नन्वश्रावणः शब्दो नित्यो घटः । नानुमानं प्रमाणं
(।) अचन्द्रः
शशीत्युदाहरणैरेभिर्द्धर्मस्वरूप2301निराकरणेन बाधा दर्शिता यथा-प्रतिज्ञातधर्ममात्रस्य
विपरीतधर्मोपस्थापनेन निराकरणात् । धर्मिविशेषस्य धर्मविशेषस्य धर्मिस्वरू
पस्य च बाधनेन पक्षबाधास्ति 2302 सा कथमवगन्तव्येत्याह ।

465
धर्मिधर्मविशेषाणां स्वरूपस्य च धर्म्मिणः ।
बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ १५१ ॥

धर्मिधर्मयोर्व्विशेषाणां व्यक्तिभेदापेक्षया बहुवचनं । धर्मिणः स्वरूपस्य च सर्व्वेषामेषां साध्यं प्रत्यङ्गभूतानां बाधा । अनेनै
धर्मस्वरूपनिराकरणपरेणो-94a दाहरणेन साध्यते । पक्षलक्षणत्वाद्वाधोपदर्शिता (।) (१५१)

  1. नित्यो घट इति प्रतिज्ञायां नित्यत्वस्य बाधितत्वात् ।

  2. अव्याख्याता स मु च्च ये ।