमो भवतीति तौ कार्यकारणे उच्येते । धर्मधर्मि
णोस्तु परस्परापेक्षित्वाद्धर्मिणः सर्वात्मना निश्चये सर्वधर्माणां साक्षान्निश्चयः
स्यान्नार्थादाक्षेपः । यदा तु बाह्याध्यवसायको विकल्पो भवति न तु ग्राहकस्तदाध्य
वसितस्यार्थस्यान्यव्यावृत्तिसम्भवेनार्थादन्यधर्माक्षेपो युज्यते परस्परापेक्षत्वे

यावन्न धर्मनिश्चयो न तावद्धर्मिनिश्चयो यावच्च न धर्मिनिश्चयस्तावन्न 51a
धर्मनिश्चय इत्यन्योन्याश्रयत्वञ्च स्यात् ।


ननु चोपाध्युपाधिमद्भाव आश्रयाश्रयिभाव एवोच्यते । स च समानकाल
भाविनोरेव न च तयोरुपकार्योपकारकभावो भिन्नकालत्वादस्य तत्कथ
मुच्यते । एकोपाधिविशिष्टग्रहे सर्वग्रह इति ।


सत्त्यं किन्तु परैरन्य एव जन्यजनकभावोन्यश्चोपका
र्योपकारकभाव
इष्यते । तथा हि वदरद्रव्यं स्वहेतुजन्यमपि कुण्डेनोपक्रियतेऽत एवं समान
कालभाविनोरयमुपकार्योपकारकभाव इष्यत इति तदभिप्रायादिदमुक्तं । यद्वा
धर्मो निश्चीयमानः धर्म्याश्रितत्वादेवाश्रयस्य प्रतीतिमाक्षिपति स चाश्रितानां
धर्माणामिति सर्वनिश्चयः । तस्माच्छब्दप्रमाणान्तरवृत्तेः कल्पित एव धर्मधर्मि
भावः
न चास्मिन् पक्षे धर्मभेदाभेदकल्पनायां प्रमाणान्तरवैयर्थ्यमवस्तुत्वेन
तेषां भेदाभेदस्य परमार्थतोऽभावात् । प्रमाणान्तरैरेव च धर्मान्तराणां कल्पनीय
त्वात् तदभावे कथं धर्मभेदाभेदकल्पनेति यत्किञ्चिदेतत् ॥


यद्यपीत्यादिना कारिकार्थं व्याचष्टे । शब्दान्तराणां ज्ञानान्तराणामर्थ उपा
धिमति प्रतिपत्तौ प्रतिनिमित्तं भिन्ना एवोपाधयो यद्यप्यभ्यु
पगम्यन्ते स तु
तद्वानुपाधिमानर्थः शब्दज्ञानैरुपलीयते
विषयीक्रियते । तस्य तद्वतो नानोपाधीनामु
पकाराश्रया याः शक्तयस्तत्स्वभावस्य स्वात्म
नि स्वरूपे भेदो नास्ति । ततश्चैकोपा

134 धिद्वारेणापि ग्रहे सर्वात्मना ग्रहणन्तस्मिन्सति क एवोपाधिभेदस्तस्यानिश्चितः
किन्तु सर्व एव निश्चितः स्यात् । किं कारणं सर्वोपाध्युपकारकत्वे

ग्रहणात्


एकोपाधिद्वारेणोपाधिमतः स्वरूपमेव ग्रहीतं न तूपाध्युपकारकत्वमिति
चेदाह । न हीत्यादि । न ह्युपाध्युपकारकत्वमन्यदेवागृहीतमित्यनेन सम्बन्धः ।
तस्येत्युपाधिमतः स्वेन रूपेण गृह्यमाणस्य स्वरूपादुपकारकत्वस्याभेदात् । यत
एवमतः कारणादस्येत्युपाधिमतः । यदेव स्वभावेन स्वरूपेण ग्रह
णन्तदेवोप
कारकत्वेनापि
ग्रहणमिति ।


भवत्वेकोपाधिद्वारेणोपाधिमतः सर्वोपाध्युपकारकत्वस्य स्वभावभूतस्य ग्रहः ।
उपाधीनान्तु तस्माद् व्यतिरिक्तानां कथं ग्रहणमित्यत आह । तयोरित्यादि ।
उपाधिकलापस्योपाधिमतश्च उपकार्योपकारकभूतयोरात्मनि स्वभावेन्योन्यसम्बन्धो
सम्बन्धादुपकार्योपकारकसम्बन्धस्यात्म
भूतत्वादिति यावत् । ततश्चोपकारक
स्वभावस्यैकस्य ज्ञाने सति सम्बन्धाद् द्वयग्रहः । उपाध्युपाधिमतोर्ग्रहः ।


स्तद्व्याचष्टे । आत्मभूतस्येत्यादि । तथा ह्युपाधिमति गृहीते तस्यात्म
भूत उपकारकभावस्तावद् गृहीतस्तस्मिन् गृहीते उपाधीनामप्युकार्यभाव आत्म
51b भूतो गृहीतस्तद्ग्रहणनान्तरीयकत्वादुपकारकभावग्रहणस्य
अतः कारणा
देकज्ञाने द्वयोरप्युपाध्युपाधिमतोर्ग्रहणमिति कृत्वा एकोपाधिविशिष्टेपि तस्मिन्नुपा
धिमति गृह्यमाणे सर्वोपाधीनां ग्रहणं । तद्ग्रहणनान्तरीयकत्वादित्युपाधिग्रहण
नान्तरीयकत्वात् । अन्यथेत्युपाधीनामग्रहे तथापि न गृह्येत । उपाधीनामुप
कारक उपाधिमानित्येवमपि न गृह्येत ।


य एव तदानीं ज्ञानशब्दप्रवृत्तिनिमित्त
मुपाधिस्तं प्रत्येवोपकारकत्वमुपाधिमतो
गृहीतं न तूपाध्यन्तरोपकारकत्वमिति चेदाह । न ह्यन्य एवेत्यादि । अन्योपकारक
इत्यन्यस्योपाधेरुपकारकः स्वभावो यो न गृहीतः किन्तु सर्व एव गृहीतो निरंशत्वाद
वस्तुनः ।



135

स्यान्मतम् उपाधिमतोनपेक्षितसम्बन्धिन उपकारक इत्येव ग्रहणं न
त्वस्योपकारक इति ततो नोपाधीनां ग्रहणमित्यत आ
ह । न चापीत्यादि । तथा
गृहीत
इत्युपकारक इत्येवं गृहीते उपकारकार्यस्योपाधेरग्रहणं । किं कारणं
तस्याप्युकारकस्य उपकारक इत्येवमग्रहणप्रसंगात् । एतत् कथयति सम्बन्धि
त्वादुपकारकस्यान्तरेण द्वितीयसम्बन्धिग्रहणमुपकारक इत्यपि ग्रहणं नास्तीति ।
तथाभूतञ्च दृष्टान्तमाह । स्वस्वामित्ववदिति । न हि स्वग्रहणमन्तरेणा
स्ति
स्वामित्वस्य ग्रहणं । यत एवमेकोपाधिद्वारेण प्रवृत्तेप्येकस्मिन् ज्ञाने शब्दे च
सर्वोपाधीनां ग्रहणमुपाधिमतश्च सर्वात्मना । तस्मादर्थान्तरोपाधिवादेपि
अर्थान्तरभूता उपाधय इत्येवंवादेपि समानः प्रसङ्गः । शब्दज्ञानान्तराणां पर्यायता
प्राप्नोतीति ।


अथापीत्यादिना परमाशङ्कते । याभिः शक्तिभिः शक्तिमानुपाधीनुपकरोति
ताः
शक्तयः
शक्तिमतः सकाशाद् भिन्नाः । तत इति भेदात् । नायं प्रसंग इति ।
एकोपाध्युपकारकशक्त्यभेदग्रहे सर्वशक्तीनां ग्रहणं । तद्ग्रहणाच्च सर्वोपाधीनामित्ययं
प्रसङ्गो नास्ति ।


उत्तरमाह । धर्मोपकारेत्यादि । धर्मा उपाधयस्तेषामुपकारस्य याः शक्तयस्तासां
शक्तिमतः सकाशाद् भेदेऽभ्युपगम्यमाने ताः शक्तयस्तस्य शक्तिमतः किम्भव
न्ति ।
न किंचिद् भवन्ति न तत्सम्बन्धिन्य इत्यर्थः । यदा यदि नोपकारस्ततः । शक्तिम
तंस्तासां शक्तीनां । अथ सम्बन्धसिद्ध्यर्थमुपकार इष्यते । तदा शक्त्युपकारिण्यो
परा व्यतिरिक्ताः शक्तयोङ्गीकर्त्तव्याः । याभिः शक्तीरुपकरोति तासां च
सम्बन्धत्वसिद्ध्यर्थमुपकारः कल्पनीयः । तत्रापरा शक्तिकल्पनेति तथा स्यादन
वस्थितिः


136

तद्व्याचष्टे यदी
त्यादि । उपाधिमुपाधिम्प्रति प्रत्युपाधि । उपकारकत्वानि
शक्तयस्तस्योपाधिमतः न स्वात्मभूतानि । न स्वभावभूतानि । किन्तु व्यतिरिक्तानि ।
नापि तत उपाधिमतः उपकारमनुभवन्ति । आत्मसात्कुर्वन्ति । किन्तस्य ता उच्यन्ते ।
उपाधिमतः शक्तय इति कस्मादुच्यन्ते । सम्बन्धाभावात् । सम्बन्धसिद्ध्यर्थमुपाधि
52a मतः सकाशात् तासामुपाध्युपकारिणी
नां शक्तीनामुपकारेवाङ्गीक्रियमाणे याभिः
शक्तिभिरुपाध्युपकारिणीः शक्तीरुपकरोत्ययमुपाधिमान् । यदि तास्तस्यात्मभूता
इष्यन्ते तदा स्वात्मभूताभिः शक्तिभिरयमुपाधिमान् एक इत्यनंशः । उपाध्युपका
रिणीः शक्तीरुपकुर्वन् ।


तथा हीत्यादिना सर्वात्मना ग्रहणं साधयति । एकोपाधिग्रहणे तदुपका
रिण्यो
उपाध्युपकारिण्यो व्यतिरिक्तायाः शक्तेर्ग्रहणं । तद्ग्रहण इति ।

उपाध्युपकारिशक्तिग्रहे । तदुपकारी उपाध्युपकारिशक्त्युपकारी । किंभूतः
स्वात्मभूतसकलशक्त्यपकारः स्वात्मभूताः सकला उपाध्युपकारिणीनां शक्तीना
मुपकाराः शक्तयो यस्य स तथाभूतो भावो गृहीतः सर्वा उपाध्युपकारिकाः
क्तीर्ग्राहयति । ताश्चेमाः शक्तयो गृहीताः स्वोपकार्यानुपाधीन् ग्राहयन्तीति
तदवस्थः प्रसंगः
को भेदः स्यादनिश्चित इति य उक्तः ॥


अथ माभूदेष दोष इति ता अपि शक्त्युपकारिण्यः शक्तयो भिन्ना एवोपाधि
मतो भावादिष्यन्ते । तदा तदुपकारिण्योपि शक्तयो व्यतिरिक्ताः कल्पनीयास्तथा
तदुपकारिण्य इत्येवमनवस्थानात् । उपाधीनांच्छक्तीनां च । उपाध्युपकारश
क्तीनां चापरापरास्वेव शक्तिष्वपर्यवसानेनानिष्ठया
यद् घटनन्तस्योद्घटनात्
सम्बन्धनात् । तथा ह्युपाधयो व्यतिरिक्तासु शक्तिषु सम्बद्धास्ता अपि व्यति

रिक्तास्वेव । एवमुत्तरोत्तरा शक्तिः पूर्वपूर्वासु शक्तिषु व्यतिरिक्तास्वेवानवस्था
नेन सम्बद्धा । न तूपाधिमति । ततश्च स एक उपाधिमान् । ताभिरुपाध्युपकारि


137 काभिः शक्तिभिस्सह कदाचिदप्यगृहीतस्तदुपकारात्मा । शक्त्युपकारात्मा ।
उपाध्युपकारिकाणां शक्तीनां याः शक्तयस्तदात्मेति यावत् । शक्तीनान्ततो व्यति
रेकात् । तद्वत्त्वेन उपाध्युपकारशक्तिमत्त्वेन । तदग्र
हा
दुपाधिमत्त्वेनाप्यतो व्यर्थै
वोपाधिकल्पनेति भावः ।


एवन्तावद् यदोपाधिमति ज्ञानशब्दयोर्वृत्तिस्तदोक्तो दोषः । यदोपाधिष्वेव
तदान्यो दोषो वक्तव्यः । तदभिधानायोपाधिपक्षमुपन्यस्यति । यदि पुनरित्यादि ।
केवलानित्याश्रयरहितान् उपाधीन् विशेषणभेदान् शब्दज्ञानान्युपलीयेरन् ।
प्रत्यायकत्वेन समाश्रयेयुः । तस्योपाधिमतः शब्दज्ञानैरस
मावेशादविषयीकरणात् ।
तत्प्रतिपत्तिमुखेनोपाधिमत्प्रतिपत्तिमुखेन । एकेनापि शब्दज्ञानेन सर्वस्योपाधेः
प्रतिपत्तिः


अत्रापि दोषमाह । तदापीत्यादि । तस्योपाधिमतः । अनाक्षेपादित्यप्रति
पादनात् । तत्रेत्युपाधिमति कथं व्यर्थ इत्याह । अर्थक्रियेत्यादि । अर्थक्रियां
पुरोधाय प्रवृत्तेरर्थक्रिया आश्रय आलम्बनं यस्य व्यवहारस्य स तथा । सर्वो यावान्
कश्चित् प्रेक्षा
पूर्वकारिणां व्यवहारो हिताहितविषयः । स च द्वाभ्यां प्रकाराभ्यां
विधिप्रतिषेधाभ्यां तृतीयप्रकाराभावात् । इत्थंभूतलक्षणा पाणिनिः चेयं
तृतीया । उपाध्यो127श्च गोत्वादयस्तत्रार्थक्रियायामसमर्थाः । समर्थश्च
व्यक्तिभेदः शब्देनैवोच्यत इति किमफलैः शब्दप्रयोगैः । यतश्चैवमर्थक्रियासमर्थो
व्यक्तिभेदो न चोच्यते शब्दैः । ततश्चाभिमता उपाधयो गोत्वादय उपाधयो
32b
स्युर्न विशेषणानि स्युः । यस्मात् क्वचिदुपाधिमत्युपाधिद्वारेण शब्दस्य ज्ञानस्य वा
प्रवृत्तौ सत्यां । कस्यचिदुपाधिमतः । प्रधानस्येति विशेष्यस्याङ्गाभावाद् विशे
षणभावात् तदपेक्षया प्रधानापेक्षया । तथोच्यन्ते । उपाधय इत्युच्यन्ते । इयं
न्यायोपाधिव्यवस्था । यदा तूपाधय एव शब्देनोच्यन्ते । तदा तस्योपाधिमतः


138 शब्देनाऽनाक्षेपादप्रतिपादनान्न ते उपाधयः कस्यचित् प्रधा
नस्याङ्गभूता इति
किमुपाधयो
नैवेति यावत् । यद्युपाधिमात्रं चोद्यते तथापि शब्दैर्लक्षिता ये उपाध
यस्तैरुपाधिमतो लक्षणात् परिच्छेदाददोषः । शब्दप्रयोगवैयर्थ्यदोषो नेति चेत्
समानः सर्वोपाधिग्रहणप्रसङ्गः । तमेवाह । स तावदित्यादि । स इत्युपाधि
मान् । नान्तरीयकतयेत्युपाध्युपाधिमतोरव्यभिचारेण उपलक्ष्यमाण एकेनाप्युपा
धि

ना निरङ्शत्वात् सर्वात्मनोपलक्षित इति तदवस्थः सर्वोपाधिग्रहप्रसंगः


स्यान्मतं यत्र शब्देन साक्षादुपाधिमतश्चोदनन्तत्रायं प्रसंगः । न तु यत्रा
र्थवशादित्यत आह । को ह्यत्र विशेष इति । शब्दा वा एनमुपाधिमन्तं साक्षात्
प्रतिपादयेयुः । तल्लक्षिता वा शब्दलक्षिता वोपाधय उपाधिमन्तं लक्षयेयुरिति को
विशेषो न कश्चित् तथा हि स तावदुपाधि
मान् तदानीमुपाधिबलेन
लक्षणकाले निश्चीयते । सर्वोपकारकः सर्वेषामुपाधीनामुपकारक इति । तथा च
पूर्ववत् सर्वोपाधिग्रहणप्रसंगोऽतो लक्षितलक्षणादिति यदुक्तमेतन्न किञ्चित्
पूर्वोक्तदोषदुष्टत्वात् । यस्मादुपाध्युपकारिकाणां शक्तीनाम्व्यतिरेकेऽनवस्था
स्यादतो न व्यतिरिक्ताः शक्तयः ॥


तस्मादेकस्योपाधेरुपकारके तस्मिन्नुपाधिम
ति ग्राह्येभ्युपगम्यमाने उपाध्य
न्तराणामुपकारकाः शक्तिभेदाः । तत एकोपाध्युपकारकस्वभावादपरेऽन्ये भवन्ति


139 ये दृष्टे तस्मिन्नुपाधिमत्यदृष्टा भवन्ति । किन्त्वनन्ये । अतः कारणात्तद्ग्राह्ये ।
तस्योपाधिमतो ग्रहे सकलोपाध्युपकारक स्वभावस्य ग्रहः


योपि भ ट्टो मन्यते भिन्ना भिन्ना एव धर्मास्तेनैकधर्मेण धर्मिण्यवधार्यमाणे
न स
र्वधर्मावधारणं भेदात् । तदाह ।

आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ।

तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेत् ॥ १५२

अनन्तधर्मके धर्मिण्येकधर्मावधारणे ।

शब्दोभ्युपायमात्रं स्यान्न तु सर्वावधारण १७८ इति ।128

सोप्युभयपक्षभाविदोषप्रसंगादेव निरस्तः ॥


यदीत्यादिना पराभिप्रायमाशंकते । एकेन निश्चयज्ञानेन सर्वात्मना गृहीतेपि

वस्तुनि भ्रान्तिनिवृत्त्यर्थं । अन्यदिति प्रमाणान्तरं ।


स्यादेतदित्यादिनैतदेव व्याचष्टे । निर्भागस्य निरंशस्य वस्तुनो ग्रहणे सति
कोन्यो भागः तदा निर्भागवस्तुग्रहणकाले । न गृहीतो नाम सर्व एव गृहीतः
स तु गृहीतोपि भ्रान्त्या नावधार्यत इति प्रमाणान्तरं प्रवर्त्तते ।


यद्येवमित्यादिना सिद्धान्तवादी । यत्तद् भ्रान्तिनिवृत्त्यर्थमुत्तरम्प्रमाण
मिष्यते 53a
तद्व्यवच्छेदविषयमन्यापोहविषयं सिद्धं पूर्वोक्तेन न्यायेन । तद्वदुत्तरप्रमाणवत् ।
तत उत्तरकालभावि प्रमाणादपरमपि पूर्वकालभाविनिश्चयज्ञानन्तदपि व्यवच्छेद
विषयं । किं कारणम् असमारोपविषये वृत्तेः




140

तत्तर्हीत्यादिना श्लोकं व्याचष्टे । अन्यस्याकारस्य यः समारोपस्तद्व्यवच्छे
फलमिति कृत्वा सिद्धमन्यापोहविषयमुत्पित्सुस
मारोपनिषेधद्वारेण । तद्वदन्यदपि
पूर्वमपि निश्चयज्ञानमन्यापोहविषयं किं कारणम् अविद्यमानसमारोपे
विषये वृ
त्तेः । एतदेवाह । यत्राकारेस्य प्रतिपत्तेः । इति हेतोः समारोपाभावे
वर्त्तमानः
पौरस्त्यो निश्चयोन्यापोहविषयः सिद्धः


किञ्च निश्चयगृहीतेप्यर्थे भ्रान्तिनिवृत्त्यर्थं प्रमाणान्तरमिच्छता
निश्चयविषयश्च न च निश्चित इ
त्यभ्युपगतं स्याद् अन्यथा भ्रान्तेरयो
गात् तच्चायुक्तमित्याह । अपि चेत्यादि । यद्रूपं निश्चयैर्न निश्चीयते तद्रूपन्तेषां
निश्चयानां विषयः कथन्नै किं कारणं । यस्मादियमेव निश्चयानां
स्वार्थप्रतिपत्तिर्यत्त
स्यार्थस्य निश्चयनं । तच्चेन्निश्चयविषयाभिमतमाकारान्त
वदनिश्चितं । यन्निश्चयविषयत्वेनानभिमतन्तद्वत्तैर्निश्चये गृहीतं ॥


कथमित्या
दि परः प्रत्यक्षगृहीते समारोपव्यवच्छेदार्थं प्रमाणान्तर
मिच्छताऽन्यापोहवादिनाप्यनिश्चीयमान आकारः प्रत्यक्षगृहीतत्वेनेष्टो यदि वा
निश्चयवशादेव ग्रहणं । कथमिदानीमनिश्चीयमानं रूपं प्रत्यक्षेणापि गृहीतमिति
तुल्यः प्रसंगः ।


नेत्यादिना परिहरति । कल्पनाविविक्तत्वादित्यभिप्रायः । तदिति प्रत्यक्षं
यमपि नीला
द्याकारङ्गृह्णातीत्युच्यते तद् ग्रहणं न निश्चयेन
किन्तर्हि प्रतिभासेन
। निरङ्शस्य वस्तुनः सर्वथा प्रतिभासनमिति सर्वथा


141 ग्रहणं तदिति तस्मान्न निश्चयानिश्चयवशाद् यथाक्रमं प्रत्यक्षस्य ग्रहणाग्रहणे
किंतु प्रतिभासनाप्रतिभासनवशात् । तस्मादनिश्चये सति प्रतिभासनमात्रेण
प्रत्यक्षगृहीतव्यवस्थापनन्न विरुध्यते । नैवं निश्चया
नां
प्रत्यक्षवदनिश्चितस्या
प्याकारस्य प्रतिभासनमात्रेण ग्रहणमप्रतिभासमात्रेणाग्रहणमिति सम्बन्धः ।
कस्मादिति चेदाह । किञ्चिदित्यादि । यथा पुरुषं दृष्ट्वा पुरुषत्वन्निश्चिन्वतोप्यन्यत्र
तस्करादावनिश्चयेन प्रवृत्तिभेदाद् व्यवहारभेदात् । तथा हि पुरुषत्वनिश्चयेन
पुरुषोनुरूपो विश्वासादिव्यवहारो दृश्यते । चौरत्वानि
श्चयाच्च तदनुरूपो
भयादिव्यवहारो न दृश्यते । ततश्च यन्निश्चयानुरूपः प्रवृत्तिभेदस्तस्य निश्चयेन
ग्रहणं । यदनिश्चयानुरूपश्चाप्रवृत्तिभेदस्तस्याग्रहणमिति । यत एवन्तस्मादित्यादि ।
अस्येत्याकारस्य अन्यथेति यदि निश्चयवशात्तस्य ग्रहणं न व्यवस्थाप्यते ।
तदैकाकारेपि । निश्चितत्वेनाभिमतेप्याकारे । तदिति निश्चयेन ग्रहणं
न स्यात् ।

53b

किं पुनः कारणमिति परः । सर्वतो भिन्न इति सजातीयविजातीयाद्व्यावृत्तेः ।
तथैवेति यथानुभवं सर्वेष्वेव भेदेषु न स्मार्त्तो निश्चयो भवति । यतो भेदान्तरेन्या
कारव्यवच्छेदार्थमन्यापोहवादिना प्रमाणान्तरवृत्तिरिष्यते ।


सहकारिवैकल्यादिति सिद्धान्तवादी । न ह्यनुभवमात्रनिश्चयहेतुः किन्त्व
भ्यासादयोपि सहकारिणः ते यत्रैव सन्ति तत्रैवाकारे
निश्चयो नान्यत्र ।


ननु क्षणिकाकारेपि सर्वदा दर्शनादभ्यासोस्त्येवेति निश्चयः स्यात् । नानु
भूतनिश्चितविषयोत्राभ्यासोभिप्रेतो न च क्षणिकं भ्रान्तिनिमित्तसम्भवादनु
भूतनिश्चितमिति कथन्तत्राभ्यासः । तस्मात् स्थितमेतत् यत्रैवाकारेऽभ्यासस्तत्रैव
निश्चय इति ॥


तदेवाह । ततश्चेत्यादि । विशेषे सर्वतो व्यावृत्ते नीलादिलक्षणे । अङ्श
विवर्जिते
निर्विभा
गे सर्वात्मना प्रत्यक्षेण गृहीतेपि सति स्य विशेषस्यार्वसाये
निश्चयेस्ति सहकारिप्रत्ययः स प्रतीयते निश्चीयते ।



142

यद्यपीत्यादिना व्याचष्टे । सर्वभेदेषु क्षणिकत्वादिषु तावतेत्यनुभावमात्रेण
निश्चयोत्पादनंप्रत्यनुभवज्ञानस्य कारणन्तरापेक्षत्वात् । तंदेवाह अनुभवो
हीत्
यादि । यथाविकल्पाभ्यासमिति यस्य यादृशो विकल्पाभ्या
सस्तेन सहका
रिणा जनयतीत्यर्थः । उदाहरणमाह । यथेत्यादि । मृतस्त्रीरूपदर्शनाविशेषेपि
परिव्राट्कामुकशुनां यथाक्रमं कुणपकामिनीभक्ष्यविकल्पा यथाविकल्पाभ्यास
ञ्जायन्ते । न च विकल्पाभ्यास एव सहकारी । किन्त्वन्योप्यस्तीत्याह । तत्रे
त्यादि । तत्रापि रूपदर्शनाविशेषेपि । बुद्धेः पाटवन्तीक्ष्णता । यथा योगिनां बुद्धि
पाट
वाद् दर्शनमात्रेण क्षणिकत्वादिनिश्चयः । आदिशब्दादर्थित्वसामर्थ्यादिपरि
ग्रहः । इत्यादय इत्येवमादयः । अनुभवात् प्रत्यक्षादुपादानकारणात्सकाशाद्
भेदनिश्चयस्योत्पत्तौ सहकारिणः । यदा तर्हि बहुषु निश्चयेषु यथोक्तानि कारणानि
न भवन्ति तदा तेषां निश्चयानां कथं क्रमभाव इत्याह । तेषामेव चेत्यादि
तेषामिति निश्चयकारणानां
प्रत्यासत्तितारतम्यभेदात् । यस्य निश्चयस्य प्रत्या
सन्नतमन्निश्चयकारणन्तत्तावदादावुत्पद्यते । आदिशब्दादधिमात्रतारतम्यस्य भेदा
न्निश्चयानां पौर्वापर्यं । यथेत्यादिनोदाहरणमाह । पितेव यदोपाध्यायो भवति । तदै
कस्य पुरुषस्य जनकत्वाध्यापकत्वाविशेषेपि । पितरमायान्तं दृष्ट्वा पिता मे आगच्छ
54a तीति निश्चिनोति
नोपाध्याय
इति । पितृत्वनिश्चये कारणस्य प्रत्यासन्नतामत्वात् ॥


ननु सत्यपि क्षणिकत्वनैरात्म्यविकल्पाभ्यासे सहकारिणी तत्त्वादार्शिनां नं
प्रत्यक्षात् क्षणिकत्वादिनिश्चयो भवतीत्यत आह । सोपीत्यादि । असति भ्रान्तिकारणे
भवति
न तु निश्चयप्रत्ययमात्रात् । यत एवमसति भ्रान्तिकारणे सहकारिप्रत्यसाकल्ये
च सति प्रत्यक्षान्निश्चय उत्पद्य
ते न केवलात् । तस्मान्नानुभूत इत्यादि ।




143

ततश्च स्थितमेतद् अन्यव्यवच्छेदः शब्दलिङ्गाभ्यां प्रतिपाद्यत इति ।


ननु व्यवच्छेदोपि यदि पदार्थादभिन्नस्तदैकेन प्रमाणेन शब्देन वास्य विषयी
करणेन्यस्य वैयर्थ्यं स्यात् सर्वात्मना निश्चितत्वात् । अथ भिन्नस्तदापि तस्याश्रित
त्वादेकव्यवच्छेदोपाधिके पदार्थे प्रमाणेनैकेन निश्चीयमाने पूर्वोक्तेन न्या
येन
सर्वेषां व्यवच्छेदानां निश्चितत्वादन्येषां प्रमाणादीनामप्रवृत्तिः स्याद् अतः
समानः प्रसंग इति ।


तन्न । यतो न भावानामन्योन्यव्यवच्छेदोऽभिन्नो भिन्नो वाऽस्ति । केवलं
स्वहेतुभ्य एव भिन्नाः समुत्पन्ना इत्युक्तम्वक्ष्यति च ॥


कथन्तर्ह्यन्यव्यावृत्तिरित्यादि व्यपदेशो बुद्धिश्च प्रवर्त्तत इत्यत्राह । तत्रा
पी
त्यादि । तत्रापि चन्यापोहे शब्दार्थे ।
अन्यस्माद् व्यावृत्तिरन्यस्माद् व्यावृत्तो
मित्यपि ये शब्दा धर्मधर्मिवचनाः निश्चयाश्चोभयविषयास्ते संकेतमनुरुन्धते
संकेतानुविधानेनैषां धर्मधर्मिविषयविभागः कल्पितः परमार्थतस्तु व्यावृत्तिरेव
नास्तीत्यर्थः ।


तद्व्याचष्टे । तत्रान्यापोह इत्यादिना गोरश्वाद् व्यावृत्तिरन्या धर्मभूता अन्य
एवाश्वाद् व्यावृत्तो धर्मी । व्यावृत्त्या
विशिष्टो गौरित्येतन्नास्ति । किन्तु यैव
व्यावृत्तिः स एव व्यावृत्त इति वक्ष्यति ।


यदि चाश्वाद् व्यावृत्तिरनश्वता गोद्रव्यस्यान्या स्यात् तदाश्वव्यावृत्तेरपि
गोद्रव्येण निवर्त्तितव्यम्भेदात् । ततश्च तद्व्यावृत्तेरनश्वतायाः सकाशान्निवर्त्तमानस्य
गोस्तद्भावप्रसङ्गात् । अश्वभावप्रसङ्गादश्ववत् । एवं ह्यश्वव्यावृत्तेरनश्वत्व
लक्षणाया
गौर्व्यावृत्तो भवति यद्यस्याश्वत्वं स्यात् । तथा च गोरश्वभावापत्तेः ।
अश्वाद् गोर्व्यावृत्तिस्तस्या अभावः । गवाश्वयोरेकत्वात् ।


तेन यदुक्तञ्जैनजैमिनीयैः


सर्वात्मकमेकं स्यादन्यापोहव्यतिक्रम इति ।129

तान्प्रतीदमुक्तं । यद्यन्यव्यावृत्तिरर्थान्तरं स्याद् गवाश्वादीनामेकत्वं स्यादिति ।




144

नापि गोरभिन्नाश्वव्यावॄत्तिरश्वव्यावृत्तौ गौरि
त्यप्रतीतिप्रसंगात् । गोविनाशे
चाश्वस्योत्पत्तिप्रसङ्गादश्वनिवृत्तेर्विनष्टत्वात् । तस्मान्नास्त्येव व्यावृत्तिः ।


तेन यदुच्यते भ ट्टो द्यो त क रा भ्यां । योयमगोपोहः स किं गवि भिन्नेऽर्थो
भिन्नः । यदि भिन्नः किमाश्रितोऽथानाश्रितः यद्याश्रितस्तदाश्रितत्वाद् गुण
54b इति गोशब्देन तदा गुण्यभिधीयते न गोद्रव्यमिति । गौस्ति
ष्ठतीति सामानाधिकरण्यं
स्यात् । अथानाश्रितः केनार्थेन षष्ठ्यर्थः । गोरपोह इति । अथाभिन्नो गौरेव
स्यादिति न किञ्चिदनिष्ठं । अयं चापोहः प्रतिवस्तु यद्येकोनेकसम्बन्धी च तदेव
गोत्वमि
ति


तन्निरस्तं । अन्यव्यावृत्तेरेवाभावात् केवलं स्वहेतुतः स्वकीयेन रूपेणोत्पन्नो
भावोन्यस्माद् व्यावृत्तस्तस्य चान्यस्माद् व्यावृत्तिः कल्प्यते । यतश्च न परमा

र्थतो व्यावृत्तिरस्ति । तस्माद् यैव व्यावृत्तिः स एव व्यावृत्तः । द्वाभ्यामैकस्यैव
विषयीकरणात् । तस्यैव चान्यव्यावृत्तस्य लिङ्गत्वं लिङ्गित्वं सम्बन्धो विकल्पविषय
त्वञ्च विकल्पो ह्यन्यव्यावॄत्तं स्वाकाराभिन्नमध्यस्य पुरुषन्तत्र प्रवर्त्तयतीत्य
त्यर्थकारित्वाद् अतः स एव बाह्यः शब्दार्थोन्यव्यावृत्तः ।


यदप्युच्यते कु मा रि ले न कदाचिदेकस्मादेव भावस्यापो
हः स्यात् ।
सर्वास्माद्वा । यद्येकस्मादेव तदा यथाश्वापोहद्वारेण गोद्रव्यस्य गौरित्यभिधान
नन्तथा सिंहादेरपि स्याद् अश्वापोहस्य गोशब्दप्रवृत्तिनिमित्तस्य भावात् । तदाह ।


ततोश्वापोहरूपत्वात् सिंहादिः सर्व एव ते ।

तन्निमित्तमगोपोहं विभ्रदुच्येत गौरिती ति ।130

अथ सर्वस्मादपोहो गोद्रव्यस्य । तत्रापि यदि प्रत्येकमपोह्यं अश्वादयस्तदा

पोह्यानामानन्त्यादपोह एव न सिध्येत् । अपोह्यानां च भिन्नत्वादपोहभेदः प्रस
ज्यते । तथा चैकस्मिन्नपि पिण्डे जातिबहुत्वाज्जात्यन्तरबुद्धिः स्यात् । जात्यन्तरे
ष्विवाश्वादिषु ।


ततो गौरिति सामान्यं वाच्यमेकं न सिध्यति ।131

नापि ते समुदायरूपेण सर्वेऽपोह्याः सम्भवन्ति । समुदायो ह्येकदेशत्वेन वा
स्यान्न चापोह्यानामेकदेशादित्वं स
म्भवति । नापि तेषां समुदायो व्यतिरिक्तो
ऽस्त्यव्यतिरेके चानन्त्यं तदवस्थं । न चापि सामान्यरूपेण तेऽपोह्याः सामान्य



145 स्यावस्तुत्वात् । अपोह्यत्वे च वस्तुत्वं स्यादिति ।


तदयुक्तं यतः सर्वभावानां स्वेनैव स्वेनैव रूपेणोत्पद्यमानानां सर्वस्मा
दपोहः स्वहेतुभ्यः सिद्ध एव ।


अथ कथमसौ ज्ञायत इति चोद्यते । तत्किङ्गौरतीतानाग
तवर्त्तमानाऽर्श्वा
दिस्वभावः प्रत्यक्षे प्रतिभासते । नेति चेत् । कथं न तत्र सर्वापोहः प्रत्यक्षसिद्धः ।
न हि प्रमाणं हस्ताभ्याङ्गृहीत्वान्यदपोहत्यपि तु नियतरूपार्थप्रकाशनमेवास्यान्या
पोहं । तस्मान्नियतरूपार्थप्रतिभास एव प्रत्यक्षस्य सर्वस्मादपोहग्रहः । तच्च
स्वविषयन्निश्चाययद् यदेवं न भवति तत्सर्वमन्यत्वेन नि
श्चाययत्यतो युगपत्सर्व
स्यान्यस्य सामान्येनाविशेषेण निषेधः क्रियते । सामान्यस्यानिर्द्धारितविशेष
रूपत्वात् । तदुक्तम्


अतद्रूपपरावृत्तवस्तुमात्रप्रसाधनात्

सामान्यविषयं प्रोक्तं लिङ्गभेदाप्रतिष्ठितेरिति । प्र० स०

तेनापोह्यस्य कस्यचिद् वस्तुत्वमिष्यत एव ।


न चापोह्यत्वाद् वस्तुत्वमित्यत्र किञ्चिद् प्रमाणमस्त्यभावस्याप्यपोह्यत्वान्न
चास्य
वस्तुत्वमित्युक्तं । तस्माद् युगपत् सर्वापोहलक्षणेनागोपोहेनैकस्मिन्नपि 55a
पिण्डे गोत्वं । प्रत्येकाश्वाद्यपोहेनानश्वत्वासिंहत्वामहिषत्वादयो जातिभेदाः कल्पिता
स्तद्द्वारेण च तदभिधायकाः प्रवर्त्तन्त इति यत्किञ्चिदेतत् ।


यदि व्यवृत्तिव्यावृत्ताऽभिधेयार्थस्य न भेदः । कथं व्यावृत्तिव्यावृत्त इति
शब्दज्ञानभेदः । तथा हि व्यावृत्तिरित्यन्यः शब्दो व्यावृत्त इत्यन्य एव श
ब्दः ।
तथा ज्ञानभेदोपि व्यावृत्तिरित्युक्ते धर्ममात्रम्प्रतीयते । व्यावृत्त इति धर्मीति ।
तत आह शब्देत्यादि । शब्दाद् धर्मधर्मिवाचिनो या प्रतीतिः सा शब्दप्रतिपत्तिः ।
शब्दश्च शब्दप्रतिपत्तिश्चेति विरूपैकशेषः । शब्दभेदः शब्दाच्च या प्रतिपत्तिस्तस्या
भेद इत्यर्थः संज्ञासंज्ञिसम्बन्धिकरणं संकेतस्तस्य भेदात् । संकेतभेदं चानन्तरमेव
१ । ६३ भेदान्तरप्रतिक्षे
पेत्यादिना प्रतिपादयिष्यते । न वाच्यभेदोस्ति धर्मधर्मि
शब्दयोर्वस्तुत इत्यध्याहारः ॥


ननु चेत्यादि परः । किं पुनर्वाच्याविशेषे संकेतभेदो न युक्त इति चेदाह ।
द्वयोरित्यादि । कर्त्तरि चेयं षष्ठी । कर्त्तृ कर्मणोः कृतीति उभयप्राप्तौ कर्मणीति

146 नियमस्य शेषे विभाषेति132 विकल्पनात् । द्वाभ्यां धर्मधर्मिशब्दाभ्यामेकस्यार्थस्या
भिधानादित्यर्थः । एकं चेद् द्वाभ्यामभिधेयन्त
तो व्यर्थः संकेतः । तथा चेति धर्म
धर्मिणोरभेदे व्यतिरेकिण्या इति व्यतिरेकाभिधायिन्यां गोर्गोत्वमिति षष्ठ्याः ।
तस्या इति व्यतिरेकविभक्तेर्भेदाश्रयत्वाद् वस्तुभेदमाश्रित्य प्रवृत्तेः । यथा देवदत्तस्य
कमण्डलुरिति । एवं संकेताभावे व्यतिरेकविभक्त्यभावे च चोदिते ।


विभक्त्यभावदोषन्तावत्परिहरन्नाह । द्वयोरित्यादि । धर्मधर्मिवाचिनोः शब्द

योरेकस्यार्थस्याभिधानेपि विभक्तिर्व्यतिरेकिणी । व्यतिरेकस्य वाचिका षष्ठी । इव
शब्दो भिन्नक्रमः । भिन्नमिवार्थमन्वेति दर्शयति । वाच्ये संकेतभेदकृतेन लेशेन
मात्रया यो विशेषस्ततः कारणान्न तु परमार्थतो वस्तुभेदात् ।


यद्व्याचष्टे । न वै शब्दानामित्यादिना । विषयस्वभावायत्तेति बाह्यस्वलक्ष
णायत्ता किं कारणम् इच्छातः पुरुषे
च्छावशादभावेष्वपि वृत्त्यभावप्रस
ङ्गात् । त
इति । इच्छाप्रतिबद्धवृत्तयः शब्दा यथा येन प्रकारेण भेदप्रतिपादनेन
व्यतिरिक्ते यथा राज्ञः पुरुष इति । अव्यतिरिक्ते यथात्मैव ह्यात्मनो द्रष्टेति । तथा
नियुक्ता
इत्यभिन्नेप्यर्थे भेदमिवोपादाय प्रयुक्तास्तमर्थमप्रतिबन्धेन भिन्नमिव प्रका
शय
न्ति । वस्तुतः स्वलक्षणस्याभेदेपि यत एवन्तेन कारणेन । गौ
रिति
धर्मि
वाचिनमाह । गोत्वमिति धर्मवाचिनं । आभ्यामेकाभिधानेप्यगोव्यावृत्तस्य
गोरभिधानेपि कस्यचिद् विषयस्य प्रत्यायनार्थमिति । अगोव्यावृत्तिनिमित्तस्य
गोत्वस्य प्रकाशनार्थं । अगोव्यावृत्तिमात्रं गोत्वशब्देन प्रतिपाद्यमित्येवंकृते संकेते
भेदे । व्यतिरिक्तार्था न विभक्तिरस्य गोत्वमिति भवति षष्ठी । व्यतिरिक्तोऽर्थोस्या
55b इति विग्रहः । धर्मिणस्स
काशाद् धर्ममर्थान्तरमिवादर्शयन्ती प्रतिभाति । अन


147 र्थान्तरे
पीत्यव्यतिरिक्तेपि धर्मे किं कारणं तथा प्रयोगदर्शनाभ्यासात्
वस्तुभेदे सति षष्ठ्याः प्रयोगदर्शनाभ्यासाद् देवदत्तस्य कमण्डलुरित्यादौ ।


एतदुक्तम्भवति । वस्तुभिन्नम्भवतु मा वा भूत् सर्वथा व्यतिरेकविभक्ति
रिच्छामात्रानुरोधिनी केवलं प्रयोगदर्शनाभ्यासाच्छब्दार्थम्भिन्नमिव दर्शयतीति ।
तावतेति विभक्तिप्रयो
गमात्रात् । सर्वत्रेत्यर्थाभेदेपि । गौर्गोत्वमित्यादौ न धर्म
धर्मिणोः परमार्थतो भेदः । तस्मादन्यत्राप्यर्थाभेदेपि पुरुषेच्छावशात् प्रवृत्तस्य
व्यतिरेकाभिधायिनः शब्दस्य प्रतिबन्धाभावात् । दृष्टा च पुरुषेच्छावशाच्छ
ब्दानां प्रवृत्तिरसत्यपि तथाभूते बाह्ये वाच्य इत्याह । यथेत्यादि । एकम्वस्तु
क्वचित् प्रकरणे एकवचनेख्याप्यते । यथा त्वमिति । तदविशेषे
पि
एकत्वा
विशेषेपि तदेव वस्तु बहुवचनेन यूयमिति । अतश्चैकस्मिन्नपि बहुवचनदर्शनान्न
यथावस्तु शब्दानाम्प्रवृत्तिरिति गम्यते । युष्मदि गुरावेकेषा133मित्यतिदेशवाक्याद्
एकस्मिन्नपि बहुवचनमिति चेत् । चिन्त्यमेतत् । किमतिदेशवाक्येंनैकस्य बहुत्वं
क्रियते किम्वा बहुवचनमात्रमप्राप्तं विधीयत इति न तावदाद्यः पक्षो वचन
मात्रेण
वस्तूनाम्विधानासम्भवात् । द्वितीयेपि पक्षे सिद्धैवेच्छामात्रेण शब्दानां
प्रवृत्तिरिति । एवन्तावद्विभक्त्यभावदोषः परिहृतः


संकेताभावदोषन्तु परिहर्त्तुन्तमेवोपन्यस्यति प्रयोजनाभावात् त्वित्यादि ।
धर्मिधर्मशब्दाभ्यामेकस्याभिधानात् प्रयोजनाभावः । तदपि प्रयोजनमस्त्येव ।
गोत्वापेक्षया भेदान्तराणि द्रव्यत्वपार्थिवत्वादीनि । तेषां प्रति
क्षेपोऽस्वीकारः ।
तौ प्रतिक्षेपाप्रतिक्षेपौ यथाक्रमन्तयोर्द्वयोद्धर्मधर्मिवाचिनोः शब्दयोर्यः संकेतभेद
स्तस्य किम्विशिष्टस्य ज्ञातृवाञ्छानुरोधिनः प्रतिपत्त्रिच्छानुविधायिनः पदं
प्रयोजनं ॥


एतदुक्तम्भवति । यदान्यव्यावत्तरूपनिराकाङ्क्षः प्रतिपत्ताश्वादेवैकस्माद्


148 व्यावृत्तं गोपिण्डं जिज्ञासते तदा यावदश्वाद् व्या
वृत्तिमर्थान्तरभूतामारोप्य तथैव
संकेतपूर्वकं लौकिकेन धर्मवाचकेन शब्देन न कथयति तावन्न परस्य जिज्ञा
सितोर्थः प्रतिपादयितुं शक्यते अतस्तं प्रत्यनश्वत्वमस्येत्युच्यते । एवं हि धर्मि
णोऽप्राधान्यादन्यव्यावृत्तरूपानाक्षेपः कृतो भवत्यश्वादेवैकस्माद् व्यावृत्तिश्च ।
न तदैवमुच्यतेऽनश्व इत्यनेन ह्यन्यव्यावृत्तस्यापि रूपस्याक्षेपः
कृतः स्यात्
न चैवम्परेण जिज्ञासितमजिज्ञासितं च कथयन् कथन्नोन्मत्तः स्यात् ।


यदा पुनरन्यव्यावृत्तरूपसाकांक्षेऽश्वाद् व्यावृत्तं गोपिण्डं जिज्ञासते । तदापि
यावदश्वव्यावृत्तिविशिष्टं पिण्डं धर्मिस्वभावतयाऽरोप्य तथैव संकेतपूर्वकं लौकि
केन धर्मिवाचकेन न कथयति तावन्न परस्य जिज्ञासितोर्थः प्रतिपादयितुं शक्यतेऽ
56a तस्तं प्रत्यनश्वो
यमित्युच्यते । एवं हि धर्मिणः प्राधान्यादन्यव्यावृत्तरूपाक्षेपः
कृतो भवत्यश्वव्यावृत्तश्च गोपिण्डः कथितो भवति । न तदैवं ख्याप्यतेऽनश्वत्व
मस्येति परजिज्ञासितान्यव्यावृत्तरूपानाक्षेपप्रसङ्गात् । अजिज्ञासितं चार्थं कथ
यन् कथन्नोन्मत्तः । सर्वश्च शाब्दो व्यवहारः संकेतपूर्वकः संकेतश्च विकल्पकल्पि
तार्थपूर्वक एवेति विकल्पैर
प्यनेनैव द्वारेण धर्मधर्मिभावप्रतीतिर्युक्ता ।


तेन यदुच्यते भवतु धर्मधर्मिवाचकानां भेदान्तरप्रतिक्षेपाप्रतिक्षेपार्थ
प्रवृत्तिः । धर्मिधर्मविकल्पानान्तु कथं प्रतिपत्तिरित्यपास्तं ।


एतदेव वृत्त्या स्पष्टयन्नाह । यदायमित्यादि । प्रतिपत्तेति श्रोता । तस्माद्
अश्वाद्योऽन्यो महिषादिस्तस्माद् व्यवच्छेदो महिषादिव्यावृत्तः स्वभावस्तस्य भावा
नपेक्षः

त्तानपेक्षः । पिण्डविशेषे गवि । अश्वव्यवच्छेदमात्रं जिज्ञासते । किम
स्याश्वाद् व्यावृत्तं रूपमस्तीति । तथाभूतज्ञापनार्थमिति यथा प्रतिपत्त्रा ज्ञातुमिष्ट
न्तदनुरोधेन तथाभूतस्याश्वाद् भेदमात्रस्य ज्ञापनार्थन्तथाकृतसंकेतेनेत्यश्वव्यवच्छे
दमात्रे प्रतिक्षिप्तभेदान्तरे कृतसंकेतेनानश्वत्वं शब्देन प्रबोध्यते प्रकाश्यतेऽनश्वत्व
मस्य पिण्डस्यास्तीति । अश्वा
द्यो व्यवच्छेदस्तदपेक्षया महिषादिभ्यो व्यावृ
त्तयोर्व्यवच्छेदान्तराणि । तेष्वनिराकांक्षः प्रतिपत्ता । तमिति पिण्डं ।
अप्रतिक्षिप्तभेदान्तरेणाश्वव्यवच्छेदेन युक्तङ् गोद्रव्यं ज्ञातुमिच्छतीति यावत् ।
अपरित्यक्तानि महिषादिव्यवच्छेदान्तराणि येन । तस्मिन्नपरित्यक्तभेदान्तरे
तत्रैव वाश्वव्यवच्छेदे । धर्मिवाचिनं शब्दं प्रयुञ्जते वक्तारोऽनश्वोयमि
ति

कथं प्रयुञ्जत इत्याह । तथा प्रकाशनायेति । अप्रतिक्षिप्तभेदान्तरस्याश्वव्यव

149 वच्छेदस्य प्रकाशनाय । अप्रतिक्षिप्तभेदान्तरमेवाश्वव्यवच्छेदन्तथा प्रकाशनाये
त्यन्ये पठन्ति । तदाप्ययमर्थः । अप्रतिक्षिप्तभेदान्तरन्तमेवाश्वव्यवच्छेदमश्व
व्यावृत्तिरूपं प्रयुञ्जते अभिदधत्यनश्वोयमित्यनेन धर्मिवचनेन शब्देन । किम
र्थम्तथाप्रकाश
नायाप्रतिक्षिप्तभेदान्तरस्य प्रकाशनायेति । येनैव धर्मवाची
शब्दः प्रतिक्षिप्तभेदान्तरः । अत एव पूर्वत्रेति धर्मवाचिनि शब्दे प्रतिक्षिप्तम्भे
दान्तरं
येनेति । सामान्येनान्यपदार्थं कृत्वा भावप्रत्ययः कर्त्तव्यः । पश्चाच्छब्द
वृत्तेरित्
यनेन सम्बन्धः । अन्यथा प्रतिक्षिप्तं भेदान्तरत्वादिति स्यात् । एवमन्य
त्राप्येवंजातीयेषु शब्देषु व्युत्पत्तिर्द्र
ष्टव्या ।


भिन्ननिमित्तयोः शब्दयोरेकस्मिन्नधिकरणे वृत्तिः सामानाधिकरण्यं । विशेष्
विशेषणभावो व्यवच्छेद्यव्यवच्छेदकभावः । उदाहरणङ् गोत्वमस्य शुक्लमिति
गुणशब्दस्याभिधेयवल्लिङ्गवत्त्वेन नपुंसकत्वं शुक्ल इत्यन्ये पठन्ति । एवं
चाचक्षते गुणशब्दो हि प्रतिक्षिप्तभेदान्तरेण गुणमात्रे वर्त्तमान उपात्तो
गु
णमात्रवृत्तीनां शुक्लादिशब्दानां पुल्लिङ्गत्वं । तद्वति तु वर्त्तमानानामभिधेय- 56b
वल्लिङ्गता । एवं चानयोर्द्धर्ममात्रवृत्त्योर्न सामानाधिकरण्यं नापि विशेषण
विशेष्यभाव इति ।


कस्मान्न सामानाधिकरण्यमित्याह । तन्मात्रेत्यादि । एतत्कथयति बुद्धि
प्रतिभासिन्येवार्थसामानाधिकरण्यादि । न बाह्ये स्वलक्षणे तस्यावाच्यत्वात्
केवलमध्यवसा
याद् बाह्येप्युच्यते । यदि च धर्मद्वययुक्तैकधर्मिप्रतिभा
सिनी शब्दद्वयजनिता बुद्धिरेकार्थोत्पद्येत भवेत्सामानाधिकरण्यं । इह तु तन्मात्र
विशेषेण
प्रतिक्षिप्तभेदान्तरेण गोत्वमात्रविशेषणोपरक्ताया बुद्धेस्तदाश्रयभूताया
इति विशेषणविशेष्यभावः सामानाधिकरण्याश्रयभूताया एकत्वेन धर्म्यभेदेनाप्रति
भासनात्
। गो
त्वशुक्लत्वाभ्यां युक्तमेकन्धर्मिणं गृहीत्वा बुद्धेरप्रतिभासनादि
त्यर्थः ।


यद्वा तदाश्रयभूताया इति तदेव गोत्वमाश्रयभूतं यस्यास्तस्या बुद्धेस्तन्मात्र
विशेषेण प्रतिक्षिप्तधर्मान्तरेण गोत्वमात्रेण विषे134षेण सह गोपिण्डस्यैकत्वे
नाप्रतिभासनात् । तथा ह्यस्य गोत्वमिति प्रयोगे निष्कृष्टरूपं धर्मं प्रतियती


150 बुद्धिरुत्पद्यते । ततो न सामा
नाधिकरण्यमिति । धर्मान्तरप्रतिक्षेपादेव तदन्येषु
भेदेषु निराकांक्षत्वाच्च बुद्धेर्न विशेषणविशेष्यभावः ।


द्वितीये तु धर्मिवाचिशब्दपक्षे भवति सामानाधिकरण्यम्विशेषणविशेष्यभावो
वा शुक्लो गौरिति । सामानाधिकरण्ये कारणमाह । तथेत्यादि । तथा संकेतानुसा
रेणे
त्यप्रतिक्षिप्तभेदान्तरे वस्तुनि धर्मिशब्दस्य संके
तानुसारेण हेतुना । एकस्मिन्
धर्मिणि योजनं संहारः । व्यवच्छेदहेतुका धर्मा व्यवच्छेदधर्माः संहृताश्च ते सक
लव्यवच्छेदधर्माश्चे
ति कर्मधारयः । तैर्धर्मैः करणभूतैर्विभागवतः । विभक्तानेक
धर्मवतो धर्मिण एकस्येव शब्दसन्दर्शनेन प्रदर्शनेन बुद्धेः प्रतिभासनात् । अनेकधर्म
वन्तन्धर्मिणमेकमिव सन्दर्शयन्ती बुद्धिः
प्रतिभासत इति यावत् । न तु बुद्धि
प्रतिभाससन्दर्शितो धर्मी वस्तुत एकः विकल्पनिर्मितस्य धर्मधर्मिविभाग
स्यालीकत्वात् । एकस्यैवेत्यपि पठन्ति । तत्रापि प्रतिपत्त्रध्यवसायवशादेव युक्त
मिति बोद्धव्यं । ततः सिद्धं सामानाधिकरण्यं यतश्च भेदान्तराप्रतिक्षेपेण
धर्म्मिशब्दः प्रवृत्तस्तत एव तज्जनिताया बुद्धेरप्रतिक्षिप्त
भेदान्तरापेक्षत्वाद्
भवति विशेषणविशेष्यभावो यद् गौः शुक्लो नीलो वेति । चशब्दश्च पूर्ववदतीत
हेत्वपेक्षः ॥


इदमेव व्यापकं सर्वव्यवहारस्य नापरस्परपरिकल्पित सामान्यगुणादिकान्तस्य
प्रमाणबाधितत्वादित्याह । भेदोयमेवेत्यादि । द्रव्यभावाभिधायिनोः शब्दयोर
57a यमेव भेदो
धर्मान्तरप्र
तिक्षेपाप्रतिक्षेपलक्षणः । सर्वत्रेति । सामान्यसामान्यवति ।
गुणगुणवति । क्रियाक्रियावति । सर्वस्मिन् विषये धर्मिवचनो द्रव्याभिधार्या ।
धर्मवचनो भावाभिधायी । यत एवन्तेन कारणेन न तयोर्द्रव्यभावशब्दयोर्वाच्ये
विशेषः
परमार्थतः कश्चनास्ति ।


तद्व्याचष्टे । तस्मादित्यादि । निश्चयप्रत्ययविषयत्वेन करणेन । न कश्चि
द्विशेषः
। तथा हि
यथा गोत्वमित्युक्ते तत्रैवागोव्यवच्छेदे निश्चयस्तथा गौरि
त्युक्ते यद्यप्यप्रतिक्षिप्तभेदान्तरस्यागोव्यवच्छिन्नस्याभिधानन्तथाप्यगोव्यवच्छे

151 दमात्रे निश्चयोन्येषान्तु भेदानामप्रतिक्षेपमात्रं । स एव च शब्दार्थो यत्र शाब्दो
निश्चयो भवतीति नास्ति भावद्रव्याभिधायिनोः शब्दयोर्वाच्ये विशेषो भेदान्तर
प्रतिक्षेपाप्रतिक्षेपमात्रन्तु भिद्यते । तदेवा
ह । एकस्तमेवेत्यादि । एक इति
धर्मशब्दस्तमित्यगोव्यवच्छिन्नं । प्रतिक्षिप्तं भेदान्तरं येन धर्मशब्देन स तथोक्तः ।
अन्य इति धर्मिशब्दोऽप्रतिक्षेपेण तमेव पिण्डं सामानाधिकरण्येन गमयतीति नास्ति
द्रव्यनिश्चयम्प्रति भेदः प्रतिक्षेपाप्रतिक्षेपमात्रन्तु भिद्यते । एवं गमनन्देवदत्तस्य
गच्छति देवदत्त इति न कश्चन भेद इत्यन्यत्राप्येवं
योज्यं ॥


यापि जातिगुणक्रियासम्बन्धभेदेन चतुष्ठयी शब्दानां वृत्तिः साप्यनेनैव
वस्तुगतधर्मभेदेन संगृहीतेत्याह । जिज्ञापयिषुरित्यादि । ज्ञापयितुमिच्छुरर्थन्तम्भे
दान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणं । तद्धितेन तद्धितप्रत्ययान्तेन । कृतापि वा । कृत्सं
ज्ञकप्रत्ययान्तेन वा । अन्येन वा कृत्तद्धितव्यतिरिक्तेन तिङ्न्तेनाऽव्युत्प
न्नेन वा
शब्देन शुक्लादिना यदि ब्रूयात् । ततो भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणाद् विशेषा
दपरो भेदो नास्ति


तद्व्याचष्टे । एतावन्तमित्यादिना । एतावन्तमिति प्रतिक्षिप्तभेदान्तरलक्षणं ।
कृतापि वा । दर्शयेदिति सम्बन्धः ।


यदा वाधिश्रयणादिक्रियायां कर्त्तृस्थायाम्पचिर्वर्त्तते । तत्रैव च घञ् प्रत्यय
स्तदा पाचकत्वशब्देन क्रियाकारकयोः स
म्बन्धः समवायोभिधीयत इति पाच
कत्वशब्देन समानार्थः पाकशब्दः । द्वावप्येतौ प्रतिक्षिप्तभेदान्तरमपाचकव्यव
च्छिन्नमर्थं प्रतिपादयतः । यदा तु कर्मस्थैव क्रिया विकॢत्तिः पचेरर्थस्तदा
पाचकत्वशब्दस्य कथं सम्बन्धाभिधायित्वं । पाचकत्वपाकयोर्भिन्नार्थत्वात् ॥
अन्येन वा कृत्तद्धितव्यतिरिक्तेन तिङादिना । तथाभूतज्ञापनाय । प्रतिक्षिप्त


152 भेदान्तरज्ञापनाय स्व
यं कृतेन समयेन दर्शयेदिति सम्बन्धः । यथा देवदत्तेन शय्यते
पटस्य शुक्लत्वमिति । अत्रापि शायकशब्दस्य य एवार्थः स एव प्रतिक्षिप्तभेदान्तरः ।
शय्यत इत्यस्यापि । तथा शुक्लः पट इति य एवाशुक्लव्यवच्छिन्नो प्रतिक्षिप्तभे
दान्तरोर्थः स एव प्रतिक्षिप्तभेदान्तरः पटस्य शुक्ल इत्यस्यापि । तथाभिधान
57b मात्रे
णेति प्रतिक्षिप्ताप्र
तिक्षिप्तभेदान्तरस्यैकधर्मिगतस्य व्यवच्छेदस्याभिधान
मात्रेण तदेव वस्त्वर्थान्तरमेव परमार्थतो धर्मधर्मिरूपेण विभक्तमेव । न पुन
र्भवतीति सम्बन्धः । किङ्कारणं तथाभूतस्यैव प्रतिक्षिप्ताप्रतिक्षिप्तभेदान्तर
स्यैवैकस्य ज्ञापनाय धर्मधर्मिशब्दस्य कृतसंकेतत्वात् ।


यद्वा तथाभिधानमात्रेणेति । अर्थान्तरभूतधर्माभिधानमात्रेण तद्धर्मस्व

रूपम्परमार्थतोर्थान्तरमेव भवति । तथाभूतस्यैव भेदान्तरनिरपेक्षस्यैव तस्यैक
व्यावृत्तस्य ज्ञापनाय धर्मशब्दस्य कृतसंकेतत्वात्


ननु चेत्यादि परः । सम्बन्ध उच्यत इति पाकक्रियायाः पाचकस्य च कर्त्तुः
सम्बन्धः समवायलक्षणः । तथा हि कृदन्ताद् भावप्रत्ययः सम्बन्धस्याभिधायको
दृष्टो यथाह । समासकृत्तद्धितेषु सम्बन्धाभिधानमि
ति । कृदन्तश्च पाचक
शब्दः न पाक एव क्रियात्मकः पाचकत्वशब्देनोच्यते ।


एतदुक्तम्भवति अन्यैव कर्त्तृव्यतिरिक्ता क्रियान्यश्च तयोश्च सम्बन्धो
न्य एव । ततश्च कर्त्तृस्थक्रियाभिधाने सत्यपि पचतेर्न पाकपाचकत्वशब्दयो
स्तुल्योर्थ इति । न वै पाकेनेत्यादिना परिहरति । पाकेन कर्तृस्थे न वस्तुभूतेन
व्यापारेण युक्तोन्य एव पाकक्रिया व्यतिरिक्तः पा
चको
नाम कर्त्ताभिधीयते
पाचकशब्देन यादृशो वर्ण्ण्यते वै शे षि का दिभिः क्रिया व्यतिरिक्तः स्वतन्त्रः
कर्ता यत्र क्रियाकारकसम्बन्धो वस्तुभूतः स्यात् । तस्य स्वतन्त्रस्य कर्त्तुः क्रिया
व्यतिरिक्तस्य निषेत्स्यमानत्वात् । न चेद् व्यतिरिक्ता क्रिया कर्त्ता वा कुतस्स
म्बन्धः यस्य भावप्रत्ययेनाभिधानमिति भावः । यत्पुनरस्येति पाचकशब्दस्या

स्याभिधेयमपाचके व्यवच्छिन्नमप्रतिक्षिप्तभेदान्तरं वस्तुमात्रन्तदेव पाचक


153 शब्दाभिधेयं पाचकत्वेनाप्यभिधीयत इत्यध्याहार्यः । तस्यैव प्रतिक्षिप्तभेदान्तर
स्याभिधानात् । न तु सम्बन्धोभिधीयते । तस्यासत्त्वात् । तदेव यथोक्तं पाचक
शब्दाभिधेयं पाकशब्देनापीत्यपिशब्दात् ।


अपरं व्याख्यानं । न वै पाकेनेति पाकशब्देनान्यापोहवादिप
क्षे अन्य एव
व्यतिरिक्तः क्रियाश्रयभूतः पाचकोभिधीयते । यादृशो वर्ण्ण्यते परेण यः क्रिया
कारकसम्बन्धस्याश्रयः स्यात् । तस्यासिद्धत्वात्किन्त्वपाचकव्यावृत्तिर्भेदान्तर
प्रतिक्षेपेणाभिधीयते । तदेवाह । यत्पुनरित्यादि । यदित्यपाचकव्यावृत्तिलक्षणं
प्रतिक्षिप्तभेदान्तरमभिधेयं । अस्येति पाकशब्दस्यानन्तरमेव दर्शितं तदेव पाक

शब्दाभिधेयम्पाचकत्वशब्देनाप्यभिधीयते न सम्बन्धः । तस्यासिद्धत्वात् ।
अप्रतिष्ठितैरवस्तुबलायातैरत एव मिथ्याविकल्पाः


कथम्पुनर्गम्यते क्रिया व्यतिरिक्ता नास्ति तत्समवायो वेत्यत आह । यथे
त्यादि । तत्समवायो वेति क्रियाकारकसमवायः । यतश्च व्यावृत्तिव्यावृत्तिमतो
रभेदस्तेन कारणेनान्यापोविषयो जातिमान् शब्दै
रभिधीयत इति तद्व- 58a
त्पक्षस्तत्र यो दोषः सोन्यापोहेपि स्यादिति तद्वत्पक्षोपवर्ण्ण्णनं प्रत्याख्यातं ।
यस्मात् पृथकत्वे हि जातितद्वतोरभ्युपगम्यमाने स्यात् तद्वत्पक्षोदितो दोषः


तद्विशिष्टस्येत्यन्यापोहविशिष्टस्यार्थस्य शब्दैरभिधानात् तद्वत्पक्षोदित इति
तद्वत्पक्षे य उक्तः । यथा किल सामान्यमभिधाय तद्वति वर्त्तमानः शब्दोऽस्वतन्त्रः
स्यात्त
तश्च शब्दप्रवृत्तिनिमित्तभूतेन सामान्येन वशीकृतस्य शब्दस्य व्यक्तिगत
परस्परभेदानाक्षेपात्तैः सामानाधिकरण्यं न स्यात् । उपचरिता च तद्वति शब्दप्र
वृत्तिरित्यादिको दोष इत्येवं व्यावृत्तिमभिधाय तद्वति वर्त्तमानोस्वतन्त्रो ध्वनि
रिति सर्वः प्रसंगः स्यात् । तदपि तद्वत्पक्षोपवर्ण्णनं । अनेनेति व्यावृत्तिव्यावृत्ति
मतोरनन्यत्वेन
प्रतिव्यूढं प्रत्याख्यातं । यस्मात् तत्र हि तद्वत्पक्षे । अर्थान्तरमु
पादा
येति वस्तुभूतं सामान्यमुपादायान्यत्रार्थान्तरे तद्वति । साक्षात् सामान्यवतो
ऽनभिधानादस्वातन्त्र्यं । आदिशब्दादसमानाधिकरण्योपचारदोषपरिग्रहः ।


अन्यापोहपक्षे तु व्यावृत्तिव्यावृत्तिमतोरैक्यान्नार्थान्तरमुपादायार्थान्तरे शब्दप्र

154 वृत्तिस्ततो नास्त्यस्वातन्त्रा135 दिदोष इत्याह ।
न चेत्यादि । अन्यस्माद्
वस्तुनोर्या व्यावृत्तिः सा व्यावृत्तान्नान्या । द्वयोर्धर्मधर्मिवाचिनोः शब्दयोरेकस्य
व्यावृत्तिभेदस्याभिधानादित्युक्तमनन्तरमेव ।


कथमित्यादि परः । इदानीमिति व्यावृत्तितद्वतोरैक्ये । एकस्य व्यावृत्तस्य
स्वलक्षणस्याननुगमात् । अर्थान्तरासंसर्गात् । कथन्तस्य स्वलक्षणस्यात्मभूता
व्यावृत्तिः स्वलक्षणवदनन्वयिनी सामान्यं स्यात् ।
नैव । दृष्टा च सामान्यं ।


तद्बुद्धावित्यादिना सिद्धान्तवादी । सामान्यबुद्धौ विकल्पिकायां तथैकाकारेण
प्रतिभासनादेकाकार एव व्यावर्त्यतेनेनेति व्यावृत्तिः । सामान्यमुच्यते । एतदाह
न व्यावृत्तेषु स्वलक्षणेष्वात्मभूता व्यावृत्तिरेका सामान्यं केवलं व्यावृत्त
स्वलक्षणानुभवोत्तरकालभावी विकल्पः प्रकृत्या । एककार्येषु भावेष्वेकमाकार
मादर्शयन्निवो
त्पद्यते । तद्विकल्पवशात् सामान्यमास्थीयते निःसामान्येष्व
प्यनेन च साक्षाच्छब्दादिविषयो दर्शितः ।


एतदेव स्फुटयन्नाह । न वै किंचिदित्यादि । वस्तुभूतमित्यभिप्रायः । कथन्तर्हि
सामान्यसामानाधिकरण्यादिव्यवहार इत्याह । शब्देत्यादि । शब्द आश्रयः सहका
रिकारणत्वेन यस्याः सा विकल्पिका बुद्धिरनादिवासनासामर्थ्यात् । धर्मानसंसृ

ष्टानपि संसृजन्ती
एकाकारानिव कुर्वाणा जायते । तस्या बुद्धेरेकाकारप्रतिभास
वशेन सामान्यं
। धर्मद्वययुक्तैकधर्मिप्रतिभासवशेन सामानाधिकरण्यं च व्यव
स्थाप्यते
। अयं च सामान्यादिव्यवहारोऽसद्व्यापि व्यवस्थाप्यते । कथमसदर्थ
58b इत्याह । अर्थानामित्यादि । स्वलक्षणांनां संसर्गाभावात् सामान्यव्यवहारोऽसदर्थः ।

एकस्य च स्वलक्षणस्य भेदाभावात् सामानाधिकरण्यव्यवहारोसदर्थः ।


ननु विरूपतयाऽयं सर्वव्यवहारः प्रवृत्त इति कथमन्यापोहविषय इत्यत आह ।
तस्य सर्वस्य
सामान्यादिव्यवहारस्यार्थाः समाश्रय इत्यनेन सम्बन्धः । तत्कार्यन्तच्च


155 कारण
मनुरूपं येषान्तेषाम्भावस्तया । करणभूतया । अन्येभ्य इत्यतत्कार्यकारणेभ्यो
भिद्यमाना अर्थाः सर्वस्य सामान्या
दिव्यवहारस्याश्रयो भवन्त्यतः कारणाद् अन्या
पोहविषय उक्तः न त्वन्यापोहस्तत्र प्रतिभासते बाह्यस्यैवैकाकारस्य विधि
रूपतया प्रतिभासनात् । यस्माच्च निश्चयप्रयुक्तः पुरुषमनिष्टपरिहारेणानिष्टाद्
व्यावृत्ते
स्वलक्षणे प्रवर्त्तयत्यतोपि कारणाद् अन्यापोहविषय उक्तो न तु प्रतिभा
सापेक्षो विधेः प्रतिभासनात् ।


तेन यदुच्यते भ ट्टो द्यो त का राभ्यां 136 गोशब्दस्यार्थः
किम्भावोथाभावः ।
यदि भावो किं गौरथागौः । यदि गौर्नास्ति विवादः । अथागौर्गोशब्दस्यागौरर्थ
इति अतिशब्दकौशलं । अथाभावस्तदयुक्तं । न हि गोशब्दश्रवणादभावे प्रेष्य
संप्रतिपत्तिः । शब्दार्थश्च प्रतिपत्त्या प्रतीयते न च गोशब्दादभावं कश्चित्प्रतिपद्यते
तथाऽगौर्न भवतीत्ययमपोहः किं गोविषयोथाऽगोविषयः । यदि गोविषयः कथं

गोर्गव्येवाभावः । अथागोविषयः कथमन्यविषयाद् अपोहाद् अन्यत्र प्रतिपत्तिः ।
न हि खदिरेच्छिद्यमाने पलाशेच्छिदा भवति । अथा गौर्गवि प्रतिषेधोऽगौर्न
भवतीति । केन गोरगोत्वं प्रसक्तं यत्प्रतिषिध्यत इति


अपास्तं गोविषयत्वाद् गोशब्दस्य केवलं कल्पितविषयत्वाद् विवादः ।
यथा वा गोप्रतिषेधोऽसत्यपि समारोपे तथोक्तं प्रागिति यत्किञ्चिदेतत् ।


तस्मात् स्थितमेतद्विधिरेव शब्दार्थ इति ॥

एतदेव दर्शयन्नाह । तत्रेत्यादि । अनपेक्षितं स्वरूपेण बाह्यतत्त्वं येन विकल्प
बुद्धिप्रतिभासिना धर्मिणा स तथोक्तः । बुद्धिप्रतिभासवशादेकोनेकव्यावृत्त इति ।
अनेकस्माद् व्यावृत्तस्यैकस्य धर्मिणः सन्दर्शनेन बुद्धेः प्रतिभासनात् । तद्वशेनैको
धर्मी अनेकव्यावृत्तो व्यवस्थाप्यते । यश्चानेकस्माद् व्यावृत्तस्तस्मात् तत्र व्यावृ

त्तयो धर्मभेदाः कल्प्यन्त इति भावः । स एव भूतो धर्मी शब्दैर्विषयीक्रियते । तथा
भूतविकल्पप्रतिभासजननाय वक्तृभिः शब्दस्योच्चारणात् । यतश्चान्यव्यावृत्तो
विकल्पप्रतिभासः शब्दैर्विषयीक्रियते । ततो विधिविषयत्वं सिद्धमिति भावः ।




156

न केवलं शब्दैर्विकल्पैरपि विषयीक्रियत इत्याह । तदनुभवेत्यादि । तस्य
तस्य स्वलक्षणस्यानुभवस्त
नुभवस्तेनाहिता वासना
शक्तिस्तस्याः प्रबोधः
कार्योत्पादानुगण्यन्ततो जन्म येषां विकल्पानान्तैर्विषयीक्रियत इति सम्बन्धः ।
किं विशिष्टैरध्यवसिततद्भावार्थैः । अध्यवसितस्तद्भावो बाह्यभावो यस्मिन्
विकल्पप्रतिभासे सोध्यसविततद्भाव एवं भूतोर्थो विषयो येषाम्विकल्पानान्ते
तथा । दृश्यविकल्पावेकीकृत्य प्रवृत्तेरिति यावत् ।


59a अध्यवसित
तद्भावार्थ इति पाठान्तरन्तदाध्यवसिततद्भावश्चासावर्थ
श्चेति कर्मधारयः । एकोप्यनेकव्यावृत्तोध्यवसिततद्भावार्थ इति सम्बन्धः
तस्माद् बुद्धिप्रतिभासवशात् । सामान्यादिव्यवहारः । तत्रैव च बुद्धिप्रतिभासे
ऽयमिति भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणे । व्यवह्रियत इति व्यवहारः कर्म
साधनः । धर्मधर्मिणावेव व्यवहारः


एतदुक्तम्भवति बुद्धिप्र
तिभासे यौ धर्मधर्मिणो व्यवस्थाप्येते । तौ
परस्परन्तत्त्वान्यत्वाभ्यामवाच्यादिति प्रतन्यते परमार्थतस्तेन पारमार्थिक
धर्मधर्मितत्त्वान्यत्वपक्षे यो दोषः प्रमाणान्तरादिवैयर्थ्यं स्वातन्त्र्यादिलक्षण उक्तः
स इह न भवतीत्युक्तम्भवति ।


तत्त्वान्यत्वपक्षयोर्दोषान्तरमप्याह । न हीत्यादि । धर्मिणः सकाशान्नान्यो
धर्मः
। किङ्कारणम् अनर्थान्तराभिधा
नात्
। धर्मधर्मिशब्दाभ्यामेकस्मादेव
व्यवच्छिन्नस्याभिधानात् । नापि य एव धर्मी स एव धर्मः । कस्मात् । तद्वाचिना
मिव । धर्मिवाचिनामिव शब्दानां । धर्मवाचिनामपि व्यवच्छेदान्तराक्षेपप्रसं
गा
त् । तथा चेष्टाप्रत्यायनात् । धर्मशब्देनेष्टस्य प्रतिक्षिप्तभेदान्तरस्य भेदस्या
प्रत्यायनात् । संकेतभेदाकरणं । प्रतिक्षिप्तभेदान्तरं व्यवच्छेदं प्रत्याय
यति
धर्मशब्द इत्यस्य संकेतभेदस्याकरणं । एतदनन्तरोक्तन्तत्त्वान्यत्त्वाभ्यामवाच्यत्वं
धर्मधर्मिणोः शब्दा
र्थे बुद्धिप्रतिभासिन्यर्थे उक्तं । वस्तुनीति बाह्यस्वलक्षणे ।
अविद्यमानत्वादेव तत्त्वान्यत्त्वाभ्यामवाच्यं यथाप्रतिभासन्तु शब्दादिविषयो व्यव
स्थाप्यते ।



157

ननु चेत्यादि परः । दृष्टा प्रयोगेषूपलब्धा । गोर्गोत्वमिति षष्ठी । आदि
शब्दाद् गवि व्यवस्थि
तं गोत्वं । गोत्वेन निमित्तेन गवि गोशब्दो वर्त्तत इत्यादि
विभक्तिपरिग्रहः । गोत्वद्रव्यत्वादीनां च धर्माणां बहुत्वात् । तत्र बहुषु धर्मेषु
गोत्वद्रव्यत्वपार्थिवत्वानीति दृष्टो यो वचनभेदः स न स्याद् धर्मधर्मिणोर
भेदे
पारमार्थिकभेदाभावे धर्माणां च परस्पररम्


उक्तमत्रेति सिद्धान्तवादी । न वै श ब्दानां काचिद् विषयस्वभावायत्ता
वृत्तिरित्यादिनोक्तत्वात्


भूयश्चाधिकार्थविधानेन प्रतिपादयितुमाह । अपि चेत्यादि । येषां वादिनां
वस्तुवशा वाचो वस्त्वायत्ताः । न विवक्षापराश्रयाः । विवक्षैव परः प्रधान
माश्रयो यासां वाचान्ता विवक्षापराश्रयाः षष्ठी न स्याद् वचनभेदादयश्च
न स्युरित्येवं षष्ठीवचनभेदादिषु चोद्यं षष्ठीवचनभेदोदि चोद्यं । आदिशब्दात् ।
गोर्भावो गोत्वमित्यादि । त
द्धितप्रत्ययाभावचोद्यं । तान् वस्तुवादिनः प्रति ।
युक्तिमत् । एते
शब्दाः षष्ठ्यादयः क्वचिदिति वस्त्वभेदेपि प्रणिनीषिताः प्रणेतु
मिष्टाः । वस्तुप्रतिबन्धात् । वस्त्वायत्तत्वात् । धूमादिवत् । न ह्यग्निप्रतिबद्धो धूमो
वह्निप्रत्यायनसमर्थस्तद्वैपरीत्येन जलप्रत्यायने नियोक्तुं पार्यते । तदा वस्तुप्रतिबद्धत्वे
शब्दानामयमुपालम्भः स्यादसति
व्यतिरेके कथं षष्ठ्यादय इति

59b

एतदेव नास्तीत्याह । यदा पुनरित्यादि । यद् वचो यथा येन प्रकारेण भेदस्या
भेदस्य वा प्रतिपादनाय । किं विशिष्टमनपेक्षितबाह्यार्थं वाचकत्वेन रूपेण वक्तृ

158 भिर्विनियम्यते । तत्त
थेति तद्वचनं यथायोगं वाचकं ।


तद्व्याचष्टे । न हीत्यादि । व्यतिरेके वस्तुभेदे सति षष्ठीविभक्तिर्बाहुल्ये
जसादयो बहुवचनप्रत्य
या भवन्तीति वै या क र णा नां व्यवस्थानमेतदपि
पुरुषाभिप्रायनिरपेक्षम्वस्तुसन्निधिमात्रेण न स्वयं प्रवृत्तं
। संकेतबलेनैव प्रवृत्तमिति
यावत् । एतदेवाह । ते तु तत्रेत्यादि । ते तु वैयाकरणादयस्तत्र व्यतिरेके बाहुल्ये
तथेति । षष्ठी बहुवचनं च यथासंकेतं प्रयुञ्जत इति कृत्वा ततः षष्ठ्यादेस्तथा
प्रतीति
र्भवति । व्यतिरेकादिप्रतीतिर
न्येषामपि भवति । तथाभूतव्यवहारोपलम्भात् ।
न तु तावता वस्तुबलेन व्यतिरेकबाहुल्ये च षष्ठ्यादीनां नियमः । एवमन्यत्रापीति
धर्मधर्मिणोरव्यतिरेकेपि एकत्वे च वस्तुनः कृत कत्वानित्यत्वादीनां कथंचिदिति
भेदान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणं धर्मधर्मिणोर्भेदमुपादाय । कृतकत्वादिषु व्यावृत्ति
भेदोपलक्षितनानात्वमुपा
दाय । यथाक्रमं षष्ठी बहुवचनादयस्ते प्रयोक्तृभिः
प्रयुक्तास्तथैव यथायोगं प्रतीतिहेतवो भवन्ति । तत्रैवमिच्छामात्रनिबन्धनत्वे शब्दानां
स्थिते सति । पुरुषायत्तवृत्तीनान्तदिच्छावशेन प्रवृत्तेरवस्तुसन्दर्शिनां शब्देभ्यः
स्वलक्षणस्याप्रतिभासनात् । यथाभ्यासं यस्य यथा संकेताभ्यासस्तथा विकल्प
प्रबोधो
विकल्पोदयस्त
स्य हेतूनां । संकेतानुरूपस्य श्रोतृसन्ताने विकल्पस्य कारणा
नामित्यर्थः । एवं भूतानां शब्दानां वाच्येष्वर्थेषु येयम्प्रवृत्तिचिन्ता व्यतिरेके षष्ठ्यादय
इत्यादिका । नै या यि का दीनान्तद्वशादिति शब्दवशाद् वस्तुव्यवस्थानं । व्यति
रिक्तस्य वस्तुनोङ्गीकरणं । गोर्गोत्वमिति यस्मात् षष्ठी तस्मात् सामान्यं व्यति
रिक्तमित्यादि । जाड्यख्यापनं
शब्दार्थव्यवस्थाऽनभिज्ञत्वख्यापनमेव केवलं


तथेत्यादि परः । तथाकृतव्यवस्था धर्मधर्म्यादिष्विति धर्मे धर्मिणि च भेदा
न्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधर्मिशब्दाः कृतव्यवस्थाः । आदिशब्दाद् द्रव्यत्व
पार्थिवत्वानीत्यादिबहुवचनशब्दा व्यावृत्तिभेदेन कृतव्यवस्थाः । न पुनर्वास्तवा
देव
धर्मधर्मिणोर्व्यतिरेकात् षष्ठीवस्तुभेदा
द् द्रव्यत्वादीनां धर्माणां परमार्थत
एव भेदाद्वहुवचनमिति । कुत एतत् तथेत्यादि प्रतिवचनं । तथा व्यवहारा

159 योगादि
ति । व्यवहारविषययोर्धर्मधर्मिणोर्वास्तवे व्यतिरेके । धर्माणां च परस्परं
परपरमार्थतो भेदे सामान्यादिव्यवहारायोगात् ।


एतदेवग्रहणकवाक्यं न हीत्यादिना व्याचष्टे । व्यवहारविषययोर्धर्मधर्मिणो
र्वस्तुत्वे परस्परं
तत्त्वमन्यत्वं वाभ्युपगन्तव्यं वस्तुनः प्रकारान्तराभावादिति 60a
द्वयमुपन्यस्तं । भेदे तत्त्वरूपत्वे चेति पक्षद्वयेपि दोषोद्भावनार्थमन्यथा परेण व्यति
रेकवस्तुभेदादिति भेदपक्षेऽवलम्बिते तत्त्वपक्षोपन्यासो न प्रकरणानुरूपः स्यात् ।
तत्सम्बद्ध इति सामान्यतद्वतोः सम्बन्धः । शब्दानाम्वा यथावस्तु प्रवृत्तावभ्युप
गम्यमानायां सामान्यादयो यु
ज्यन्ते । एतच्चान्तरमेव वक्ष्यामः । वस्तुकृ

मिति वस्तूनामेकानेकत्वादिकं शब्दप्रवृत्तिभेदमेकंवचनबहुवचनादीनां प्रवृत्ति
भेदं । दाराः शब्दो नित्यबहुवचनान्तः पुल्लिङ्गश्चेष्यते । यत्र यदैकस्त्रीविषयो
दारा इति शब्दस्तदा भेदव्यवस्थितेः । षण्णगरीति बहूनान्नगराणामेकवचनेना
भिधानादभेदव्यवस्थितेः
किन्निबन्धनं बाह्यं
नैव किंचित् । आदिशब्दात्मिकता
प्रासादमालेत्यादौ भेदाभेदव्यवस्थितेः । खस्य स्वभावः खत्वं चेति खस्य स्वभाव
इत्यत्र व्यतिरेकषष्ठ्याः किन्निबन्धनं । अथ तत्त्वमित्यनेनोक्तेन किं यदि खस्य
स्वभाव इत्यस्य वाक्यस्य खत्वमितीयन्तद्धितवृत्तिर्भवतीत्येत्कथ्यते तन्नास्ति । न
हि स्वभाव इत्यस्मिन्नर्थे भावप्रत्ययः किन्तर्हि भावार्थ
। न च तद्धितवृत्तिप्रदर्शनेन
किञ्चित् प्रयोजनमस्त्यन्यतरेण व्यतिरेकप्रदर्शनात् ।


अत्रैके वृत्तिवाक्याभ्यां सर्वो व्यवहारो व्याप्त इति तद्व्याप्तिप्रदर्शनार्थं द्वय
मुक्तमिति ।


अन्येऽन्यथा व्याचक्षते । खस्य स्वभाव इति व्यतिरेके किन्निबन्धनं । तथा
खत्वमिति व्यतिरेकाभिधायिनो भावप्रत्ययस्य किन्निबन्धनमिति ।




160

यदेत्यादिना व्याचष्टे
। यदा यस्मिन् काले । यच्छब्दमन्ये पठन्ति यस्मा
दित्यर्थः । येनैवम्भवतोति दारा इत्यादि बहुवचनम्भवति । एकत्वादेकवचन
मेव प्राप्नोतीति भावः । एकस्या अपि स्त्रियः सिकतानां च बह्व्यः शक्तयस्ततः
शक्तिभेदो बहुवचनकारणमिति । सर्वत्रेति यत्राप्येकवचनमिष्टम्वृक्ष इत्यादौ ।
एकशक्तेरर्थस्याभावात् । सर्वस्य ना
ना शक्तित्वात् । एवं सत्येकस्मिन्नेकवचन137
मित्ययं यत्नश्च व्यर्थः स्यात् । सत्यपि शक्तिभेदे वस्त्वभेदात् । शक्त्या
श्रयस्याभेदात् । अन्यत्रैकवचनविषयेर्थे वृक्षः पट इत्यादावेकवचनमिति चेत् ।
इहापि दारादावेकवचनमेकस्याः स्त्रिया वस्त्वभेदात् । यत एवं न वस्त्वशक्त्या
श्रयो वा शब्दप्रवृत्तिभेदः । तस्मादयं श
ब्दप्रवृत्तिनियमो निर्वस्तुको बाह्यवस्त्व
नाश्रयः क्रियमाणः पुरुषेच्छायाः स्वातन्त्र्यं शब्दप्रयोगे ख्यापयति


षण्णां नगराणां समाहारः क्रियात्मको गुणात्मको वा । एकोस्ति तत एक
वचनमिति चेदाह । न हि नगराण्येव किंचिदिति नगरावयविद्रव्यस्यानभ्युपगमात्
60b कुतस्तेषान्नगराणां समाहारः क्रियात्मको गुणात्मको वा
यत एवमभिधीयेत क्रिया
गुणयोर्द्रव्याश्रितत्वात् । किं पुनर्द्रव्यमित्याह । प्रासादेत्यादि । गृहादिसमुदायो
नगरं । विजातीयानां च प्रासादीदानां द्रव्यारम्भानभ्युपगमात् कुतस्तत्समुदायः
प्रासादादिसमुदायो नगरं द्रव्यं स्यात् । यावता प्रासादतोरणपुरुषादीनां समुदायो
नगरमिष्यते । तेषां प्रासादादीनां समस्तानामसंयोगाच्च कारणान्न
गरन्द्रव्यं
संयोगसहायानां द्रव्याणां द्रव्यारम्भकत्वमिष्यते । प्रासादपुरुषकुड्यादीनां
विश्लिष्टानां संयोगोस्ति । येन प्रासादादिजन्यं नगरन्द्रव्यं स्यात् ।


स्यान्मतं यद्यपि साकल्येन प्रासादादीनां नास्ति संयोगस्तथापि येषां
तावत् प्रासादपुरुषादीनां परस्परं संयोगस्तत्संयोगात्मकं नगरम्भविष्यत्येवमपि



161 वस्तुत्वं नगरस्यासिद्धं संयो
गस्य गुणपदार्थत्वादित्यत आह । न संयोग इत्यादि ।
न संयोगस्वभावन्नगरं । तथा काष्ठेष्टकादीनाम्विजातीयानां कार्यद्रव्यानारम्भात्
प्रासादोपि न द्रव्यात्मकः किन्तु संयोगस्वभाव इष्यते संयोगश्च गुणो निर्गुणाश्च
गुणा इति कुतः प्रासादस्य संयोगो येन तत्संयोगात्मकं नगरं स्यात् ।


एतदेवाह । प्रासादस्येत्यादि । परेणे
त्यर्थान्तरेणासंयोगाच्च न संयोगो
नगरं । कारेणानन्तरनिर्दिष्टात् प्रासादादीनां विश्लिष्टानामसंयोगाच्च न
संयोगो नगरमित्येतत् समुच्चीयते । तदेवं प्रासादादीनामुभयथा संयोगाभावेन ।
नगरस्य संयोगस्वभावता निरस्ता ।


प्रासादादीनां या संख्या तदात्मकं नगरम्भविष्यतीति चेदाह । तत एव
संख्याभाव
इति । यस्मात् सं
योगात्मकप्रासादस्तत एव कारणात् प्रासादस्य
संख्याया अभावो निर्गुणत्वाद् गुणानां । संख्यापि हि गुणस्वभावा । स चासौ
संयोगश्च तत्संयोगः । प्रासादात्मकः संयोग इत्यर्थः । तत्संयोगेन पुरुषैश्च विशिष्टा
या सत्ता सा नगरमिति चेत् । किमस्याः सत्ताया एकत्वान्नित्यत्वाच्च निरति
शयाया विशेषणं । न हि प्रासादपुरुषादय
स्सत्तां विशिंषन्ति । अनाधेयातिशय
त्वात् । तस्मात् सत्ता निर्विशेषणा । तस्या नगरत्वे सर्वत्र नगरत्वं स्यादित्यभि
प्रायः । सत्तायाश्चैकत्वादिति । द्रव्यगुणकर्मस्वेकैव सत्ता व्यापिनी । नगरबहुत्वेपि
नगरव्यवस्थाश्रयाणां प्रासादादिसमुदायानां बहुत्वेपीत्यर्थः । अन्यथा सत्तात्मके
नगरे प्रकृते नगरबहुत्वं कथं स्यात् । द्वय
स्
येति प्रासादपुरुषादेः सत्तायाश्च
या परस्परसहितता सा नगरमिति चेत् । एवं हि सति न सर्वत्र नगरबुद्धिः ।
प्रासादादीनां सर्वत्राभावात् । प्रासादादिबहुत्वाद् बहुवचनं च सिद्धमिति
परो मन्यते ।


उत्तरमाह । अनुपकार्येत्यादि । अनुपकार्योपकारकयोः सत्ताप्रासादयोः
कस्सहायीभावः तथा हि द्विविधः स
हकारार्थः परस्परातिशयाधानेन सन्ताने 61a
विशिष्टक्षणोत्पादनलक्षणः । पूर्वस्वहेतोरेव समर्थानामुत्पन्नानामेककार्यक्रिया


162 लक्षणश्च । न तावत्पूर्वः सत्ताया अनाधेयातिशयत्वात् । नापि द्वितीयो यस्माद् यथा
सत्ता केवला नगरबुद्धिजननं प्रत्यसमर्था तथा प्रासादादिसहितापि सामर्थ्ये वा
केवलापि जनयेत् । यदि च द्वयस्य परस्पर
सहितता नगरं । तदैकमपि नगरमनेका
त्मकं प्रासादाद्यात्मकत्वात् । ततः पुरुषसंयोगसत्तानाम्बहुत्वात् । नगरमित्येकवचनं
स्या
त् । संयोगशब्देन प्रासादात्मकः संयोग उक्तः । तथाभूतानामिति परस्परसहितानां
पुरुषसंयोगसत्तानां क्वचिदर्थ इति नगरमिति विज्ञाने । शब्दे च निष्पाद्ये ।
अभिन्नैका शक्तिरस्ति
सेत्यभिन्ना शक्तिर्निमित्तमेकवचनस्येति चेत् । न । किं
कारणं शक्तेर्वस्तु स्वरूपाव्यतिरेकात् । पुरुषादिभ्यो वस्तुरूपेभ्योऽव्यतिरेकात् ।
तद्वदेवानेकत्वमिति कुतस्तदाश्रयमेकवचनं । वस्तुस्वरूपाद् व्यतिरेके वा शक्ते
रभ्युपम्यमगाने पुरुषसंयोगसत्ताभिरनुपकार्यस्य शक्तिरूपस्य पुरुषादिपारतन्त्र्यन्न
स्यात् । ततश्च पुरुषादी
नां शक्तिरिति सम्बन्धो न स्यादिति भावः ।


अथ व्यतिरिक्ताया अपि शक्तेः पुरुषादिपारतन्त्र्यसिद्ध्यर्थं पुरुषादिकृत उपकार
इष्यते । तदा शक्तेरुपकारे वा पुरुषादिकृते इष्यमाणे । यया शक्त्या पुरुषादयः
प्रथमं शक्तिमुपकुर्वते । तस्याः प्रथमशक्त्युपकारिण्या अपि शक्ते शक्तेर्व्यतिरेके
नवस्था
स्यादव्यतिरेके वा । आद्यायाम
प्ये
कवचननिबन्धनत्वेनेष्टायां शक्ताव
व्यतिरेकप्रसंगः । अव्यतिरेके च वस्तुवदेव बाहुल्यमिति तदवस्थो बहुषु बहुवचन138
प्रसंग इति यत्किञ्चिदेतत्शक्तिपरिकल्पने खस्य स्वभाव इति व्यतिरेकाश्रया
षष्ठी
न स्यात् । षष्ठीकारणत्वाद् भावप्रत्ययोप्युपचारात् षष्ठीशब्देनोक्तः ।
तेनायमपरोर्थः खत्वमिति व्यतिरेका
श्रया तद्धितोत्पत्तिर्न स्यादिति खस्य स्वभावः
खत्वमित्यनया व्युत्पत्त्या भावप्रत्ययस्योत्पत्तेर्व्यतिरेकाश्रयत्वं ।


अथवा यथायोगं सम्बन्धो ग्रन्थच्छेदश्च कार्यः खत्वमिति व्यतिरेकाश्रया



163 न स्या
त् तद्धितोत्पत्तिरित्यध्याहारः । खस्य स्वभाव इति षष्ठी न स्यादिति । न
हि खशब्दवाच्याद् अर्थादन्यः स्वभावोस्ति भावो वा । यो यथाक्र
मं व्यतिरेक
षष्ठ्यास्तद्धितस्य वा निबन्धनं स्यात् । खत्वं नाम सामान्यमस्ति तद्व्यतिरेक
निबन्धनमिति चेदाह । न तत्रेत्यादि । एकात्मकत्वात् खस्य नास्मिन् खत्वसामान्यं
यद्यपि सत्त्वं द्रव्यत्वं चाकाशेस्ति । तथापि न तत् खस्य स्वभावः । घटादि
साधारणत्वात् । नापि सत्त्वद्रव्यत्वे खत्वमित्यत्र भावप्रत्ययस्य निबन्धनं । तयोः
139 शब्द
प्रत्ययाकारणत्वात् । स्वानुरूपज्ञानाभिधाननिबन्धनस्वभावप्रत्ययस्य 61b
कारणमिष्टं । नापि विभुत्वादयो गुणा इति । आदिशब्दादेकत्वपरत्वादिपरिग्रहः ।
तथोच्यत इति खस्य स्वभाव इति । द्रव्यादर्थान्तरस्य विभुत्वादेर्गुणस्य तत्स्वभाव
त्वायोगाद्
आकाशस्वभावत्वायोगात् । न ह्यर्थान्तरमर्थान्तरस्य स्वभावो युक्तः ।
यदि च विभुत्वादय आकाश
स्वभावाः । तदा तेषां च विभुत्वादीनामाकाशस्वभावत्वे
निःस्वभावत्वप्रसंगात् । तथा हि यस्तेषां गुणस्वभावः सत्याकाशमेव जातं न
चापरस्वभावोस्तीति निःस्वभावता स्यात् । तेषां च निःस्वभावत्वे आकाशस्य
व्यतिरिक्तः स्वभावो न स्यादिति भावः । विभुत्वादेरप्यर्थान्तरस्वभावत्वमिति
चे
दाह । तस्यापीत्यादि । तस्येति विभुत्वादेरथान्तरं स्वभा
वोऽस्येति विग्रहः ।
अतिप्रसंग इति यत्तदर्थान्तरं विभत्वादेः स्वभावत्वेनेष्टन्तस्याप्यर्थान्तरस्व
भावत्वेन भाव्यं । अन्यथा तस्यापि विभुत्वाव्यतिरेकात् तद्वदेव निःस्वभावता
स्यात् । तथा चापरापरस्वभावपरिमार्गणेनानवस्थानादेकस्यापि प्रतिष्ठितस्व
भावस्याभावात् । आद्यस्याकाशस्वभावस्याप्रतिपत्तिस्ततश्च स एव व्यतिरेकाभा

इत्यभिप्रायः ।


एवं द्रव्यगुणकर्मसामान्यविशेषसमवायानां140षण्णां पदार्थानां वर्गः । आदि
शब्दात् प्रासादमालेत्यादयो वाच्याः


कथमसति व्यतिरेके षष्ठीति । न हि तत्र षट्पदार्थेषु सामान्यं सम्भवति


164 यद्वर्गशब्देनोच्यते । द्रव्यगुणकर्मस्वेव सामान्याभ्युपगमात् । तथा संख्या संयोगो
वा
सम्भवति तयोर्गुणपदार्थत्वेन द्र
व्य एव भावात् ।


कथमित्यादि परः । इदानीमित्यर्थान्तरस्वभावानभ्युपगमे खशब्दवाच्यस्य
भावशब्दवाच्यस्य चार्थस्यासत्यनिश्चये कथं स्वभाव इति भेदेन निर्देशः । न पुनः
खमित्येव
। भेदनिबन्धाभावादभेदेनैव निर्देशो न्याय्य इत्यर्थः ।


खस्येत्यादिना परिहरति । खस्येति खशब्दवाच्यस्यार्थस्यार्थान्तरस्येति पृथि

व्यादेर्यत्साधारणं रूपमनुपात्तविशेषान्तरस्यापरामर्शेन । त्यागेन । खशब्द
प्रवृत्तिनिबन्धनं रूपमन्यद्रव्यासाधारणं तथा जिज्ञासाया अत्रार्थान्तरासंसर्गि...
...मेवमुच्यते खस्य स्वभाव इति । तथा खत्वमिति । यथा गम्येत खस्यायं
स्वभावो नान्यस्येति ।


अनेन भेदान्तरप्रतिक्षेपेणैकव्यावृत्तरूपानभिधानादन्यदेव व्यतिरेकाभिधाननि
मित्त
मुक्तं । तेन घटस्याभाव इत्यादिव्यपदेशः सिद्धो भवति ।


अन्ये पुनराहुः । खस्य स्वभावं प्रतिपादयन् स्वभावशब्दो स्वभावव्यावृत्ति
मात्रेण प्रतिपादयति न तु स्वभावान्तराप्रतिक्षेपेण । खशब्दस्तु तमेव रूपान्तरा
प्रतिक्षेपेण । ततः स्वभावान्तरप्रतिक्षेपाप्रतिक्षेपलक्षणेन भेदलेशेन खस्यायं स्वभावः
62a त्वमि
ति भेदेन निर्द्दिश्यत इति तदेतन्नातिश्लिष्टं भेदान्तरप्रतिक्षेपाप्रतिपत्तेः ।


अर्थान्तरसाधारणरूपापरामर्शेन खशब्दप्रवृत्तिनिबन्धनं रूपमेवमुच्यत इति
ब्रुवता स्वलक्षणमेव वाच्यमुक्तमिति मत्वा परो ब्रूते इत्यादि । न तु सर्व इत्यादि ।


नेत्यादि सिद्धान्तवादी । यत् सर्वस्माद् व्यावृत्तं स्वलक्षणात्मकन्तदेव रूपं
शब्दोत्थायां बुद्धौ शब्दैः समर्प्यते । नेति सम्बन्धः । कस्मा
त् तस्य स्वलक्षणस्येन्द्रिय
बुद्धाविव । शाब्दे विज्ञाने प्रत्यवभासने सत्यमतीन्द्रियत्वप्रसङ्गात् । प्रत्यक्षत्वप्रस
ङ्गात् । किन्तर्हि शब्देन क्रियत इति चेदाह । केवलमित्यादि । अयमिति प्रतिपादकः ।
दृश्यविकल्पयोरेकत्वाध्यवसायविप्रलब्धस्तथाभूतमसाधारणमर्थं प्रत्याययिष्यामीत्ये
मभिप्रायः शब्देन करणभूतेन श्रोतरि यो विकल्पस्तस्य प्रतिविम्बबाह्य
तयाऽध्य

165 स्त
माकारमर्पयति किं भूतमसंसृष्टतत्स्वभावं । अगृहीतवस्तुरूपं । आचार्य
दि ङ् ना ग स्याप्येतदभिमतमित्याह । यदाहेत्यादि । अदृष्टार्थे स्वर्गादिशब्दे
उच्चरितेर्थविकल्पमात्रं श्रोतुर्भवत्यध्यवसितबाह्यार्थस्वभावो विकल्पो भवति न
तु बाह्यस्वरूपग्राहकं ।


अनेन चा चा र्ये णा पि विध्यर्थः शब्दार्थोऽभिप्रेत इति दर्शयति । नैवं विकल्प
प्रति
विम्बे शब्देन श्रोतरि जनिते प्रतिपाद्यप्रतिपादकाभ्यां यथासंख्यं स्वलक्षणं
प्रतिपन्नं प्रतिपादितं वा भवति


यदि हि शब्देन स्वलक्षणं प्रतिपाद्यते । तदा स्वर्गादिशब्दश्रवणेपि । तदनु
भविनामिव
। स्वर्गादिप्रत्यक्षवेदिनामिव प्रतिभासाभेदः स्यात् । श्रोतुरपि
स्वर्गादिस्वलक्षणाकारप्रतिपत्तिः स्यात् । यतश्च न शब्दात् स्वलक्षणप्रतिपत्तिस्त

स्मादयं
श्रोता शब्दादप्रतिपद्यमानोपि भावस्वभावस्तथाभूत एवासंसृष्टवस्तुस्वभाव
एव विकल्पप्रतिबिम्बे तदध्यवसायी स्वलक्षणाध्यवसायी स्वलक्षणमेव मया प्रति
पन्नमिति सन्तुष्यति किं कारणं तथा भूतत्वादेव । स्वलक्षणस्याग्रहेप्य
ध्यवसितस्वलक्षणरूपत्वादेव शब्दार्थप्रतिपत्तेः । यतश्च स्वलक्षणाध्यवसायेन
शब्दार्थस्य प्रतीतिस्ते
नैतदेवमुच्यते
शब्दः स्वरूपमाहेति । अर्थान्तरसाधारण
रूपापरामर्शेन खशब्दप्रवॄत्तिनिबन्धमसाधारणं रूपमुच्यत इति वचनात् । न पुनः
स्वरूपप्रतिभासस्यैव विज्ञानस्य जननात्


तस्मात् स्थितमेतद् विध्यर्थः शब्दार्थोलीकत्वात् परमताद् भेद इति ।


कथमित्यादि परः । एकान्तव्यावृत्तं रूपं येषामिति विग्रहः । तेषाम्भावाना
मसंसर्गाद
न्यस्य चे
ति भावेभ्यो व्यतिरिक्तस्य सामान्यस्य ।


उक्तमिति सिद्धान्तवादी । कीदृशमुक्तमित्याह । असंसृष्टानां परस्परव्यावृत्ता

166 नामेकेन विजातीयेनासंसर्गः । यथा गोव्यक्तीनामेकेनागोस्वभावेनासंसर्गः
एवा
संसर्गः । तद्व्यतिरेकिणान्तस्मादगोस्वभावाद् व्यावृत्तानां गोभेदानां समानता
62b गोत्वं । एवमन्यदपि सामान्यं बोद्धव्यं ।


एतदुक्तम्भवति । समानामिति कर्त्तरि षष्ठी तेन समानानाम्भावः सामान्य
मिति विजातीयव्यावृत्ताः समानाकारोत्पन्ना भावाः सामान्यमित्यर्थः । अस्यैव
च सामान्यस्य लिङ्गत्वं लिङ्गित्वन्तत्सम्बन्धश्च वस्तुत्वात् । अर्थक्रियाकारि
त्वाच्च प्रवृत्तिविषयत्वं विकल्पविषयत्वं च यथाऽध्यवसायं न तु ज्ञानाकारस्य ।
एतद्विपरीतत्वात् ॥


तदेवं समारोपपक्षे परोक्षं दूषणम्परिहृत्यान्यव्यावृत्तिपक्षे परोक्षं दूषणमन्य
व्यावृत्त्यनभ्युपगमादेव निरस्यान्यव्यावृत्ता एव भावा एकत्वेनाध्यवसीयमानाः
सामान्यमिति च प्रतिपाद्य बुद्ध्याकारेपि सामान्ये परोक्तं दूषणमपनेतुमाह । अपि
चे
त्यादि । भावानाश्रित्य भेदिन इति व्यावृत्तानि स्वलक्षणम्वाश्रित्य धीरेकार्थ
प्रतिभासि
न्यु
त्पद्यते । यया स्वरूपेण स्वाकारेणैकेन रूपेण । पररूपं । परस्परव्यावृत्तं
वलक्षणं सम्व्रियते प्रच्छाद्यते । दिति । धि । किम्विशिष्टया या संवृत्या
संव्रियतेऽनया स्वलक्षणमिति कृत्वा । सम्वृतनानार्था स्थगितनानार्थाः
स्वयम्भेदिनोपि केनचिद् रूपेण विजातीयव्यावृत्त्युपकल्पितेन गोत्वादिरूपेणा
भेदिन इवाभान्ति संसृष्ट इव । तेन

बुद्ध्या
कारश्च बुद्धिस्थो नार्थबुद्ध्यन्तरानुगः ।

नाभिप्रेतार्थकारी च सोपि वाच्यो न तत्वत
इत्यादि निरस्तं ॥


तस्माद् बुद्धेरभिप्रायवशात् । एकाकाराध्यारोपवशात् सामान्यंस केस्न
प्रकीर्तितं । बुद्ध्यारोपित एवाकारः सामान्यमुक्तमिति यावत् । यथा तया संक

167 ल्पितमा
रोपितं तथा तत् सामान्यमसत् परमार्थेन


ननु यद्यभिन्नः प्रतिभासोऽभ्युपगम्य
ते कथं सामान्यमसदित्युच्यते । न
व्यक्तिभ्यो भिन्नस्याभिमतस्याभेदेन प्रतिभासनात् । सर्वात्मना चाभेदे व्यक्तिवद
नन्वयादनुगतस्य प्रतीतिर्भ्रान्तिरेव । भेदाभेदे च तथैवोभयरूपतया प्रतिभासः स्यात्
न च यत्र प्रत्यये यदैव गौरिति प्रतिभासः तदैव तत्र गोत्वमस्येति प्रतिभासः ।


अथ स्याद् यदननुगमे यस्यानुगमस्तत्ततो भिन्नं य
था नीलादनीलं ।
शावलेयाननुगमे च गोत्वस्यानुगमो व्यक्त्यन्तरे तस्मात् ततो भिन्नं शावलेया
भिन्नगोत्वग्राहकन्तर्हि प्रत्यक्षं भ्रान्तं स्याद् भिन्नस्यान्यप्रमाणगृहीतस्याभेदेन
ग्रहणात् । न चैकस्य येनैव रूपेण भेदस्तेनैवाभेदो विरोधात् । नापि वस्तूनां विशेष
रूपतया भेदः । सामान्यरूपतयाऽभेदः । एवं हि विशेषाणामेकदेशा
दित्वं स्यान्न
च स्यात् । सामान्यविशेषयोश्च प्रतिभासभेदो न स्यात् सर्वात्मनाऽभिन्नत्वाद् ।
भेदे वानुगतव्यावृत्तरूपयोः परस्परासंश्लेषेणैकान्तभिन्नत्वप्रसङ्गात् ।


यदि च प्रतिव्यक्ति तदभिन्नन्तदैकं सामान्यमस्तीति कुतः । न च तत्र प्रथम
व्यक्तिदर्शनेऽगृहीतमपि द्वितीयादिव्यक्तौ स एवायमिति प्रतीतेरेकं
सामान्य- 63a
मस्तीति युक्तं स इति स्मरणांशस्यानुभूतसामान्यविषयाभावेनोत्पत्त्यसम्भ
वात् । ततश्च यथा प्रथमव्यक्तौ न गृहीतन्तथा द्वितीयादिव्यक्तावपि प्रत्येकं गृहीत
मिति कथं स एवायमिति ज्ञानस्योत्पत्तिः स्यात् । न च स इति स्मरणान्यथानु
पपत्त्या प्रथमव्यक्तौ निर्विकल्पकेनान्येन वा ज्ञानेन सामान्यग्रहणकल्पना युक्ताऽ
नुगत
रूपप्रतिभासाभावात् । नापि धर्मरूपतया तत्रास्य ग्रहणं युक्तमनुगतैक
रूपत्वात् सामान्यस्य । नापि पूर्वापरव्यक्तिसम्बन्धितयास्य प्रत्यभिज्ञाप्रत्यक्षेण
ग्रहणमिति शक्यते वक्तुं । इदमेवेत्येवं प्रत्यक्षस्योत्पत्तिप्रसंगात् । पूर्वव्यक्तेरस
न्निहितत्वाच्च सन्निहितार्थनिश्चयलक्षणं च प्रत्यक्षमिष्यते ।


तस्मादगोव्यावृत्तैकविशेषानुभवपूर्वक
मन्यस्मिन्नगोव्यावृत्तेऽनुभूयमाने सति स
एवायमित्येकाकारस्य भ्रान्तस्य प्रत्ययस्य वासनासामर्थ्येनोत्पत्तेस्तदेवास्य निमित्तं
कल्पयितुं युक्तन्नान्यद् भ्रान्तत्वाच्च बुद्धेरयं सामान्याकारो व्यवस्थाप्यते
न वाह्यस्य यथाप्रतिभासं तु बाह्यानामेवार्थानां सामान्यमुच्यते ।


बुद्धिरित्यादिना कारिकार्थं व्याचष्टे । बुद्धिर्विकल्पिकेत्यनेन सम्बन्धः ।
तेभ्यः
सजातीयेभ्योन्यस्तस्माद् व्यतिरेकः स येषामस्ति । ते तदन्यव्यतिरेकिणः
विजातीयव्यावृत्तानित्यर्थः । स्ववासनाप्रकृतिं विकल्पवासनास्वभावम्भिन्नेष्वभि

168 न्नप्रत्ययजननसामर्थ्यन्तदनुविदधती । अनुकुर्वती । एवं हि तया स्वकारणमनुकृत
म्भवति यदि भिन्नेष्वप्येकाकारोत्पद्यते । एषामिति पदार्थानां । अध्यस्येति
पदार्थेष्वारोप्य
भावानामेवैकं रूपमिति । तान् भावान् सृजन्ती । अभिन्नानिव
कुर्वाणा सन्दर्शयति । एकरूपानिव दर्शयतीति यावद् ।


ननु विकल्पस्यानुभूतार्थाहितवासनाबलोत्पत्ताविष्यमाणायां कथं सामान्या
कारस्य विकल्पस्योत्पत्तिः सामान्यस्याननुभूतत्वादित्यत आह । सा चेत्यादि ।
एकं सदृशं साध्यं साधनञ्च येषाम्भावानां । य
था घटादीनामेकमुदकादिधारणा
दि साध्यं । साधनं च मृत्पिण्डादि । ते एकसाध्यसाधनास्तद्भावस्तया । करण
भूतया । अन्येभ्योतत्साध्यसाधनेभ्यो विवेकिनां भावाना सा प्रकृतिः स्वभावः
भिन्नानामपि प्रकृत्या एकाकारविकल्पजननलक्षणः । तथाभूतस्य विकल्पस्य
हेतुर्या वासना । तस्याश्च सा तादृशी प्रकृतिर्यदेवं स्वरूपं पर
त्रारोपयन्ती । एषा
बुद्धिः प्रतिभाति । व्यक्त्यभिन्नसामान्यग्राहिणी प्रतिभासत इति यावत् ।


तेन यदुच्यते ।


स्मार्त्तमेतदभेदेन विज्ञानमिति यो वदेत् ।

नूनम्बन्ध्यासुतेप्यस्ति तस्य स्मरणशक्यता 141

इति निरस्तं । भिन्नानामेवानुभूतानामेककार्यकर्त्तृत्वेन स्वविषयाभिन्नाकार
63b प्रत्ययजनने सामर्थ्या
दनुभूतस्पष्टाकारस्यार्थस्य स्वविषयोस्पष्टस्मरणजननसाम
र्थ्यवत् । तदुद्भवेति वर्ण्णविकल्पवासनाया विवेकिभ्यः स्वभावेभ्यो यथासंख्यं
साक्षात् पारम्पर्येण चोद्भवो यस्याः सा तथा । सा चेयमिति बुद्धिः संवृतिरित्युच्यते ।
सम्व्रियतेऽनया बुद्ध्या स्वरूपेण स्वप्रतिभासेन पररूपम्वस्तुरूपमिति करण
साधनं
क्तिनं विधाय । ते च भावास्तयेति बुद्ध्या । संवृतभेदाः प्रच्छादितन